ऋग्वेदः सूक्तं ८.१९

(ऋग्वेद: सूक्तं ८.१९ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ८.१८ ऋग्वेदः - मण्डल ८
सूक्तं ८.१९
सोभरिः काण्वः।
सूक्तं ८.२० →
दे. अग्निः, ३४-३५ आदित्याः, ३६-३७ त्रसदस्युः पौरुकुत्स्यः। १-२६ प्रगाथः - विषमा ककुप्, समा सतोबृहती, २७ द्विपदा विराट्, २८-३३ प्रगाथः - समा ककुप्, विषमा सतोबृहती, ३4 उष्णिक्, ३५ सतोबृहती, ३६ ककप्, ३७ पङ्क्तिः ।


तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे ।
देवत्रा हव्यमोहिरे ॥१॥
विभूतरातिं विप्र चित्रशोचिषमग्निमीळिष्व यन्तुरम् ।
अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥२॥
यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् ।
अस्य यज्ञस्य सुक्रतुम् ॥३॥
ऊर्जो नपातं सुभगं सुदीदितिमग्निं श्रेष्ठशोचिषम् ।
स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥४॥
यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये ।
यो नमसा स्वध्वरः ॥५॥
तस्येदर्वन्तो रंहयन्त आशवस्तस्य द्युम्नितमं यशः ।
न तमंहो देवकृतं कुतश्चन न मर्त्यकृतं नशत् ॥६॥
स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जां पते ।
सुवीरस्त्वमस्मयुः ॥७॥
प्रशंसमानो अतिथिर्न मित्रियोऽग्नी रथो न वेद्यः ।
त्वे क्षेमासो अपि सन्ति साधवस्त्वं राजा रयीणाम् ॥८॥
सो अद्धा दाश्वध्वरोऽग्ने मर्तः सुभग स प्रशंस्यः ।
स धीभिरस्तु सनिता ॥९॥
यस्य त्वमूर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते ।
सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कृतम् ॥१०॥
यस्याग्निर्वपुर्गृहे स्तोमं चनो दधीत विश्ववार्यः ।
हव्या वा वेविषद्विषः ॥११॥
विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु ।
अवोदेवमुपरिमर्त्यं कृधि वसो विविदुषो वचः ॥१२॥
यो अग्निं हव्यदातिभिर्नमोभिर्वा सुदक्षमाविवासति ।
गिरा वाजिरशोचिषम् ॥१३॥
समिधा यो निशिती दाशददितिं धामभिरस्य मर्त्यः ।
विश्वेत्स धीभिः सुभगो जनाँ अति द्युम्नैरुद्न इव तारिषत् ॥१४॥
तदग्ने द्युम्नमा भर यत्सासहत्सदने कं चिदत्रिणम् ।
मन्युं जनस्य दूढ्यः ॥१५॥
येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः ।
वयं तत्ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि ॥१६॥
ते घेदग्ने स्वाध्यो ये त्वा विप्र निदधिरे नृचक्षसम् ।
विप्रासो देव सुक्रतुम् ॥१७॥
त इद्वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि ।
त इद्वाजेभिर्जिग्युर्महद्धनं ये त्वे कामं न्येरिरे ॥१८॥
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।
भद्रा उत प्रशस्तयः ॥१९॥
भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः ।
अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ॥२०॥
ईळे गिरा मनुर्हितं यं देवा दूतमरतिं न्येरिरे ।
यजिष्ठं हव्यवाहनम् ॥२१॥
तिग्मजम्भाय तरुणाय राजते प्रयो गायस्यग्नये ।
यः पिंशते सूनृताभिः सुवीर्यमग्निर्घृतेभिराहुतः ॥२२॥
यदी घृतेभिराहुतो वाशीमग्निर्भरत उच्चाव च ।
असुर इव निर्णिजम् ॥२३॥
यो हव्यान्यैरयता मनुर्हितो देव आसा सुगन्धिना ।
विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः ॥२४॥
यदग्ने मर्त्यस्त्वं स्यामहं मित्रमहो अमर्त्यः ।
सहसः सूनवाहुत ॥२५॥
न त्वा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य ।
न मे स्तोतामतीवा न दुर्हितः स्यादग्ने न पापया ॥२६॥
पितुर्न पुत्रः सुभृतो दुरोण आ देवाँ एतु प्र णो हविः ॥२७॥
तवाहमग्न ऊतिभिर्नेदिष्ठाभिः सचेय जोषमा वसो ।
सदा देवस्य मर्त्यः ॥२८॥
तव क्रत्वा सनेयं तव रातिभिरग्ने तव प्रशस्तिभिः ।
त्वामिदाहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे ॥२९॥
प्र सो अग्ने तवोतिभिः सुवीराभिस्तिरते वाजभर्मभिः ।
यस्य त्वं सख्यमावरः ॥३०॥
तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे ।
त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥३१॥
तमागन्म सोभरयः सहस्रमुष्कं स्वभिष्टिमवसे ।
सम्राजं त्रासदस्यवम् ॥३२॥
यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव ।
विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन् ॥३३॥
यमादित्यासो अद्रुहः पारं नयथ मर्त्यम् ।
मघोनां विश्वेषां सुदानवः ॥३४॥
यूयं राजानः कं चिच्चर्षणीसहः क्षयन्तं मानुषाँ अनु ।
वयं ते वो वरुण मित्रार्यमन्स्यामेदृतस्य रथ्यः ॥३५॥
अदान्मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर्वधूनाम् ।
मंहिष्ठो अर्यः सत्पतिः ॥३६॥
उत मे प्रयियोर्वयियोः सुवास्त्वा अधि तुग्वनि ।
तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद्वसुर्दियानां पतिः ॥३७॥


सायणभाष्यम्

‘तं गूर्धय' इति सप्तत्रिंशदृचं सप्तमं सूक्तं काण्वस्य सोभरेरार्षम् । प्रथमातृतीयाद्ययुजः ककुभो द्वितीयाचतुर्थ्यादियुजः सतोबृहत्यः । पितुर्न पुत्रः एषा सप्तविंशी द्विपदा विंशत्यक्षरा विराट् । ‘ यमादित्यासः' इत्येषा चतुस्त्रिंश्युष्णिक् । ‘यूयं राजानः ' एषा पञ्चत्रिंशी सतोबृहती । ‘ अदान्मे' इत्येषा ककुप् । 'उत मे' इत्येषा सप्तत्रिंशी पङ्क्तिः । षट्त्रिंशी सप्तत्रिंशी च त्रसदस्युनाम्नो राज्ञो दानस्तुतिरूपत्वात्तद्देवताके। चतुस्त्रिंशीपञ्चत्रिंश्यावादित्यदेवताके । शिष्टा आग्नेय्यः । तथा चानुक्रान्तं -- तं गूर्धय सप्तत्रिंशत् सोभरिराग्नेयं काकुभं प्रागाथं ह पितुर्न द्विपदान्त्ये ककुप्पङ्क्ती त्रसदस्योर्दानस्तुतिस्तत्पूर्वे उष्णिक्सतोबृहत्यावादित्येभ्यः' इति । गतः सूक्तविनियोगः ॥


तं गू॑र्धया॒ स्व॑र्णरं दे॒वासो॑ दे॒वम॑र॒तिं द॑धन्विरे ।

दे॒व॒त्रा ह॒व्यमोहि॑रे ॥१

तम् । गू॒र्ध॒य॒ । स्वः॑ऽनरम् । दे॒वासः॑ । दे॒वम् । अ॒र॒तिम् । द॒ध॒न्वि॒रे॒ ।

दे॒व॒ऽत्रा । ह॒व्यम् । आ । ऊ॒हि॒रे॒ ॥१

तम् । गूर्धय । स्वःऽनरम् । देवासः । देवम् । अरतिम् । दधन्विरे ।

देवऽत्रा । हव्यम् । आ । ऊहिरे ॥१

हे स्तोतः “तं प्रसिद्धमग्निं “गूर्धय स्तुहि । गूर्धयतिः स्तुतिकर्मा । कीदृशम् । “स्वर्णरं सर्वस्य नेतारं सर्वैर्यजमानैः कर्मादौ नीतं वा । अथवा स्वर्गं प्रति हविषां नेतारम् । “देवासः । दीव्यन्ति स्तुवन्तीति देवा ऋत्विजः । “देवं दानादिगुणयुक्तम् "अरतिम् अर्यं स्वामिनं यद्वाभिप्राप्तद्रव्यं “दधन्विरे धन्वन्ति गच्छन्ति स्तुत्यादिभिः प्राप्नुवन्ति । धविर्गत्यर्थः । प्राप्य च तेनाग्निना “देवत्रा देवान् । ' देवमनुष्य इत्यादिना द्वितीयार्थे त्राप्रत्ययः । “हव्यं चरुपुरोडाशादिलक्षणं हविः “ओहिरे अभिप्रापयन्ति । वहेर्लिटि यजादित्वात् संप्रसारणम् ।।


