ऋग्वेदः सूक्तं ५.५३
← सूक्तं ५.५२ | ऋग्वेदः - मण्डल ५ सूक्तं ५.५३ श्यावाश्व आत्रेयः। |
सूक्तं ५.५४ → |
दे. मरुतः। १, ५, १०-११, १५ ककुप्, २ बृहती, ३ अनुष्टुप्, ४ पुरउष्णिक्, ६-७, ९, १३-१४, १६ सतोबृहती, ८, १२ गायत्री । |
को वेद जानमेषां को वा पुरा सुम्नेष्वास मरुताम् ।
यद्युयुज्रे किलास्यः ॥१॥
ऐतान्रथेषु तस्थुषः कः शुश्राव कथा ययुः ।
कस्मै सस्रुः सुदासे अन्वापय इळाभिर्वृष्टयः सह ॥२॥
ते म आहुर्य आययुरुप द्युभिर्विभिर्मदे ।
नरो मर्या अरेपस इमान्पश्यन्निति ष्टुहि ॥३॥
ये अञ्जिषु ये वाशीषु स्वभानवः स्रक्षु रुक्मेषु खादिषु ।
श्राया रथेषु धन्वसु ॥४॥
युष्माकं स्मा रथाँ अनु मुदे दधे मरुतो जीरदानवः ।
वृष्टी द्यावो यतीरिव ॥५॥
आ यं नरः सुदानवो ददाशुषे दिवः कोशमचुच्यवुः ।
वि पर्जन्यं सृजन्ति रोदसी अनु धन्वना यन्ति वृष्टयः ॥६॥
ततृदानाः सिन्धवः क्षोदसा रजः प्र सस्रुर्धेनवो यथा ।
स्यन्ना अश्वा इवाध्वनो विमोचने वि यद्वर्तन्त एन्यः ॥७॥
आ यात मरुतो दिव आन्तरिक्षादमादुत ।
माव स्थात परावतः ॥८॥
मा वो रसानितभा कुभा क्रुमुर्मा वः सिन्धुर्नि रीरमत् ।
मा वः परि ष्ठात्सरयुः पुरीषिण्यस्मे इत्सुम्नमस्तु वः ॥९॥
तं वः शर्धं रथानां त्वेषं गणं मारुतं नव्यसीनाम् ।
अनु प्र यन्ति वृष्टयः ॥१०॥
शर्धंशर्धं व एषां व्रातंव्रातं गणंगणं सुशस्तिभिः ।
अनु क्रामेम धीतिभिः ॥११॥
कस्मा अद्य सुजाताय रातहव्याय प्र ययुः ।
एना यामेन मरुतः ॥१२॥
येन तोकाय तनयाय धान्यं बीजं वहध्वे अक्षितम् ।
अस्मभ्यं तद्धत्तन यद्व ईमहे राधो विश्वायु सौभगम् ॥१३॥
अतीयाम निदस्तिरः स्वस्तिभिर्हित्वावद्यमरातीः ।
वृष्ट्वी शं योराप उस्रि भेषजं स्याम मरुतः सह ॥१४॥
सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः ।
यं त्रायध्वे स्याम ते ॥१५॥
स्तुहि भोजान्स्तुवतो अस्य यामनि रणन्गावो न यवसे ।
यतः पूर्वाँ इव सखीँरनु ह्वय गिरा गृणीहि कामिनः ॥१६॥
सायणभाष्यम्
' को वेद जानम् ' इति षोडशर्चं नवमं सूक्तम् । श्यावाश्व ऋषिः । आद्यापञ्चमीदशम्येकाशीपञ्चदश्यः ककुभः षष्ठीसप्तमीनवमीत्रयोदशीचतुर्दशीषोडश्यः सतोबृहत्योऽष्टमी द्वादशी च गायत्र्यौ द्वितीया बृहती तृतीयानुष्टुप् चतुर्थी पुरउष्णिक् । मरुतो देवता । तथा चानुक्रान्तं - ' को वेद षोळश ककुब्बृहत्यनुष्टुप् पुरउष्णिक् ककुप्सतोबृहत्यौ गायत्री सतोबृहती ककुभौ गायत्री सतोबृहत्यौ ककुप्सतोबृहती ' इति । विनियोगो लैङ्गिकः ॥
