← सूक्तं ५.४१ ऋग्वेदः - मण्डल ५
सूक्तं ५.४२
भौमोऽत्रिः ।
सूक्तं ५.४३ →
दे. विश्वे देवाः, ११ रुद्रः। त्रिष्टुप्, १७ एकपदा विराट् ।

प्र शंतमा वरुणं दीधिती गीर्मित्रं भगमदितिं नूनमश्याः ।
पृषद्योनिः पञ्चहोता शृणोत्वतूर्तपन्था असुरो मयोभुः ॥१॥
प्रति मे स्तोममदितिर्जगृभ्यात्सूनुं न माता हृद्यं सुशेवम् ।
ब्रह्म प्रियं देवहितं यदस्त्यहं मित्रे वरुणे यन्मयोभु ॥२॥
उदीरय कवितमं कवीनामुनत्तैनमभि मध्वा घृतेन ।
स नो वसूनि प्रयता हितानि चन्द्राणि देवः सविता सुवाति ॥३॥
समिन्द्र णो मनसा नेषि गोभिः सं सूरिभिर्हरिवः सं स्वस्ति ।
सं ब्रह्मणा देवहितं यदस्ति सं देवानां सुमत्या यज्ञियानाम् ॥४॥
देवो भगः सविता रायो अंश इन्द्रो वृत्रस्य संजितो धनानाम् ।
ऋभुक्षा वाज उत वा पुरंधिरवन्तु नो अमृतासस्तुरासः ॥५॥
मरुत्वतो अप्रतीतस्य जिष्णोरजूर्यतः प्र ब्रवामा कृतानि ।
न ते पूर्वे मघवन्नापरासो न वीर्यं नूतनः कश्चनाप ॥६॥
उप स्तुहि प्रथमं रत्नधेयं बृहस्पतिं सनितारं धनानाम् ।
यः शंसते स्तुवते शम्भविष्ठः पुरूवसुरागमज्जोहुवानम् ॥७॥
तवोतिभिः सचमाना अरिष्टा बृहस्पते मघवानः सुवीराः ।
ये अश्वदा उत वा सन्ति गोदा ये वस्त्रदाः सुभगास्तेषु रायः ॥८॥
विसर्माणं कृणुहि वित्तमेषां ये भुञ्जते अपृणन्तो न उक्थैः ।
अपव्रतान्प्रसवे वावृधानान्ब्रह्मद्विषः सूर्याद्यावयस्व ॥९॥
य ओहते रक्षसो देववीतावचक्रेभिस्तं मरुतो नि यात ।
यो वः शमीं शशमानस्य निन्दात्तुच्छ्यान्कामान्करते सिष्विदानः ॥१०॥
तमु ष्टुहि यः स्विषुः सुधन्वा यो विश्वस्य क्षयति भेषजस्य ।
यक्ष्वा महे सौमनसाय रुद्रं नमोभिर्देवमसुरं दुवस्य ॥११॥
दमूनसो अपसो ये सुहस्ता वृष्णः पत्नीर्नद्यो विभ्वतष्टाः ।
सरस्वती बृहद्दिवोत राका दशस्यन्तीर्वरिवस्यन्तु शुभ्राः ॥१२॥
प्र सू महे सुशरणाय मेधां गिरं भरे नव्यसीं जायमानाम् ।
य आहना दुहितुर्वक्षणासु रूपा मिनानो अकृणोदिदं नः ॥१३॥
प्र सुष्टुति स्तनयन्तं रुवन्तमिळस्पतिं जरितर्नूनमश्याः ।
यो अब्दिमाँ उदनिमाँ इयर्ति प्र विद्युता रोदसी उक्षमाणः ॥१४॥
एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूँर्युवन्यूँरुदश्याः ।
कामो राये हवते मा स्वस्त्युप स्तुहि पृषदश्वाँ अयासः ॥१५॥
प्रैष स्तोमः पृथिवीमन्तरिक्षं वनस्पतीँरोषधी राये अश्याः ।
देवोदेवः सुहवो भूतु मह्यं मा नो माता पृथिवी दुर्मतौ धात् ॥१६॥
उरौ देवा अनिबाधे स्याम ॥१७॥
समश्विनोरवसा नूतनेन मयोभुवा सुप्रणीती गमेम ।
आ नो रयिं वहतमोत वीराना विश्वान्यमृता सौभगानि ॥१८॥

सायणभाष्यम्

इत्युक्तत्वात् इदमपि वैश्वदेवम् । ‘तमु ष्टुहि' इत्येकादशी रुद्रदेवत्या । सप्तदश्येकपदा ' एतयोरुपान्त्यैकपदा' इत्यनुक्रमिष्यमाणत्वात् । अत्रानुक्रमणिका-’प्र शंतमा द्व्यूनैकादशी रौद्री ' इति । विनियोगो लैङ्गिकः ॥