विभू॑तरातिं विप्र चि॒त्रशो॑चिषम॒ग्निमी॑ळिष्व यं॒तुरं॑ ।

अ॒स्य मेध॑स्य सो॒म्यस्य॑ सोभरे॒ प्रेम॑ध्व॒राय॒ पूर्व्यं॑ ॥२

विभू॑तऽरातिम् । वि॒प्र॒ । चि॒त्रऽशो॑चिषम् । अ॒ग्निम् । ई॒ळि॒ष्व॒ । य॒न्तुर॑म् ।

अ॒स्य । मेध॑स्य । सो॒म्यस्य॑ । सो॒भ॒रे॒ । प्र । ई॒म् । अ॒ध्व॒राय॑ । पूर्व्य॑म् ॥२

विभूतऽरातिम् । विप्र । चित्रऽशोचिषम् । अग्निम् । ईळिष्व । यन्तुरम् ।

अस्य । मेधस्य । सोम्यस्य । सोभरे । प्र । ईम् । अध्वराय । पूर्व्यम् ॥२

ऋषिरात्मानं संबोध्य स्तुतौ प्रेरयति । हे “विप्र मेधाविन “सोभरे एतत्संज्ञ ऋषे “अध्वराय यागाय “ईम् इमम् “अग्निं “प्र “ईळिष्व प्रस्तुहि । कीदृशम् । “विभूतरातिं व्याप्तधनं प्रभूतदानं वा “चित्रशोचिषं चायनीयतेजस्कं विचित्रदीप्तिकं वा “सोम्यस्य सोमसाध्यस्य “अस्य “मेधस्य यज्ञस्य “यन्तुरं नियन्तारं “पूर्व्यं चिरंतनम् ॥ आभिप्लविकेषूक्थ्येषु तृतीयसवने प्रशास्तुः शस्त्रे ‘ यजिष्ठं त्वा' इत्यादिकौ प्रगाथौ वैकल्पिकौ स्तोत्रियानुरूपौ । सूत्रितं च--- यजिष्ठं स्वा ववृमहे यः समिधा य आहुती' (आश्व. श्रौ. ७. ८) इति ॥


यजि॑ष्ठं त्वा ववृमहे दे॒वं दे॑व॒त्रा होता॑र॒मम॑र्त्यं ।

अ॒स्य य॒ज्ञस्य॑ सु॒क्रतुं॑ ॥३

यजि॑ष्ठम् । त्वा॒ । व॒वृ॒म॒हे॒ । दे॒वम् । दे॒व॒ऽत्रा । होता॑रम् । अम॑र्त्यम् ।

अ॒स्य । य॒ज्ञस्य॑ । सु॒ऽक्रतु॑म् ॥३

यजिष्ठम् । त्वा । ववृमहे । देवम् । देवऽत्रा । होतारम् । अमर्त्यम् ।

अस्य । यज्ञस्य । सुऽक्रतुम् ॥३

हे अग्ने “यजिष्ठं यष्टृतमं “त्वा “ववृमहे वृणीमहे संभजामहे । कीदृशं त्वाम् । “देवत्रा देवेषु मध्ये “देवम् अतिशयेन दानादिगुणयुक्तं “होतारं देवानामाह्वातारम् “अमर्त्यम् अविनाशम् “अस्य “यज्ञस्य यागस्य “सुक्रतुं सुष्ठु कर्तारम् ।।


ऊ॒र्जो नपा॑तं सु॒भगं॑ सु॒दीदि॑तिम॒ग्निं श्रेष्ठ॑शोचिषं ।

स नो॑ मि॒त्रस्य॒ वरु॑णस्य॒ सो अ॒पामा सु॒म्नं य॑क्षते दि॒वि ॥४

ऊ॒र्जः । नपा॑तम् । सु॒ऽभग॑म् । सु॒ऽदीदि॑तिम् । अ॒ग्निम् । श्रेष्ठ॑ऽशोचिषम् ।

सः । नः॒ । मि॒त्रस्य॑ । वरु॑णस्य । सः । अ॒पाम् । आ । सु॒म्नम् । य॒क्ष॒ते॒ । दि॒वि ॥४

ऊर्जः । नपातम् । सुऽभगम् । सुऽदीदितिम् । अग्निम् । श्रेष्ठऽशोचिषम् ।

सः । नः । मित्रस्य । वरुणस्य । सः । अपाम् । आ । सुम्नम् । यक्षते । दिवि ॥४

“ऊर्जः अन्नस्य “नपातं न पातयितारम् । यद्वा । नप्तारं चतुर्थम् । हविर्लक्षणेनान्नेनापो जायन्ते अद्भिश्चौषधिवनस्पतयस्तेभ्य एष जात इति चतुर्थत्वम् । ‘नभ्राण्नपात्' इति नञः प्रकृतिभावः। “सुभगं शोभनधनं “सुदीदितिं सुष्ठु दीपयितारं “श्रेष्ठशोचिषं प्रशस्यतमतेजस्कम् “अग्निं स्तौमीति शेषः । “सः तादृशोऽग्निः “नः अस्मदर्थं “दिवि द्योतमाने देवयजने द्युलोके वा “मित्रस्य देवस्य “वरुणस्य च “सुम्नं सुखम् "आ अभिलक्ष्य "यक्षते यजतु । तथा “सः अग्निः “अपाम् अब्देवतानां सुम्नमभियजतु ।।


यः स॒मिधा॒ य आहु॑ती॒ यो वेदे॑न द॒दाश॒ मर्तो॑ अ॒ग्नये॑ ।

यो नम॑सा स्वध्व॒रः ॥५

यः । स॒म्ऽइधा॑ । यः । आऽहु॑ती । यः । वेदे॑न । द॒दाश॑ । मर्तः॑ । अ॒ग्नये॑ ।

यः । नम॑सा । सु॒ऽअ॒ध्व॒रः ॥५

यः । सम्ऽइधा । यः । आऽहुती । यः । वेदेन । ददाश । मर्तः । अग्नये ।

यः । नमसा । सुऽअध्वरः ॥५

इयं पाकयज्ञप्रशंसापरेति भगवताश्वलायनेन ब्राह्मणान्तरप्रदर्शनेन व्याख्याता (आश्व. गृ. १. १.४-५ )। “यः “मर्तः मनुष्यः “समिधा पालाशादिनेध्मेन “अग्नये अग्न्यर्थं “ददाश परिचरति । “यः च “आहुती आहुत्या आज्यादिसाध्यया परिचरति । "यः च "वेदेन वेदाध्ययनेन ब्रह्मयज्ञेन परिचरति । “यः च “स्वध्वरः शोभनेनाध्वरेण ज्योतिष्टोमादिना युक्तः सन् "नमसा अन्नेन चरुपुरोडाशादिनाग्नये ददाश अग्न्यर्थं परिचरति । तस्येदर्वन्त इत्युत्तरत्र संबन्धः ॥ ॥ २९ ॥


तस्येदर्वं॑तो रंहयंत आ॒शव॒स्तस्य॑ द्यु॒म्नित॑मं॒ यशः॑ ।

न तमंहो॑ दे॒वकृ॑तं॒ कुत॑श्च॒न न मर्त्य॑कृतं नशत् ॥६

तस्य॑ । इत् । अर्व॑न्तः । रं॒ह॒य॒न्ते॒ । आ॒शवः॑ । तस्य॑ । द्यु॒म्निऽत॑मम् । यशः॑ ।