को वे॑द॒ जान॑मेषां॒ को वा॑ पु॒रा सु॒म्नेष्वा॑स म॒रुता॑म् ।
यद्यु॑यु॒ज्रे कि॑ला॒स्य॑ः ॥१
कः । वे॒द॒ । जान॑म् । ए॒षा॒म् । कः । वा॒ । पु॒रा । सु॒म्नेषु॑ । आ॒स॒ । म॒रुता॑म् ।
यत् । यु॒यु॒ज्रे । कि॒ला॒स्यः॑ ॥१
कः । वेद । जानम् । एषाम् । कः । वा । पुरा । सुम्नेषु । आस । मरुताम् ।
यत् । युयुज्रे । किलास्यः ॥१
“एषाम् ॥ मरुतां पूर्वसूक्ते प्रस्तुतत्वादत्रान्वादेशविषयत्वादेषामित्यस्य निघातता ॥ "जानम् उत्पत्तिं को "वेद जानाति कः पुमान् । "को "वा “पुरा पूर्वमप्येषां “मरुतां “सुम्नेषु सुखेषु "आस भवति । “यत् यदा एते किलास्यः किलासीः । पृषतीः इत्यर्थः । ताः “युयुज्रे रथे योजितवन्तः तदैषां स्थितिं बललक्षणानि सुखानि च को जानातीत्यर्थः । वेगविषये सर्वत्र वायोरुपमास्पदत्वादिति भावः ॥
ऐतान्रथे॑षु त॒स्थुष॒ः कः शु॑श्राव क॒था य॑युः ।
कस्मै॑ सस्रुः सु॒दासे॒ अन्वा॒पय॒ इळा॑भिर्वृ॒ष्टय॑ः स॒ह ॥२
आ । ए॒तान् । रथे॑षु । त॒स्थुषः॑ । कः । शु॒श्रा॒व॒ । क॒था । य॒युः॒ ।
कस्मै॑ । स॒स्रुः॒ । सु॒ऽदासे॑ । अनु॑ । आ॒पयः॑ । इळा॑भिः । वृ॒ष्टयः॑ । स॒ह ॥२
आ । एतान् । रथेषु । तस्थुषः । कः । शुश्राव । कथा । ययुः ।
कस्मै । सस्रुः । सुऽदासे । अनु । आपयः । इळाभिः । वृष्टयः । सह ॥२
“एतान् मरुतः “रथेषु “तस्थुषः स्थितवतः “कः “आ “शुश्राव श्रावयेदित्यर्थः । यद्वा । एतेषां क्रोशध्वनिं रथध्वनिं च कः शृणुयात् । “कथा कथं “ययुः गच्छन्ति तदपि को जानाति । यद्वा । तान् कथमन्ये देवादयोऽनुगच्छेयुः । “कस्मै “सुदासे सुदानाय "आपयः बन्धुभूता व्याप्ताः “वृष्टयः वर्षकाः । अयं कर्तरि क्तिच् ॥ “इळाभिः बहुविधैरन्नैः “सह सहिताः “अनु “सस्रुः अनुक्रमेण अवतरेयुः ॥
ते म॑ आहु॒र्य आ॑य॒युरुप॒ द्युभि॒र्विभि॒र्मदे॑ ।
नरो॒ मर्या॑ अरे॒पस॑ इ॒मान्पश्य॒न्निति॑ ष्टुहि ॥३
ते । मे॒ । आ॒हुः॒ । ये । आ॒ऽय॒युः । उप॑ । द्युऽभिः॑ । विऽभिः॑ । मदे॑ ।
नरः॑ । मर्याः॑ । अ॒रे॒पसः॑ । इ॒मान् । पश्य॑न् । इति॑ । स्तु॒हि॒ ॥३
ते । मे । आहुः । ये । आऽययुः । उप । द्युऽभिः । विऽभिः । मदे ।
नरः । मर्याः । अरेपसः । इमान् । पश्यन् । इति । स्तुहि ॥३
