← सूक्तं ५.४७ ऋग्वेदः - मण्डल ५
सूक्तं ५.४८
प्रतिभानुरात्रेयः
सूक्तं ५.४९ →
दे. विश्वे देवाः। जगती ।


कदु प्रियाय धाम्ने मनामहे स्वक्षत्राय स्वयशसे महे वयम् ।
आमेन्यस्य रजसो यदभ्र आँ अपो वृणाना वितनोति मायिनी ॥१॥
ता अत्नत वयुनं वीरवक्षणं समान्या वृतया विश्वमा रजः ।
अपो अपाचीरपरा अपेजते प्र पूर्वाभिस्तिरते देवयुर्जनः ॥२॥
आ ग्रावभिरहन्येभिरक्तुभिर्वरिष्ठं वज्रमा जिघर्ति मायिनि ।
शतं वा यस्य प्रचरन्स्वे दमे संवर्तयन्तो वि च वर्तयन्नहा ॥३॥
तामस्य रीतिं परशोरिव प्रत्यनीकमख्यं भुजे अस्य वर्पसः ।
सचा यदि पितुमन्तमिव क्षयं रत्नं दधाति भरहूतये विशे ॥४॥
स जिह्वया चतुरनीक ऋञ्जते चारु वसानो वरुणो यतन्नरिम् ।
न तस्य विद्म पुरुषत्वता वयं यतो भगः सविता दाति वार्यम् ॥५॥


सायणभाष्यम्

‘ कदु प्रियाय ' इति पञ्चर्चं चतुर्थ सूक्तम् । प्रतिभानुर्नामात्रेय ऋषिः । जगती छन्दः । विश्वे देवा देवता । अत्रानुक्रमणिका -- कदु पञ्च प्रतिभानुर्जागतम्' इति । आभिप्लविके पञ्चमेऽहनि वैश्वदेवशस्त्रे इदं सूक्तं निविद्धानम् । सूत्रितं च - ‘ कदु प्रियायेति वैश्वदेवम्' (आश्व. श्रौ. ७. ७ ) इति ॥


कदु॑ प्रि॒याय॒ धाम्ने॑ मनामहे॒ स्वक्ष॑त्राय॒ स्वय॑शसे म॒हे व॒यम् ।

आ॒मे॒न्यस्य॒ रज॑सो॒ यद॒भ्र आँ अ॒पो वृ॑णा॒ना वि॑त॒नोति॑ मा॒यिनी॑ ॥१

कत् । ऊं॒ इति॑ । प्रि॒याय॑ । धाम्ने॑ । म॒ना॒म॒हे॒ । स्वऽक्ष॑त्राय । स्वऽय॑शसे । म॒हे । व॒यम् ।

आ॒ऽमे॒न्यस्य॑ । रज॑सः । यत् । अ॒भ्रे । आ । अ॒पः । वृ॒णा॒ना । वि॒ऽत॒नोति॑ । मा॒यिनी॑ ॥१

कत् । ऊं इति । प्रियाय । धाम्ने । मनामहे । स्वऽक्षत्राय । स्वऽयशसे । महे । वयम् ।

आऽमेन्यस्य । रजसः । यत् । अभ्रे । आ । अपः । वृणाना । विऽतनोति । मायिनी ॥१

अत्र वैद्युताग्निसंस्तवः । "कदु कदा। उ इति पूरणः । "प्रियाय सर्वेषां प्रियभूताय । वृष्टिद्वारा हविरादिप्रयोजकत्वात् सर्वप्रियत्वमस्य प्रसिद्धम् । तादृशाय “धाम्ने तेजसे वैद्युताय । उत्तरवाक्ये अभ्रे अपः वितनोति इति वक्ष्यमाणत्वादिदं लभ्यते । कीदृशाय। "स्वक्षत्राय स्वभूतबलाय किंच “स्वयशसे स्वभूतान्नाय । सर्वमप्यन्नं ह्यस्य स्वम् । “महे महते पूज्याय “वयं कदा "मनामहे स्तवाम । “यत् । उत्तरत्र स्त्रीलिङ्गनिर्देशात् या इति विपरिणमयितव्यम् । या आग्नेयी शक्तिः "आमेन्यस्य समन्तान्मातव्यस्य "रजसः अन्तरिक्षस्य । अपरिमितमपि नभ इयदिति सर्वैर्मीयते । संबन्धिनि "अभ्रे मेघे “आ अधि मेघस्योपरि “अपः उदकानि वृष्टिलक्षणानि “वितनोति विस्तारयति “वृणाना आच्छादयन्ती सेव्यमाना वा "मायिनी । मायेति प्रज्ञानाम । प्रज्ञावती सती । यत् यस्य संबन्धिनी माध्यमिकी वागिति वा योज्यम् ॥