न । तम् । अंहः॑ । दे॒वऽकृ॑तम् । कुतः॑ । च॒न । न । मर्त्य॑ऽकृतम् । न॒श॒त् ॥६

तस्य । इत् । अर्वन्तः । रंहयन्ते । आशवः । तस्य । द्युम्निऽतमम् । यशः ।

न । तम् । अंहः । देवऽकृतम् । कुतः । चन । न । मर्त्यऽकृतम् । नशत् ॥६

यः पूर्वोक्तः “तस्येत् तस्यैव "आशवः व्यापनशीलाः “अर्वन्तः अश्वाः “रंहयन्ते वेगं कुर्वन्ति । शत्रून् प्रसहन्त इत्यर्थः। “द्युम्नितमं दीप्तिमत्तमं “यशः कीर्तिश्च “तस्य एव भवति । यद्वा । द्युम्नमिति धननाम । धनवत्तमं यशोऽन्नं च तस्य भवति । अपि च "देवकृतम् देवैः कृतम् “अंहः पापं “कुतश्चन कस्मादपि हेतोः “तं “न “नशत् न प्राप्नोति । “न “मर्त्यकृतं मनुष्यैः कृतम् ।।


स्व॒ग्नयो॑ वो अ॒ग्निभिः॒ स्याम॑ सूनो सहस ऊर्जां पते ।

सु॒वीर॒स्त्वम॑स्म॒युः ॥७

सु॒ऽअ॒ग्नयः॑ । वः॒ । अ॒ग्निऽभिः॑ । स्याम॑ । सू॒नो॒ इति॑ । स॒ह॒सः॒ । ऊ॒र्जा॒म् । प॒ते॒ ।

सु॒ऽवीरः॑ । त्वम् । अ॒स्म॒ऽयुः ॥७

सुऽअग्नयः । वः । अग्निऽभिः । स्याम । सूनो इति । सहसः । ऊर्जाम् । पते ।

सुऽवीरः । त्वम् । अस्मऽयुः ॥७

हे “सहसः “सूनो बलस्य पुत्र । अग्निर्हि बलेन मथ्यमानो जायते । हे “ऊर्जां “पते अन्नानां हविर्लक्षणानां स्वामिन्नग्ने “वः । वचनव्यत्ययः। तवावयवभूतैः “अग्निभिः गार्हपत्यादिभिर्वयं “स्वग्नयः शोभनाग्निकाः “स्याम भवेम। "सुवीरः शोभनैर्वीरैरुपेतः “त्वं च "अस्मयुः अस्मान् कामयमानो भव ॥


प्र॒शंस॑मानो॒ अति॑थि॒र्न मि॒त्रियो॒ऽग्नी रथो॒ न वेद्यः॑ ।

त्वे क्षेमा॑सो॒ अपि॑ संति सा॒धव॒स्त्वं राजा॑ रयी॒णां ॥८

प्र॒ऽशंस॑मानः । अति॑थिः । न । मि॒त्रियः॑ । अ॒ग्निः । रथः॑ । न । वेद्यः॑ ।

त्वे इति॑ । क्षेमा॑सः । अपि॑ । स॒न्ति॒ । सा॒धवः॑ । त्वम् । राजा॑ । र॒यी॒णाम् ॥८

प्रऽशंसमानः । अतिथिः । न । मित्रियः । अग्निः । रथः । न । वेद्यः ।

त्वे इति । क्षेमासः । अपि । सन्ति । साधवः । त्वम् । राजा । रयीणाम् ॥८

“प्रशंसमानः स्तुवन् “अतिथिर्न अतिथिरिव । यद्वा । व्यत्ययेन कर्मणि कर्तृप्रत्ययः । प्रशस्यमानः सः “अग्निः “मित्रियः मित्राणां स्तोतॄणां हितो भवति । तथा “रथो “न रथ इव "वेद्यः । लम्भनीयोऽभीष्टफलसाधनत्वेन ज्ञातव्यो वा । उत्तरोऽर्धर्चः प्रत्यक्षकृतः । हे अग्ने “त्वे त्वयि “साधवः साधकाः समीचीनाः “क्षेमासः धारणानि “अपि “सन्ति भवन्ति । तथा “रयीणां धनानां “त्वम् एव “राजा ईश्वरो भवसि । ।


सो अ॒द्धा दा॒श्व॑ध्व॒रोऽग्ने॒ मर्तः॑ सुभग॒ स प्र॒शंस्यः॑ ।

स धी॒भिर॑स्तु॒ सनि॑ता ॥९

सः । अ॒द्धा । दा॒शुऽअ॑ध्वरः । अग्ने॑ । मर्तः॑ । सु॒ऽभ॒ग॒ । सः । प्र॒ऽशंस्यः॑ ।

सः । धी॒भिः । अ॒स्तु॒ । सनि॑ता ॥९

सः । अद्धा । दाशुऽअध्वरः । अग्ने । मर्तः । सुऽभग । सः । प्रऽशंस्यः ।

सः । धीभिः । अस्तु । सनिता ॥९

हे “अग्ने यः “मर्तः मनुष्यः “दाश्वध्वरः दत्तयज्ञो भवति “सः “अद्धा । सत्यनामैतत् । सत्यफलो भवतु । हे "सुभग शोभनधन अग्ने “सः एव “प्रशंस्यः प्रशंसनीयः श्लाघनीयश्च भवतु । तथा “सः “धीभिः कर्मभिः स्तोत्रैर्वा “सनिता "अस्तु संभजनशीलो भवतु ॥


यस्य॒ त्वमू॒र्ध्वो अ॑ध्व॒राय॒ तिष्ठ॑सि क्ष॒यद्वी॑रः॒ स सा॑धते ।

सो अर्व॑द्भिः॒ सनि॑ता॒ स वि॑प॒न्युभिः॒ स शूरैः॒ सनि॑ता कृ॒तं ॥१०

यस्य॑ । त्वम् । ऊ॒र्ध्वः । अ॒ध्व॒राय॑ । तिष्ठ॑सि । क्ष॒यत्ऽवी॑रः । सः । सा॒ध॒ते॒ ।

सः । अर्व॑त्ऽभिः । सनि॑ता । सः । वि॒प॒न्युऽभिः॑ । सः । शूरैः॑ । सनि॑ता । कृ॒तम् ॥१०

यस्य । त्वम् । ऊर्ध्वः । अध्वराय । तिष्ठसि । क्षयत्ऽवीरः । सः । साधते ।

सः । अर्वत्ऽभिः । सनिता । सः । विपन्युऽभिः । सः । शूरैः । सनिता । कृतम् ॥१०

हे अग्ने “यस्य यजमानस्य “अध्वराय यागनिष्पादनाय “त्वम् “ऊर्ध्वः उद्युक्तः सन् “तिष्ठसि अवतिष्ठसे "सः यजमानः “क्षयद्वीरः निवसद्भिरित्वरैर्वा वीरैः पुत्रादिभिरुपेतः सन् “साधते सर्वकर्तव्यं साधयति । तदेव विवृणोति । “सः तादृशो जनः “अर्वद्भिः अश्वैः “कृतं निष्पादितं जयादिकं “सनिता संभजनशीलो भवति । “सः तादृशो जनः “विपन्युभिः मेधाविभिः “सः “शूरैः च “सनिता भवति ॥ ॥ ३० ॥