ऋषिर्ऋग्द्वयाभ्यां मरुत्प्रादुर्भावमाख्यास्यन् अनया प्रादुर्भूतान् पश्यन्नाह । “ते मरुतः इत्थं लपते “मे मह्यम् “आहुः “ये “उप “आययुः ये मरुतो मां प्राप्ताः । कैः साधनैः। “द्युभिः द्योतमानैः “विभिः गन्तृभिरश्वैः । किमर्थम् । “मदे मदाय सोमपानजनिताय । किमाहुरिति तदनुब्रूते । “नरः नेतारः “मर्याः मनुष्येभ्यो हिताः “अरेपसः अलेपास्ते । हे ऋषे “इमान् अस्मान् “पश्यन् तथा स्थितान् चक्षुषावलोकयन् “स्तुहि "इति आहुः । यद्वा । इति इत्थं पश्यन् स्तुहीति ॥
ये अ॒ञ्जिषु॒ ये वाशी॑षु॒ स्वभा॑नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑ ।
श्रा॒या रथे॑षु॒ धन्व॑सु ॥४
ये । अ॒ञ्जिषु॑ । ये । वाशी॑षु । स्वऽभा॑नवः । स्र॒क्षु । रु॒क्मेषु॑ । खा॒दिषु॑ ।
श्रा॒याः । रथे॑षु । धन्व॑ऽसु ॥४
ये । अञ्जिषु । ये । वाशीषु । स्वऽभानवः । स्रक्षु । रुक्मेषु । खादिषु ।
श्रायाः । रथेषु । धन्वऽसु ॥४
अनया मरुतां स्वरूपं निरूपयति । हे मरुतो युष्माकं “ये प्रसिद्धाः “स्वभानवः स्वदीप्तयः “अञ्जिषु आभरणेषु “श्रायाः आश्रयभूताः सन्ति । “ये च "वाशीषु आयुधेषु । ये च “स्रक्षु माल्येषु । ये “रुक्मेषु उरोभूषणेषु । ये च “खादिषु हस्तपादस्थितकटकेषु । हस्तेषु खादिश्च कृतिश्च (ऋ. सं. १, १६८. ३ ), ' पत्सु खादयः' ( ऋ. सं. ५. ५४. ११) इति हि श्रुती भवतः । “रथेषु “धन्वसु च ये च स्वभानवः श्रायाः सन्ति । ‘ सुधन्वान इषुमन्तः ', ' सुरथाः पृश्चिमातरः ' ( ऋ. सं. ५. ५७. २ ) इति च निगमः । तान् सर्वान् स्तुम इति शेषः । यद्वा । ये स्वभानवः स्वायत्तदीप्तयो मरुतोऽञ्जिष्वाभरणेषु निमित्तेषु श्राया आश्रया भविष्यामः । ये च वाशीषु निमित्तेषु । एवं सर्वत्र योज्यम् । तादृग्विधानिमान्पश्यन् स्तुहीति पूर्वत्र संबन्धः । तेषामेव इदं वाक्यम् ॥
यु॒ष्माकं॑ स्मा॒ रथाँ॒ अनु॑ मु॒दे द॑धे मरुतो जीरदानवः ।
वृ॒ष्टी द्यावो॑ य॒तीरि॑व ॥५
यु॒ष्माक॑म् । स्म॒ । रथा॑न् । अनु॑ । मु॒दे । द॒धे॒ । म॒रु॒तः॒ । जी॒र॒ऽदा॒न॒वः॒ ।
वृ॒ष्टी । द्यावः॑ । य॒तीःऽइ॑व ॥५
युष्माकम् । स्म । रथान् । अनु । मुदे । दधे । मरुतः । जीरऽदानवः ।
वृष्टी । द्यावः । यतीःऽइव ॥५
हे “जीरदानवः शीघ्रदाना हे "मरुतः "युष्माकं “रथान् “अनु उद्दिश्य "मुदे मोदाय "दधे धारयामि करोमीत्यर्थः । सामर्थ्यात् स्तुतीरिति लक्ष्यते । स्म' इति पूरण:। “वृष्टी वृष्ट्या “यतीः सर्वत्र गच्छन्तीः “द्यावः दीप्तीरिव दृश्यमानान् रथानिति संबन्धः ॥ ॥ ११ ॥
कारीर्यां तिस्रः पिण्ड्यो होतव्याः । तत्र द्वितीयायाः ‘आ यं नरः' इत्यनुवाक्या । सूत्रितं च - आ यं नरः सुदानवो ददाशुषे विद्युन्महसो नरो अश्मदिद्यवः' ( आश्व. श्रौ. २. १३ ) इति ॥
