← सूक्तं ५.३१ ऋग्वेदः - मण्डल ५
सूक्तं ५.३२
गातुरात्रेयः।
सूक्तं ५.३३ →
दे. इन्द्रः। त्रिष्टुप् ।


अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानाँ अरम्णाः ।
महान्तमिन्द्र पर्वतं वि यद्वः सृजो वि धारा अव दानवं हन् ॥१॥
त्वमुत्साँ ऋतुभिर्बद्बधानाँ अरंह ऊधः पर्वतस्य वज्रिन् ।
अहिं चिदुग्र प्रयुतं शयानं जघन्वाँ इन्द्र तविषीमधत्थाः ॥२॥
त्यस्य चिन्महतो निर्मृगस्य वधर्जघान तविषीभिरिन्द्रः ।
य एक इदप्रतिर्मन्यमान आदस्मादन्यो अजनिष्ट तव्यान् ॥३॥
त्यं चिदेषां स्वधया मदन्तं मिहो नपातं सुवृधं तमोगाम् ।
वृषप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम् ॥४॥
त्यं चिदस्य क्रतुभिर्निषत्तममर्मणो विददिदस्य मर्म ।
यदीं सुक्षत्र प्रभृता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः ॥५॥
त्यं चिदित्था कत्पयं शयानमसूर्ये तमसि वावृधानम् ।
तं चिन्मन्दानो वृषभः सुतस्योच्चैरिन्द्रो अपगूर्या जघान ॥६॥
उद्यदिन्द्रो महते दानवाय वधर्यमिष्ट सहो अप्रतीतम् ।
यदीं वज्रस्य प्रभृतौ ददाभ विश्वस्य जन्तोरधमं चकार ॥७॥
त्यं चिदर्णं मधुपं शयानमसिन्वं वव्रं मह्याददुग्रः ।
अपादमत्रं महता वधेन नि दुर्योण आवृणङ्मृध्रवाचम् ॥८॥
को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः ।
इमे चिदस्य ज्रयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते ॥९॥
न्यस्मै देवी स्वधितिर्जिहीत इन्द्राय गातुरुशतीव येमे ।
सं यदोजो युवते विश्वमाभिरनु स्वधाव्ने क्षितयो नमन्त ॥१०॥
एकं नु त्वा सत्पतिं पाञ्चजन्यं जातं शृणोमि यशसं जनेषु ।
तं मे जगृभ्र आशसो नविष्ठं दोषा वस्तोर्हवमानास इन्द्रम् ॥११॥
एवा हि त्वामृतुथा यातयन्तं मघा विप्रेभ्यो ददतं शृणोमि ।
किं ते ब्रह्माणो गृहते सखायो ये त्वाया निदधुः काममिन्द्र ॥१२॥


सायणभाष्यम्

‘ अदर्दरुत्सम्' इति द्वादशर्चमष्टादशं सूक्तम् । गातुर्नामात्रेय ऋषिः । त्रिष्टुप् छन्दः । इन्द्रो देवता । तथा चानुक्रान्तम्- अदर्दर्द्वादश गातुः' इति । गतो विनियोगः ॥


अद॑र्द॒रुत्स॒मसृ॑जो॒ वि खानि॒ त्वम॑र्ण॒वान्ब॑द्बधा॒नाँ अ॑रम्णाः ।

म॒हांत॑मिन्द्र॒ पर्व॑तं॒ वि यद्वः सृ॒जो वि धारा॒ अव॑ दान॒वं ह॑न् ॥१

अद॑र्दः । उत्स॑म् । असृ॑जः । वि । खानि॑ । त्वम् । अ॒र्ण॒वान् । ब॒द्ब॒धा॒नान् । अ॒र॒म्णाः॒ ।

म॒हान्त॑म् । इ॒न्द्र॒ । पर्व॑तम् । वि । यत् । वरिति॒ वः । सृ॒जः । वि । धाराः॑ । अव॑ । दा॒न॒वम् । ह॒न्निति॑ हन् ॥१