प्र शंत॑मा॒ वरु॑णं॒ दीधि॑ती॒ गीर्मि॒त्रं भग॒मदि॑तिं नू॒नम॑श्याः ।

पृष॑द्योनि॒ः पञ्च॑होता शृणो॒त्वतू॑र्तपन्था॒ असु॑रो मयो॒भुः ॥१

प्र । शम्ऽत॑मा । वरु॑णम् । दीधि॑ती । गीः । मि॒त्रम् । भग॑म् । अदि॑तिम् । नू॒नम् । अ॒श्याः॒ ।

पृष॑त्ऽयोनिः । पञ्च॑ऽहोता । शृ॒णो॒तु॒ । अतू॑र्तऽपन्थाः । असु॑रः । म॒यः॒ऽभुः ॥१

प्र । शम्ऽतमा । वरुणम् । दीधिती । गीः । मित्रम् । भगम् । अदितिम् । नूनम् । अश्याः ।

पृषत्ऽयोनिः । पञ्चऽहोता । शृणोतु । अतूर्तऽपन्थाः । असुरः । मयःऽभुः ।। १ ।।

“शंतमा अत्यन्तं सुखकरी “गीः स्तुतिरूपा वाक् “वरुणं “मित्रं “भगमदितिं च "दीधिती दीधित्या कर्मणा हविष्प्रक्षेपणात्मकेन सह “नूनम् अवितथं “प्र “अश्याः प्राप्नोतु । किंच “पृषद्योनिः पृषद्वर्णान्तरिक्षस्थः "पञ्चहोता पञ्चविधस्य प्राणापानादिहोमस्य साधको वायुः । यद्वा । पञ्चहोतेति वायोर्नाम । वायुः पञ्चहोता स प्राणः' इति हि श्रुतेः । स च "अतूर्तपन्थाः अहिंसितगतिः "असुरः प्राणस्य दाता "मयोभुः सुखस्यास्पदभूतः । एवमुक्तलक्षणो वायुः "शृणोतु स्तोत्रमिति ॥


प्रति॑ मे॒ स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुं न मा॒ता हृद्यं॑ सु॒शेव॑म् ।

ब्रह्म॑ प्रि॒यं दे॒वहि॑तं॒ यदस्त्य॒हं मि॒त्रे वरु॑णे॒ यन्म॑यो॒भु ॥२

प्रति॑ । मे॒ । स्तोम॑म् । अदि॑तिः । ज॒गृ॒भ्या॒त् । सू॒नुम् । न । मा॒ता । हृद्य॑म् । सु॒ऽशेव॑म् ।

ब्रह्म॑ । प्रि॒यम् । दे॒वऽहि॑तम् । यत् । अस्ति॑ । अ॒हम् । मि॒त्रे । वरु॑णे । यत् । म॒यः॒ऽभुः ॥२

प्रति । मे। स्तोमम् । अदितिः । जगृभ्यात् । सूनुम् । न । माता । हृद्यम् । सुऽशेवम् ।

ब्रह्म । प्रियम् । देवऽहितम् । यत् । अस्ति । अहम् । मित्रे । वरुणे । यत् । मयःऽभु ॥२॥

“मे मदीयं "स्तोमं स्तोत्रम् "अदितिः देवता "प्रति "जगृभ्यात् प्रतिगृह्णातु । "सूनुं "न “माता स्वतनुजं जननीव । सा यथा प्रतिगृह्यालिङ्ग्य परितुष्यति तद्वदित्यर्थः । कीदृशं तम् । "हृद्यं हृदयंगमं "सुशेवं शोभनसुखकरम् । एतद्व्दयं साधारणम् । किंच “ब्रह्म मन्त्रजातं "प्रियं प्रियकरं "देवहितं देवैः प्राप्यं "यदस्ति यद्ब्रह्म "मयोभु सुखसाधनं तत् "अहं “मित्रे वरुणे च प्रापयामीति शेषः । यद्वा । मित्रे वरुणे च अहोरात्राभिमानिदेवयोर्यदुक्तलक्षणं ब्रह्म परिवृढं यज्ञादिरूपं कर्मास्ति तदहं धारयामीति ॥


‘उदीरय' इत्येषैकादशिने सावित्रे पशौ वपायाज्या। सूत्रितं च--- उदीरय कवितमं कवीनां भगं धियं वाजयन्तः पुरंधिमिति द्वे' ( आश्व. श्रौ. ३. ७) इति ॥

उदी॑रय क॒वित॑मं कवी॒नामु॒नत्तै॑नम॒भि मध्वा॑ घृ॒तेन॑ ।

स नो॒ वसू॑नि॒ प्रय॑ता हि॒तानि॑ च॒न्द्राणि॑ दे॒वः स॑वि॒ता सु॑वाति ॥३

उत् । ई॒र॒य॒ । क॒विऽत॑मम् । क॒वी॒नाम् । उ॒नत्त॑ । ए॒न॒म् । अ॒भि । मध्वा॑ । घृ॒तेन॑ ।

