ऋग्वेदः सूक्तं ५.१९
← सूक्तं ५.१८ | ऋग्वेदः - मण्डल ५ सूक्तं ५.१९ वव्रिरात्रेयः। |
सूक्तं ५.२० → |
दे. अग्निः। गायत्री, ३-४ अनुष्टुप्, ५ विराड्रूपा |
अभ्यवस्थाः प्र जायन्ते प्र वव्रेर्वव्रिश्चिकेत ।
उपस्थे मातुर्वि चष्टे ॥१॥
जुहुरे वि चितयन्तोऽनिमिषं नृम्णं पान्ति ।
आ दृळ्हां पुरं विविशुः ॥२॥
आ श्वैत्रेयस्य जन्तवो द्युमद्वर्धन्त कृष्टयः ।
निष्कग्रीवो बृहदुक्थ एना मध्वा न वाजयुः ॥३॥
प्रियं दुग्धं न काम्यमजामि जाम्योः सचा ।
घर्मो न वाजजठरोऽदब्धः शश्वतो दभः ॥४॥
क्रीळन्नो रश्म आ भुवः सं भस्मना वायुना वेविदानः ।
ता अस्य सन्धृषजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ॥५॥
सायणभाष्यम्
‘ अभ्यवस्थाः' इति पञ्चर्चं पञ्चमं सूक्तम् । अत्रेयमनुक्रमणिका--' अभ्यवस्था वव्रिर्गायत्र्यावनुष्टुभौ विराड्रूपा' इति । आत्रेयो वव्रिर्ऋषिः । प्रथमाद्वितीये गायत्र्यौ तृतीयाचतुर्थ्यावनुष्टुभौ पञ्चमी विराड्रूपा ‘एकादशिनस्त्रयोऽष्टकश्च विराड्रूपा' इत्युक्तलक्षणोपेतत्वात् ॥
अ॒भ्य॑व॒स्थाः प्र जा॑यन्ते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत ।
उ॒पस्थे॑ मा॒तुर्वि च॑ष्टे ॥१
अ॒भि । अ॒व॒ऽस्थाः । प्र । जा॒य॒न्ते॒ । प्र । व॒व्रेः । व॒व्रिः । चि॒के॒त॒ ।
उ॒पऽस्थे॑ । मा॒तुः । वि । च॒ष्टे॒ ॥१
अभि । अवऽस्थाः । प्र । जायन्ते । प्र । वव्रेः । वव्रिः । चिकेत ।
उपऽस्थे । मातुः । वि । चष्टे ॥१
“वव्रेः ऋषेः "अभि उत्तरोत्तरम् “अवस्थाः अशोभना दशाः “प्र “जायन्ते । तादृशीः “वव्रिः हविषां संभक्ता सोऽग्निः “प्र “चिकेत प्रजानीयात् । ज्ञात्वा चापनयत्विति भावः । योऽग्निः "मातुः पृथिव्याः “उपस्थे समीपे स्थितं पदार्थजातं “वि "चष्टे पश्यति ॥
जु॒हु॒रे वि चि॒तय॒न्तोऽनि॑मिषं नृ॒म्णं पा॑न्ति ।
आ दृ॒ळ्हां पुरं॑ विविशुः ॥२
जु॒हु॒रे । वि । चि॒तय॑न्तः । अनि॑ऽमिषम् । नृ॒म्णम् । पा॒न्ति॒ ।
आ । दृ॒ळ्हाम् । पुर॑म् । वि॒वि॒शुः॒ ॥२
जुहुरे । वि । चितयन्तः । अनिऽमिषम् । नृम्णम् । पान्ति ।
आ । दृळ्हाम् । पुरम् । विविशुः ॥२
ये “वि “चितयन्तः तव प्रभावं जानन्तो जनाः "अनिमिषं सर्वदा "जुहुरे जुहुविरे यज्ञार्थं त्वामाह्वयन्ति, आहूय च "नृम्णं तव बलं हविर्भिः स्तोत्रैश्च "पान्ति रक्षन्ति ते “दृळ्हां शत्रुभिः साधयितुमशक्यां “पुरं पुरीम् “आ “विविशुः प्रविशन्ति । ‘ शतं पूर्भिरायसीभिर्नि पाहि' ( ऋ. सं. ७. ३. ७) इति निगमः ॥
आ श्वै॑त्रे॒यस्य॑ ज॒न्तवो॑ द्यु॒मद्व॑र्धन्त कृ॒ष्टय॑ः ।
नि॒ष्कग्री॑वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा॑ज॒युः ॥३
