ऋग्वेदः सूक्तं ५.६४
← सूक्तं ५.६३ | ऋग्वेदः - मण्डल ५ सूक्तं ५.६४ अर्चनाना आत्रेयः |
सूक्तं ५.६५ → |
दे. मित्रावरुणौ। अनुष्टुप्, ७ पङ्क्तिः । |
वरुणं वो रिशादसमृचा मित्रं हवामहे ।
परि व्रजेव बाह्वोर्जगन्वांसा स्वर्णरम् ॥१॥
ता बाहवा सुचेतुना प्र यन्तमस्मा अर्चते ।
शेवं हि जार्यं वां विश्वासु क्षासु जोगुवे ॥२॥
यन्नूनमश्यां गतिं मित्रस्य यायां पथा ।
अस्य प्रियस्य शर्मण्यहिंसानस्य सश्चिरे ॥३॥
युवाभ्यां मित्रावरुणोपमं धेयामृचा ।
यद्ध क्षये मघोनां स्तोतॄणां च स्पूर्धसे ॥४॥
आ नो मित्र सुदीतिभिर्वरुणश्च सधस्थ आ ।
स्वे क्षये मघोनां सखीनां च वृधसे ॥५॥
युवं नो येषु वरुण क्षत्रं बृहच्च बिभृथः ।
उरु णो वाजसातये कृतं राये स्वस्तये ॥६॥
उच्छन्त्यां मे यजता देवक्षत्रे रुशद्गवि ।
सुतं सोमं न हस्तिभिरा पड्भिर्धावतं नरा बिभ्रतावर्चनानसम् ॥७॥
सायणभाष्यम्
‘ वरुणं वः' इति सप्तर्चमष्टमं सूक्तमर्चनानस आर्षं मैत्रावरुणम् । पङ्क्त्यन्तपरिभाषयानुष्टुभम् । अन्त्या पङ्क्तिः । ‘वरुणं पङ्क्त्यन्तं तु ' इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥
वरु॑णं वो रि॒शाद॑समृ॒चा मि॒त्रं ह॑वामहे ।
परि॑ व्र॒जेव॑ बा॒ह्वोर्ज॑ग॒न्वांसा॒ स्व॑र्णरम् ॥१
वरु॑णम् । वः॒ । रि॒शाद॑सम् । ऋ॒चा । मि॒त्रम् । ह॒वा॒म॒हे॒ ।
परि॑ । व्र॒जाऽइ॑व । बा॒ह्वोः । ज॒ग॒न्वांसा॑ । स्वः॑ऽनरम् ॥१
वरुणम् । वः । रिशादसम् । ऋचा । मित्रम् । हवामहे ।
परि । व्रजाऽइव । बाह्वोः । जगन्वांसा । स्वःऽनरम् ॥१
“वः युवयोर्मध्ये ॥ व्यत्ययेन बहुवचनम् ॥ "रिशादसम् । रिशन्ति हिंसन्तीति रिशाः शत्रवः । तेषां प्रेरकं “स्वर्णरं स्वर्गस्य नेतारम् । एतद्व्यवहितमप्युभयत्र संबध्यते । एवंविधं “वरुणम् उक्तलक्षणं “मित्रं च “ऋचा मन्त्रेण “हवामहे आह्वयामः । अथ अवयुत्योच्यते । “व्रजेव गोयूथानीव 'बाह्वोः बलेन “परि “जगन्वांसा परिगच्छन्तौ ॥
ता बा॒हवा॑ सुचे॒तुना॒ प्र य॑न्तमस्मा॒ अर्च॑ते ।
शेवं॒ हि जा॒र्यं॑ वां॒ विश्वा॑सु॒ क्षासु॒ जोगु॑वे ॥२
ता । बा॒हवा॑ । सु॒ऽचे॒तुना॑ । प्र । य॒न्त॒म् । अ॒स्मै॒ । अर्च॑ते ।
शेव॑म् । हि । जा॒र्य॑म् । वा॒म् । विश्वा॑सु । क्षासु॑ । जोगु॑वे ॥२
ता । बाहवा । सुऽचेतुना । प्र । यन्तम् । अस्मै । अर्चते ।
शेवम् । हि । जार्यम् । वाम् । विश्वासु । क्षासु । जोगुवे ॥२
