ऋग्वेदः सूक्तं ८.२४

(ऋग्वेद: सूक्तं ८.२४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ८.२३ ऋग्वेदः - मण्डल ८
सूक्तं ८.२४
विश्वमना वैयश्वः।
सूक्तं ८.२५ →
दे. इन्द्रः, २८- ३० वरुः सौषाम्णिः। उष्णिक्, ३० अनुष्टुप्।


सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे ।
स्तुष ऊ षु वो नृतमाय धृष्णवे ॥१॥
शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा ।
मघैर्मघोनो अति शूर दाशसि ॥२॥
स न स्तवान आ भर रयिं चित्रश्रवस्तमम् ।
निरेके चिद्यो हरिवो वसुर्ददिः ॥३॥
आ निरेकमुत प्रियमिन्द्र दर्षि जनानाम् ।
धृषता धृष्णो स्तवमान आ भर ॥४॥
न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः ।
न परिबाधो हरिवो गविष्टिषु ॥५॥
आ त्वा गोभिरिव व्रजं गीर्भिरृणोम्यद्रिवः ।
आ स्मा कामं जरितुरा मनः पृण ॥६॥
विश्वानि विश्वमनसो धिया नो वृत्रहन्तम ।
उग्र प्रणेतरधि षू वसो गहि ॥७॥
वयं ते अस्य वृत्रहन्विद्याम शूर नव्यसः ।
वसो स्पार्हस्य पुरुहूत राधसः ॥८॥
इन्द्र यथा ह्यस्ति तेऽपरीतं नृतो शवः ।
अमृक्ता रातिः पुरुहूत दाशुषे ॥९॥
आ वृषस्व महामह महे नृतम राधसे ।
दृळ्हश्चिद्दृह्य मघवन्मघत्तये ॥१०॥
नू अन्यत्रा चिदद्रिवस्त्वन्नो जग्मुराशसः ।
मघवञ्छग्धि तव तन्न ऊतिभिः ॥११॥
नह्यङ्ग नृतो त्वदन्यं विन्दामि राधसे ।
राये द्युम्नाय शवसे च गिर्वणः ॥१२॥
एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु ।
प्र राधसा चोदयाते महित्वना ॥१३॥
उपो हरीणां पतिं दक्षं पृञ्चन्तमब्रवम् ।
नूनं श्रुधि स्तुवतो अश्व्यस्य ॥१४॥
नह्यङ्ग पुरा चन जज्ञे वीरतरस्त्वत् ।
नकी राया नैवथा न भन्दना ॥१५॥
एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः ।
एवा हि वीर स्तवते सदावृधः ॥१६॥
इन्द्र स्थातर्हरीणां नकिष्टे पूर्व्यस्तुतिम् ।
उदानंश शवसा न भन्दना ॥१७॥
तं वो वाजानां पतिमहूमहि श्रवस्यवः ।
अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥१८॥
एतो न्विन्द्रं स्तवाम सखाय स्तोम्यं नरम् ।
कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥१९॥
अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः ।
घृतात्स्वादीयो मधुनश्च वोचत ॥२०॥
यस्यामितानि वीर्या न राधः पर्येतवे ।
ज्योतिर्न विश्वमभ्यस्ति दक्षिणा ॥२१॥
स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम् ।
अर्यो गयं मंहमानं वि दाशुषे ॥२२॥
एवा नूनमुप स्तुहि वैयश्व दशमं नवम् ।
सुविद्वांसं चर्कृत्यं चरणीनाम् ॥२३॥
वेत्था हि निरृतीनां वज्रहस्त परिवृजम् ।
अहरहः शुन्ध्युः परिपदामिव ॥२४॥
तदिन्द्राव आ भर येना दंसिष्ठ कृत्वने ।
द्विता कुत्साय शिश्नथो नि चोदय ॥२५॥
तमु त्वा नूनमीमहे नव्यं दंसिष्ठ सन्यसे ।
स त्वं नो विश्वा अभिमातीः सक्षणिः ॥२६॥
य ऋक्षादंहसो मुचद्यो वार्यात्सप्त सिन्धुषु ।
वधर्दासस्य तुविनृम्ण नीनमः ॥२७॥
यथा वरो सुषाम्णे सनिभ्य आवहो रयिम् ।
व्यश्वेभ्यः सुभगे वाजिनीवति ॥२८॥
आ नार्यस्य दक्षिणा व्यश्वाँ एतु सोमिनः ।
स्थूरं च राधः शतवत्सहस्रवत् ॥२९॥
यत्त्वा पृच्छादीजानः कुहया कुहयाकृते ।
एषो अपश्रितो वलो गोमतीमव तिष्ठति ॥३०॥


सायणभाष्यम्

‘सखाय आ शिषामहि' इति त्रिंशदृचं चतुर्थं सूक्तम् । अत्रेयमनुक्रमणिका सखायस्तृचोऽन्त्यः सौषाम्णस्य वरोर्दानस्तुतिरन्त्यानुष्टुप् ' इति । व्यश्वपुत्रो विश्वमना ऋषिः । ‘ औष्णिहं ह' इत्युक्तत्वादेतदादीनि त्रीणि सूक्तानि उष्णिक्छन्दस्कानि । अनुक्तत्वादिन्द्रो देवता । अन्त्यासु तिसृषु सुषामाख्यस्य राज्ञः पुत्रस्य वरूनाम्नो राज्ञो दानं स्तूयते । अतस्तास्तद्देवताकाः । महाव्रते निष्केवल्ये औष्णिहतृचाशीतावेतत्सूक्तम् । तथैव पञ्चमारण्यके शौनकेन सूत्र्यते – 'सखाय आ शिषामहि य एक इद्विदयते' (ऐ. आ. ५. २. ५) इति । दशमेऽहनि मरुस्वतीयशस्त्रे ‘सखायः इति तिस्र ऋचः । सूत्र्यते च – ‘सखाय आ शिषामहीति तिस्र उष्णिहः' (आश्व.श्रौ. ८.१२) इति ॥


सखा॑य॒ आ शि॑षामहि॒ ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ ।

स्तु॒ष ऊ॒ षु वो॒ नृत॑माय धृ॒ष्णवे॑ ॥१

सखा॑यः । आ । शि॒षा॒म॒हि॒ । ब्रह्म॑ । इन्द्रा॑य । व॒ज्रिणे॑ ।

स्तु॒षे । ऊं॒ इति॑ । सु । वः॒ । नृऽत॑माय । धृ॒ष्णवे॑ ॥१

सखायः । आ । शिषामहि । ब्रह्म । इन्द्राय । वज्रिणे ।

स्तुषे । ऊं इति । सु । वः । नृऽतमाय । धृष्णवे ॥१

"सखायः मित्रभूता हे ऋत्विजः “वज्रिणे वज्रहस्ताय “इन्द्राय “ब्रह्म कर्तव्यमेतत्सूक्तरूपं स्तोत्रम् “आ “शिषामहि वयम् आशास्मः'। शासु अनुशिष्टौ'। लुङि च्लेरादेशः । इत्वषत्वे । व्यत्ययेनात्मनेपदम्। तत्र “वः सर्वेषामेव युष्माकमर्थाय “नृतमाय सर्वेषां नेतृतमाय यद्वा संग्रामेष्वायुधादीनां नेतृतमाय “धृष्णवे शत्रूणां धर्षणशीलाय तस्मा इन्द्रायाहमेव "सु सुष्ठु “स्तुषे स्तौमि ॥


शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये॑न वृत्र॒हा ।

म॒घैर्म॒घोनो॒ अति॑ शूर दाशसि ॥२

शव॑सा । हि । असि॑ । श्रु॒तः । वृ॒त्र॒ऽहत्ये॑न । वृ॒त्र॒ऽहा ।

म॒घैः । म॒घोनः॑ । अति॑ । शू॒र॒ । दा॒श॒सि॒ ॥२

शवसा । हि । असि । श्रुतः । वृत्रऽहत्येन । वृत्रऽहा ।

मघैः । मघोनः । अति । शूर । दाशसि ॥२

हे इन्द्र त्वं “शवसा बलेन “श्रुतः प्रसिद्धः “असि भवसि । “हि प्रसिद्धौ । तदेवाह । “वृत्रहत्येन वृत्रासुरहननेन “वृत्रहा वृत्रहेति प्रसिद्धो भवसि । “शूर शौर्यवन् हे इन्द्र “मघोनः मघवतो धनवतः पुरुषात् “मघैः त्वदीयैर्धनैः “अति अतिक्रम्य “दाशसि स्तोतृभ्योऽस्मभ्यं प्रयच्छसि ।


स न॒ः स्तवा॑न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमम् ।

नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः ॥३

सः । नः॒ । स्तवा॑नः । आ । भ॒र॒ । र॒यिम् । चि॒त्रश्र॑वःऽतमम् ।

नि॒रे॒के । चि॒त् । यः । ह॒रि॒ऽवः॒ । वसुः॑ । द॒दिः ॥३

सः । नः । स्तवानः । आ । भर । रयिम् । चित्रश्रवःऽतमम् ।

निरेके । चित् । यः । हरिऽवः । वसुः । ददिः ॥३

हे इन्द्र “सः तथाविधस्त्वं “स्तवानः अस्माभिः स्तूयमानः सन् “चित्रश्रवस्तमम् अतिशयेन नानाविधान्नोपेतं “रयिं पुत्रं धनं वा “नः अस्मभ्यम् “आ “भर संपादय। देहीत्यर्थः । "हरिवः । हरी अश्वौ । तद्वन् हे इन्द्र “यः त्वं “निरेके “चित् निर्गमन एव “वसुः शत्रूणां वासयिता भवसि । तवायुधनिर्गमनादेव शत्रवः पलायन्ते खलु । किंच त्वं “ददिः धनानां दाता भवसि ॥


आ नि॑रे॒कमु॒त प्रि॒यमिन्द्र॒ दर्षि॒ जना॑नाम् ।

धृ॒ष॒ता धृ॑ष्णो॒ स्तव॑मान॒ आ भ॑र ॥४

आ । नि॒रे॒कम् । उ॒त । प्रि॒यम् । इन्द्र॑ । दर्षि॑ । जना॑नाम् ।

धृ॒ष॒ता । धृ॒ष्णो॒ इति॑ । स्तव॑मानः । आ । भ॒र॒ ॥४

आ । निरेकम् । उत । प्रियम् । इन्द्र । दर्षि । जनानाम् ।

धृषता । धृष्णो इति । स्तवमानः । आ । भर ॥४

हे “इन्द्र “उत अपि च “प्रियं प्रीणनात् प्रियतमं “निरेकम् । निरेकं धनं भवति विरेचनान्निर्गमनाद्वेति । तद्धनं जनानां स्तोतॄणामस्माकम् “आ “दर्षि आविदारय विवृतं कुरु । ‘दॄ विदारणे' । छान्दसो विकरणस्य लुक् । विवृत्य च “धृष्णो धर्षणशील हे इन्द्र “स्तवमानः स्तोतृभिरस्माभिः स्तूयमानः सन् “धृषता धृष्टेन मनसा सह “आ “भर तद्धनमस्मभ्यं देहि ।।


न ते॑ स॒व्यं न दक्षि॑णं॒ हस्तं॑ वरन्त आ॒मुरः॑ ।

न प॑रि॒बाधो॑ हरिवो॒ गवि॑ष्टिषु ॥५

न । ते॒ । स॒व्यम् । न । दक्षि॑णम् । हस्त॑म् । व॒र॒न्ते॒ । आ॒ऽमुरः॑ ।

न । प॒रि॒ऽबाधः॑ । ह॒रि॒ऽवः॒ । गोऽइ॑ष्टिषु ॥५

न । ते । सव्यम् । न । दक्षिणम् । हस्तम् । वरन्ते । आऽमुरः ।

न । परिऽबाधः । हरिऽवः । गोऽइष्टिषु ॥५

हे “हरिवः अश्ववन्निन्द्र “आमुरः संग्राम आभिमुख्येन कर्तारः प्रतियोद्धारः “गविष्टिषु पणिभिरपहृतानामङ्गिरसां गवामन्वेषणेषु “ते तव “सव्यं “हस्तं “न “वरन्ते न निवारयन्ति । तेषामायुधादिभिर्न निवार्यत इत्यर्थः । तथा “दक्षिणं हस्तं च “न निवारयन्ति । किंच "परिबाधः परितो बाधमाना वृत्रादयोऽसुराश्च तव सव्यदक्षिणहस्तौ “न निवारयन्ति । संग्रामेषु त्वया सर्वे शत्रवश्छिन्नहस्ताः सर्वतो गच्छन्तु । त्वं तु तैरबाधितो वर्तस इत्यर्थः ॥ ॥ १५ ॥


आ त्वा॒ गोभि॑रिव व्र॒जं गी॒र्भिरृ॑णोम्यद्रिवः ।

आ स्मा॒ कामं॑ जरि॒तुरा मनः॑ पृण ॥६

आ । त्वा॒ । गोभिः॑ऽइव । व्र॒जम् । गीः॒ऽभिः । ऋ॒णो॒मि॒ । अ॒द्रि॒ऽवः॒ ।

आ । स्म॒ । काम॑म् । ज॒रि॒तुः । आ । मनः॑ । पृ॒ण॒ ॥६

आ । त्वा । गोभिःऽइव । व्रजम् । गीःऽभिः । ऋणोमि । अद्रिऽवः ।

आ । स्म । कामम् । जरितुः । आ । मनः । पृण ॥६

हे "अद्रिवः वज्रवन्निन्द्र “गीर्भिः स्तुतिलक्षणाभिर्वाग्भिः “त्वा त्वाम् “आ “ऋणोमि प्राप्नोमि । 'ऋणु गतौ । तनादिः । तत्र दृष्टान्तः । “गोभिरिव । यथा गोपालो गोभिः “व्रजं गोष्ठं गच्छति तद्वत्त्वां स्तुतिभिः प्राप्नोमीत्यर्थः । ततस्तं “जरितुः स्तोतुर्मम “कामं धनादिविषयम् "आ “पृण आपूरय । तथा "मनः मदीयं मानसं धनादिप्रदानेनापूरय ॥