यस्या॒ग्निर्वपु॑र्गृ॒हे स्तोमं॒ चनो॒ दधी॑त वि॒श्ववा॑र्यः ।

ह॒व्या वा॒ वेवि॑ष॒द्विषः॑ ॥११

यस्य॑ । अ॒ग्निः । वपुः॑ । गृ॒हे । स्तोम॑म् । चनः॑ । दधी॑त । वि॒श्वऽवा॑र्यः ।

ह॒व्या । वा॒ । वेवि॑षत् । विषः॑ ॥११

यस्य । अग्निः । वपुः । गृहे । स्तोमम् । चनः । दधीत । विश्वऽवार्यः ।

हव्या । वा । वेविषत् । विषः ॥११

“यस्य यजमानस्य “गृहे "विश्ववार्यः विश्वैर्वरणीयः “वपुः । रूपनामैतत् । रूपवान् दीप्तिमान् “अग्निः “स्तोमं स्तोत्रं “चनः अन्नं च हविर्लक्षणं "दधीत धारयेत् । यस्य च "हव्या । वाशब्दः समुच्चये । हव्यानि हवींषि च “विषः व्याप्तान् देवान् “वेविषत् प्रापयेत् । ‘विष्लृ व्याप्तौ । अस्माल्लेटि रूपमेतत् । स यजमान इति पूर्वत्र संबन्धः ॥


विप्र॑स्य वा स्तुव॒तः स॑हसो यहो म॒क्षूत॑मस्य रा॒तिषु॑ ।

अ॒वोदे॑वमु॒परि॑मर्त्यं कृधि॒ वसो॑ विवि॒दुषो॒ वचः॑ ॥१२

विप्र॑स्य । वा॒ । स्तु॒व॒तः । स॒ह॒सः॒ । य॒हो॒ इति॑ । म॒क्षुऽत॑मस्य । रा॒तिषु॑ ।

अ॒वःऽदे॑वम् । उ॒परि॑ऽमर्त्यम् । कृ॒धि॒ । वसो॒ इति॑ । वि॒वि॒दुषः॑ । वचः॑ ॥१२

विप्रस्य । वा । स्तुवतः । सहसः । यहो इति । मक्षुऽतमस्य । रातिषु ।

अवःऽदेवम् । उपरिऽमर्त्यम् । कृधि । वसो इति । विविदुषः । वचः ॥१२

हे “सहसो "यहो बलस्य पुत्राग्ने “विप्रस्य मेधाविनः “स्तुवतः स्तोतुः “वा “रातिषु हविर्दानेषु “मक्षुतमस्य शीघ्रतमस्य यष्टुर्वा “विविदुषः ज्ञातवतोऽभिज्ञस्य “वचः वचनं हे “वसो वासकाग्ने "अवोदेवं देवानामवस्तात् “उपरिमर्त्यं मर्त्यानामुपरिष्टाच्च “कृधि कुरु । सर्वं नभःप्रदेशं व्यापयेति यावत् ।।


यो अ॒ग्निं ह॒व्यदा॑तिभि॒र्नमो॑भिर्वा सु॒दक्ष॑मा॒विवा॑सति ।

गि॒रा वा॑जि॒रशो॑चिषं ॥१३

यः । अ॒ग्निम् । ह॒व्यदा॑तिऽभिः । नमः॑ऽभिः । वा॒ । सु॒ऽदक्ष॑म् । आ॒ऽविवा॑सति ।

गि॒रा । वा॒ । अ॒जि॒रऽशो॑चिषम् ॥१३

यः । अग्निम् । हव्यदातिऽभिः । नमःऽभिः । वा । सुऽदक्षम् । आऽविवासति ।

गिरा । वा । अजिरऽशोचिषम् ॥१३

“यः यजमानः “हव्यदातिभिः हविषां दानैः “नमोभिः नमस्कारैः “वा “सुदक्षं शोभनबलम् “अग्निम् “आविवासति परिचरति “गिरा “वा स्तुत्या वा “अजिरशोचिषं क्षिप्रगामितेजस्कं तमग्निं परिचरति स समृद्धो भवतीति शेषः ।।


स॒मिधा॒ यो निशि॑ती॒ दाश॒ददि॑तिं॒ धाम॑भिरस्य॒ मर्त्यः॑ ।

विश्वेत्स धी॒भिः सु॒भगो॒ जनाँ॒ अति॑ द्यु॒म्नैरु॒द्न इ॑व तारिषत् ॥१४

स॒म्ऽइधा॑ । यः । निऽशि॑ती । दाश॑त् । अदि॑तिम् । धाम॑ऽभिः । अ॒स्य॒ । मर्त्यः॑ ।

विश्वा॑ । इत् । सः । धी॒भिः । सु॒ऽभगः॑ । जना॑न् । अति॑ । द्यु॒म्नैः । उ॒द्नःऽइ॑व । ता॒रि॒ष॒त् ॥१४

सम्ऽइधा । यः । निऽशिती । दाशत् । अदितिम् । धामऽभिः । अस्य । मर्त्यः ।

विश्वा । इत् । सः । धीभिः । सुऽभगः । जनान् । अति । द्युम्नैः । उद्नःऽइव । तारिषत् ॥१४

“यः “मर्त्यः मनुष्यः “अस्य अग्नेः “धामभिः शरीरैः गार्हपत्यादिरूपेण विभज्य वर्तमानैः सार्धम् “अदितिम् अखण्डनीयं तमेवाग्निं “निशिती निशित्या निशानसाधनया प्रज्वलनहेतुभूतया “समिधा “दाशत् परिचरेत् “धीभिः कर्मभिः बुद्धिविशेषैर्वा “सः “सुभगः सन् “विश्वेत् सर्वानेव “जनान् “द्युम्नैः द्योतमानैरन्नैर्यशोभिर्वा “उद्नइव उदकानीव अति “तारिषत् अतितरेत् अतिक्रामेत् ॥


तद॑ग्ने द्यु॒म्नमा भ॑र॒ यत्सा॒सह॒त्सद॑ने॒ कं चि॑द॒त्रिणं॑ ।

म॒न्युं जन॑स्य दू॒ढ्यः॑ ॥१५

तत् । अ॒ग्ने॒ । द्यु॒म्नम् । आ । भ॒र॒ । यत् । स॒सह॑त् । सद॑ने । कम् । चि॒त् । अ॒त्रिण॑म् ।

म॒न्युम् । जन॑स्य । दुः॒ऽध्यः॑ ॥१५

तत् । अग्ने । द्युम्नम् । आ । भर । यत् । ससहत् । सदने । कम् । चित् । अत्रिणम् ।

मन्युम् । जनस्य । दुःऽध्यः ॥१५

हे “अग्ने “तत् “द्युम्नम् “आ “भर अस्मभ्यमाहर । “यत् “सदने गृहे वर्तमानं “कं “चित् कमपि “अत्रिणम् अत्तारं राक्षसादिकं “सासहत् अत्यर्थमभिभवेत् । तथा “दूढ्यः दुर्धियः पापबुद्धेः शत्रुजनस्य “मन्युं क्रोधं यच्च द्युम्नमभिभवेत् तदाहरेत्यन्वयः । ‘ ध्यै च ' इति पृषोदरादिपाठात् दुरो रेफस्योत्वं उत्तरपदादेष्टुत्वं च ॥ ॥ ३१ ॥


येन॒ चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मा येन॒ नास॑त्या॒ भगः॑ ।

व॒यं तत्ते॒ शव॑सा गातु॒वित्त॑मा॒ इंद्र॑त्वोता विधेमहि ॥१६

येन॑ । चष्टे॑ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । येन॑ । नास॑त्या । भगः॑ ।

व॒यम् । तत् । ते॒ । शव॑सा । गा॒तु॒वित्ऽत॑माः । इन्द्र॑त्वाऽऊताः । वि॒धे॒म॒हि॒ ॥१६

येन । चष्टे । वरुणः । मित्रः । अर्यमा । येन । नासत्या । भगः ।

वयम् । तत् । ते । शवसा । गातुवित्ऽतमाः । इन्द्रत्वाऽऊताः । विधेमहि ॥१६

“येन आग्नेयेन तेजसा “वरुणः देवः “चष्टे प्रकाशयति । येन च “मित्रः “अर्यमा च चष्टे । “येन च “नासत्या अश्विनौ च चक्षाते । “भगः भजनीय एतत्संज्ञो देवश्च चष्टे । “शवसा बलेन “गातुवित्तमाः गातोर्गातव्यस्य स्तोत्रस्य ज्ञातृतमाः । यद्वा । गन्तव्यस्य प्राप्तव्यस्य लब्धृतमाः ।। “इन्द्रत्वोताः इन्द्रेणेश्वरेण त्वयोता रक्षिताः सन्तः “वयं हे अग्ने “ते त्वदीयं “तत् तेजः “विधेमहि परिचरेमहि ॥