सः । नः॒ । वसू॑नि । प्रऽय॑ता । हि॒तानि॑ । च॒न्द्राणि॑ । दे॒वः । स॒वि॒ता । सु॒वा॒ति॒ ॥३

उत् । ईरय । कविऽतमम् । कवीनाम् । उनत्त । एनम् । अभि । मध्वा । घृतेन ।

सः । नः । वसूनि । प्रऽयता। हितानि । चन्द्राणि । देवः । सविता । सुवाति ॥ ३ ॥

अनया सविता च स्तूयते । हे ऋत्विजः “कवीनां “कवितमं क्रान्तदर्शिनम् अमुं पुरोवर्तिनमग्निं सवितारं वा “उदीरय ऊर्ध्वं प्रापयत हर्षयतेत्यर्थः । “एनं देवं “मध्वा मधुरेण सोमरसेन “घृतेन च "अभि “उनत्त अभिषिञ्चत । तर्पयतेत्यर्थः । “सः “सविता "देवः नः अस्मभ्यं “वसूनि निवासयोग्यानि गवादिधनानि “प्रयता प्रयतानि “हितानि “चन्द्राणि आह्लादकानि हिरण्यानि "सुवाति प्रयच्छत्वित्यर्थः ॥


समि॑न्द्र णो॒ मन॑सा नेषि॒ गोभि॒ः सं सू॒रिभि॑र्हरिव॒ः सं स्व॒स्ति ।

सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां॑ सुम॒त्या य॒ज्ञिया॑नाम् ॥४

सम् । इ॒न्द्र॒ । नः॒ । मन॑सा । ने॒षि॒ । गोभिः॑ । सम् । सू॒रिऽभिः॑ । ह॒रि॒ऽवः॒ । सम् । स्व॒स्ति ।

सम् । ब्रह्म॑णा । दे॒वऽहि॑तम् । यत् । अस्ति॑ । सम् । दे॒वाना॑म् । सु॒ऽम॒त्या । य॒ज्ञिया॑नाम् ॥४

सम् । इन्द्र। नः । मन॑सा । नेषि । गोभिः । सम् । सूरिऽभिः । हरिऽवः । सम् । स्वस्ति ।

सम् । ब्रह्मणा । देवऽहितम् । यत् । अस्ति । सम् । देवानाम् । सुऽमत्या । यज्ञियानाम् ॥४॥

हे “इन्द्र “नः अस्मान् “मनसा प्रकृष्टेन चेतसा “गोभिः सह “सं "नेषि नयसि । अस्मान् गाः प्रापयसीत्यर्थः । एवं सर्वत्र । हे “हरिवः हरिभ्यां तद्वन् इन्द्र “सूरिभिः मेधाविभिः पुत्रैर्ऋत्विग्भिर्वा “सं नेषि । तथा “स्वस्ति स्वस्तिभिः क्षेमैः “सं नेषि । “ब्रह्मणा प्रभूतेनान्नेन “सं नेषि । “यत् अन्नं देवहितम् “अस्ति तेन । किंच “यज्ञियानां यज्ञार्हाणां “देवानां “सुमत्या अनुग्रहबुद्ध्या “सं नेषि ॥


दे॒वो भगः॑ सवि॒ता रा॒यो अंश॒ इन्द्रो॑ वृ॒त्रस्य॑ सं॒जितो॒ धना॑नाम् ।

ऋ॒भु॒क्षा वाज॑ उ॒त वा॒ पुरं॑धि॒रव॑न्तु नो अ॒मृता॑सस्तु॒रासः॑ ॥५

दे॒वः । भगः॑ । स॒वि॒ता । रा॒यः । अंशः॑ । इन्द्रः॑ । वृ॒त्रस्य॑ । स॒म्ऽजितः॑ । धना॑नाम् ।

ऋ॒भु॒क्षाः । वाजः॑ । उ॒त । वा॒ । पुर॑म्ऽधिः । अव॑न्तु । नः॒ । अ॒मृता॑सः । तु॒रासः॑ ॥५

देवः । भगः । सविता । रायः । अंशः । इन्द्रः । वृत्रस्य । सम्ऽजितः । धनानाम् ।

ऋभुक्षाः । वाजः । उत । वा । पुरम्ऽधिः । अवन्तु । नः । अमृतासः । तुरासः ॥ ५ ॥

अत्र लिङ्गोक्ता देवताः । “भगः "देवः “सविता च "रायः धनस्य स्वामी “अंशः त्वष्टा “वृत्रस्य हन्ता “इन्द्रः च एते देवाः “धनानां “संजितः सम्यग्जेतारः । “ऋभुक्षाः ऋभुः "वाजः च "उत “वा अपि च “पुरंधिः बहुधीः विभ्वोच्यते । एते च "अमृतासः अमृता अमरणधर्माणो भगादिदेवाः "तुरासः अस्मद्यज्ञं प्रति त्वरमाणाः सन्तः "नः अस्मान् “अवन्तु रक्षन्तु ॥ ॥ १७ ॥