अदर्दः । उत्सम् । असृजः । वि । खानि । त्वम् । अर्णवान् । बद्बधानान् । अरम्णाः ।

महान्तम् । इन्द्र । पर्वतम् । वि । यत् । वरिति वः । सृजः । वि । धाराः । अव । दानवम् । हन्निति हन् ॥१

हे इन्द्र “त्वम् “उत्सम् उत्स्यन्दमानं मेघम् “अदर्दः विदारितवानसि । तदनन्तरं “खानि मेघस्थोदकनिर्गमनद्वाराणि “वि “असृजः विशेषेण सृष्टवानसि । किंच “बद्बधानान् बध्यमानान् “अर्णवान् उदकवतो मेघान “अरम्णाः विसर्जयसि क्षारयसीत्यर्थः । अत्र रम्णातिर्विसर्जनकर्मा । हे “इन्द्र यत् यः त्वम् । यदिति लिङ्गव्यत्ययः । “महान्तं प्रभूतं “पर्वतं मेघं “वि “वः विवृतवानसि । “धाराः अपां “वि “सृजः विसृष्टवानसि । अपि च “दानवं दनोः पुत्रं वृत्रमसुरं यद्वोदकस्य दातारं मेघं वा “अव “हन् अभिहतवानसि । अत्र निरुक्तम् - ' अदृणा उत्सम् । उत्स उत्सदनाद्वोत्स्यन्दनाद्वा उनत्तेर्वा स्यात् । व्यसृजोऽस्य खानि त्वमर्णवानर्णस्वत् एतान् ' (निरु. १०. ९) इत्यादि ।।


त्वमुत्साँ॑ ऋ॒तुभि॑र्बद्बधा॒नाँ अरं॑ह॒ ऊधः॒ पर्व॑तस्य वज्रिन् ।

अहिं॑ चिदुग्र॒ प्रयु॑तं॒ शया॑नं जघ॒न्वाँ इं॑द्र॒ तवि॑षीमधत्थाः ॥२

त्वम् । उत्सा॑न् । ऋ॒तुऽभिः॑ । ब॒द्ब॒धा॒नान् । अरं॑हः । ऊधः॑ । पर्व॑तस्य । व॒ज्रि॒न् ।

अहि॑म् । चि॒त् । उ॒ग्र॒ । प्रऽयु॑तम् । शया॑नम् । ज॒घ॒न्वान् । इ॒न्द्र॒ । तवि॑षीम् । अ॒ध॒त्थाः॒ ॥२

त्वम् । उत्सान् । ऋतुऽभिः । बद्बधानान् । अरंहः । ऊधः । पर्वतस्य । वज्रिन् ।

अहिम् । चित् । उग्र । प्रऽयुतम् । शयानम् । जघन्वान् । इन्द्र । तविषीम् । अधत्थाः ॥२

हे "वज्रिन्, वज्रवन्निन्द्र “त्वम् “ऋतुभिः ऋतुषु वृष्टिकालेषु “बद्बधानान् प्रतिबध्यमानान् “उत्सान् मेघान् प्रतिबन्धनादमोचयः' इति शेषः । अपि च “पर्वतस्य मेघस्य संबन्धि “ऊधः जलम् "अरंहः अगमयः । हे “उग्र उद्गूर्णबलेन्द्र “प्रयुतम् उद्युक्तं “शयानं जले शयनं कुर्वन्तम् “अहिं “चित् वृत्रं च "जघन्वान् हतवानसि । हे “इन्द्र त्वं “तविषीं बलम् अधत्थाः अधारयः । वृत्रवधानन्तरमिन्द्रो लोके प्रख्यातो भवतीत्यर्थः ॥


त्यस्य॑ चिन्मह॒तो निर्मृ॒गस्य॒ वध॑र्जघान॒ तवि॑षीभि॒रिन्द्रः॑ ।

य एक॒ इद॑प्र॒तिर्मन्य॑मान॒ आद॑स्माद॒न्यो अ॑जनिष्ट॒ तव्या॑न् ॥३

त्यस्य॑ । चि॒त् । म॒ह॒तः । निः । मृ॒गस्य॑ । वधः॑ । ज॒घा॒न॒ । तवि॑षीभिः । इन्द्रः॑ ।