विश्वा॑नि वि॒श्वम॑नसो धि॒या नो॑ वृत्रहन्तम ।

उग्र॑ प्रणेत॒रधि॒ षू व॑सो गहि ॥७

विश्वा॑नि । वि॒श्वऽम॑नसः । धि॒या । नः॒ । वृ॒त्र॒ह॒न्ऽत॒म॒ ।

उग्र॑ । प्र॒ने॒त॒रिति॑ प्रऽनेतः । अधि॑ । सु । व॒सो॒ इति॑ । ग॒हि॒ ॥७

विश्वानि । विश्वऽमनसः । धिया । नः । वृत्रहन्ऽतम ।

उग्र । प्रनेतरिति प्रऽनेतः । अधि । सु । वसो इति । गहि ॥७

हे “वृत्रहन्तम अतिशयेन वृत्रासुरस्योपद्रवाणां वा हन्तः । 'नाद्धस्य' इति तमपो नुडागमः । कीदृश । “उग्र उद्गूर्णबल “प्रणेतः स्तोतॄणां प्रकर्षेण धनादेर्नेतः । नामन्त्रिते' इत्युग्रेत्यस्य अविद्यमानवद्भावप्रतिषेधः । तथाविध “वसो शत्रूणां वासयितरिन्द्र “नः । पूजायां बहुवचनम् । “विश्वमनसः एतन्नाम्नो मम “विश्वानि सर्वाणि स्तोत्राणि कर्माणि वा “धिया मनसा “सु सुष्ठु “अधि “गहि अधिगच्छ । स्तुत्यतया यष्टव्यतया वा मनोवेगेन गच्छेत्यर्थः । गमेर्लोटि छान्दसः शपो लुक् । हेर्ङिद्वद्भावात् ‘अनुदात्तोपदेश' इत्यनुनासिकलोपः ।।


व॒यं ते॑ अ॒स्य वृ॑त्रहन्वि॒द्याम॑ शूर॒ नव्य॑सः ।

वसोः॑ स्पा॒र्हस्य॑ पुरुहूत॒ राध॑सः ॥८

व॒यम् । ते॒ । अ॒स्य । वृ॒त्र॒ऽह॒न् । वि॒द्याम॑ । शू॒र॒ । नव्य॑सः ।

वसोः॑ । स्पा॒र्हस्य॑ । पु॒रु॒ऽहू॒त॒ । राध॑सः ॥८

वयम् । ते । अस्य । वृत्रऽहन् । विद्याम । शूर । नव्यसः ।

वसोः । स्पार्हस्य । पुरुऽहूत । राधसः ॥८

हे वृत्रहन् वृत्रस्य हन्तः “शूर बलवन् “पुरुहूत पुरुभिर्बहुभिराह्वातव्येन्द्र “नव्यसः नवीयसः । ईषसुन ईकारलोपश्छान्दसः। नवतरं “स्पार्हस्य स्पृहणीयं “राधसः। 'राध साध संसिद्धौ'। शर्मादेः संसाधकं “ते त्वदीयम् “अस्य “वसोः । ‘ क्रियाग्रहणं कर्तव्यम्' इति वसोः संप्रदानसंज्ञा । ‘ चतुर्थ्यर्थे बहुलं छन्दसि' इति वसोः षष्ठी । त्वदीयमिदं परिदृश्यमानं धनं “वयं “विद्याम लभेमहि । ‘ विद्लृ लाभे'। आदादिकः । छान्दसो विकरणस्य लुक् ॥


इन्द्र॒ यथा॒ ह्यस्ति॒ तेऽप॑रीतं नृतो॒ शवः॑ ।

अमृ॑क्ता रा॒तिः पु॑रुहूत दा॒शुषे॑ ॥९

इन्द्र॑ । यथा॑ । हि । अस्ति॑ । ते॒ । अप॑रिऽइतम् । नृ॒तो॒ इति॑ । शवः॑ ।

अमृ॑क्ता । रा॒तिः । पु॒रु॒ऽहू॒त॒ । दा॒शुषे॑ ॥९

इन्द्र । यथा । हि । अस्ति । ते । अपरिऽइतम् । नृतो इति । शवः ।

अमृक्ता । रातिः । पुरुऽहूत । दाशुषे ॥९

हे "नृतो सर्वस्यान्तर्यामितया नर्तयितः “इन्द्र “ते त्वदीयं “शवः बलं "यथा "अपरीतम् “अस्ति शत्रुभिरपरिगतमव्याप्तं भवति । “हि प्रसिद्धौ । तथा हे “पुरुहूत पुरुभिर्बहुभिराहूतेन्द्र “दाशुषे हविर्दत्तवते यजमानाय “रातिः धनादिदानम् “अमृक्ता शत्रुभिरहिसितं भवति । त्वत्तो लब्धं यजमानस्य धनं शत्रवो न हिंसन्ति । यथा त्वदीयबलस्य रक्षक एवं तस्य धनस्यापि रक्षक इत्यर्थः ।।


आ वृ॑षस्व महामह म॒हे नृ॑तम॒ राध॑से ।

दृ॒ळ्हश्चि॑द्दृह्य मघवन्म॒घत्त॑ये ॥१०

आ । वृ॒ष॒स्व॒ । म॒हा॒ऽम॒ह॒ । म॒हे । नृ॒ऽत॒म॒ । राध॑से ।

दृ॒ळ्हः । चि॒त् । दृ॒ह्य॒ । म॒घ॒ऽव॒न् । म॒घत्त॑ये ॥१०

आ । वृषस्व । महाऽमह । महे । नृऽतम । राधसे ।

दृळ्हः । चित् । दृह्य । मघऽवन् । मघत्तये ॥१०

हे “महामह अतिशयेन सर्वैः पूजनीय “नृतम नेतृतमेन्द्र “महे महते "राधसे शत्रुधनानां संसाधकाय बलाय बलार्थम् “आ “वृषस्व स्वोदरमासिञ्च। सोमं पिबेत्यर्थः । हे “मघवन् धनवन्निन्द्र सोमपानेन मत्तः सन् “दृळ्हश्चित् दृढानि परैरबाधितान्यपि शत्रुपुराणि “मघत्तये मघानां धनानां लाभाय “दृह्य जिघांस । विदारयेत्यर्थः ॥ ॥ १६ ॥