आ यं नर॑ः सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः ।
वि प॒र्जन्यं॑ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति वृ॒ष्टय॑ः ॥६
आ । यम् । नरः॑ । सु॒ऽदान॑वः । द॒दा॒शुषे॑ । दि॒वः । कोश॑म् । अचु॑च्यवुः ।
वि । प॒र्जन्य॑म् । सृ॒ज॒न्ति॒ । रोद॑सी॒ इति॑ । अनु॑ । धन्व॑ना । य॒न्ति॒ । वृ॒ष्टयः॑ ॥६
आ । यम् । नरः । सुऽदानवः । ददाशुषे । दिवः । कोशम् । अचुच्यवुः ।
वि । पर्जन्यम् । सृजन्ति । रोदसी इति । अनु । धन्वना । यन्ति । वृष्टयः ॥६
“नरः नेतारः “सुदानवः शोभनदाना मरुतः "यं “कोशम् । मेघनामैतत् । अपां कोशवद्धारकं मेघं “ददाशुषे हविर्दत्तवते यजमानाय “दिवः अन्तरिक्षात् “आ अचुच्यवुः आच्यावयन्ति “पर्जन्यं मेघं “रोदसी “अनु द्यावापृथिव्यावनुसृत्य “वि “सृजन्ति विमोक्षयन्ति । पश्चात् “धन्वना सर्वत्र गच्छतोदकेन सह “वृष्टयः वृष्टिप्रदा मरुतः “यन्ति सर्वत्र व्याप्नुवन्ति ॥
त॒तृ॒दा॒नाः सिन्ध॑व॒ः क्षोद॑सा॒ रज॒ः प्र स॑स्रुर्धे॒नवो॑ यथा ।
स्य॒न्ना अश्वा॑ इ॒वाध्व॑नो वि॒मोच॑ने॒ वि यद्वर्त॑न्त ए॒न्य॑ः ॥७
त॒तृ॒दा॒नाः । सिन्ध॑वः । क्षोद॑सा । रजः॑ । प्र । स॒स्रुः॒ । धे॒नवः॑ । य॒था॒ ।
स्य॒न्नाः । अश्वाः॑ऽइव । अध्व॑नः । वि॒ऽमोच॑ने । वि । यत् । वर्त॑न्ते । ए॒न्यः॑ ॥७
ततृदानाः । सिन्धवः । क्षोदसा । रजः । प्र । सस्रुः । धेनवः । यथा ।
स्यन्नाः । अश्वाःऽइव । अध्वनः । विऽमोचने । वि । यत् । वर्तन्ते । एन्यः ॥७
“सिन्धवः स्यन्दमाना अपः “ततृदानाः निर्भिन्दन्तः मेघान् मरुतः “क्षोदसा उदकेन सह “रजः अन्तरिक्षं “प्र “सस्रुः प्रसरन्ति । “धेनवो “यथा पयः सिञ्चन्त्यो नवप्रसूताः गाव इव । किंच दृष्टान्तान्तरम् । “स्यन्नाः आशुगतयः “अश्वाइव अश्वाः यथा “अध्वनः “विमोचने मनुष्याणामध्वविमोकाय संचरन्ति तथेत्यर्थः । “यत् यदा “एन्यः । नदीनामैतत् । नद्यः “वि “वर्तन्ते विविधं संचरन्ति । अथवा प्रतिनिवृत्य वर्तन्ते । प्रवर्धन्त इत्यर्थः । तदैवं कुर्वन्तीति पूर्वत्रान्वयः ॥
आ या॑त मरुतो दि॒व आन्तरि॑क्षाद॒मादु॒त ।
माव॑ स्थात परा॒वत॑ः ॥८
आ । या॒त॒ । म॒रु॒तः॒ । दि॒वः । आ । अ॒न्तरि॑क्षात् । अ॒मात् । उ॒त ।
मा । अव॑ । स्था॒त॒ । प॒रा॒ऽवतः॑ ॥८
आ । यात । मरुतः । दिवः । आ । अन्तरिक्षात् । अमात् । उत ।