“ता तौ युवां “बाहवा बाहुना “सुचेतुना सुष्ठु प्रज्ञात्रा । प्रयासभूयस्त्वं जानता इत्यर्थः । यद्यपि आत्मैव ज्ञाता न हस्तः तथापि तद्धर्ममत्रारोप्य स्तूयते । यद्वा एतत् तौ इत्यस्य विशेषणम् । सुज्ञानावित्यर्थः । शोभनहस्तेन “अस्मै "अर्चते स्तुवते मह्यं “प्र "यन्तम् अभिमतं सुखं प्रगमयतम्॥ अन्तर्भावितण्यर्थो द्रष्टव्यः । यमिर्दानकर्मा वा द्रष्टव्यः ।। प्रयच्छतमित्यर्थः । जार्यं स्तुत्यं “शेवं सुखं “वां युवयोः संबन्धि युवाभ्यां कृतं वा “विश्वासु सर्वासु “क्षासु भूमिषु "जोगुवे गच्छति व्याप्नोति । ' अवते गवते ' ( नि. २. १४, २८ ) इति गतिकर्मसु पाठात् अयमपि गतिकर्मा । अथवा जोगुवे सर्वत्र शब्दयामीत्यर्थः ॥
यन्नू॒नम॒श्यां गतिं॑ मि॒त्रस्य॑ यायां प॒था ।
अस्य॑ प्रि॒यस्य॒ शर्म॒ण्यहिं॑सानस्य सश्चिरे ॥३
यत् । नू॒नम् । अ॒श्याम् । गति॑म् । मि॒त्रस्य॑ । या॒या॒म् । प॒था ।
अस्य॑ । प्रि॒यस्य॑ । शर्म॑णि । अहिं॑सानस्य । स॒श्चि॒रे॒ ॥३
यत् । नूनम् । अश्याम् । गतिम् । मित्रस्य । यायाम् । पथा ।
अस्य । प्रियस्य । शर्मणि । अहिंसानस्य । सश्चिरे ॥३
“यत् यदा "नूनम् इदानीं “गतिं गमनम् “अश्यां प्राप्नुयाम् ॥ यद्योगादनिघातः ॥ तदा “मित्रस्य मित्रभूतस्य “पथा मार्गेण मित्रप्रापकेण मार्गेण “यायां गच्छेयम् । ‘ मित्रो नयतु विद्वान् । ( ऋ. सं. १, ९०.१ ) इत्यादिषु मित्रस्येष्टदेशगमयितृत्वं प्रसिद्धम् । न केवलमहमेक एव गन्ता किंतु सर्वेऽपि तथागमन्नित्याह । “अस्य “प्रियस्य । मित्रस्येत्यर्थः । "अहिंसानस्य अहिंसतः । यतोऽयमहन्ता अतः प्रिय इत्यर्थः । तस्य “शर्मणि सुखे गृहे स्थाने वा “सश्चिरे संगताः ॥
यु॒वाभ्यां॑ मित्रावरुणोप॒मं धे॑यामृ॒चा ।
यद्ध॒ क्षये॑ म॒घोनां॑ स्तोतॄ॒णां च॑ स्पू॒र्धसे॑ ॥४
यु॒वाभ्या॑म् । मि॒त्रा॒व॒रु॒णा॒ । उ॒प॒ऽमम् । धे॒या॒म् । ऋ॒चा ।
यत् । ह॒ । क्षये॑ । म॒घोना॑म् । स्तो॒तॄ॒णाम् । च॒ । स्पू॒र्धसे॑ ॥४
युवाभ्याम् । मित्रावरुणा । उपऽमम् । धेयाम् । ऋचा ।
यत् । ह । क्षये । मघोनाम् । स्तोतॄणाम् । च । स्पूर्धसे ॥४
हे “मित्रावरुणा "युवाभ्यां दातव्यम् “उपमम् उप समीपे मीयमानं धनम् “ऋचा स्तुत्या साधनेन “धेयां धारयामि । “यद्ध यत् खलु युवाभ्यां सकाशादाप्तं धनं “मघोनां धनवतामदातॄणां “स्तोतॄणां च “क्षये गृहे “स्पूर्धसे स्पर्धनाय भवति । धनिकानां स्तोतॄणां च धनाधिक्यविषये स्पर्धा भवतीत्यर्थः । अपरिमितं धनं भवतीति भावः ॥
आ नो॑ मित्र सुदी॒तिभि॒र्वरु॑णश्च स॒धस्थ॒ आ ।
स्वे क्षये॑ म॒घोनां॒ सखी॑नां च वृ॒धसे॑ ॥५