नू अ॒न्यत्रा॑ चिदद्रिव॒स्त्वन्नो॑ जग्मुरा॒शसः॑ ।

मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभिः॑ ॥११

नु । अ॒न्यत्र॑ । चि॒त् । अ॒द्रि॒ऽवः॒ । त्वत् । नः॒ । ज॒ग्मुः॒ । आ॒ऽशसः॑ ।

मघ॑ऽवन् । श॒ग्धि । तव॑ । तत् । नः॒ । ऊ॒तिऽभिः॑ ॥११

नु । अन्यत्र । चित् । अद्रिऽवः । त्वत् । नः । जग्मुः । आऽशसः ।

मघऽवन् । शग्धि । तव । तत् । नः । ऊतिऽभिः ॥११

हे “अद्रिवः वज्रवन्निन्द्र त्वं धनवान् दाता चेत्यपरिज्ञाय “नः अस्मदीयानि “आशसः आशंसनानि अभिलाषाः “त्वत् त्वत्तः “अन्यत्र देवादौ “नू “चित् पुरा “जग्मुः अगच्छन् । तत्र फलं नालभन्त । इदानीं त्वं धनवान् दानशील इत्यस्माभिर्ज्ञातम् । अत एव हे “मघवन् धनवन्निन्द्र “तव त्वदीयं “तत् शत्रुपुरविदारणलब्धं धनम् "ऊतिभिः त्वद्रक्षणैः “नः अस्मभ्यं "शग्धि देहि । शग्धीति दानकर्मा । शक्नोतेर्लोटि छान्दसो विकरणस्य लुक् ।।


न॒ह्य१॒॑ङ्ग नृ॑तो॒ त्वद॒न्यं वि॒न्दामि॒ राध॑से ।

रा॒ये द्यु॒म्नाय॒ शव॑से च गिर्वणः ॥१२

न॒हि । अ॒ङ्ग । नृ॒तो॒ इति॑ । त्वत् । अ॒न्यम् । वि॒न्दामि॑ । राध॑से ।

रा॒ये । द्यु॒म्नाय॑ । शव॑से । च॒ । गि॒र्व॒णः॒ ॥१२

नहि । अङ्ग । नृतो इति । त्वत् । अन्यम् । विन्दामि । राधसे ।

राये । द्युम्नाय । शवसे । च । गिर्वणः ॥१२

हे “नृतो नर्तयितः “गिर्वणः गीर्भिः स्तुतिभिर्वननीय संभजनीयेन्द्र “राधसे बलसंसाधकायान्नाय "राये धनाय “द्युम्नाय द्योतमानाय यशसे “शवसे वर्धकाय बलाय “च “त्वत् त्वत्तः “अन्यं “नहि "विन्दामि न लभे । “अङ्ग प्रसिद्धौ ॥


एन्दु॒मिन्द्रा॑य सिञ्चत॒ पिबा॑ति सो॒म्यं मधु॑ ।

प्र राध॑सा चोदयाते महित्व॒ना ॥१३

आ । इन्दु॑म् । इन्द्रा॑य । सि॒ञ्च॒त॒ । पिबा॑ति । सो॒म्यम् । मधु॑ ।

प्र । राध॑सा । चो॒द॒या॒ते॒ । म॒हि॒ऽत्व॒ना ॥१३

आ । इन्दुम् । इन्द्राय । सिञ्चत । पिबाति । सोम्यम् । मधु ।

प्र । राधसा । चोदयाते । महिऽत्वना ॥१३

हे ऋत्विजः “इन्दुं स्यन्दनशीलं सोममिन्द्रार्थम् “आ “सिञ्चत आश्रयणद्रव्येण सेचनं कुरुत । अभिषुणुतेत्यर्थः । ततः “सोम्यं सोममयं “मधु मकरं सोमरसं “पिबाति पिबतु । पीत्वा च स इन्द्रः “महित्वना स्वमहत्त्वेनैव "राधसा अन्नेन सह धनादिकं स्तोतृभ्यः “प्र “चोदयाते प्रकर्षेण चोदयति । यद्वा । यजमानो महित्वना । इन्द्राय प्रदीयमानत्वादस्य महत्व्“म् । महत्त्वयुक्तेन राधसा अन्नेन सह स्तोतॄन् प्रचोदयति । इन्द्राय हविर्दत्तेति स्तोतॄन् प्रेरयतीत्यर्थः ॥


उपो॒ हरी॑णां॒ पतिं॒ दक्षं॑ पृ॒ञ्चन्त॑मब्रवम् ।

नू॒नं श्रु॑धि स्तुव॒तो अ॒श्व्यस्य॑ ॥१४

उपो॒ इति॑ । हरी॑णाम् । पति॑म् । दक्ष॑म् । पृ॒ञ्चन्त॑म् । अ॒ब्र॒व॒म् ।

नू॒नम् । श्रु॒धि॒ । स्तु॒व॒तः । अ॒श्व्यस्य॑ ॥१४

उपो इति । हरीणाम् । पतिम् । दक्षम् । पृञ्चन्तम् । अब्रवम् ।

नूनम् । श्रुधि । स्तुवतः । अश्व्यस्य ॥१४

“हरीणां हरितवर्णानामश्वानां “पतिं पालयितारं “दक्ष वर्धकं स्वबलं “पृञ्चन्तम् । ‘पृची संपर्के '। मरुत्सु योजयन्तम् । यद्वा। शत्रुषु स्वबलमायुधादिभिः संपर्चयन्तम् । एतादृशमिन्द्रं त्वाम् “उपो "अब्रवम् । विश्वमना अहं स्तोत्रं करवाणि । “अश्व्यस्य । व्यश्वो नामर्षिरश्वशब्देनोच्यते । तस्य पुत्रस्य “स्तुवतः स्तोत्रं कुर्वतो मम संबन्धिनीं त्वद्विषयां स्तुतिं “नूनं संप्रति "श्रुधि शृणु ॥


