← सूक्तं ५.२० ऋग्वेदः - मण्डल ५
सूक्तं ५.२१
सस आत्रेयः
सूक्तं ५.२२ →
दे. अग्निः। अनुष्टुप्, ४ पङ्क्तिः।


मनुष्वत्त्वा नि धीमहि मनुष्वत्समिधीमहि ।
अग्ने मनुष्वदङ्गिरो देवान्देवयते यज ॥१॥
त्वं हि मानुषे जनेऽग्ने सुप्रीत इध्यसे ।
स्रुचस्त्वा यन्त्यानुषक्सुजात सर्पिरासुते ॥२॥
त्वां विश्वे सजोषसो देवासो दूतमक्रत ।
सपर्यन्तस्त्वा कवे यज्ञेषु देवमीळते ॥३॥
देवं वो देवयज्ययाग्निमीळीत मर्त्यः ।
समिद्धः शुक्र दीदिह्यृतस्य योनिमासदः ससस्य योनिमासदः ॥४॥


सायणभाष्यम्

‘ मनुष्वत्त्वा' इति चतुर्ऋचं सप्तमं सूक्तमात्रेयस्य ससस्यार्षम् । ‘ मनुष्वत्ससः' इत्यनुक्रमणिका । पङ्क्त्यन्तं ह ' इति पूर्वत्रोक्तत्वादिदमादीनि त्रीणि सूक्तानि पङ्क्त्यन्तानि । शिष्टा अनुष्टुभः । अग्निर्देवता । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः ॥


म॒नु॒ष्वत्त्वा॒ नि धी॑महि मनु॒ष्वत्समि॑धीमहि ।

अग्ने॑ मनु॒ष्वद॑ङ्गिरो दे॒वान्दे॑वय॒ते य॑ज ॥१

म॒नु॒ष्वत् । त्वा॒ । नि । धी॒म॒हि॒ । म॒नु॒ष्वत् । सम् । इ॒धी॒म॒हि॒ ।

अग्ने॑ । म॒नु॒ष्वत् । अ॒ङ्गि॒रः॒ । दे॒वान् । दे॒व॒ऽय॒ते । य॒ज॒ ॥१

मनुष्वत् । त्वा । नि । धीमहि । मनुष्वत् । सम् । इधीमहि ।

अग्ने । मनुष्वत् । अङ्गिरः । देवान् । देवऽयते । यज ॥१

हे "अग्ने "त्वा त्वां "मनुष्वत् मनुरिव "नि “धीमहि । मनुःशब्दो मनुपर्यायः ॥ ‘ नभोऽङ्गिरोमनुषां वत्युपसंख्यानम् ' इति भसंज्ञायां रुत्वाभावः ॥ “मनुष्वत् मनुरिव त्वा "समिधीमहि समिद्भिः संदीपयामः । हे “अङ्गिरः अङ्गारात्मकाग्ने “देवयते देवकामाथ यजमानाय "मनुष्वत् मनवे मनोरपत्याय “देवान् "यज ॥


त्वं हि मानु॑षे॒ जनेऽग्ने॒ सुप्री॑त इ॒ध्यसे॑ ।

स्रुच॑स्त्वा यन्त्यानु॒षक्सुजा॑त॒ सर्पि॑रासुते ॥२

त्वम् । हि । मानु॑षे । जने॑ । अग्ने॑ । सुऽप्री॑तः । इ॒ध्यसे॑ ।

स्रुचः॑ । त्वा॒ । य॒न्ति॒ । आ॒नु॒षक् । सुऽजा॑त । सर्पिः॑ऽआसुते ॥२

त्वम् । हि । मानुषे । जने । अग्ने । सुऽप्रीतः । इध्यसे ।

स्रुचः । त्वा । यन्ति । आनुषक् । सुऽजात । सर्पिःऽआसुते ॥२

हे "अग्ने “त्वं "मानुषे "जने मनुष्यलोके "सुप्रीतः स्तोत्रैः सुष्ठु प्रीतः सन् "इध्यसे दीप्यसे । "स्रुचः हविर्भिः संपूर्णाः “आनुषक् अनुषक्तं यथा भवति तथा “त्वा त्वां "यन्ति प्राप्नुवन्ति । हे "सुजात हे "सर्पिरासुते घृतयुक्तान्नेति ॥


त्वां विश्वे॑ स॒जोष॑सो दे॒वासो॑ दू॒तम॑क्रत ।

स॒प॒र्यन्त॑स्त्वा कवे य॒ज्ञेषु॑ दे॒वमी॑ळते ॥३

त्वाम् । विश्वे॑ । स॒ऽजोष॑सः । दे॒वासः॑ । दू॒तम् । अ॒क्र॒त॒ ।

स॒प॒र्यन्तः॑ । त्वा॒ । क॒वे॒ । य॒ज्ञेषु॑ । दे॒वम् । ई॒ळ॒ते॒ ॥३

त्वाम् । विश्वे । सऽजोषसः । देवासः । दूतम् । अक्रत ।

सपर्यन्तः । त्वा । कवे । यज्ञेषु । देवम् । ईळते ॥३

“सजोषसः सह प्रीयमाणाः "विश्वे सर्वे "देवासः देवाः “त्वां “दूतम् "अक्रत अकुर्वन् । अतः कारणात् हे "कवे क्रान्तदर्शिन् "देवं द्योतमानं "त्वा त्वां "सपर्यन्तः परिचरन्तो यजमाना: "यज्ञेषु “ईळते देवानाह्वातुं याचन्ते ॥


दे॒वं वो॑ देवय॒ज्यया॒ग्निमी॑ळीत॒ मर्त्य॑ः ।

समि॑द्धः शुक्र दीदिह्यृ॒तस्य॒ योनि॒मास॑दः स॒सस्य॒ योनि॒मास॑दः ॥४

दे॒वम् । वः॒ । दे॒व॒ऽय॒ज्यया॑ । अ॒ग्निम् । ई॒ळी॒त॒ । मर्त्यः॑ ।

सम्ऽइ॑द्धः । शु॒क्र॒ । दी॒दि॒हि॒ । ऋ॒तस्य॑ । योनि॑म् । आ । अ॒स॒दः॒ । स॒सस्य॑ । योनि॑म् । आ । अ॒स॒दः॒ ॥४

देवम् । वः । देवऽयज्यया । अग्निम् । ईळीत । मर्त्यः ।

सम्ऽइद्धः । शुक्र । दीदिहि । ऋतस्य । योनिम् । आ । असदः । ससस्य । योनिम् । आ । असदः ॥४

“मर्त्यः मनुष्यः “देवं द्योतमानम् "अग्निम् अग्रण्यं "वः त्वां "देवयज्यया देवयज्यायै देवयागार्थम् "ईळीत स्तोतुमर्हति । हे "शुक्र शोचिष्मन् “समिद्धः हविर्भिः प्रवृद्धः सन् "दीदिहि दीप्यस्व । “ऋतस्य सत्यभूतस्य "ससस्य ऋषेर्मम "योनिं कारणं स्वर्गसाधनं यज्ञस्थानम् “आसदः । देवतारूपेणासीद। आदरातिशयद्योतनार्थं पुनर्वचनम् ॥ ॥ १३ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.२१&oldid=199402" इत्यस्माद् प्रतिप्राप्तम्