ता अ॑त्नत व॒युनं॑ वी॒रव॑क्षणं समा॒न्या वृ॒तया॒ विश्व॒मा रज॑ः ।

अपो॒ अपा॑ची॒रप॑रा॒ अपे॑जते॒ प्र पूर्वा॑भिस्तिरते देव॒युर्जन॑ः ॥२

ताः । अ॒त्न॒त॒ । व॒युन॑म् । वी॒रऽव॑क्षणम् । स॒मा॒न्या । वृ॒तया॑ । विश्व॑म् । आ । रजः॑ ।

अपो॒ इति॑ । अपा॑चीः । अप॑राः । अप॑ । ई॒ज॒ते॒ । प्र । पूर्वा॑भिः । ति॒र॒ते॒ । दे॒व॒ऽयुः । जनः॑ ॥२

ताः । अत्नत । वयुनम् । वीरऽवक्षणम् । समान्या । वृतया । विश्वम् । आ । रजः ।

अपो इति । अपाचीः । अपराः । अप । ईजते । प्र । पूर्वाभिः । तिरते । देवऽयुः । जनः ॥२

इयमुषस्या । “ताः उषसः "अत्नत वितन्वन्ति । किम् । "वयुनं प्रज्ञानम् । कीदृशम् । “वीरवक्षणम् । वीरैर्ऋत्विग्भिर्वहनीयम् । यद्वा । वक्षणाः कार्यवोढारो येन प्रेर्यन्ते तत्तादृशम् । किंच “समान्या एकरूपया "वृतया आवरकया दीप्त्या “विश्वम् "आ सर्वमपि "रजः जगत् अत्नत । एवं सति "देवयुः देवकामः "जनः "अपाचीः अपाञ्चनाः प्रतिनिवृत्तमुखीः "अपराः अन्या आगामिनीः उषसः "अपेजते अपचालयति । अपरोऽपशब्दः पूरणः । "पूर्वाभिः ताभिः "प्र "तिरते। प्रपूर्वस्तिरतिर्वर्धनार्थः । वर्धयति स्वमनीषां वर्धते वा स्वयम् ॥


आ ग्राव॑भिरह॒न्ये॑भिर॒क्तुभि॒र्वरि॑ष्ठं॒ वज्र॒मा जि॑घर्ति मा॒यिनि॑ ।

श॒तं वा॒ यस्य॑ प्र॒चर॒न्स्वे दमे॑ संव॒र्तय॑न्तो॒ वि च॑ वर्तय॒न्नहा॑ ॥३

आ । ग्राव॑ऽभिः । अ॒ह॒न्ये॑भिः । अ॒क्तुऽभिः॑ । वरि॑ष्ठम् । वज्र॑म् । आ । जि॒घ॒र्ति॒ । मा॒यिनि॑ ।

श॒तम् । वा॒ । यस्य॑ । प्र॒ऽचर॑न् । स्वे । दमे॑ । स॒म्ऽव॒र्तय॑न्तः । वि । च॒ । व॒र्त॒य॒न् । अहा॑ ॥३

आ । ग्रावऽभिः । अहन्येभिः । अक्तुऽभिः । वरिष्ठम् । वज्रम् । आ । जिघर्ति । मायिनि ।

शतम् । वा । यस्य । प्रऽचरन् । स्वे । दमे । सम्ऽवर्तयन्तः । वि । च । वर्तयन् । अहा ॥३

अत्र पूर्वार्धे इन्द्र उच्यते उत्तरार्धे इन्द्रात्मा सूर्यः । "आ हूयत इति शेषः । कैः । "अहन्येभिः अहनि संपादितैः "अक्तुभिः रात्रिभिः । तत्र निष्पन्नैरित्यर्थः । तथाविधैः “ग्रावभिः । साध्ये साधनशब्दः । ग्रावसाध्यैरभिषवैर्निमित्तभूतैः । आगत्यात्र सोमी सन् "मायिनि वृत्रे निमित्ते सति “वरिष्ठम् उरुतरं "वज्रम् “आ सर्वतः “जिघर्ति दीपयति । “वा किंच । वाशब्दश्चार्थे । "यस्य इन्द्रात्मकस्यादित्यस्य “शतं शतसंख्याका रश्मयः “स्वे "दमे स्वकीये गृहे आकाशे "प्रचरन् प्रचरन्ति । किं कुर्वन्तः । “संवर्तयन्तः प्राणिनो नाशयन्तः । यद्वा । अहा अहानि दिवसान् संवर्तयन्तः सम्यक् प्रवर्तयन्तः “वि “च "वर्तयन् अहा अहानि निवर्तयन्ति गतान्येव पुनः प्रापयन्ति च । तपनपरिस्पन्दाधीनत्वात् प्राणिनामायुःक्षयस्याहोरात्रादिव्यवहारस्य ।।