आ । नः॒ । मि॒त्र॒ । सु॒दी॒तिऽभिः॑ । वरु॑णः । च॒ । स॒धऽस्थे॑ । आ ।
स्वे । क्षये॑ । म॒घोना॑म् । सखी॑नाम् । च॒ । वृ॒धसे॑ ॥५
आ । नः । मित्र । सुदीतिऽभिः । वरुणः । च । सधऽस्थे । आ ।
स्वे । क्षये । मघोनाम् । सखीनाम् । च । वृधसे ॥५
हे “मित्र त्वं च “वरुणश्च “सुदीतिभिः सुदीप्तियुक्तौ युवां “नः अस्माकं “सधस्थे सहस्थाने यज्ञे "आ गच्छतम् । द्वितीय आकारोऽनर्थक आदरार्थों वा । किमर्थमित्युच्यते । “मघोनां धनवतां हविष्मतां “सखीनां “च युवयोः सखिभूतानामस्माकं “क्षये गृहे “स्वे स्वकीये "वृधसे वर्धनाय ।
यु॒वं नो॒ येषु॑ वरुण क्ष॒त्रं बृ॒हच्च॑ बिभृ॒थः ।
उ॒रु णो॒ वाज॑सातये कृ॒तं रा॒ये स्व॒स्तये॑ ॥६
यु॒वम् । नः॒ । येषु॑ । व॒रु॒णा॒ । क्ष॒त्रम् । बृ॒हत् । च॒ । बि॒भृ॒थः ।
उ॒रु । नः॒ । वाज॑ऽसातये । कृ॒तम् । रा॒ये । स्व॒स्तये॑ ॥६
युवम् । नः । येषु । वरुणा । क्षत्रम् । बृहत् । च । बिभृथः ।
उरु । नः । वाजऽसातये । कृतम् । राये । स्वस्तये ॥६
हे “वरुणा मित्रावरुणौ “युवं युवां “नः अस्माकं “क्षत्रं बलं "बृहत् ब्रह्म परिवृढमन्नं “च “येषु स्तोत्रेषु निमित्तेषु “बिभृथः धारयथः युवाभ्यां धृतम् अन्नं च “नः अस्मभ्यं “वाजसातये अन्नस्य लाभाय यज्ञाय वा “राये धनाय “स्वस्तये क्षेमाय च “उरु विस्तीर्णं “कृतं कुरुतम् ॥
उ॒च्छन्त्यां॑ मे यज॒ता दे॒वक्ष॑त्रे॒ रुश॑द्गवि ।
सु॒तं सोमं॒ न ह॒स्तिभि॒रा प॒ड्भिर्धा॑वतं नरा॒ बिभ्र॑तावर्च॒नान॑सम् ॥७
उ॒च्छन्त्या॑म् । मे॒ । य॒ज॒ता । दे॒वऽक्ष॑त्रे । रुश॑त्ऽगवि ।
सु॒तम् । सोम॑म् । न । ह॒स्तिऽभिः॑ । आ । प॒ट्ऽभिः । धा॒व॒त॒म् । न॒रा॒ । बिभ्र॑तौ । अ॒र्च॒नान॑सम् ॥७
उच्छन्त्याम् । मे । यजता । देवऽक्षत्रे । रुशत्ऽगवि ।
सुतम् । सोमम् । न । हस्तिऽभिः । आ । पट्ऽभिः । धावतम् । नरा । बिभ्रतौ । अर्चनानसम् ॥७
“उच्छन्त्याम् उषसि । मे सोममिति संबन्धः । “यजता यष्टव्यौ “रुशद्गवि रोचमानरश्मौ प्रातःसवने "देवक्षत्रे देवानां क्षत्रं बलं यस्मिन् यज्ञे तद्देवक्षत्रम् । तस्मिन् “मे मदीयं “सुतम् अभिषुतं “सोमं “न । नेति संप्रत्यर्थे । इदानीं “हस्तिभिः हस्तवद्भिः ॥ हन्तेर्गतिकर्मणो हस्तशब्दः ॥ गमनसाधनपादवद्भिरित्यर्थः । “पड्भिः पादवद्भिश्च पादचतुष्टयोपेतैरश्वैः “आ “धावतम् आगच्छतं "नरा हे नेतारौ मित्रावरुणौ ॥ “अर्चनानसं “बिभ्रतौ अर्चनानसमृर्षि धारयन्तौ युवाम् ॥ ॥ २ ॥
मण्डल ५ | ||||
---|---|---|---|---|