आ । श्वै॒त्रे॒यस्य॑ । ज॒न्तवः॑ । द्यु॒ऽमत् । व॒र्ध॒न्त॒ । कृ॒ष्टयः॑ ।
नि॒ष्कऽग्री॑वः । बृ॒हत्ऽउ॑क्थः । ए॒ना । मध्वा॑ । न । वा॒ज॒ऽयुः ॥३
आ । श्वैत्रेयस्य । जन्तवः । द्युऽमत् । वर्धन्त । कृष्टयः ।
निष्कऽग्रीवः । बृहत्ऽउक्थः । एना । मध्वा । न । वाजऽयुः ॥३
जायन्त इति "जन्तवः । “कृष्टयः मनुष्या ऋत्विजः "मध्वा “न मधुनेव “एना एनया स्तुत्या । यद्वा नकारश्चार्थे । मधुना च "श्वैत्रेयस्य । श्वित्रमन्तरिक्षम् । तत्र भवस्य वैद्युतस्याग्नेः “द्युमत् दीप्तिमत् बलम् “आ “वर्धन्त अभिवर्धयन्ति । किंविधाः कृष्टयः । "निष्कग्रीवः निष्केण सुवर्णेनालंकृतग्रीवाः ॥ व्यत्ययेनैकवचनम् ॥ “बृहदुक्थः बृहत्स्तोत्राः "वाजयुः अन्नकामाः ॥
प्रि॒यं दु॒ग्धं न काम्य॒मजा॑मि जा॒म्योः सचा॑ ।
घ॒र्मो न वाज॑जठ॒रोऽद॑ब्ध॒ः शश्व॑तो॒ दभ॑ः ॥४
प्रि॒यम् । दु॒ग्धम् । न । काम्य॑म् । अजा॑मि । जा॒म्योः । सचा॑ ।
घ॒र्मः । न । वाज॑ऽजठरः । अद॑ब्धः । शश्व॑तः । दभः॑ ॥४
प्रियम् । दुग्धम् । न । काम्यम् । अजामि । जाम्योः । सचा ।
घर्मः । न । वाजऽजठरः । अदब्धः । शश्वतः । दभः ॥४
“जाम्योः द्यावापृथिव्योः "सचा सहायभूतोऽग्निः "दुग्धं "न पय इव “काम्यं कमनीयम् “अजामि दोषरहितं "प्रियम् अस्मदीयं स्तोत्रं शृणोतु । किंविधोऽग्निः । “घर्मो “न प्रवर्ग्य इव “वाजजठरः । वाजोऽन्नं जठरे यस्य सः । घर्मो यथा हव्येनाज्येन पयसासिक्तो वाजजठरस्तद्वत् । हविर्जठर इत्यर्थः । "अदब्धः शत्रुभिः स्वयमहिंसितः "शश्वतः शाश्वतो नित्यः "दभः शत्रूणां हिंसकः ॥
क्रीळ॑न्नो रश्म॒ आ भु॑व॒ः सं भस्म॑ना वा॒युना॒ वेवि॑दानः ।
ता अ॑स्य सन्धृ॒षजो॒ न ति॒ग्माः सुसं॑शिता व॒क्ष्यो॑ वक्षणे॒स्थाः ॥५
क्रीळ॑न् । नः॒ । र॒श्मे॒ । आ । भु॒वः॒ । सम् । भस्म॑ना । वा॒युना॑ । वेवि॑दानः ।
ताः । अ॒स्य॒ । स॒न् । धृ॒षजः॑ । न । ति॒ग्माः । सुऽसं॑शिताः । व॒क्ष्यः॑ । व॒क्ष॒णे॒ऽस्थाः ॥५
क्रीळन् । नः । रश्मे । आ । भुवः । सम् । भस्मना । वायुना । वेविदानः ।
ताः । अस्य । सन् । धृषजः । न । तिग्माः । सुऽसंशिताः । वक्ष्यः । वक्षणेऽस्थाः ॥५
हे 'रश्मे रश्मिमन्नग्ने "क्रीळन् वनेषु क्रीडन् "भस्मना स्वकार्येण भसितेन "वायुना प्रेरकेण मरुता च "सं "वेविदानः सम्यक् ज्ञायमानस्त्वं "नः अस्माकम् “आ “भुवः । अभिमुखो भव । “वक्षणेस्थाः वक्षणे वह्नौ स्थिताः "वक्ष्यः । हविर्वहन्तीति वक्ष्यो ज्वालाः । "सुसंशिताः सुतीक्ष्णाः “धृषजः शत्रूणां धर्षिकाः “ताः ज्वालाः "अस्य यजमानस्य मम "न "तिग्माः न तीक्ष्णाः "सन् सन्तु ॥ अस्तेर्लेटि रूपम् ॥ ॥ ११ ॥
मण्डल ५ | ||||
---|---|---|---|---|