ते घेद॑ग्ने स्वा॒ध्यो॒३॒॑ ये त्वा॑ विप्र निदधि॒रे नृ॒चक्ष॑सं ।

विप्रा॑सो देव सु॒क्रतुं॑ ॥१७

ते । घ॒ । इत् । अ॒ग्ने॒ । सु॒ऽआ॒ध्यः॑ । ये । त्वा॒ । वि॒प्र॒ । नि॒ऽद॒धि॒रे । नृ॒ऽचक्ष॑सम् ।

विप्रा॑सः । दे॒व॒ । सु॒ऽक्रतु॑म् ॥१७

ते । घ । इत् । अग्ने । सुऽआध्यः । ये । त्वा । विप्र । निऽदधिरे । नृऽचक्षसम् ।

विप्रासः । देव । सुऽक्रतुम् ॥१७

हे “अग्ने “ते “घेत् त एव खलु “स्वाध्यः शोभनाध्याना भवन्ति । हे “विप्र मेधाविन् “देव द्योतमानाग्ने "ये “विप्रासः विप्रा मेधाविन ऋत्विजः “नृचक्षसं नृणां चष्टारं “सुक्रतुं सुकर्माणं शोभनप्रज्ञं वा “त्वा त्वां “निदधिरे निदधति यागार्थं गार्हपत्यादिस्थानेष्वाधानसंस्कारेण स्थापयन्ति ते घेदित्यन्वयः ॥


त इद्वेदिं॑ सुभग॒ त आहु॑तिं॒ ते सोतुं॑ चक्रिरे दि॒वि ।

त इद्वाजे॑भिर्जिग्युर्म॒हद्धनं॒ ये त्वे कामं॑ न्येरि॒रे ॥१८

ते । इत् । वेदि॑म् । सु॒ऽभ॒ग॒ । ते । आऽहु॑तिम् । ते । सोतु॑म् । च॒क्रि॒रे॒ । दि॒वि ।

ते । इत् । वाजे॑भिः । जि॒ग्युः॒ । म॒हत् । धन॑म् । ये । त्वे इति॑ । काम॑म् । नि॒ऽए॒रि॒रे ॥१८

ते । इत् । वेदिम् । सुऽभग । ते । आऽहुतिम् । ते । सोतुम् । चक्रिरे । दिवि ।

ते । इत् । वाजेभिः । जिग्युः । महत् । धनम् । ये । त्वे इति । कामम् । निऽएरिरे ॥१८

हे “सुभग शोभनधनाग्ने “त “इत् त एव यजमानास्त्वद्यागाय "वेदिं “चक्रिरे कुर्वन्ति । तदनन्तरं “ते यजमानाः “आहुतिं चरुपुरोडाशादिसाध्यां दीक्षणीयादिषु कुर्वन्ति । ततः “दिवि द्योतमाने सौत्येऽहनि “सोतुं सोममभिषोतुं चक्रिरे उद्योगं कुर्वन्ति । अनुष्ठितयज्ञाः “त “इत् त एव “वाजेभिः वाजैर्बलैः "महत् प्रभूतं “धनं “जिग्युः जयन्ति । शत्रुभ्यो लभन्ते । कुत इत्यत आह । “ये यजमाना हे अग्ने “त्वे त्वयि “कामम् अभिलाषं “न्येरिरे नितरां गच्छन्ति । त्वामादरातिशयेन स्तुवन्तीत्यर्थः ॥


आभिप्लविकेषूक्थ्येषु तृतीयसवने प्रशास्तुः शस्त्रे ‘भद्रो नः' इति प्रगाथो वैकल्पिकः स्तोत्रियः । सूत्र्यते हि-’ भद्रो नो अग्निराहुतो यदी घृतेभिराहुतः ' ( आश्व. श्रौ. ७.८) इति ॥

भ॒द्रो नो॑ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः ।

भ॒द्रा उ॒त प्रश॑स्तयः ॥१९

भ॒द्रः । नः॒ । अ॒ग्निः । आऽहु॑तः । भ॒द्रा । रा॒तिः । सु॒ऽभ॒ग॒ । भ॒द्रः । अ॒ध्व॒रः ।

भ॒द्राः । उ॒त । प्रऽश॑स्तयः ॥१९

भद्रः । नः । अग्निः । आऽहुतः । भद्रा । रातिः । सुऽभग । भद्रः । अध्वरः ।

भद्राः । उत । प्रऽशस्तयः ॥१९

“आहुतः हविर्भिस्तर्पितः “अग्निः “नः अस्माकं “भद्रः कल्याणो भवतु । हे "सुभग शोभनधनाग्ने “भद्रा कल्याणी “रातिः दानं चास्माकं भवतु । “भद्रः कल्याणः “अध्वरः यागश्च भवतु । “उत अपि च "भद्राः कल्याण्यः “प्रशस्तयः प्रशंसाः स्तुतयश्च भवन्तु ।


भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॒ येना॑ स॒मत्सु॑ सा॒सहः॑ ।

अव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑तां व॒नेमा॑ ते अ॒भिष्टि॑भिः ॥२०

भ॒द्रम् । मनः॑ । कृ॒णु॒ष्व॒ । वृ॒त्र॒ऽतूर्ये॑ । येन॑ । स॒मत्ऽसु॑ । स॒सहः॑ ।

अव॑ । स्थि॒रा । त॒नु॒हि॒ । भूरि॑ । शर्ध॑ताम् । व॒नेम॑ । ते॒ । अ॒भिष्टि॑ऽभिः ॥२०

भद्रम् । मनः । कृणुष्व । वृत्रऽतूर्ये । येन । समत्ऽसु । ससहः ।

अव । स्थिरा । तनुहि । भूरि । शर्धताम् । वनेम । ते । अभिष्टिऽभिः ॥२०

हे अग्ने “वृत्रतूर्ये संग्रामे “भद्रं शोभनं “मनः “कृणुष्व अस्माकं कुरु । "येन मनसा त्वं “समत्सु संग्रामेषु “सासहः भृशं शत्रूनभिभवसि । अपि च “शर्धताम् अभिभवतां शत्रूणां “भूरि भूरीणि बहूनि स्थिराणि दृढान्यपि “अव “तनुहि अवाञ्चि कुरु । पराजितानि कुर्वित्यर्थः । वयं च “अभिष्टिभिः अभ्येषणसाधनैर्हविभिः स्तोत्रैश्च “ते त्वां “वनेम संभजेमहि । यद्वा । ते तव प्रसादात् अभिष्टिभिः अभीष्टैः फलैर्वनेम संगच्छेमहि ॥ ॥ ३२ ॥


ईळे॑ गि॒रा मनु॑र्हितं॒ यं दे॒वा दू॒तम॑र॒तिं न्ये॑रि॒रे ।

यजि॑ष्ठं हव्य॒वाह॑नं ॥२१

ईळे॑ । गि॒रा । मनुः॑ऽहितम् । यम् । दे॒वाः । दू॒तम् । अ॒र॒तिम् । नि॒ऽए॒रि॒रे ।

यजि॑ष्ठम् । ह॒व्य॒ऽवाह॑नम् ॥२१

ईळे । गिरा । मनुःऽहितम् । यम् । देवाः । दूतम् । अरतिम् । निऽएरिरे ।

यजिष्ठम् । हव्यऽवाहनम् ॥२१

“गिरा वाचा स्तुतिरूपया "मनुर्हितं मनुना प्रजापतिना यजमानेनाहितं तमग्निम् “ईळे स्तौमि । कीदृशम् । “यजिष्ठं यष्टृतम “हव्यवाहनं हविषां वोढारं “अरतिम् अर्यमीश्वरं वा “दूतं देवानां दूत्ये वर्तमानम् । “यम् अग्निं “देवाः “न्येरिरे नितरां प्रेरयन्ति ॥