म॒रुत्व॑तो॒ अप्र॑तीतस्य जि॒ष्णोरजू॑र्यत॒ः प्र ब्र॑वामा कृ॒तानि॑ ।

न ते॒ पूर्वे॑ मघव॒न्नाप॑रासो॒ न वी॒र्यं१॒॑ नूत॑न॒ः कश्च॒नाप॑ ॥६

म॒रुत्व॑तः । अप्र॑तिऽइतस्य । जि॒ष्णोः । अजू॑र्यतः । प्र । ब्र॒वा॒म॒ । कृ॒तानि॑ ।

न । ते॒ । पूर्वे॑ । म॒घ॒ऽव॒न् । न । अप॑रासः । न । वी॒र्य॑म् । नूत॑नः । कः । च॒न । आ॒प॒ ॥६

मरुत्वतः । अप्रतिऽइतस्य । जिष्णोः । अजूर्यतः । प्र । ब्रवाम् । कृतानि ।

न। ते। पूर्वे । मघऽवन् । न । अपरासः । न । वीर्यम् । नूतनः। कः । चन । आप ॥ ६ ॥

वयं यजमानाः “मरुत्वतः मरुद्भिस्तद्वत इन्द्रस्य “कृतानि कर्माणि “प्र “ब्रवाम प्रख्यापयाम । कीदृशस्य तस्य । "अप्रतीतस्य अप्रतिगतस्य युद्धेऽपलायमानस्य । न केवलं तावन्मात्रम् । “जिष्णोः जयनशीलस्य “अजूर्यतः अजीर्यमाणस्य । सर्वदा यून इत्यर्थः । अथ प्रत्यक्षेणोच्यते । हे मघवन् इन्द्र “ते तव वीर्यं पराक्रमं “पूर्वे पुरातनाः पुरुषाः "न आपुः । “नापरासः अपरेऽपि नापुः । किं बहुना । "नूतनः “कश्चन आश्चर्यभूतः यः कोऽपि "वीर्यं न "आप न प्राप्नोति ॥


उप॑ स्तुहि प्रथ॒मं र॑त्न॒धेयं॒ बृह॒स्पतिं॑ सनि॒तारं॒ धना॑नाम् ।

यः शंस॑ते स्तुव॒ते शम्भ॑विष्ठः पुरू॒वसु॑रा॒गम॒ज्जोहु॑वानम् ॥७

उप॑ । स्तु॒हि॒ । प्र॒थ॒मम् । र॒त्न॒ऽधेय॑म् । बृह॒स्पति॑म् । स॒नि॒तार॑म् । धना॑नाम् ।

यः । शंस॑ते । स्तु॒व॒ते । शम्ऽभ॑विष्ठः । पु॒रु॒ऽवसुः॑ । आ॒ऽगम॑त् । जोहु॑वानम् ॥७

उप । स्तुहि । प्रथमम् । रत्नऽधेयम् । बृहस्पतिम् । सनितारम् । धनानाम् ।

यः । शंसते । स्तुवते । शम्ऽभविष्ठः । पुरुऽवसुः । आऽगमत् । जोहुवानम् ॥ ७ ॥

हे अन्तरात्मन् त्वं “प्रथमं मुख्यं प्रकृष्टतममित्यर्थः । “रत्नधेयं रमणीयधनदातारं “धनानां हविर्लक्षणानां “सनितारं संभक्तारम् । अथवा रत्नशब्देन मणिमुक्तादयो गृहीता इह धनशब्देन गवादयः । गवादिदातारं “बृहस्पतिं बृहतो मन्त्रस्य पतिं स्वामिनं देवम् “उप “स्तुहि । “यः देवः “शंसते शस्त्रैः “स्तुवते सामभिर्यजमानाय "शंभविष्ठः सुखस्य भावयितृतमो भवति । यश्च “जोहुवानम् आह्वयन्तं यजमानं “पुरूवसुः प्रभूतधनः सन् “आगमत् आगच्छति तमुप स्तुहि ॥


तवो॒तिभि॒ः सच॑माना॒ अरि॑ष्टा॒ बृह॑स्पते म॒घवा॑नः सु॒वीराः॑ ।

ये अ॑श्व॒दा उ॒त वा॒ सन्ति॑ गो॒दा ये व॑स्त्र॒दाः सु॒भगा॒स्तेषु॒ रायः॑ ॥८

तव॑ । ऊ॒तिऽभिः॑ । सच॑मानाः । अरि॑ष्टाः । बृह॑स्पते । म॒घऽवा॑नः । सु॒ऽवीराः॑ ।

ये । अ॒श्व॒ऽदाः । उ॒त । वा॒ । सन्ति॑ । गो॒ऽदाः । ये । व॒स्त्र॒ऽदाः । सु॒ऽभगाः॑ । तेषु॑ । रायः॑ ॥८