मा । अव । स्थात । पराऽवतः ॥८
हे "मरुतः “परावतः अत्यन्तदूरदेशात् “दिवः द्युलोकात् “आ “यात । तथा “अन्तरिक्षात् “आ यात । "उत अपि च "अमात् अस्माल्लोकादा यात । परावत इत्यत्रापि वा योज्यम् । परावतो दूरदेशे तत्र तत्र द्युलोकादौ "माव “स्थात अवस्थितिं मा कुरुत ॥
मा वो॑ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा व॒ः सिन्धु॒र्नि री॑रमत् ।
मा व॒ः परि॑ ष्ठात्स॒रयु॑ः पुरी॒षिण्य॒स्मे इत्सु॒म्नम॑स्तु वः ॥९
मा । वः॒ । र॒सा । अनि॑तभा । कुभा॑ । क्रुमुः॑ । मा । वः॒ । सिन्धुः॑ । नि । री॒र॒म॒त् ।
मा । वः॒ । परि॑ । स्था॒त् । स॒रयुः॑ । पु॒री॒षिणी॑ । अ॒स्मे इति॑ । इत् । सु॒म्नम् । अ॒स्तु॒ । वः॒ ॥९
मा । वः । रसा । अनितभा । कुभा । क्रुमुः । मा । वः । सिन्धुः । नि । रीरमत् ।
मा । वः । परि । स्थात् । सरयुः । पुरीषिणी । अस्मे इति । इत् । सुम्नम् । अस्तु । वः ॥९
हे मरुतः “वः युष्मान् “रसा । नदीनामैतत् । रसा नदी भवति ' ( निरु. ११. २५) इति निरुक्तम् । रसनवती शब्दवती । “अनितभा । इता प्राप्ता भा यस्याः सा इतभा । न तादृश्यनितभा । “कुभा कुत्सितदीप्तिश्च “मा “नि “रीरमत् मा निकृष्टं रमतु । “क्रुमुः सर्वत्रक्रमणः “सिन्धुः समुद्रश्च “मा नि रीरमत् । तथा “पुरीषिणी । पुरीषमुदकम् । तद्वती “सरयुः अपि “मा “परि “ष्ठात् परितस्तिष्ठतु मा निरुणद्धु । “अस्मे “इत् अस्मास्वेव "अस्तु “सुम्नं त्वदागमनजनितं सुखं “वः युष्माकं संबन्धि युष्मत्स्वभूतम् ।
तं व॒ः शर्धं॒ रथा॑नां त्वे॒षं ग॒णं मारु॑तं॒ नव्य॑सीनाम् ।
अनु॒ प्र य॑न्ति वृ॒ष्टय॑ः ॥१०
तम् । वः॒ । शर्ध॑म् । रथा॑नाम् । त्वे॒षम् । ग॒णम् । मारु॑तम् । नव्य॑सीनाम् ।
अनु॑ । प्र । य॒न्ति॒ । वृ॒ष्टयः॑ ॥१०
तम् । वः । शर्धम् । रथानाम् । त्वेषम् । गणम् । मारुतम् । नव्यसीनाम् ।
अनु । प्र । यन्ति । वृष्टयः ॥१०
“तं मारुतमित्यनेन संबध्यते । “वः युष्माकं प्रेरकं “नव्यसीनां नूतनानां “रथानां “शर्धं बलं “त्वेषं दीप्तं तं “मारुतं “गणं च स्तौमीत्यर्थः । यद्वा । रथानां रंहणशीलानां वो युष्माकं शर्धं परेषामभिभावुकं गणं स्तौमीत्येकमेव वाक्यम् । अथ परोक्षकृतः । “वृष्टयः युष्मान् “अनु “प्र “यन्ति प्रकर्षेण गच्छन्ति । यद्वा । वर्षका मरुतोऽनु अनुकूलं प्रकृष्टं यन्ति गच्छन्ति ॥ ॥ १२ ॥
शर्धं॑शर्धं व एषां॒ व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑ः ।
अनु॑ क्रामेम धी॒तिभि॑ः ॥११
शर्ध॑म्ऽशर्धम् । वः॒ । ए॒षा॒म् । व्रात॑म्ऽव्रातम् । ग॒णम्ऽग॑णम् । सु॒श॒स्तिऽभिः॑ ।
अनु॑ । क्रा॒मे॒म॒ । धी॒तिऽभिः॑ ॥११
शर्धम्ऽशर्धम् । वः । एषाम् । व्रातम्ऽव्रातम् । गणम्ऽगणम् । सुशस्तिऽभिः ।
अनु । क्रामेम । धीतिऽभिः ॥११
हे मरुतः “एषां “वः युष्माकं “शर्धशर्[१]धं तत्तद्बलं व्रातंव्रातम् । अविवक्षितगणः व्रातः । तं तं व्रातं वः “गणंगणं[२] तं तं सप्तसप्तसमुदायात्मकं गणंगणं च "सुशस्तिभिः शोभनस्तुतिभिः “धीतिभिः कर्मभिर्हविष्प्रदानादिलक्षणैः “अनु क्रामेम अनुगच्छेम ॥
कस्मा॑ अ॒द्य सुजा॑ताय रा॒तह॑व्याय॒ प्र य॑युः ।
ए॒ना यामे॑न म॒रुत॑ः ॥१२
कस्मै॑ । अ॒द्य । सुऽजा॑ताय । रा॒तऽह॑व्याय । प्र । य॒युः॒ ।
ए॒ना । यामे॑न । म॒रुतः॑ ॥१२
कस्मै । अद्य । सुऽजाताय । रातऽहव्याय । प्र । ययुः ।
एना । यामेन । मरुतः ॥१२
“अद्य अस्मिन् दिने "कस्मै “सुजाताय "रातहव्याय दत्तहविष्काय “प्र "ययुः प्रकर्षेण गच्छेयुः “एना अनेन “यामेन रथेन “मरुतः ॥
येन॑ तो॒काय॒ तन॑याय धा॒न्यं१॒॑ बीजं॒ वह॑ध्वे॒ अक्षि॑तम् ।
अ॒स्मभ्यं॒ तद्ध॑त्तन॒ यद्व॒ ईम॑हे॒ राधो॑ वि॒श्वायु॒ सौभ॑गम् ॥१३
येन॑ । तो॒काय॑ । तन॑याय । धा॒न्य॑म् । बीज॑म् । वह॑ध्वे । अक्षि॑तम् ।
अ॒स्मभ्य॑म् । तत् । ध॒त्त॒न॒ । यत् । वः॒ । ईम॑हे । राधः॑ । वि॒श्वऽआ॑यु । सौभ॑गम् ॥१३
येन । तोकाय । तनयाय । धान्यम् । बीजम् । वहध्वे । अक्षितम् ।
अस्मभ्यम् । तत् । धत्तन । यत् । वः । ईमहे । राधः । विश्वऽआयु । सौभगम् ॥१३
हे मरुतः “येन सदयेन मनसा “तोकाय पुत्राय “तनयाय तहपुत्राय धनाय वा “धान्यं “बीजम् “अक्षितम् अक्षीणं “वहध्वे धारयध्वे तेन चित्तेन “अस्मभ्यं “तत् धान्यं बीजं “धत्तन । “यत् च “वः युष्मान् “ईमहे याचामहे “राधः धनं “विश्वायु सर्वान्नोपेतं कृत्स्नायुष्योपेतं वा "सौभगं सौभाग्यं च तद्धत्तनेति समन्वयः ॥
अती॑याम नि॒दस्ति॒रः स्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा॑तीः ।
वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे॑ष॒जं स्याम॑ मरुतः स॒ह ॥१४
अति॑ । इ॒या॒म॒ । नि॒दः । ति॒रः । स्व॒स्तिऽभिः॑ । हि॒त्वा । अ॒व॒द्यम् । अरा॑तीः ।
वृ॒ष्ट्वी । सम् । योः । आपः॑ । उ॒स्रि । भे॒ष॒जम् । स्याम॑ । म॒रु॒तः॒ । स॒ह ॥१४
अति । इयाम । निदः । तिरः । स्वस्तिऽभिः । हित्वा । अवद्यम् । अरातीः ।