यः । एकः॑ । इत् । अ॒प्र॒तिः । मन्य॑मानः । आत् । अ॒स्मा॒त् । अ॒न्यः । अ॒ज॒नि॒ष्ट॒ । तव्या॑न् ॥३

त्यस्य । चित् । महतः । निः । मृगस्य । वधः । जघान । तविषीभिः । इन्द्रः ।

यः । एकः । इत् । अप्रतिः । मन्यमानः । आत् । अस्मात् । अन्यः । अजनिष्ट । तव्यान् ॥३

निर्जघानायुधं शक्रो वृत्रेण क्षिप्तमोजसा । वृत्रस्य गात्रादन्यो यः प्रादुर्भूतो महासुरः ॥ वृत्रं पूर्वं निहत्येन्द्रो द्वितीयं शुष्णसंज्ञकम् । पुनर्जघानेन्द्र इति पराभिः कीर्तयत्यृषिरिति ॥ “इन्द्रः “महतः प्रभूतस्य “मृगस्य मृगवच्छीघ्रगामिनः “त्यस्य “चित् तस्य वृत्रस्य संबन्धि “वधः आयुधं “तविषीभिः स्वकीयैर्बलैः “निः “जघान निःशेषेणावधीत् । “एक “इत् असहाय एव “अप्रतिः प्रतिद्वन्द्विरहितः “मन्यमानः आत्मानं “यः अस्तीति शेषः । “आत् तदानीम् “अस्मात् वृत्रात् “तव्यान् प्रवृद्धतरः “अन्यः असुरः शुष्णः “अजनिष्ट प्रादुरभूत् ॥


त्यं चि॑देषां स्व॒धया॒ मदं॑तं मि॒हो नपा॑तं सु॒वृधं॑ तमो॒गां ।

वृष॑प्रभर्मा दान॒वस्य॒ भामं॒ वज्रे॑ण व॒ज्री नि ज॑घान॒ शुष्णं॑ ॥४

त्यम् । चि॒त् । ए॒षा॒म् । स्व॒धया॑ । मद॑न्तम् । मि॒हः । नपा॑तम् । सु॒ऽवृध॑म् । त॒मः॒ऽगाम् ।

वृष॑ऽप्रभर्मा । दा॒न॒वस्य॑ । भाम॑म् । वज्रे॑ण । व॒ज्री । नि । ज॒घा॒न॒ । शुष्ण॑म् ॥४

त्यम् । चित् । एषाम् । स्वधया । मदन्तम् । मिहः । नपातम् । सुऽवृधम् । तमःऽगाम् ।

वृषऽप्रभर्मा । दानवस्य । भामम् । वज्रेण । वज्री । नि । जघान । शुष्णम् ॥४

“एषां प्राणिनां “स्वधया अन्नेन “मदन्तं मोदमानं सर्वप्राणिनामन्नं स्वयमेव भुञ्जानं “मिहः सेचनसमर्थस्य मेघस्य “नपातं पातारं रक्षितारम् । अत्र नपाच्छब्दः पातरि वर्तते । ‘ प्राणो वै तनूनपात्स हि तन्वः पाति' (ऐ. ब्रा. २. ४) इति ब्राह्मणम् । “सुवृधं प्रवृद्धं “तमोगां तमः अन्धकारं गच्छन्तं “त्यं “चित् तं च वृत्रं निजघानेति शेषः । “वृषप्रभर्मा वर्षणशीलस्य मेघस्य प्रहर्ता "वज्री वज्रवानिन्द्रः “वज्रेण स्वकीयेनायुधेन “दानवस्य दनुजस्य वृत्रस्य “भामम् । अत्र क्रोधवाचिभामशब्देन क्रोधादुत्पन्नः शुष्णासुरो लक्ष्यते । तं शुष्णासुरं “नि "जघान हतवान् ॥