न॒ह्य१॒॑ङ्ग पु॒रा च॒न ज॒ज्ञे वी॒रत॑र॒स्त्वत् ।

नकी॑ रा॒या नैवथा॒ न भ॒न्दना॑ ॥१५

न॒हि । अ॒ङ्ग । पु॒रा । च॒न । ज॒ज्ञे । वी॒रऽत॑रः । त्वत् ।

नकिः॑ । रा॒या । न । ए॒वऽथा॑ । न । भ॒न्दना॑ ॥१५

नहि । अङ्ग । पुरा । चन । जज्ञे । वीरऽतरः । त्वत् ।

नकिः । राया । न । एवऽथा । न । भन्दना ॥१५

हे इन्द्र “त्वत् त्वत्तः “पुरा पूर्वं “वीरतरः सामर्थ्यवान् कश्चित् “नहि “जज्ञे जातः खलु । “अङ्ग प्रसिद्धौ। त्वमेव सामर्थ्यवान् जात इत्यर्थः । किंच त्वत्तोऽपि “राया धनेन समर्थः "नकिः न कश्चिदस्ति । तथा “एवथा शत्रपुराणि संग्रामं वा प्रति गमनेन त्वत्तोऽधिकः “न जातः । यद्वा । एवथा। अव रक्षणादिषु । अकारस्यैकारछान्दसः । औणादिकोऽथप्रत्ययः । शरणागतानां स्तोतॄणां चावनेन त्वत्तोऽधिको नास्ति । किंच “भन्दना । भन्दतिः स्तुतिकर्मा । स्तुत्या च त्वदधिकः “न जातः । धनवान् रक्षकः स्तुत्यश्च त्वत्तोऽन्यो न जज्ञ इति ॥ ॥ १७ ॥


‘एदु मध्वः' इति तृचः पूर्वोक्ते ब्राह्मणाच्छंसिशस्त्रे वैकल्पिकोऽनुरूपः । सूत्रित च -’ एदु मध्वो मदिन्तरमेतो न्विन्द्रं स्तवाम सखायः' ( आश्व. श्रौ. ७. ८) इति ॥

एदु॒ मध्वो॑ म॒दिन्त॑रं सि॒ञ्च वा॑ध्वर्यो॒ अन्ध॑सः ।

ए॒वा हि वी॒रः स्तव॑ते स॒दावृ॑धः ॥१६

आ । इत् । ऊं॒ इति॑ । मध्वः॑ । म॒दिन्ऽत॑रम् । सि॒ञ्च । वा॒ । अ॒ध्व॒र्यो॒ इति॑ । अन्ध॑सः ।

ए॒व । हि । वी॒रः । स्तव॑ते । स॒दाऽवृ॑धः ॥१६

आ । इत् । ऊं इति । मध्वः । मदिन्ऽतरम् । सिञ्च । वा । अध्वर्यो इति । अन्धसः ।

एव । हि । वीरः । स्तवते । सदाऽवृधः ॥१६

हे “अध्वर्यो अध्वरस्य नेतर्ऋत्विक् “मध्वः मदकरस्य “अन्धसः सोमलक्षणस्यान्नस्य “मदिन्तरम् अत्यर्थं मादयितृतमं सोमरसमेव “आ “सिञ्च इन्द्रार्थमभिषुणु । “इदु इत्यवधारणे । “वीरः समर्थः “सदावृधः सर्वदा हविर्भिर्वर्धनीयः । यद्वा सर्वदा स्वबलस्य वर्धकोऽयम् “एव इन्द्रः "स्तवते “हि स्तोत्रशस्त्रादिभिः स्तूयते खलु । स्तुतायेन्द्राय सोमो दातव्यः । तस्मादा सिञ्चेति समन्वयः ॥


इन्द्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिम् ।

उदा॑नंश॒ शव॑सा॒ न भ॒न्दना॑ ॥१७

इन्द्र॑ । स्था॒तः॒ । ह॒री॒णा॒म् । नकिः॑ । ते॒ । पू॒र्व्यऽस्तु॑तिम् ।

उत् । आ॒नं॒श॒ । शव॑सा । न । भ॒न्दना॑ ॥१७

इन्द्र । स्थातः । हरीणाम् । नकिः । ते । पूर्व्यऽस्तुतिम् ।

उत् । आनंश । शवसा । न । भन्दना ॥१७

हे "हरीणां “स्थातः अश्वानामधिष्ठातः “इन्द्र “ते त्वदीयां “पूर्व्यस्तुतिं पूर्वैर्ऋषिभिः कृतां स्तुतिम्। उपलक्षणमेतत् । इदानींतनैः क्रियमाणामपि स्तुतिं “नकिः न कश्चित् “शवसा बलेन “उदानंश व्याप्नोति । 'अशू व्याप्तौ । लिटि ‘अश्नोतेश्च' इति नुट् । छान्दसो मुम् । कश्चिन्नातिक्रामतीत्यर्थः । किंच “भन्दना सर्वैः प्रार्थनीयत्वात् पूजनीयेन धनेन स्तुत्या वा त्वदीयां स्तुतिं न कश्चिदतिक्रामति । त्वत्तो बलवान् धनी स्तुत्यो वान्यो नास्तीत्यर्थः ॥


तं वो॒ वाजा॑नां॒ पति॒महू॑महि श्रव॒स्यवः॑ ।

अप्रा॑युभिर्य॒ज्ञेभि॑र्वावृ॒धेन्य॑म् ॥१८

तम् । वः॒ । वाजा॑नाम् । पति॑म् । अहू॑महि । श्र॒व॒स्यवः॑ ।

अप्रा॑युऽभिः । य॒ज्ञेभिः॑ । व॒वृ॒धेन्य॑म् ॥१८

तम् । वः । वाजानाम् । पतिम् । अहूमहि । श्रवस्यवः ।

अप्रायुऽभिः । यज्ञेभिः । ववृधेन्यम् ॥१८

“अप्रायुभिः कर्मसु अप्रमाद्यन्मनुष्ययुक्तैः । अथवा । अप्रमत्ता एकत्र स्थित्वैव कर्म कुर्वन्ति । कर्म प्रारभ्य नान्यं देशं गच्छन्तीत्यर्थः। एवंविधमनुष्ययुक्तैः “यज्ञेभिः यज्ञैः एतादृशमनुष्यैर्यज्ञैर्वा “वावृधेन्यं वर्धनीयं “वाजानाम् अन्नानां “पतिं स्वामिनं “वः यष्टृयष्टव्यसंबन्धेन युष्मदीयं “तं तादृशमिन्द्रं “श्रवस्यवः वयमन्नकामाः सन्तः "अहूमहि आह्वयामः । ह्वयतेर्लुङि ‘बहुलं छन्दसि' इति संप्रसारणम् ॥


पूर्वोक्त एव शस्त्रे ‘एतो न्विन्द्रम्' इत्येतौ तृचौ वैकल्पिकौ स्तोत्रियानुरूपौ । सूत्रितं च -- ‘एतो न्विन्द्रं स्तवाम सखायः स्तुहीन्द्रं व्यश्ववत्' (आश्व. श्रौ. ७. ८) इति ।।

एतो॒ न्विन्द्रं॒ स्तवा॑म॒ सखा॑य॒ः स्तोम्यं॒ नर॑म् ।

कृ॒ष्टीर्यो विश्वा॑ अ॒भ्यस्त्येक॒ इत् ॥१९

एतो॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । सखा॑यः । स्तोम्य॑म् । नर॑म् ।