ति॒ग्मजं॑भाय॒ तरु॑णाय॒ राज॑ते॒ प्रयो॑ गायस्य॒ग्नये॑ ।

यः पिं॒शते॑ सू॒नृता॑भिः सु॒वीर्य॑म॒ग्निर्घृ॒तेभि॒राहु॑तः ॥२२

ति॒ग्मऽज॑म्भाय । तरु॑णाय । राज॑ते । प्रयः॑ । गा॒य॒सि॒ । अ॒ग्नये॑ ।

यः । पिं॒शते॑ । सू॒नृता॑भिः । सु॒ऽवीर्य॑म् । अ॒ग्निः । घृ॒तेभिः॑ । आऽहु॑तः ॥२२

तिग्मऽजम्भाय । तरुणाय । राजते । प्रयः । गायसि । अग्नये ।

यः । पिंशते । सूनृताभिः । सुऽवीर्यम् । अग्निः । घृतेभिः । आऽहुतः ॥२२

"तिग्मजम्भाय तीक्ष्णज्वालाय “तरुणाय नित्ययूने जरामरणरहिताय “राजते राजमानाय “अग्नये “प्रयः हविर्लक्षणमन्नं “गायसि हे स्तोतः । प्रवृद्धिं प्रयच्छेत्यर्थः । “यः “अग्निः “सूनृताभिः प्रियसत्यात्मिकाभिर्वाग्भिः स्तुतः “घृतेभिः घृतैराज्यैः “आहुतः अभिहुतश्च सन् “सुवीर्यं शोभनवीर्यं “पिंशते आश्लेषयति स्तोतृभिः संयोजयति । ‘पिश अवयवे' । तस्मा अग्नय इत्यन्वयः ॥


आभिप्लविकेषूक्थ्येषु प्रशास्तुः शस्त्रे यदा ‘भद्रो नः' (ऋ. सं. ८. १९. १९) इति प्रगाथः स्तोत्रियः तदानीं ' यदी घृतेभिः' इति प्रगाथोऽनुरूपः। सूत्रं तु पूर्वमेवोदाहृतम् ॥

यदी॑ घृ॒तेभि॒राहु॑तो॒ वाशी॑म॒ग्निर्भर॑त॒ उच्चाव॑ च ।

असु॑र इव नि॒र्णिजं॑ ॥२३

यदि॑ । घृ॒तेभिः॑ । आऽहु॑तः । वाशी॑म् । अ॒ग्निः । भर॑ते । उत् । च॒ । अव॑ । च॒ ।

असु॑रःऽइव । निः॒ऽनिज॑म् ॥२३

यदि । घृतेभिः । आऽहुतः । वाशीम् । अग्निः । भरते । उत् । च । अव । च ।

असुरःऽइव । निःऽनिजम् ॥२३

“घृतेभिः घृतैः “आहुतः अभिहुतोऽयम् "अग्निः “यदि यदा यस्मिन्काले "वाशीम् । वाङ्नामैतत् । वाचं शब्दम् “उच्च ऊर्ध्वं च “अव “च अवाक्च “भरते संपादयति । यद्वा । वाशीं वाशनशीलां शब्दकारिणीं ज्वालामुद्भरते उद्धरति उद्गमयत्यूर्ध्वमुखम् अव च भरते अवाङ्मुखं च हरति उपसंहरति । “असुरइव रश्मीनां क्षेप्ता सूर्यो यथा “निर्णिजम् आत्मीयं रूपमुपरितनेषु लोकेषु प्रकाशतयोद्गमयति अधस्तनेषु चावाङ्मुखं गमयति तद्वदुच्चनीचभावनयाग्निस्तेज उद्गमयति । तं स्तुम इति शेषः ॥


यो ह॒व्यान्यैर॑यता॒ मनु॑र्हितो दे॒व आ॒सा सु॑गं॒धिना॑ ।

विवा॑सते॒ वार्या॑णि स्वध्व॒रो होता॑ दे॒वो अम॑र्त्यः ॥२४

यः । ह॒व्यानि॑ । ऐर॑यत । मनुः॑ऽहितः । दे॒वः । आ॒सा । सु॒ऽग॒न्धिना॑ ।

विवा॑सते । वार्या॑णि । सु॒ऽअ॒ध्व॒रः । होता॑ । दे॒वः । अम॑र्त्यः ॥२४

यः । हव्यानि । ऐरयत । मनुःऽहितः । देवः । आसा । सुऽगन्धिना ।

विवासते । वार्याणि । सुऽअध्वरः । होता । देवः । अमर्त्यः ॥२४

“यः "मनुर्हितः मनुना प्रजापतिनाहितः “देवः द्योतमानोऽग्निः “सुगन्धिना शोभनगन्धयुक्तेन “आसा आस्येन “हव्यानि अस्मदीयानि हवींषि “ऐरयत देवान्प्रति प्रेरयति "स्वध्वरः शोभनयज्ञः "होता देवानामाह्वाता "देवः दीप्यमानः अमर्त्यः मरणरहितः सोऽग्निः “वार्याणि वरणीयानि धनानि “विवासते परिचरते । यजमानाय प्रयच्छतीति शेषः ॥


यद॑ग्ने॒ मर्त्य॒स्त्वं स्याम॒हं मि॑त्रमहो॒ अम॑र्त्यः ।

सह॑सः सूनवाहुत ॥२५

यत् । अ॒ग्ने॒ । मर्त्यः॑ । त्वम् । स्याम् । अ॒हम् । मि॒त्र॒ऽम॒हः॒ । अम॑र्त्यः ।

सह॑सः । सू॒नो॒ इति॑ । आ॒ऽहु॒त॒ ॥२५

यत् । अग्ने । मर्त्यः । त्वम् । स्याम् । अहम् । मित्रऽमहः । अमर्त्यः ।

सहसः । सूनो इति । आऽहुत ॥२५

हे “सहसः “सूनो बलस्य पुत्र “आहुत घृतैरभिहुत हे “मित्रमहः अनुकूलदीप्तिमन् “अग्ने "मर्त्यः मरणधर्मा “अहं “यत् यदि “त्वं “स्यां त्वदुपासनया त्वदूपमापन्नो भवेयम् । 'ये' यथायथोपासते ते तदेव भवन्ति' इति श्रुतेः । तर्ह्यहम् "अमर्त्यः मरणरहितो देव एव भवेयमिति ॥ ॥३३॥


न त्वा॑ रासीया॒भिश॑स्तये वसो॒ न पा॑प॒त्वाय॑ संत्य ।

न मे॑ स्तो॒ताम॑ती॒वा न दुर्हि॑तः॒ स्याद॑ग्ने॒ न पा॒पया॑ ॥२६

न । त्वा॒ । रा॒सी॒य॒ । अ॒भिऽश॑स्तये । व॒सो॒ इति॑ । न । पा॒प॒ऽत्वाय॑ । स॒न्त्य॒ ।

न । मे॒ । स्तो॒ता । अ॒म॒ति॒ऽवा । न । दुःऽहि॑तः । स्यात् । अ॒ग्ने॒ । न । पा॒पया॑ ॥२६

न । त्वा । रासीय । अभिऽशस्तये । वसो इति । न । पापऽत्वाय । सन्त्य ।

न । मे । स्तोता । अमतिऽवा । न । दुःऽहितः । स्यात् । अग्ने । न । पापया ॥२६

हे “वसो वासकाग्ने “त्वा त्वाम् “अभिशस्तये अभिशंसनाय मिथ्यापवादाय हिंसायै वा "न रासीय नाक्रोशयेयम् । ‘रासृ शब्दे' । हे “सन्त्य संभजनीयाग्ने "पापत्वाय त्वां “न रासीय । "मे मदीयः “स्तोता चानभिमतवचनेन त्वां न आक्रोशयतु । अत एव “अमतीवा। अमतिरशोभना बुद्धिः । तद्वान् अपि च "दुर्हितः शत्रुर्हे अग्ने अस्माकं “न “स्यात् न भवतु । अत एव "पापया अशोभनया बुद्ध्या सः “न बाधताम् ।।


पि॒तुर्न पु॒त्रः सुभृ॑तो दुरो॒ण आ दे॒वाँ ए॑तु॒ प्र णो॑ ह॒विः ॥२७

पि॒तुः । न । पु॒त्रः । सुऽभृ॑तः । दु॒रो॒णे । आ । दे॒वान् । ए॒तु॒ । प्र । नः॒ । ह॒विः ॥२७