त्यं चि॑दस्य॒ क्रतु॑भि॒र्निष॑त्तमम॒र्मणो॑ वि॒ददिद॑स्य॒ मर्म॑ ।

यदीं॑ सुक्षत्र॒ प्रभृ॑ता॒ मद॑स्य॒ युयु॑त्सन्तं॒ तम॑सि ह॒र्म्ये धाः ॥५

त्यम् । चि॒त् । अ॒स्य॒ । क्रतु॑ऽभिः । निऽस॑त्तम् । अ॒म॒र्मणः॑ । वि॒दत् । इत् । अ॒स्य॒ । मर्म॑ ।

यत् । ई॒म् । सु॒ऽक्ष॒त्र॒ । प्रऽभृ॑ता । मद॑स्य । युयु॑त्सन्तम् । तम॑सि । ह॒र्म्ये । धाः ॥५

त्यम् । चित् । अस्य । क्रतुऽभिः । निऽसत्तम् । अमर्मणः । विदत् । इत् । अस्य । मर्म ।

यत् । ईम् । सुऽक्षत्र । प्रऽभृता । मदस्य । युयुत्सन्तम् । तमसि । हर्म्ये । धाः ॥५

“अमर्मणः मर्महीनमात्मानं मन्यमानस्य “अस्य वृत्रस्य “निषत्तं निषण्णं “त्यं “चित् त्यत्तदेव । लिङ्गव्यत्ययः । “मर्म प्राणस्थानम् । यत्र स्थाने विद्धो म्रियते तन्मर्मेत्युच्यते । “अस्य वृत्रस्य “क्रतुभिः प्रज्ञानैर्हे इन्द्र त्वं “विददित् अज्ञासीरेव । “यत् यदा हे “सुक्षत्र सुबलेन्द्र त्वं “मदस्य मादकस्य सोमस्य “प्रभृता प्रभृतौ संभरणे सति “युयुत्सन्तं योद्धुमिच्छन्तम् “ईम् एनं वृत्रं “हर्म्यै हारके “तमसि “धाः न्यदधाः । वृत्र इन्द्रस्य भयात् तमसि प्राविशदित्यर्थः ।।


त्यं चि॑दि॒त्था क॑त्प॒यं शया॑नमसू॒र्ये तम॑सि वावृधा॒नं ।

तं चि॑न्मन्दा॒नो वृ॑ष॒भः सु॒तस्यो॒च्चैरिन्द्रो॑ अप॒गूर्या॑ जघान ॥६

त्यम् । चि॒त् । इ॒त्था । क॒त्प॒यम् । शया॑नम् । अ॒सू॒र्ये । तम॑सि । व॒वृ॒धा॒नम् ।

तम् । चि॒त् । म॒न्दा॒नः । वृ॒ष॒भः । सु॒तस्य॑ । उ॒च्चैः । इन्द्रः॑ । अ॒प॒ऽगूर्य॑ । ज॒घा॒न॒ ॥६

त्यम् । चित् । इत्था । कत्पयम् । शयानम् । असूर्ये । तमसि । ववृधानम् ।

तम् । चित् । मन्दानः । वृषभः । सुतस्य । उच्चैः । इन्द्रः । अपऽगूर्य । जघान ॥६

"सुतस्य अभिषुतेन सोमेन "मन्दानः मोदमानः “वृषभः कामानां वर्षिता “इन्द्रः “उच्चैः ऊर्ध्वम् “अपगूर्य वज्रमुद्यम्य “त्यं “चित् तमेव वृत्रं “जघान अवधीत् । कीदृशम् । “इत्था अमुत्रान्तरिक्षलोके कत्पयम् । कत् सुखकरं पयो यस्य तम् । “शयानम् अप्सु शयनं कुर्वन्तम् “असूर्ये सूर्यरहिते “तमसि अन्धकारे “ववृधानं वर्धमानम् । “तं “चित् इति पुनर्वचनं पूरणार्थम् ॥ ॥ ३२ ॥


उद्यदिंद्रो॑ मह॒ते दा॑न॒वाय॒ वध॒र्यमि॑ष्ट॒ सहो॒ अप्र॑तीतं ।

यदीं॒ वज्र॑स्य॒ प्रभृ॑तौ द॒दाभ॒ विश्व॑स्य ज॒न्तोर॑ध॒मं च॑कार ॥७

उत् । यत् । इन्द्रः॑ । म॒ह॒ते । दा॒न॒वाय॑ । वधः॑ । यमि॑ष्ट । सहः॑ । अप्र॑तिऽइतम् ।