ताम॑स्य री॒तिं प॑र॒शोरि॑व॒ प्रत्यनी॑कमख्यं भु॒जे अ॑स्य॒ वर्प॑सः ।

सचा॒ यदि॑ पितु॒मन्त॑मिव॒ क्षयं॒ रत्नं॒ दधा॑ति॒ भर॑हूतये वि॒शे ॥४

ताम् । अ॒स्य॒ । री॒तिम् । प॒र॒शोःऽइ॑व । प्रति॑ । अनी॑कम् । अ॒ख्य॒म् । भु॒जे । अ॒स्य॒ । वर्प॑सः ।

सचा॑ । यदि॑ । पि॒तु॒मन्त॑म्ऽइव । क्षय॑म् । रत्न॑म् । दधा॑ति । भर॑ऽहूतये । वि॒शे ॥४

ताम् । अस्य । रीतिम् । परशोःऽइव । प्रति । अनीकम् । अख्यम् । भुजे । अस्य । वर्पसः ।

सचा । यदि । पितुमन्तम्ऽइव । क्षयम् । रत्नम् । दधाति । भरऽहूतये । विशे ॥४

इदमाग्नेयी । “तां प्रसिद्धाम् "अस्य अग्नेः "रीतिं स्वभावं गतिं वा “परशोरिव "प्रति परशोः प्रतिनिधिमिव पश्यामि । परशुर्यथा स्वस्वामिनोऽभिमतं साधयति तद्वदित्यर्थः । "अस्य “वर्पसः रूपवतोऽस्यादित्यस्य "अनीकं रश्मिसमूहं “भुजे भोगाय "अख्यं कथयाम्यहम् । "यदि यस्मात् स च देवः "सचा अस्मत्सहायः सन् "पितुमन्तम् अन्नवन्तं "क्षयम् “इव निवासमिव "भरहूतये संग्रामे यज्ञे वा आह्वानयुक्ताय "विशे यजमानाय "रत्नं रमणीयं धनं "दधाति धारयति । उभयमपि ददातीत्यर्थः ॥


स जि॒ह्वया॒ चतु॑रनीक ऋञ्जते॒ चारु॒ वसा॑नो॒ वरु॑णो॒ यत॑न्न॒रिम् ।

न तस्य॑ विद्म पुरुष॒त्वता॑ व॒यं यतो॒ भग॑ः सवि॒ता दाति॒ वार्य॑म् ॥५

सः । जि॒ह्वया॑ । चतुः॑ऽअनीकः । ऋ॒ञ्ज॒ते॒ । चारु॑ । वसा॑नः । वरु॑णः । यत॑न् । अ॒रिम् ।

न । तस्य॑ । वि॒द्म॒ । पु॒रु॒ष॒त्वता॑ । व॒यम् । यतः॑ । भगः॑ । स॒वि॒ता । दाति॑ । वार्य॑म् ॥५

सः । जिह्वया । चतुःऽअनीकः । ऋञ्जते । चारु । वसानः । वरुणः । यतन् । अरिम् ।

न । तस्य । विद्म । पुरुषत्वता । वयम् । यतः । भगः । सविता । दाति । वार्यम् ॥५

"सः अग्निः "चतुरनीकः चतुर्दिक्षु प्रसृतज्वालः सन् "जिह्वया "ऋञ्जते गच्छति घृतादिकम् । यद्वा । जिह्वया चतुरनीकः सन् ऋञ्जते अलंकरोति स्वात्मानम् । किं कुर्वन् । “चारु रमणीयं तेजः “वसानः आच्छादयन् "वरुणः तमोवारकः सन् “अरिम् अमित्रं "यतन् उद्धरन् । "तस्य । तमित्यर्थः । तं "न “विद्म न जानीमः “वयं "पुरुषत्वता पुरुषत्वेन कामानां पूरकत्वेन वा युक्तम् ॥ अपरो भावप्रत्ययः पूरणः ॥ "यतः अयं “भगः महान् भजनीयः "सविता प्रेरको देवः “दाति यच्छति “वार्यं वरणीयं धनम् ॥ ॥ २ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.४८&oldid=199510" इत्यस्माद् प्रतिप्राप्तम्