पितुः । न । पुत्रः । सुऽभृतः । दुरोणे । आ । देवान् । एतु । प्र । नः । हविः ॥२७

“पितुर्न “पुत्रः पितुः पुत्र इवास्माकं “सुभृतः सुष्ठु भर्ता । यद्वा । पित्रा पुत्र इवास्माभिः सम्यग्भृतो हविर्भिः पोषितः । अयमग्निः पुत्र इवास्माकं सुभृतः “दुरोणे यज्ञगृहे “देवान् “आ अभिलक्ष्य “नः अस्माकं "हविः “प्र “एतु प्र गमयतु । यद्वा अग्निरैतु आगच्छतु । अस्मदीयं हविश्व देवान् प्राप्नोतु ॥


तवा॒हम॑ग्न ऊ॒तिभि॒र्नेदि॑ष्ठाभिः सचेय॒ जोष॒मा व॑सो ।

सदा॑ दे॒वस्य॒ मर्त्यः॑ ॥२८

तव॑ । अ॒हम् । अ॒ग्ने॒ । ऊ॒तिऽभिः॑ । नेदि॑ष्ठाभिः । स॒चे॒य॒ । जोष॑म् । आ । व॒सो॒ इति॑ ।

सदा॑ । दे॒वस्य॑ । मर्त्यः॑ ॥२८

तव । अहम् । अग्ने । ऊतिऽभिः । नेदिष्ठाभिः । सचेय । जोषम् । आ । वसो इति ।

सदा । देवस्य । मर्त्यः ॥२८

हे "वसो वासक “अग्ने "नेदिष्ठाभिः अन्तिकतमाभिः ऋजुगामिनीभिर्वा “देवस्य “तव “ऊतिभिः रक्षाभिः “मर्त्यः मनुष्यः “अहं स्तोता “सदा सर्वदा “जोषम् “आ “सचेय प्रीतिमभिसेवेय ।।


तव॒ क्रत्वा॑ सनेयं॒ तव॑ रा॒तिभि॒रग्ने॒ तव॒ प्रश॑स्तिभिः ।

त्वामिदा॑हुः॒ प्रम॑तिं वसो॒ ममाग्ने॒ हर्ष॑स्व॒ दात॑वे ॥२९

तव॑ । क्रत्वा॑ । स॒ने॒य॒म् । तव॑ । रा॒तिऽभिः॑ । अग्ने॑ । तव॑ । प्रश॑स्तिऽभिः ।

त्वाम् । इत् । आ॒हुः॒ । प्रऽम॑तिम् । व॒सो॒ इति॑ । मम॑ । अ॒ग्ने॒ । हर्ष॑स्व । दात॑वे ॥२९

तव । क्रत्वा । सनेयम् । तव । रातिऽभिः । अग्ने । तव । प्रशस्तिऽभिः ।

त्वाम् । इत् । आहुः । प्रऽमतिम् । वसो इति । मम । अग्ने । हर्षस्व । दातवे ॥२९

हे “अग्ने “तव “क्रत्वा त्वदीयेन परिचरणरूपेण कर्मणा “सनेयं त्वां संभजेयम् । एतदेव विशदयति । “तव “रातिभिः त्वदीयैर्हविर्दानैश्च सनेयम् । तथा “तव “प्रशस्तिभिः प्रशंसनैः स्तोत्रैश्च त्वां संभजेयम् । अस्यैव संभजने किं कारणं तदाह । हे “वसो वासकाग्ने “मम स्तोतुः “प्रमतिं प्रकृष्टबुद्धिं रक्षकं “त्वामित् त्वामेव “आहुः ब्रह्मवादिनः कथयन्ति । अतो हे “अग्ने “दातवे दातुं “हर्षस्व हृष्टो भव । हर्षयुक्तः सन् बहु धनं प्रयच्छेत्यर्थः ।।


पूर्वोक्त एव प्रशास्तुः शस्त्रे ‘प्र सः' इति प्रगाथो वैकल्पिकोऽनुरूपः । सूत्र्यते हि-’ प्र सो अग्ने तवोतिभिरग्निं वो वृधन्तम्' (आश्व. श्रौ. ७. ८) इति ।

प्र सो अ॑ग्ने॒ तवो॒तिभिः॑ सु॒वीरा॑भिस्तिरते॒ वाज॑भर्मभिः ।

यस्य॒ त्वं स॒ख्यमा॒वरः॑ ॥३०

प्र । सः । अ॒ग्ने॒ । तव॑ । ऊ॒तिऽभिः॑ । सु॒ऽवीरा॑भिः । ति॒र॒ते॒ । वाज॑भर्मऽभिः ।

यस्य॑ । त्वम् । स॒ख्यम् । आ॒ऽवरः॑ ॥३०

प्र । सः । अग्ने । तव । ऊतिऽभिः । सुऽवीराभिः । तिरते । वाजभर्मऽभिः ।

यस्य । त्वम् । सख्यम् । आऽवरः ॥३०

हे “अग्ने “तवोतिभिः रक्षाभिः “सः यजमानः “प्र “तिरते प्रवर्धते । ऊतयो विशेष्यन्ते । “सुवीराभिः । शोभना वीराः पुत्रादयो यासु तास्तथोक्ताः। “वाजभर्मभिः । वाजानामन्नानां बलानां वा भर्म भरणं यासु तादृशीभिः । हे अग्ने “त्वं यस्य यजमानस्य “सख्यं सखित्वं मित्रत्वम् “आवरः अभिवृणोषि स तिरत इत्यन्वयः ॥ ॥ ३४ ॥


तव॑ द्र॒प्सो नील॑वान्वा॒श ऋ॒त्विय॒ इंधा॑नः सिष्ण॒वा द॑दे ।

त्वं म॑ही॒नामु॒षसा॑मसि प्रि॒यः क्ष॒पो वस्तु॑षु राजसि ॥३१

तव॑ । द्र॒प्सः । नील॑ऽवान् । वा॒शः । ऋ॒त्वियः॑ । इन्धा॑नः । सि॒ष्णो॒ इति॑ । आ । द॒दे॒ ।

त्वम् । म॒ही॒नाम् । उ॒षसा॑म् । अ॒सि॒ । प्रि॒यः । क्ष॒पः । वस्तु॑षु । रा॒ज॒सि॒ ॥३१

तव । द्रप्सः । नीलऽवान् । वाशः । ऋत्वियः । इन्धानः । सिष्णो इति । आ । ददे ।

त्वम् । महीनाम् । उषसाम् । असि । प्रियः । क्षपः । वस्तुषु । राजसि ॥३१

हे “सिष्णो । सिषिः सेचनार्थः । सोमेनासिच्यमानाग्ने “द्रप्सः द्रवणशीलः “नीलवान् शकटनीडेऽवस्थानात् तद्वान् "वाशः कान्तः शब्दायमानो वा “ऋत्वियः ऋतौ वसन्तादिकालविशेषे भवः “इन्धानः संदीपयन् एवंभूतः “तव सोमः “आ “ददे तुभ्यं होमायाध्वर्युणादीयते । अपि च “त्वं “महीनां महतीनाम् “उषसां “प्रियः मित्रभूतः “असि । उषसि ह्यग्नयो होमाय प्रज्वाल्यन्ते । तथा “क्षपः क्षपाया रात्रेः संबन्धिषु “वस्तुषु “राजसि प्रकाशसे । यद्वा । रात्रिसंबन्धीनि वस्तूनि पदार्थजातानि त्वं प्रकाशयसि ।।