यत् । ई॒म् । वज्र॑स्य । प्रऽभृ॑तौ । द॒दाभ॑ । विश्व॑स्य । ज॒न्तोः । अ॒ध॒मम् । च॒का॒र॒ ॥७

उत् । यत् । इन्द्रः । महते । दानवाय । वधः । यमिष्ट । सहः । अप्रतिऽइतम् ।

यत् । ईम् । वज्रस्य । प्रऽभृतौ । ददाभ । विश्वस्य । जन्तोः । अधमम् । चकार ॥७

“यत् यदा “इन्द्रो “महते प्रभूताय “दानवाय वृत्रासुराय “सहः शत्रूणामभिभवितृ “अप्रतीतं केनाप्यप्रतिगतं “वधः वज्रम् “उत् "यमिष्ट उदयच्छत् । “यत् यदा “वज्रस्य “प्रभृतौ प्रहृतौ प्रहरणे सति ॥ ‘ हृग्रहोर्भः' इति भत्वम् ॥ “ईम् एनं वृत्रं “ददाभ अहिंसीत् तदा “विश्वस्य सर्वस्य “जन्तोः प्राणिनः “अधमं नीचं “चकार अकरोत् ॥


त्यं चि॒दर्णं॑ मधु॒पं शया॑नमसि॒न्वं व॒व्रं मह्याद॑दु॒ग्रः ।

अ॒पाद॑म॒त्रं म॑ह॒ता व॒धेन॒ नि दु॑र्यो॒ण आ॑वृणङ्मृ॒ध्रवा॑चं ॥८

त्यम् । चि॒त् । अर्ण॑म् । म॒धु॒ऽपम् । शया॑नम् । अ॒सि॒न्वम् । व॒व्रम् । महि॑ । आद॑त् । उ॒ग्रः ।

अ॒पाद॑म् । अ॒त्रम् । म॒ह॒ता । व॒धेन॑ । नि । दु॒र्यो॒णे । अ॒वृ॒ण॒क् । मृ॒ध्रऽवा॑चम् ॥८

त्यम् । चित् । अर्णम् । मधुऽपम् । शयानम् । असिन्वम् । वव्रम् । महि । आदत् । उग्रः ।

अपादम् । अत्रम् । महता । वधेन । नि । दुर्योणे । अवृणक् । मृध्रऽवाचम् ॥८

“उग्रः उद्गूर्णबलः इन्द्रः "महि महान्तं “त्यं “चित् तमेव वृत्रम् “आदत् आददौ प्रत्यग्रहीत् । कीदृशम् । “अर्णं गन्तारं जलं मेघं वावृत्य “शयानं शयनं कुर्वन्तम् । स्थितवन्तमित्यर्थः । “मधुपं मधुनोऽम्भसः पातारं पालयितारम् “असिन्वं सपत्नानवक्षेप्तारम् ॥ अस्यतेरिदं रूपम् ॥ “वव्रं वृण्वन्तं सर्वमप्याच्छादयन्तम् । स इमाँल्लोकानवृणोद्यदिमाँल्लोकानवृणोत्तद्वृत्रस्य वृत्रत्वम् । ( तै. सं. २. ५. २. २ ) इति हि तैत्तिरीयकम् । तदनन्तरमिन्द्रः “दुर्योणे संग्रामे “महता प्रभूतेन “वधेन वज्रेण “अपादं पादरहितम् अमत्रम् अमात्रं परिमाणरहितं "मृध्रवाचं हिंसितवागिन्द्रियम् । जृम्भाभिभूतमित्यर्थः। वृत्रं “नि “अवृणक् नितरामहिंसीत् । तस्माज्जञ्जभ्यमानादग्नीषोमौ निरक्रामतां प्राणापानौ वा एनं तदजहिताम् ' ( तै. सं. २. ५. २. ४ ) इति हि तैत्तिरीयकम् ॥


