ऋग्वेदः सूक्तं ५.६६
← सूक्तं ५.६५ | ऋग्वेदः - मण्डल ५ सूक्तं ५.६६ रातहव्य आत्रेयः |
सूक्तं ५.६७ → |
दे. मित्रावरुणौ। अनुष्टुप् । |
आ चिकितान सुक्रतू देवौ मर्त रिशादसा ।
वरुणाय ऋतपेशसे दधीत प्रयसे महे ॥१॥
ता हि क्षत्रमविह्रुतं सम्यगसुर्यमाशाते ।
अध व्रतेव मानुषं स्वर्ण धायि दर्शतम् ॥२॥
ता वामेषे रथानामुर्वीं गव्यूतिमेषाम् ।
रातहव्यस्य सुष्टुतिं दधृक्स्तोमैर्मनामहे ॥३॥
अधा हि काव्या युवं दक्षस्य पूर्भिरद्भुता ।
नि केतुना जनानां चिकेथे पूतदक्षसा ॥४॥
तदृतं पृथिवि बृहच्छ्रवएष ऋषीणाम् ।
ज्रयसानावरं पृथ्वति क्षरन्ति यामभिः ॥५॥
आ यद्वामीयचक्षसा मित्र वयं च सूरयः ।
व्यचिष्ठे बहुपाय्ये यतेमहि स्वराज्ये ॥६॥
सायणभाष्यम्
‘आ चिकितान' इति षड़ृचं दशमं सूक्तं रातहव्यस्यार्षम् आनुष्टुभं मैत्रावरुणम् । अत्रानुक्रमणिका - आ चिकितानानुष्टुभं तु ' इति । आद्यस्तृचो दशरात्रे चतुर्थेऽहनि प्रउगशस्त्रे मैत्रावरुणस्य । सूत्रितं च – ' आ चिकितान सुक्रतू त्यमु वो अप्रहणम् ' ( आश्व. श्रौ. ७. ११ ) इति ॥
आ चि॑कितान सु॒क्रतू॑ दे॒वौ म॑र्त रि॒शाद॑सा ।
वरु॑णाय ऋ॒तपे॑शसे दधी॒त प्रय॑से म॒हे ॥१
आ । चि॒कि॒ता॒न॒ । सु॒क्रतू॒ इति॑ सु॒ऽक्रतू॑ । दे॒वौ । म॒र्त॒ । रि॒शाद॑सा ।
वरु॑णाय । ऋ॒तऽपे॑शसे । द॒धी॒त । प्रय॑से । म॒हे ॥१
आ । चिकितान । सुक्रतू इति सुऽक्रतू । देवौ । मर्त । रिशादसा ।
वरुणाय । ऋतऽपेशसे । दधीत । प्रयसे । महे ॥१
हे “चिकितान जानन् स्तुतिं हे “मर्त मनुष्य रातहव्य त्वमिति तस्यैव संबोधनम् । "सुक्रतू शोभनकर्माणौ “रिशादसा हिंसकानां हिंसकौ "देवौ "आ आकारयेति शेषः । आहूय च "ऋतपेशसे । पेश इति रूपनाम । ऋतमुदकम् । उदकमेव रूपं यस्य तादृशाय “वरुणाय “प्रयसे । मत्वर्थो लुप्यते ॥ हविर्लक्षणान्नवते “महे महते पूज्याय “दधीत दद्याः । हविरिति शेषः । द्वितीयार्थे वा चतुर्थी । महद्धविर्दधीत । महतोऽन्नस्य लाभायेति वा योज्यम् ॥
ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्य१॒॑माशा॑ते ।
अध॑ व्र॒तेव॒ मानु॑षं॒ स्व१॒॑र्ण धा॑यि दर्श॒तम् ॥२
ता । हि । क्ष॒त्रम् । अवि॑ऽह्रुतम् । स॒म्यक् । अ॒सु॒र्य॑म् । आशा॑ते॒ इति॑ ।
अध॑ । व्र॒ताऽइ॑व । मानु॑षम् । स्वः॑ । न । धा॒यि॒ । द॒र्श॒तम् ॥२
ता । हि । क्षत्रम् । अविऽह्रुतम् । सम्यक् । असुर्यम् । आशाते इति ।
अध । व्रताऽइव । मानुषम् । स्वः । न । धायि । दर्शतम् ॥२
“ता “हि । हीति हेतौ । यस्मात् ता तौ "क्षत्रं बलम् “अविह्रुतम् अहिंस्यम् "असुर्यम् असुरविघाति महद्बलं “सम्यक् “आशाते व्याप्नुतः “अध अतो हेतोः “मानुषं मनुष्येषु प्रवृत्तं "व्रतेव कर्मेव तद्यथा मनुष्येषु नियतं "स्वर्ण सूर्य इव स यथा दिवि दृश्यते तद्वत् “दर्शतं दर्शनीयं बलं “धायि यज्ञे निहितम् ॥
ता वा॒मेषे॒ रथा॑नामु॒र्वीं गव्यू॑तिमेषाम् ।
रा॒तह॑व्यस्य सुष्टु॒तिं द॒धृक्स्तोमै॑र्मनामहे ॥३
ता । वा॒म् । एषे॑ । रथा॑नाम् । उ॒र्वीम् । गव्यू॑तिम् । ए॒षा॒म् ।