तव । ऊतिऽभिः । सचमानाः । अरिष्टाः । बृहस्पते । मघऽवानः । सुऽवीराः ।

ये। अश्वऽदाः । उत । वा । सन्ति । गोऽदाः । ये। वस्त्रऽदाः । सुऽभगाः । तेषु । रायः ॥ ८॥

हे "बृहस्पते “तवोतिभिः रक्षाभिः “सचमानाः संगच्छमानाः “अरिष्टाः अहिंसिताः “मघवानः धनवन्तः सुवीराः शोभनपुत्राश्च भवन्ति । “ये त्वदनुगृहीताः “अश्वदाः बहूनामश्वानां दातारः “सन्ति । “उत “वा अथवा “गोदाः सन्ति । “ये च “वस्त्रदाः “सुभगाः शोभनधनाः सन्ति “तेषु सर्वेषु “रायः धनानि संभवन्विति शेषः ।।


वि॒स॒र्माणं॑ कृणुहि वि॒त्तमे॑षां॒ ये भु॒ञ्जते॒ अपृ॑णन्तो न उ॒क्थैः ।

अप॑व्रतान्प्रस॒वे वा॑वृधा॒नान्ब्र॑ह्म॒द्विष॒ः सूर्या॑द्यावयस्व ॥९

वि॒ऽस॒र्माण॑म् । कृ॒णु॒हि॒ । वि॒त्तम् । ए॒षा॒म् । ये । भु॒ञ्जते॑ । अपृ॑णन्तः । नः॒ । उ॒क्थैः ।

अप॑ऽव्रतान् । प्र॒ऽस॒वे । व॒वृ॒धा॒नान् । ब्र॒ह्म॒ऽद्विषः॑ । सूर्या॑त् । य॒व॒य॒स्व॒ ॥९

विऽसर्माणम् । कृणुहि । वित्तम् । एषाम् । ये । भुञ्जते । अपृणन्तः । नः । उक्थैः ।

अपऽव्रतान् । प्रऽसवे । ववृधानान् । ब्रह्मऽद्विषः । सूर्यात् । यवयस्व ॥९॥

“एषां वक्ष्यमाणानां “वित्तं धनं “विसर्माणं विसरणशीलं “कृणुहि कुरु हे ब्रह्मणस्पते ।। एषामित्युक्तं केषामित्याह । "ये “भुञ्जते "अपृणन्तः अप्रयच्छन्तः । केभ्यः । “उक्थैः स्तुतिप्रतिपादकैः शस्त्रैर्विशिष्टेभ्यः “नः अस्मभ्यम् । तान् “अपव्रतान् अपगतकर्मणः “प्रसवे उत्पत्तिमति मनुष्यलोके “ववृधानान् वर्धमानान् “ब्रह्मद्विषः ब्राह्मणद्वेष्टॄने मन्त्रद्वेष्टॄन् वा "सूर्यात् "यवयस्व पृथक्कुरु । अन्धकारे स्थापयेत्यर्थः ॥


य ओह॑ते र॒क्षसो॑ दे॒ववी॑तावच॒क्रेभि॒स्तं म॑रुतो॒ नि या॑त ।

यो व॒ः शमीं॑ शशमा॒नस्य॒ निन्दा॑त्तु॒च्छ्यान्कामा॑न्करते सिष्विदा॒नः ॥१०

यः । ओह॑ते । र॒क्षसः॑ । दे॒वऽवी॑तौ । अ॒च॒क्रेभिः॑ । तम् । म॒रु॒तः॒ । नि । या॒त॒ ।

यः । वः॒ । शमी॑म् । श॒श॒मा॒नस्य॑ । निन्दा॑त् । तु॒च्छ्यान् । कामा॑न् । क॒र॒ते॒ । सि॒स्वि॒दा॒नः ॥१०

यः । ओहते । रक्षसः । देवऽवीतौ । अचक्रेभिः । तम् । मरुतः । नि । यात ।

यः । वः । शमीम् । शशमानस्य । निन्दात् । तुच्छ्यान् । कामान् । करते । सिस्विदानः ॥१०॥

“यः यजमानः “रक्षसः बलिनो राक्षसान् “ओहते प्रापयति “देववीतौ । देवानां वीतिः प्राप्तिर्भक्षणं वा यत्र स तथोक्तः । तस्मिन् यज्ञे । अन्यथानुष्ठानादिना आसुरं करोतीत्यर्थः । “तं यजमानम् “अचक्रेभिः अचक्रै रथैर्हे “मरुतो “नि “यात नितरां प्रापयतान्धकारम् । यद्वा । अचक्रेभिरिति पूर्वत्रान्वयः । चक्रशब्देनाङ्गान्युच्यन्ते । पुनः पुनरङ्गरहितैः केवलैरेव प्रधानैरोहते प्रापयति । साङ्गं हि कर्म देवानभ्येति । “यः च “वः युष्माकं “शमीं कर्म स्तुतिलक्षणं “शशमानस्य शंसमानस्य मम संबन्धि “निन्दात् निन्देत् वैदिकं ज्योतिष्टोमादिरूपं कर्म निन्दति स्वयं च “तुच्छ्यान् नश्वरान् “कामान् कृष्यादिजनितभोगान् “करते कुरुते “सिष्विदानः स्विद्यन्नात्मानं क्लेशयन् । अथवा युष्मासु कमनीयान् भोगान् तुच्छयान् करोति ॥ ॥ १८ ॥


तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ ।

यक्ष्वा॑ म॒हे सौ॑मन॒साय॑ रु॒द्रं नमो॑भिर्दे॒वमसु॑रं दुवस्य ॥११

तम् । ऊं॒ इति॑ । स्तु॒हि॒ । यः । सु॒ऽइ॒षुः । सु॒ऽधन्वा॑ । यः । विश्व॑स्य । क्षय॑ति । भे॒ष॒जस्य॑ ।

यक्ष्व॑ । म॒हे । सौ॒म॒न॒साय॑ । रु॒द्रम् । नमः॑ऽभिः । दे॒वम् । असु॑रम् । दु॒व॒स्य॒ ॥११

तम् । ॐ इति । स्तुहि । यः । सुऽइषुः । सुऽधन्वा । यः । विश्वस्य । क्षयति । भेषजस्य ।।

यक्ष्व । महे । सौमनसाय । रुद्रम् । नमःऽभिः । देवम् । असुरम् । दुवस्य ।। ११ ।।

हे आत्मन् “तमु तमेव रुद्रं “स्तुहि स्तुतिं कुरु । यः “स्विषुः शोभनबाणः “सुधन्वा च । विरोधिहन्तृत्वात् सुष्ठुत्वम् । “यः च “विश्वस्य “भेषजस्य औषधस्य “क्षयति ईश्वरो भवति । शारीरस्य सांसारिकस्य च अरिष्टस्य शमनाय ईश्वरव्यतिरिक्तस्य औषधस्य अभावाद्भिषक्तमत्वाच्चास्य भेषजस्वामित्वम् । “भिषक्तमं त्वा भिषजां शृणोमि' ( ऋ. सं. २. ३३. ४) इत्यादिश्रुतेः । किंच तमेव “रुद्रं दुःखात्तत्साधनाद्दुरिताद्वा मोचयितारं देवं “यक्ष्व यज च "महे महते “सौमनसाय सुमनस्त्वाय । ईश्वराराधनाच्चित्तशान्तिः प्रसिद्धा । किंच “नमोभिः हविर्भिर्नमस्कारैर्वा “देवं द्योतमानम् "असुरं प्रकृष्टासुम् । बलवन्तमित्यर्थः । यद्वा । प्राणदातारं रुद्रं “दुवस्य परिचरेति ।।


दमू॑नसो अ॒पसो॒ ये सु॒हस्ता॒ वृष्ण॒ः पत्नी॑र्न॒द्यो॑ विभ्वत॒ष्टाः ।

सर॑स्वती बृहद्दि॒वोत रा॒का द॑श॒स्यन्ती॑र्वरिवस्यन्तु शु॒भ्राः ॥१२

दमू॑नसः । अ॒पसः॑ । ये । सु॒ऽहस्ताः॑ । वृष्णः॑ । पत्नीः॑ । न॒द्यः॑ । वि॒भ्व॒ऽत॒ष्टाः ।

सर॑स्वती । बृ॒ह॒त्ऽदि॒वा । उ॒त । रा॒का । द॒श॒स्यन्तीः॑ । व॒रि॒व॒स्य॒न्तु॒ । शु॒भ्राः ॥१२

दमूनसः । अपसः । ये । सुऽहस्ताः । वृष्णः । पत्नीः । नद्यः । विभ्वऽतष्टाः ।

सरस्वती । बृहत्ऽदिवा । उत । राका । दशस्यन्तीः । वरिवस्यन्तु । शुभ्राः ॥ १२ ॥

अत्र लिङ्गोक्तदेवताः । “दमूनसः दानमनसो दान्तमनसो वा “अपसः चमसाश्वरथगवादिशोभनकर्मवन्तः ॥ मत्वर्थों लुप्यते ॥ अत एव “सुहस्ताः कुशलहस्ताः “ये सन्ति ते ऋभवः “वृष्णः वर्षकस्येन्द्रस्य “पत्नीः पत्न्यः पालयित्र्यः “नद्यः नदनशीला गङ्गाद्याः “विभ्वतष्टाः ऋभूणां मध्यमेन कृताः “सरस्वती एतन्नामिका नदी वाग्देवी वा “बृहद्दिवा प्रभूतदीप्तिः “उत अपि च "राका देवी च “दशस्यन्तीः दशस्यन्त्यः कामान् प्रयच्छन्त्यः "शुभ्राः दीप्ता: ताश्च “वरिवस्यन्तु अस्मभ्यं धनमिच्छन्तु ॥