कृ॒ष्टीः । यः । विश्वाः॑ । अ॒भि । अस्ति॑ । एकः॑ । इत् ॥१९

एतो इति । नु । इन्द्रम् । स्तवाम । सखायः । स्तोम्यम् । नरम् ।

कृष्टीः । यः । विश्वाः । अभि । अस्ति । एकः । इत् ॥१९

हे “सखायः समानख्याना मित्रभूता वा हे ऋत्विजः “नु क्षिप्रम् “एतो आगच्छतैव । किमर्थं तदाह । “स्तोम्यं स्तोमार्हं “नरं सर्वस्य नेतारं तम् “इन्द्रं “स्तवाम स्तोत्रं करवाम । “यः इन्द्रः “एक “इत् एकोऽसहाय' एव सन् “विश्वाः सर्वाः “कृष्टीः शत्रुसेनाः “अभ्यस्ति अभिभवति । तं स्तवामेति शेषः ॥


अगो॑रुधाय ग॒विषे॑ द्यु॒क्षाय॒ दस्म्यं॒ वचः॑ ।

घृ॒तात्स्वादी॑यो॒ मधु॑नश्च वोचत ॥२०

अगो॑ऽरुधाय । गो॒ऽइषे॑ । द्यु॒क्षाय॑ । दस्म्य॑म् । वचः॑ ।

घृ॒तात् । स्वादी॑यः । मधु॑नः । च॒ । वो॒च॒त॒ ॥२०

अगोऽरुधाय । गोऽइषे । द्युक्षाय । दस्म्यम् । वचः ।

घृतात् । स्वादीयः । मधुनः । च । वोचत ॥२०

हे ऋत्विजः “अगोरुधाय । गाः स्तुती रुणद्धीति गोरुधः । न गोरुधोऽगोरुधः । ता न विनाशयत्यादरेण शृणोतीत्यर्थः। तादृशाय अत एव “गविषे स्तोत्राणीच्छते “द्युक्षाय दीप्यमानायेन्द्राय “दस्म्यं दर्शनीयं “घृतात् स्वादुतरादाज्यात् "मधुनश्च “स्वादीयः अतिशयेन स्वादुभूतं “वचः स्तोत्ररूपं वाक्यं “वोचत ब्रूत । ऋत्विग्भिः कृतं कर्म यजमानोऽपि कृतवान् भवतीति मदीयमिन्द्रविषयं वचो घृतान्मधुनश्च स्वादुतरं भवत्वित्याशास्ते । तदाह भगवानाश्वलायनः - वच एव म इदं घृताच्च मधुनश्च स्वादीयोऽस्ति प्रीतिः स्वादीयोऽस्त्वित्येव तदाह' (आश्व. गृ. १. १. ५) इति ॥ ॥ १८ ॥


यस्यामि॑तानि वी॒र्या॒३॒॑ न राध॒ः पर्ये॑तवे ।

ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा ॥२१

यस्य॑ । अमि॑तानि । वी॒र्या॑ । न । राधः॑ । परि॑ऽएतवे ।

ज्योतिः॑ । न । विश्व॑म् । अ॒भि । अस्ति॑ । दक्षि॑णा ॥२१

यस्य । अमितानि । वीर्या । न । राधः । परिऽएतवे ।

ज्योतिः । न । विश्वम् । अभि । अस्ति । दक्षिणा ॥२१

“यस्य इन्द्रस्य “वीर्या वीर्याणि वृत्रहननादिलक्षणानि सामर्थ्यानि “अमितानि अस्य इयन्ति सामर्थ्यानि नान्यानीति परिमितानि न भवन्ति । यद्वा । ' मीङ् हिंसायाम्। छान्दसो ह्रस्वः । शत्रुभिरहिंसितानि भवन्ति । तथा यस्येन्द्रस्य “राधः धनं “पर्येतवे शत्रुभिः परिगन्तुं प्राप्तुं शक्यं “न भवति । अत एव “यस्य "दक्षिणा धनदानं “विश्वमभ्यस्ति सर्वं स्तोतृजनमभिभवति । तत्र दृष्टान्तः । “ज्योतिर्न । ज्योतिषामयनत्वाज्ज्योतिरन्तरिक्षम् । यथान्तरिक्षं सर्वलोकं पिधाय तिष्ठति तद्वत् स्तोतृजनं धनदानेन पिधत्त इत्यर्थः ॥


स्तु॒हीन्द्रं॑ व्यश्व॒वदनू॑र्मिं वा॒जिनं॒ यम॑म् ।

अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे॑ ॥२२

स्तु॒हि । इन्द्र॑म् । व्य॒श्व॒ऽवत् । अनू॑र्मिम् । वा॒जिन॑म् । यम॑म् ।

अ॒र्यः । गय॑म् । मंह॑मानम् । वि । दा॒शुषे॑ ॥२२

स्तुहि । इन्द्रम् । व्यश्वऽवत् । अनूर्मिम् । वाजिनम् । यमम् ।

अर्यः । गयम् । मंहमानम् । वि । दाशुषे ॥२२

हे विश्वमनः “अनूर्मिम् । ऊर्मिर्हिंसाकर्मा । कैश्चिदप्यहिंस्यम् । अथ वा शत्रुभिरगन्तव्यम् अत एव “वाजिनं बलवन्तं "यमं स्तोतृभिः सुनियतमेतादृशम् “इन्द्रं “स्तुहि। स्तोत्रे दृष्टान्तः । “व्यश्ववत् । यथा व्यश्वो विश्वमनसः पिता इन्द्रमस्तौत् तद्वत् स्तुहीत्यर्थः । स्तुतश्चेत् "अर्यः स्वामी इन्द्रः “दाशुषे हविर्दतक्ते यजमानाय “मंहमानं पूज्यमानं “गयं धनम् । यद्वा । देवानां पूजायै गयं गृहम् । गृहमस्ति चेत् देवा हविर्भिः पूज्यन्ते । तादृशं गृहं वितरति । तस्मात् त्वं धनगृहलाभाय स्तुहीत्यर्थः ॥


ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नव॑म् ।

सुवि॑द्वांसं च॒र्कृत्यं॑ च॒रणी॑नाम् ॥२३

ए॒व । नू॒नम् । उप॑ । स्तु॒हि॒ । वैय॑श्व । द॒श॒मम् । नव॑म् ।

सुऽवि॑द्वांसम् । च॒र्कृत्य॑म् । च॒रणी॑नाम् ॥२३

एव । नूनम् । उप । स्तुहि । वैयश्व । दशमम् । नवम् ।

सुऽविद्वांसम् । चर्कृत्यम् । चरणीनाम् ॥२३

हे “वैयश्व व्यश्वस्य पुत्र विश्वमनः “चर्षणीनां मनुष्याणां देहे स्थितानां नवानां प्राणानां “दशमं दशसंख्यापूरकम् । तत्र मन्त्रः-’ नव वै पुरुषे प्राणा मनुष्येषु वर्तमाना इन्द्रस्तेषां दशधा भवतीन्द्रस्यात्मानं दशधा चरन्तम्' इति । एतादृशमत एव “नवं स्तुत्यं सुविद्वांसम् अन्तर्यामित्वात् सुष्ठु सर्वं जानन्तं “चर्कृत्यं भूयो भूयः कार्येषु सर्वैर्नमस्कर्तव्यमेवंविधमिन्द्रम् “एव "नूनम् इदानीम् “उप "स्तुहि समीपे स्तुहि ॥