रा॒तऽह॑व्यस्य । सु॒ऽस्तु॒तिम् । द॒धृक् । स्तोमैः॑ । म॒ना॒म॒हे॒ ॥३
ता । वाम् । एषे । रथानाम् । उर्वीम् । गव्यूतिम् । एषाम् ।
रातऽहव्यस्य । सुऽस्तुतिम् । दधृक् । स्तोमैः । मनामहे ॥३
हे मित्रावरुणौ “ता तौ प्रसिद्धौ “वां युवां “रथानाम् अस्मदीयानाम् “एषां पुरतो वर्तमानानाम् “उर्वीं प्रभूतां “गव्यूतिम् अतिविस्तृतं मार्गम् “एषे गन्तुम् । मार्गरक्षणायेत्यर्थः ॥ तुमर्थेऽसेन्प्रत्ययः । तदर्थं वां “मनामहे स्तुमः "रातहव्यस्य ऋषेः रातहव्यसंबन्धिभिः “सुष्ठुतिं सुष्ठुतिभिः शोभनस्तुतिसाधनैः “स्तोमैः “दधृक् धर्षकौ युवाम् ।।
अधा॒ हि काव्या॑ यु॒वं दक्ष॑स्य पू॒र्भिर॑द्भुता ।
नि के॒तुना॒ जना॑नां चि॒केथे॑ पूतदक्षसा ॥४
अध॑ । हि । काव्या॑ । यु॒वम् । दक्ष॑स्य । पूः॒ऽभिः । अ॒द्भु॒ता॒ ।
नि । के॒तुना॑ । जना॑नाम् । चि॒केथे॒ इति॑ । पू॒त॒ऽद॒क्ष॒सा॒ ॥४
अध । हि । काव्या । युवम् । दक्षस्य । पूःऽभिः । अद्भुता ।
नि । केतुना । जनानाम् । चिकेथे इति । पूतऽदक्षसा ॥४
“अध अपि च । “हि प्रसिद्धौ । “काव्या स्तुत्यौ “युवं युवां “दक्षस्य प्रवृद्धस्य मम “पूर्भिः पूरकैः स्तवैः हे “अद्भुता महान्तावाश्चर्यभूतौ सन्तौ “केतुना प्रज्ञानेनानुकूलेन मनसा “जनानां यजमानानामित्यर्थः । स्तोत्रं “नि “चिकेथे नितरां जानीथः । हे “पूतदक्षसा शुद्धबलौ युवाम् ॥
तदृ॒तं पृ॑थिवि बृ॒हच्छ्र॑वए॒ष ऋषी॑णाम् ।
ज्र॒य॒सा॒नावरं॑ पृ॒थ्वति॑ क्षरन्ति॒ याम॑भिः ॥५
तत् । ऋ॒तम् । पृ॒थि॒वि॒ । बृ॒हत् । श्र॒वः॒ऽए॒षे । ऋषी॑णाम् ।
ज्र॒य॒सा॒नौ । अर॑म् । पृ॒थु । अति॑ । क्ष॒र॒न्ति॒ । याम॑ऽभिः ॥५
तत् । ऋतम् । पृथिवि । बृहत् । श्रवःऽएषे । ऋषीणाम् ।
ज्रयसानौ । अरम् । पृथु । अति । क्षरन्ति । यामऽभिः ॥५
हे “पृथिवि देवि त्वयि “तत् सर्वैरर्थ्यमानत्वेन प्रसिद्धं "बृहत् प्रभूतम् “ऋतम् उदकम् “ऋषीणां स्तोतॄणामस्माकं “श्रवएषे अन्नस्यैषणे सति ज्रयसानौ गच्छन्तौ ॥ ‘ छन्दस्यसानच् शुजॄभ्याम् ' ( उ. सू. २. २४३ ) इत्यसानच् ज्रयतेरपि भवति। ‘ चितः' इत्यन्तोदात्तः ॥ "अरम् अलमस्यर्थं “पृथु यथा भवति तथा “यामभिः गमनैः “अति “क्षरन्ति अत्यर्थं वर्षतः ॥ व्यत्ययेन बहुवचनम् ॥
आ यद्वा॑मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रय॑ः ।
व्यचि॑ष्ठे बहु॒पाय्ये॒ यते॑महि स्व॒राज्ये॑ ॥६
आ । यत् । वा॒म् । ई॒य॒ऽच॒क्ष॒सा॒ । मित्रा॑ । व॒यम् । च॒ । सू॒रयः॑ ।
व्यचि॑ष्ठे । ब॒हु॒ऽपाय्ये॑ । यते॑महि । स्व॒ऽराज्ये॑ ॥६
आ । यत् । वाम् । ईयऽचक्षसा । मित्रा । वयम् । च । सूरयः ।
व्यचिष्ठे । बहुऽपाय्ये । यतेमहि । स्वऽराज्ये ॥६
हे “ईयचक्षसा व्याप्तदर्शनौ हे "मित्रा मित्रावरुणौ “वां युवां “यत् ये “वयं “च “सूरयः स्तोतारः “आ आह्वयामः । “व्यचिष्ठे अत्यन्तविस्तृते “बहुपाय्ये बहुभिर्गन्तव्ये बहुभी रक्षितव्ये वा “स्वराज्ये स्वराट्त्वाय एवंविधराज्यार्थं “यतेमहि गच्छेम ॥ ॥ ४ ॥
मण्डल ५ | ||||
---|---|---|---|---|