तमाग॑न्म॒ सोभ॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से ।

स॒म्राजं॒ त्रास॑दस्यवं ॥३२

तम् । आ । अ॒ग॒न्म॒ । सोभ॑रयः । स॒हस्र॑ऽमुष्कम् । सु॒ऽअ॒भि॒ष्टिम् । अव॑से ।

स॒म्ऽराज॑म् । त्रास॑दस्यवम् ॥३२

तम् । आ । अगन्म । सोभरयः । सहस्रऽमुष्कम् । सुऽअभिष्टिम् । अवसे ।

सम्ऽराजम् । त्रासदस्यवम् ॥३२

“सोभरयः ऋषयो वयम् “अवसे रक्षणाय “तम् अग्निम् “आगन्म हविर्भिः स्तुतिभिश्च प्राप्ता अभूम । कीदृशम् । “सहस्रमुष्कम् । मुष्णन्ति तमांस्यपहरन्तीति मुष्काणि तेजांसि । बहुतेजस्कं “स्वभिष्टिं शोभनाभ्येषणं “सम्राजं सम्यग्राजमानं “त्रासदस्यवम् । त्रसदस्युर्नाम राजर्षिः । तस्य स्तोतव्यत्वेन संबन्धिनम् ।।


यस्य॑ ते अग्ने अ॒न्ये अ॒ग्नय॑ उप॒क्षितो॑ व॒या इ॑व ।

विपो॒ न द्यु॒म्ना नि यु॑वे॒ जना॑नां॒ तव॑ क्ष॒त्राणि॑ व॒र्धय॑न् ॥३३

यस्य॑ । ते॒ । अ॒ग्ने॒ । अ॒न्ये । अ॒ग्नयः॑ । उ॒प॒ऽक्षितः॑ । व॒याःऽइ॑व ।

विपः॑ । न । द्यु॒म्ना । नि । यु॒वे॒ । जना॑नाम् । तव॑ । क्ष॒त्राणि॑ । व॒र्धय॑न् ॥३३

यस्य । ते । अग्ने । अन्ये । अग्नयः । उपऽक्षितः । वयाःऽइव ।

विपः । न । द्युम्ना । नि । युवे । जनानाम् । तव । क्षत्राणि । वर्धयन् ॥३३

हे “अग्ने “यस्य “ते तव “अन्ये "अग्नयः “वयाइव वृक्षस्य शाखा इव “उपक्षितः समीपे निवसन्तो भवन्ति “जनानां जनिमतां मनुष्याणां मध्येऽहं तस्य “तव “क्षत्राणि बलानि स्तुत्या “वर्धयन् “विपो “न । स्तोतृनामैतत् । अन्ये स्तोतार इव “द्युम्ना द्योतमानान्यन्नानि यशांसि वा “नि “युवे नितरां प्राप्नोमि । त्वत्प्रसादाल्लभेयेत्यर्थः ।।


यमा॑दित्यासो अद्रुहः पा॒रं नय॑थ॒ मर्त्यं॑ ।

म॒घोनां॒ विश्वे॑षां सुदानवः ॥३४

यम् । आ॒दि॒त्या॒सः॒ । अ॒द्रु॒हः॒ । पा॒रम् । नय॑थ । मर्त्य॑म् ।

म॒घोना॑म् । विश्वे॑षाम् । सु॒ऽदा॒न॒वः॒ ॥३४

यम् । आदित्यासः । अद्रुहः । पारम् । नयथ । मर्त्यम् ।

मघोनाम् । विश्वेषाम् । सुऽदानवः ॥३४

हे “अद्रुहः अद्रोग्धारः हे “सुदानवः हे "आदित्यासः अदितेः पुत्रा मित्रादयः “मघोनां हविष्मतां “विश्वेषां सर्वेषां मध्ये "यं “मर्त्यं मनुष्यं यजमानं “पारं “नयथ आरब्धस्य कर्मणः समाप्तिं प्रापयथ । स तत्फलं लभत इत्यर्थः ॥


यू॒यं रा॑जानः॒ कं चि॑च्चर्षणीसहः॒ क्षयं॑तं॒ मानु॑षाँ॒ अनु॑ ।

व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न्त्स्यामेदृ॒तस्य॑ र॒थ्यः॑ ॥३५

यू॒यम् । रा॒जा॒नः॒ । कम् । चि॒त् । च॒र्ष॒णि॒ऽस॒हः॒ । क्षय॑न्तम् । मानु॑षान् । अनु॑ ।

व॒यम् । ते । वः॒ । वरु॑ण । मित्र॑ । अर्य॑मन् । स्याम॑ । इत् । ऋ॒तस्य॑ । र॒थ्यः॑ ॥३५

यूयम् । राजानः । कम् । चित् । चर्षणिऽसहः । क्षयन्तम् । मानुषान् । अनु ।

वयम् । ते । वः । वरुण । मित्र । अर्यमन् । स्याम । इत् । ऋतस्य । रथ्यः ॥३५

हे “राजानः राजमाना हे “चर्षणीसहः शत्रुभूतानामभिभवितार आदित्याः "यूयं “मानुषाननु मनुष्यान् यजमानाननुलक्ष्य “क्षयन्तं क्षपयन्तं "कं “चित् कमपि शत्रुं सर्वमपि शत्रुवर्गमभिभवथेति शेषः । यद्वा । मनुष्येषु यजमानेषु क्षयन्तं स्तुतीनामीश्वरं कं चित् कमपि स्तोतारं मा यूयं गच्छत । हे “वरुण हे “मित्र हे "अर्यमन् “ते तादृशाः “वयं “वः युष्माकं संबन्धिनः “ऋतस्य यज्ञस्य “रथ्यः “स्याम नेतारो भवेम ॥


अदा॑न्मे पौरुकु॒त्स्यः पं॑चा॒शतं॑ त्र॒सद॑स्युर्व॒धूनां॑ ।

मंहि॑ष्ठो अ॒र्यः सत्प॑तिः ॥३६

अदा॑त् । मे॒ । पौ॒रु॒ऽकु॒त्स्यः । प॒ञ्चा॒शत॑म् । त्र॒सद॑स्युः । व॒धूना॑म् ।

मंहि॑ष्ठः । अ॒र्यः । सत्ऽप॑तिः ॥३६

अदात् । मे । पौरुऽकुत्स्यः । पञ्चाशतम् । त्रसदस्युः । वधूनाम् ।

मंहिष्ठः । अर्यः । सत्ऽपतिः ॥३६

इदमादिकेन प्रगाथेन त्रसदस्योर्दानमृषिः प्रशंसति । “पौरुकुत्स्यः पुरुकुत्सपुत्रः “त्रसदस्युः “मे मह्यं “वधूनां “पञ्चाशतम् “अदात् दत्तवान् । कीदृशः । “मंहिष्ठः दातृतमः “अर्यः अभिगन्तव्यः स्वामी वा “सत्पतिः सतां श्रेष्ठानां स्तोतॄणां पालयिता ।।


उ॒त मे॑ प्र॒यियो॑र्व॒यियोः॑ सु॒वास्त्वा॒ अधि॒ तुग्व॑नि ।

ति॒सॄ॒णां स॑प्तती॒नां श्या॒वः प्र॑णे॒ता भु॑व॒द्वसु॒र्दिया॑नां॒ पतिः॑ ॥३७

उ॒त । मे॒ । प्र॒यियोः॑ । व॒यियोः॑ । सु॒ऽवास्त्वाः॑ । अधि॑ । तुग्व॑नि ।

ति॒सॄ॒णाम् । स॒प्त॒ती॒नाम् । श्या॒वः । प्र॒ऽने॒ता । भु॒व॒त् । वसुः॑ । दिया॑नाम् । पतिः॑ ॥३७

उत । मे । प्रयियोः । वयियोः । सुऽवास्त्वाः । अधि । तुग्वनि ।

तिसॄणाम् । सप्ततीनाम् । श्यावः । प्रऽनेता । भुवत् । वसुः । दियानाम् । पतिः ॥३७

.............

टिप्पणी

८.१९.१ तं गूर्धया इति

सौभरम्

सौभराणि त्रीणि (ग्रामगेयः)

सौभरिरुपरि पौराणिकसंदर्भाः

सौभरेर्ऋषेः अस्य सूक्तस्य विनियोगः अतिविरलमस्ति। गूर्धया शब्दोपि वैदिकवाङ्मये अत्रैव उपलब्धमस्ति, नान्यत्रम्। स्वर्णरं शब्दः ऋग्वेदे अन्यत्रापि प्रकटयति ।

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.१९&oldid=402086" इत्यस्माद् प्रतिप्राप्तम्