को अ॑स्य॒ शुष्मं॒ तवि॑षीं वरात॒ एको॒ धना॑ भरते॒ अप्र॑तीतः ।

इ॒मे चि॑दस्य॒ ज्रय॑सो॒ नु दे॒वी इन्द्र॒स्यौज॑सो भि॒यसा॑ जिहाते ॥९

कः । अ॒स्य॒ । शुष्म॑म् । तवि॑षीम् । व॒रा॒ते॒ । एकः॑ । धना॑ । भ॒र॒ते॒ । अप्र॑तिऽइतः ।

इ॒मे । चि॒त् । अ॒स्य॒ । ज्रय॑सः । नु । दे॒वी इति॑ । इन्द्र॑स्य । ओज॑सः । भि॒यसा॑ । जि॒हा॒ते॒ इति॑ ॥९

कः । अस्य । शुष्मम् । तविषीम् । वराते । एकः । धना । भरते । अप्रतिऽइतः ।

इमे । चित् । अस्य । ज्रयसः । नु । देवी इति । इन्द्रस्य । ओजसः । भियसा । जिहाते इति ॥९

"अस्य इन्द्रस्य संबन्धिनीं “शुष्मं शोषणीं “तविषीं बलं “कः “वराते निवारयेत् ॥ शुष्मशब्दस्य स्त्रीलिङ्गविशेषणत्वेऽपि नियतलिङ्गत्वात् पुँल्लिङ्गत्वमेव ॥ “अप्रतीतः केनाप्यप्रतिगत इन्द्रः “एकः असहाय एव “धना धनानि शत्रूणां वसूनि “भरते बिभर्ति हरते वा । “देवी देव्यौ द्योतमाने “इमे “चित् एव द्यावापृथिव्यौ “ज्रयसः वेगवतः अस्य “इन्द्रस्य संबन्धिनः “ओजसः बलादुद्भूतेन “भियसा भयेन “नु क्षिप्रं “जिहाते गच्छतः । चलत इत्यर्थः ॥


न्य॑स्मै दे॒वी स्वधि॑तिर्जिहीत॒ इन्द्रा॑य गा॒तुरु॑श॒तीव॑ येमे ।

सं यदोजो॑ यु॒वते॒ विश्व॑माभि॒रनु॑ स्व॒धाव्ने॑ क्षि॒तयो॑ नमन्त ॥१०

नि । अ॒स्मै॒ । दे॒वी । स्वऽधि॑तिः । जि॒ही॒ते॒ । इन्द्रा॑य । गा॒तुः । उ॒श॒तीऽइ॑व । ये॒मे॒ ।

सम् । यत् । ओजः॑ । यु॒वते॑ । विश्व॑म् । आ॒भिः॒ । अनु॑ । स्व॒धाऽव्ने॑ । क्षि॒तयः॑ । न॒म॒न्त॒ ॥१०

नि । अस्मै । देवी । स्वऽधितिः । जिहीते । इन्द्राय । गातुः । उशतीऽइव । येमे ।

सम् । यत् । ओजः । युवते । विश्वम् । आभिः । अनु । स्वधाऽव्ने । क्षितयः । नमन्त ॥१०

“स्वधितिः स्वधृतिः स्वेन धृता “देवी द्योतमाना द्यौः “अस्मै इन्द्राय “नि “जिहीते नीचत्वेन याति । “गातुः भूमिः “उशतीव कामयमाना योषिदिव “इन्द्राय "येमे आत्मानं नियच्छति । यथेष्टमात्मानं विनियोक्तुं योग्या भवतीत्यर्थः । “यत् यदेन्द्रः “विश्वं समस्तम् “ओजः बलम् “आभिः प्रजाभिः “सं “युवते संयोजयति । इन्द्रः स्वकीयं बलं सर्वासु प्रजासु निहितवानित्यर्थः । “अनु आनुकूल्येन वर्तमानाः "क्षितयः मनुष्याः । क्षितय इति मनुष्यनामैतत् । “स्वधाव्ने बलवते इन्द्राय “नमन्त संनमन्ति प्रह्वीभवन्ति ॥