प्र सू म॒हे सु॑शर॒णाय॑ मे॒धां गिरं॑ भरे॒ नव्य॑सीं॒ जाय॑मानाम् ।

य आ॑ह॒ना दु॑हि॒तुर्व॒क्षणा॑सु रू॒पा मि॑ना॒नो अकृ॑णोदि॒दं नः॑ ॥१३

प्र । सु । म॒हे । सु॒ऽश॒र॒णाय॑ । मे॒धाम् । गिर॑म् । भ॒रे॒ । नव्य॑सीम् । जाय॑मानाम् ।

यः । आ॒ह॒नाः । दु॒हि॒तुः । व॒क्षणा॑सु । रू॒पा । मि॒ना॒नः । अकृ॑णोत् । इ॒दम् । नः॒ ॥१३

प्र । सु । महे । सुऽशरणार्य । मेधाम् । गिरम् । भरे । नव्य॑सीम् । जायमानाम् ।

यः । आहनाः । दुहितुः । वक्षणासु । रूपा । मिनानः । अकृणोत् । इदम् । नः ॥ १३ ॥

"सु सुष्ठु “प्र “भरे प्रकर्षेण संपादयामि “महे महते "सुशरणाय शोभनरक्षकायेन्द्राय पर्जन्याय वा सुसुखाय वा । किम् । “मेधां मतौ धीयमानां “गिरं स्तुतिम् । कीदृशीम् । "नव्यसीं नवतरामतिशयेन स्तुत्यां वा “जायमानाम् इदानीमुत्पद्यमानाम् । नूतनामित्यर्थः। "यः इन्द्रः पर्जन्यो वा "आहनाः आहन्ता सेक्ता “दुहितुः दुहितृस्थानीयायाः पृथिव्या हिताय “वक्षणासु नदीषु “रूपा रूपाणि “मिनान: कुर्वाणः “इदम् उदकं “नः अस्मभ्यम् "अकृणोत् करोतु ॥


प्र सु॑ष्टु॒तिः स्त॒नय॑न्तं रु॒वन्त॑मि॒ळस्पतिं॑ जरितर्नू॒नम॑श्याः ।

यो अ॑ब्दि॒माँ उ॑दनि॒माँ इय॑र्ति॒ प्र वि॒द्युता॒ रोद॑सी उ॒क्षमा॑णः ॥१४

प्र । सु॒ऽस्तु॒तिः । स्त॒नय॑न्तम् । रु॒वन्त॑म् । इ॒ळः । पति॑म् । ज॒रि॒तः॒ । नू॒नम् । अ॒श्याः॒ ।

यः । अ॒ब्दि॒ऽमान् । उ॒द॒नि॒ऽमान् । इय॑र्ति । प्र । वि॒ऽद्युता॑ । रोद॑सी॒ इति॑ । उ॒क्षमा॑णः ॥१४

प्र । सुऽस्तुतिः । स्तनयन्तम् । रुवन्तम् । इळः । पतिम् । जरितः । नूनम् । अश्याः ।

यः । अब्दिऽमान् । उदनिऽमान् । इयर्ति । प्र । विऽद्युता । रोदसी इति । उक्षमाणः ॥१४॥

अत्र पर्जन्यः स्तूयते । "सुष्टुतिः शोभना स्तुतिः “स्तनयन्तं गर्जन्तं "रुवन्तं वर्षणजनितं शब्दं कुर्वाणम् “इळः अन्नस्योदकस्य वा “पतिं स्वामिनं हे "जरितः स्तोतस्त्वदीया स्तुतिः "नूनं “प्र “अश्याः प्रकर्षेण व्याप्नोतु । “यः च पर्जन्यः “अब्दिमान् । अब्दिः अपां दानवान् मेघः । तद्वान् । “उदनिमान् उदकवान् “विद्युता तडिता “रोदसी द्यावापृथिव्यौ “उक्षमाणः सिञ्चन् "प्र “इयर्ति गच्छति ॥


ए॒ष स्तोमो॒ मारु॑तं॒ शर्धो॒ अच्छा॑ रु॒द्रस्य॑ सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः ।

कामो॑ रा॒ये ह॑वते मा स्व॒स्त्युप॑ स्तुहि॒ पृष॑दश्वाँ अ॒यासः॑ ॥१५

ए॒षः । स्तोमः॑ । मारु॑तम् । शर्धः॑ । अच्छ॑ । रु॒द्रस्य॑ । सू॒नून् । यु॒व॒न्यून् । उत् । अ॒श्याः॒ ।

कामः॑ । रा॒ये । ह॒व॒ते॒ । मा॒ । स्व॒स्ति । उप॑ । स्तु॒हि॒ । पृष॑त्ऽअश्वान् । अ॒यासः॑ ॥१५

एषः । स्तोमः । मारुतम् । शर्धः । अच्छ । रुद्रस्य । सूनून् । युवन्यून् । उत्। अश्याः ।