वेत्था॒ हि निरृ॑तीनां॒ वज्र॑हस्त परि॒वृज॑म् ।

अह॑रहः शु॒न्ध्युः प॑रि॒पदा॑मिव ॥२४

वेत्थ॑ । हि । निःऽऋ॑तीनाम् । वज्र॑ऽहस्त । प॒रि॒ऽवृज॑म् ।

अहः॑ऽअहः । शु॒न्ध्युः । प॒रि॒पदा॑म्ऽइव ॥२४

वेत्थ । हि । निःऽऋतीनाम् । वज्रऽहस्त । परिऽवृजम् ।

अहःऽअहः । शुन्ध्युः । परिपदाम्ऽइव ॥२४

इदानीमृषिरिन्द्रं संबोध्याह । हे “वज्रहस्त वज्रयुक्तहस्तेन्द्र “निर्ऋतीनाम् उपद्रवकारिणां रक्षसां “परिवृजं परिवर्जनम् । हिरवधारणे । त्वमेव वेत्थ जानीषे । तत्र दृष्टान्तः । “अहरहः “शुन्ध्युः । अस्मिन्नुदिते सति ब्राह्मणा आत्मीयं कर्म कृत्वा शुद्धा भवन्तीति शोधनहेतुत्वात् शुन्ध्युरादित्यः । “परिपदामिव परितो यजमानानामिव । यद्वा। परिपदां समानाधिकरणः । परितः पततां पक्षिणां वर्जनं स्वस्थानत्यागमहरहः प्रतिदिवसं यथा वेत्ति । उदिते सूर्ये पक्षिणः स्वस्थानं परित्यज्य सर्वतो गच्छन्ति खलु । एवं त्वयीन्द्रे स्वबलेन प्रकाशमाने सति शत्रवः स्वपुरादि त्यक्त्वा पलायन्त इत्यर्थः ॥


तदि॒न्द्राव॒ आ भ॑र॒ येना॑ दंसिष्ठ॒ कृत्व॑ने ।

द्वि॒ता कुत्सा॑य शिश्नथो॒ नि चो॑दय ॥२५

तत् । इ॒न्द्र॒ । अवः॑ । आ । भ॒र॒ । येन॑ । दं॒सि॒ष्ठ॒ । कृत्व॑ने ।

द्वि॒ता । कुत्सा॑य । शि॒श्न॒थः॒ । नि । चो॒द॒य॒ ॥२५

तत् । इन्द्र । अवः । आ । भर । येन । दंसिष्ठ । कृत्वने ।

द्विता । कुत्साय । शिश्नथः । नि । चोदय ॥२५

हे इन्द्र “तत् “अवः तद्रक्षणमस्मभ्यम् “आ “भर । हे “दंसिष्ठ अत्यन्तं दर्शनीय यद्वा शत्रूणामुपक्षपयितरिन्द्र “कृत्वने कर्म कुर्वते यजमानाय तदर्थं “येन पालनमकृथाः तद्रक्षणम् आभिरेति समन्वयः । किंच ”कुत्साय कुत्सनामकाय राजर्षये “द्विता द्विधा द्विप्रकारेण “शिश्नथः त्वं शत्रूनवधीः । तस्मै द्वैधं पालनमकार्षीरित्यर्थः। तद्रक्षणमस्मभ्यं “नि “चोदय नितरामत्यर्थं प्रेरय । यद्वा कृत्वन इति सामान्येनोक्त्वा विशेषेण तदेवाह कुत्सायेत्यादि । शेषं पूर्ववत् ॥ ॥ १९ ॥


तमु॑ त्वा नू॒नमी॑महे॒ नव्यं॑ दंसिष्ठ॒ सन्य॑से ।

स त्वं नो॒ विश्वा॑ अ॒भिमा॑तीः स॒क्षणिः॑ ॥२६

तम् । ऊं॒ इति॑ । त्वा॒ । नू॒नम् । ई॒म॒हे॒ । नव्य॑म् । दं॒सि॒ष्ठ॒ । सन्य॑से ।

सः । त्वम् । नः॒ । विश्वाः॑ । अ॒भिऽमा॑तीः । स॒क्षणिः॑ ॥२६

तम् । ऊं इति । त्वा । नूनम् । ईमहे । नव्यम् । दंसिष्ठ । सन्यसे ।

सः । त्वम् । नः । विश्वाः । अभिऽमातीः । सक्षणिः ॥२६

हे “दंसिष्ठ अतिशयेन दर्शनीयेन्द्र "नव्यं स्तोतृभिः स्तोतव्यं “तमु तादृशमेव “त्वा त्वां “नूनम् इदानीम् “ईमहे वयं याचामहे। किमर्थम्। “संन्यसे । “असु क्षेपणे '। भावे क्विप् । संन्यासार्थं याचामह इति शेषः। “सः तादृशः “त्वं “नः अस्माकं “विश्वाः सर्वाः “अभिमातीः शत्रुसेनाः “सक्षणिः । सहेः सनिप्रत्ययः । सहनशीलोऽभिभवनशीलो भवसि ।।


य ऋक्षा॒दंह॑सो मु॒चद्यो वार्या॑त्स॒प्त सिन्धु॑षु ।

वध॑र्दा॒सस्य॑ तुविनृम्ण नीनमः ॥२७

यः । ऋक्षा॑त् । अंह॑सः । मु॒चत् । यः । वा॒ । आर्या॑त् । स॒प्त । सिन्धु॑षु ।

वधः॑ । दा॒सस्य॑ । तु॒वि॒ऽनृ॒म्ण॒ । नी॒न॒मः॒ ॥२७

यः । ऋक्षात् । अंहसः । मुचत् । यः । वा । आर्यात् । सप्त । सिन्धुषु ।

वधः । दासस्य । तुविऽनृम्ण । नीनमः ॥२७

पूर्वोऽर्धर्चः परोक्षकृतः । “यः इन्द्रः “ऋक्षात् । ऋन् मनुष्यान् क्षणोति । क्षणोतेरौणादिको डप्रत्ययः । तस्मात् रक्षसो जातात् “अंहसः पापरूपादुपद्रवात् "मुचत् मुञ्चति । राक्षस एनं न बाधते किं पुनस्तं हन्तीत्यर्थः । अपि च “यः इन्द्रः “सप्त “सिन्धुषु गङ्गाद्यासु नदीषु । यद्वा । सप्त सर्पणशीलासु सिन्धुषु । तत्कूलेष्वित्यर्थः । गङ्गायां घोष इतिवत् । तेषु वर्तमानानां स्तोतॄणाम् “आर्यात् धनादिकं प्रेरयेत् ।' ऋ गतिप्रापणयोः '। आशीर्लिङि ‘गुणोऽर्तिसंयोगाद्योः' (पा. सू. ७. ४. २९) इति गुणः । ‘बहुलं छन्दसि' इति लिङयप्याडागमः । अथ प्रत्यक्षः। हे "तुविनृम्ण बहुधनेन्द्र "दासस्य उपक्षपयितुरसुरस्य “वधः हननसाधनमायुधं “नीनमः नमय ॥