वृष्ट्वी । सम् । योः । आपः । उस्रि । भेषजम् । स्याम । मरुतः । सह ॥१४
हे मरुतो वयं “स्वस्तिभिः क्षेमैः "अवद्यं पापं “हित्वा परित्यज्य “निदः निन्दकान् “अरातीः शत्रून् “तिरः प्राप्तान् । यद्वा तिरः अन्तर्हितम् । “अतीयाम अतिक्रम्य गच्छेम तिरस्कुर्म इत्यर्थः । अनेनानिष्टपरिहारः प्रार्थित उत्तरेणेष्टप्राप्तिरुच्यते । "वृष्ट्वी वृष्टिषु युष्मत्प्रेरितासु सतीषु “शं सुखं "योः पापानां यावनं च "आपः उदकानि ॥ शसः स्थाने जस् ॥ “उस्रि गोयुक्तं "भेषजम् । यद्यप्येतदुदकनाम तथापि पृथगपामभिधानादत्र तद्धेतुकार्यमन्नमुच्यते । तत् सर्वं “सह "स्याम लभेमहि हे "मरुतः वयम् । यद्वा । आपो युष्मत्प्रेरिता उक्तं सर्वं कुर्वन्तु । वयं सर्वे सहैव स्याम भवेम युष्मत्स्वभूताः ॥
सु॒दे॒वः स॑महासति सु॒वीरो॑ नरो मरुत॒ः स मर्त्य॑ः ।
यं त्राय॑ध्वे॒ स्याम॒ ते ॥१५
सु॒ऽदे॒वः । स॒म॒ह॒ । अ॒स॒ति॒ । सु॒ऽवीरः॑ । न॒रः॒ । म॒रु॒तः॒ । सः । मर्त्यः॑ ।
यम् । त्राय॑ध्वे । स्याम॑ । ते ॥१५
सुऽदेवः । समह । असति । सुऽवीरः । नरः । मरुतः । सः । मर्त्यः ।
यम् । त्रायध्वे । स्याम । ते ॥१५
हे "समह । प्रशस्तवचनः समहशब्दः । हे पूजित मरुतां गण “सः “मर्त्यः च “सुदेवः कल्याणमरुत्संज्ञकदेवोपेतः "असति भवति । हे “नरः नेतारो हे “मरुतः सः “सुवीरः शोभनपुत्राद्युपेतश्च असति भवति । “यं मर्त्यं “त्रायध्वे पालयध्वे । एवं भवति “ते वयं “स्याम युष्मदीयाः ।।
स्तु॒हि भो॒जान्स्तु॑व॒तो अ॑स्य॒ याम॑नि॒ रण॒न्गावो॒ न यव॑से ।
य॒तः पूर्वाँ॑ इव॒ सखीँ॒रनु॑ ह्वय गि॒रा गृ॑णीहि का॒मिन॑ः ॥१६
स्तु॒हि । भो॒जान् । स्तु॒व॒तः । अ॒स्य॒ । याम॑नि । रण॑म् । गावः॑ । न । यव॑से ।
य॒तः । पूर्वा॑न्ऽइव । सखी॑न् । अनु॑ । ह्व॒य॒ । गि॒रा । गृ॒णी॒हि॒ । का॒मिनः॑ ॥१६
स्तुहि । भोजान् । स्तुवतः । अस्य । यामनि । रणम् । गावः । न । यवसे ।
यतः । पूर्वान्ऽइव । सखीन् । अनु । ह्वय । गिरा । गृणीहि । कामिनः ॥१६
हे ऋषे “स्तुवतः स्तुतिं कुर्वतः “अस्य यजमानस्य “यामनि यज्ञे “भोजान् दातॄन् मरुतः “स्तुहि । “गावो न “यवसे । तृणादिभक्षणाय गच्छन्त्यः गावो यथा रमन्ते तद्वन्मरुतोऽपि “रणन् रमन्ताम् । “यतः गच्छतो मरुतः “पूर्वान् पुरातनान् “सखीन् “इव “अनु "ह्वय आह्वय । “कामिनः स्तुतीच्छावतो मरुतः “गिरा स्तुत्या “गृणीहि स्तुहि ॥ ॥ १३ ॥
टिप्पणी
५.५३.९ मा वो रसान् इति
मण्डल ५ | ||||
---|---|---|---|---|