एकं॒ नु त्वा॒ सत्प॑तिं॒ पाञ्च॑जन्यं जा॒तं शृ॑णोमि य॒शसं॒ जने॑षु ।

तं मे॑ जगृभ्र आ॒शसो॒ नवि॑ष्ठं दो॒षा वस्तो॒र्हव॑मानास॒ इन्द्रं॑ ॥११

एक॑म् । नु । त्वा॒ । सत्ऽप॑तिम् । पाञ्च॑ऽजन्यम् । जा॒तम् । शृ॒णो॒मि॒ । य॒शस॑म् । जने॑षु ।

तम् । मे॒ । ज॒गृ॒भ्रे॒ । आ॒ऽशसः॑ । नवि॑ष्ठम् । दो॒षा । वस्तोः॑ । हव॑मानासः । इन्द्र॑म् ॥११

एकम् । नु । त्वा । सत्ऽपतिम् । पाञ्चऽजन्यम् । जातम् । शृणोमि । यशसम् । जनेषु ।

तम् । मे । जगृभ्रे । आऽशसः । नविष्ठम् । दोषा । वस्तोः । हवमानासः । इन्द्रम् ॥११

हे इन्द्र “त्वा त्वाम् “एकं “नु मुख्यमेव “जनेषु सर्वेषु मनुष्येषु मध्येऽहं मन्त्रद्रष्टा “शृणोमि ऋषिमुख्येभ्यः । कीदृशम् । “सत्पतिं सतां पालकं “पाञ्चजन्यं पञ्चजनेभ्यो मनुष्येभ्यो हितं “जातम् उत्पन्नं “यशसं यशोयुक्तम् । “दोषा क्षपायां “वस्तोः वासरे च “हवमानासः स्तुवन्तः “आशसः कामानां शंसमानाः “मे मदीया: प्रजाः “नविष्ठम् अतिशयेन स्तुत्यं “तम् “इन्द्रं जगृभ्रे गृह्णन्तु स्वीकुर्वन्तु ॥


ए॒वा हि त्वामृ॑तु॒था या॒तयं॑तं म॒घा विप्रे॑भ्यो॒ दद॑तं शृ॒णोमि॑ ।

किं ते॑ ब्र॒ह्माणो॑ गृहते॒ सखा॑यो॒ ये त्वा॒या नि॑द॒धुः काम॑मिन्द्र ॥१२

ए॒व । हि । त्वाम् । ऋ॒तु॒ऽथा । या॒तय॑न्तम् । म॒घा । विप्रे॑भ्यः । दद॑तम् । शृ॒णोमि॑ ।

किम् । ते॒ । ब्र॒ह्माणः॑ । गृ॒ह॒ते॒ । सखा॑यः । ये । त्वा॒ऽया । नि॒ऽद॒धुः । काम॑म् । इ॒न्द्र॒ ॥१२

एव । हि । त्वाम् । ऋतुऽथा । यातयन्तम् । मघा । विप्रेभ्यः । ददतम् । शृणोमि ।

किम् । ते । ब्रह्माणः । गृहते । सखायः । ये । त्वाऽया । निऽदधुः । कामम् । इन्द्र ॥१२

“एव एवमुक्तप्रकारेण “हि “ऋतुथा कालेकाले “यातयन्त जन्तून् प्रेरयन्तं हे इन्द्र “त्वां “विप्रेभ्यः स्तोतृभ्यः “मघा मघानि धनानि “ददतं यच्छन्तं “शृणोमि निशामयामि । एतन्मृषैव प्रतिभाति । हे “इन्द्र “त्वाया त्वयि "ये स्तोतारः “कामं स्वकीयाभिलाषं “निदधुः न्यक्षिपन् “ब्रह्माणः बृहन्तः “ते त्वदीयाः “सखायः स्तोतारः “किं “गृहते त्वत्तः किं गृह्णते । ऋषिः स्वकीयाभिलाषप्राप्तिविलम्बनादेवमुक्तवानित्यर्थः ॥ ॥ ३३ ॥ ॥ २ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।।

पुमर्थाँश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥


इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणामात्येन विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये चतुर्थाष्टके प्रथमोऽध्यायः समाप्तः ॥



मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.३२&oldid=351612" इत्यस्माद् प्रतिप्राप्तम्