यथा॑ वरो सु॒षाम्णे॑ स॒निभ्य॒ आव॑हो र॒यिम् ।

व्य॑श्वेभ्यः सुभगे वाजिनीवति ॥२८

यथा॑ । व॒रो॒ इति॑ । सु॒ऽसाम्ने॑ । स॒निऽभ्यः॑ । आ । अव॑हः । र॒यिम् ।

विऽअ॑श्वेभ्यः । सु॒ऽभ॒गे॒ । वा॒जि॒नी॒ऽव॒ति॒ ॥२८

यथा । वरो इति । सुऽसाम्ने । सनिऽभ्यः । आ । अवहः । रयिम् ।

विऽअश्वेभ्यः । सुऽभगे । वाजिनीऽवति ॥२८

अनेन तृचेन वरोर्दानं स्तूयते । हे "वरो वरुनामक राजन् “सुषाम्णे सुसाम्ने सुषामाख्यं राजानं स्वपितरमुद्दिश्य तस्योत्तमलोकप्राप्त्यर्थं “सनिभ्यः भिक्षमाणेभ्यः “आ कोशादाहृत्य “रयिं धनं “यथा पुरा “अवहः प्रापितवानसि अत एवमिदानीं “व्यश्वेभ्यः व्यश्वपुत्रेभ्यः अस्मभ्यं धनमावह। वाजिनीवतीति पदलिङ्गादियमुषस्या । अयं तृचोऽप्युषस्य इति शौनकेनोक्तं-’ यथा वरो सुषाम्ण इत्युत्तमस्त्वौषसस्तृचः' इति । हे “सुभगे शोभनधनयुक्ते “वाजिनीवति अन्नवति । मतुबनुवादार्थः । यद्वा । वाजो वाजनं गमनमस्यास्तीति वाजिन्यन्नम् । तद्वति हे उषः त्वं चास्मभ्यं धनं प्रयच्छ । वरोर्बहुधनदानात्तस्य दानस्तुतिः । यद्वा । विश्वमना ऋषिर्वरुं संबोध्याह । हे सुभगे शोभनधने वाजिनीवति अन्नवति हे उषः यथा त्वं सुषाम्णे सुषामनाम्ने मम पित्रे धनं दत्त्वा तेनैव सुषाम्णा सनिभ्यो याचमानेभ्यो धनं यथा प्रापितवत्यसि तेन यथा दानमकारयः एवं मह्यमपि धनं दत्त्वा व्यश्वेभ्यः। पूजायां बहुवचनम् । व्यश्वपुत्राय विश्वमनसे धनं प्रापयेति मयापि दानं करोषि । हे वरो उषसमेवं वदेत्यृषिराह ॥


आ ना॒र्यस्य॒ दक्षि॑णा॒ व्य॑श्वाँ एतु सो॒मिनः॑ ।

स्थू॒रं च॒ राधः॑ श॒तव॑त्स॒हस्र॑वत् ॥२९

आ । ना॒र्यस्य॑ । दक्षि॑णा । विऽअ॑श्वान् । ए॒तु॒ । सो॒मिनः॑ ।

स्थू॒रम् । च॒ । राधः॑ । श॒तऽव॑त् । स॒हस्र॑ऽवत् ॥२९

आ । नार्यस्य । दक्षिणा । विऽअश्वान् । एतु । सोमिनः ।

स्थूरम् । च । राधः । शतऽवत् । सहस्रऽवत् ॥२९

अनया धनमृषिरादत्तवानित्याह। “नार्यस्य । नरहितो नर्यः । तस्यापत्यं नार्यः । तस्मात् संबन्धमात्रे ‘तस्येदम्' इत्यण् । तस्य “सोमिनः सोमवतो यजमानस्य । यद्वा । व्यश्वानां विशेषणम् । तादृशस्य वरोः “दक्षिणा दानं सोमवतः “व्यश्वान् व्यश्वपुत्रानस्मान् “आ “एतु आगच्छतु । किंच “स्थूरं स्थूलं “शतवत्सहस्रवत् शतसहस्रधनयुक्तं “राधः अन्नं च अस्मानागच्छतु ।।


यत्त्वा॑ पृ॒च्छादी॑जा॒नः कु॑ह॒या कु॑हयाकृते ।

ए॒षो अप॑श्रितो व॒लो गो॑म॒तीमव॑ तिष्ठति ॥३०

यत् । त्वा॒ । पृ॒च्छात् । ई॒जा॒नः । कु॒ह॒या । कु॒ह॒या॒ऽकृ॒ते॒ ।

ए॒षः । अप॑ऽश्रितः । व॒लः । गो॒ऽम॒तीम् । अव॑ । ति॒ष्ठ॒ति॒ ॥३०

यत् । त्वा । पृच्छात् । ईजानः । कुहया । कुहयाऽकृते ।

एषः । अपऽश्रितः । वलः । गोऽमतीम् । अव । तिष्ठति ॥३०

इदानीमुषसं संबोध्याभिधीयते । हे “कुहयाकृते स वरुः कुह कुत्र तिष्ठतीत्येतदिच्छया अभिलक्षणप्रवृत्तैर्जिज्ञासुभिः पुरस्कृते । कुहशब्दात् क्यच् । एतादृशे हे उषः “त्वा त्वां “यत् यदा कश्चित् “पृच्छात् पृच्छति “ईजानः इष्टवान् वरुः “कुहया क्व तिष्ठतीति यदा पृच्छति तदानीम् “अपश्रितः सर्वैराश्रितः । यद्वा । विवृतद्वारः । यदा याचमाना आगच्छन्ति तदा दौवारिका ने प्रतिबध्नन्तीत्यर्थः । तादृशः “वलः वरः स्वबलेनावारकः शत्रूणाम् । यद्वा । भिक्षूणां धनादिप्रदानेनावरिता । “एषो एष वरुः “गोमतीम् एतन्नामिकां नदीम् । 'कालाध्वनो: ' इति द्वितीया । तस्यास्तीरे “अव “तिष्ठति इति तदानीं त्वं कथयसि ॥ ॥ २० ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.२४&oldid=191485" इत्यस्माद् प्रतिप्राप्तम्