कामः । राये । हवते । मा । स्वस्ति । उप । स्तुहि । पृषत्ऽअश्वान् । अयासः ॥ १५ ॥

“एषः मया संपादितः “स्तोमः स्तोत्रं “मारुतं “शर्धः मरुतां बलम् "अच्छ अभिमुखम् "अश्याः प्राप्नोतु । समुदायरूपेण स्तुत्वा समुदायिरूपेणाह। "रुद्रस्य “सूनून् । एषां रुद्रेण पुत्रत्वेन परिक्लृप्तिरसकृदुक्ता। "युवन्यून यूनो मिश्रणेच्छून्वा "उत् उन्नतमत्यधिकम् अश्याः व्याप्नुहि हे मनः । “कामः संकल्पः "राये धनार्थं “मा मां स्वस्ति अविनश्वरं हवते आह्वयनि प्रेरयतीत्यर्थ:। यस्मादेवं तस्मात् पृषदश्वान् पृषद्वर्णाश्वोपेतान् “अयासः यज्ञगन्तॄन् “उप उपेत्य स्तुहि ॥


प्रैष स्तोमः॑ पृथि॒वीम॒न्तरि॑क्षं॒ वन॒स्पतीँ॒रोष॑धी रा॒ये अ॑श्याः ।

दे॒वोदे॑वः सु॒हवो॑ भूतु॒ मह्यं॒ मा नो॑ मा॒ता पृ॑थि॒वी दु॑र्म॒तौ धा॑त् ॥१६

प्र । ए॒षः । स्तोमः॑ । पृ॒थि॒वीम् । अ॒न्तरि॑क्षम् । वन॒स्पती॑न् । ओष॑धीः । रा॒ये । अ॒श्याः॒ ।

दे॒वःऽदे॑वः । सु॒ऽहवः॑ । भू॒तु॒ । मह्य॑म् । मा । नः॒ । मा॒ता । पृ॒थि॒वी । दुः॒ऽम॒तौ । धा॒त् ॥१६

प्र । एषः । स्तोमः । पृथिवीम् । अन्तरिक्षम् । वनस्पतीन् । ओषधीः । राये । अश्याः ।।

देवःऽदेवः । सुऽहवः । भूतु । मह्यम् । मा । नः । माता । पृथिवी । दुःऽमतौ । धात् ॥१६॥

“एष “स्तोमः स्तुतिः पृथिव्यादिदेवताः “प्र “अश्याः प्राप्नोतु । किमर्थम् । “राये धनार्थम् । "देवोदेवः सर्वोऽपि देवः "मह्यं मदर्थं "सुहवो “भूतु स्वाह्वानो भवतु । "नः अस्मान् “दुर्मतौ “माता सर्वस्य निर्मात्री । यद्वा । अत्रेर्भौमत्वाद्विशेषेण माता । तादृशी “पृथिवी “मा “धात् मा स्थापयतु ॥


उ॒रौ दे॑वा अनिबा॒धे स्या॑म ॥१७

उ॒रौ । दे॒वाः॒ । अ॒नि॒ऽबा॒धे । स्या॒म॒ ॥१७

उरौ । देवाः । अनिऽबाधे। स्याम ॥ १७ ॥

हे “देवाः युष्माकं संबन्धिनि “उरौ महति “अनिबाधे नितरां बाधरहिते सुखे “स्याम भवेम वयमत्रयः ॥


सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।

आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि ॥१८

सम् । अ॒श्विनोः॑ । अव॑सा । नूत॑नेन । म॒यः॒ऽभुवा॑ । सु॒ऽप्रनी॑ती । ग॒मे॒म॒ ।

आ । नः॒ । र॒यिम् । व॒ह॒त॒म् । आ । उ॒त । वी॒रान् । आ । विश्वा॑नि । अ॒मृ॒ता॒ । सौभ॑गानि ॥१८

सम् । अश्विनोः । अवसा । नूतनेन । मयःऽभुवा । सुऽप्रनीती । गमेम ।

आ । नः । रयिम् । वहतम् । आ । उत । वीरान् । आ । विश्वानि । अमृता । सौभगानि ॥ १८ ॥

वयम् “अश्विनोः "नूतनेन पूर्वमन्यैरननुभूतेन “मयोभुवा सुखस्य भावयित्रा “सुप्रणीती शोभनप्रणयनवता "अवसा रक्षणेन "सं “गमेम संगच्छेमहि । हे “अमृता अमरणावश्विनौ “नः अस्मभ्यं “रयिं धनम् “आ “वहतं प्रापयतम् । “ओत “वीरान् सुवीर्यवतः पुत्रानपि “आ वहतम् । “विश्वानि सौभगान्यपि “आ वहतम् ॥ ॥ १९ ॥


टिप्पणी

दशरात्रे पञ्चममहः - ... प्र शंतमेति वा वैश्वदेवे विकारः - शांश्रौ 10. 6. 18.


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.४२&oldid=403758" इत्यस्माद् प्रतिप्राप्तम्