ऋग्वेदः सूक्तं ९.३५
← सूक्तं ९.३४ | ऋग्वेदः - मण्डल ९ सूक्तं ९.३५ प्रभूवसुराङ्गिरसः। |
सूक्तं ९.३६ → |
दे. पवमानः सोमः। गायत्री। |
आ नः पवस्व धारया पवमान रयिं पृथुम् ।
यया ज्योतिर्विदासि नः ॥१॥
इन्दो समुद्रमीङ्खय पवस्व विश्वमेजय ।
रायो धर्ता न ओजसा ॥२॥
त्वया वीरेण वीरवोऽभि ष्याम पृतन्यतः ।
क्षरा णो अभि वार्यम् ॥३॥
प्र वाजमिन्दुरिष्यति सिषासन्वाजसा ऋषिः ।
व्रता विदान आयुधा ॥४॥
तं गीर्भिर्वाचमीङ्खयं पुनानं वासयामसि ।
सोमं जनस्य गोपतिम् ॥५॥
विश्वो यस्य व्रते जनो दाधार धर्मणस्पतेः ।
पुनानस्य प्रभूवसोः ॥६॥
सायणभाष्यम्
‘आ नः' इति षडृचमेकादशं सूक्तमाङ्गिरसस्य प्रभूवसोरार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तं च-’ आ नः पवस्व प्रभूवसुः' इति । गतो विनियोगः ॥
आ नः॑ पवस्व॒ धार॑या॒ पव॑मान र॒यिं पृ॒थुं ।
यया॒ ज्योति॑र्वि॒दासि॑ नः ॥१
आ । नः॒ । प॒व॒स्व॒ । धार॑या । पव॑मान । र॒यिम् । पृ॒थुम् ।
यया॑ । ज्योतिः॑ । वि॒दासि॑ । नः॒ ॥१
आ । नः । पवस्व । धारया । पवमान । रयिम् । पृथुम् ।
यया । ज्योतिः । विदासि । नः ॥१
हे “पवमान सोम त्वं “धारया “नः अस्माकम् “आ “पवस्व सर्वतः क्षर। किम् । “रयिं धनं “पृथु विस्तीर्णम् । “यया धारया “ज्योतिः द्योतमानं यज्ञं स्वर्गं वा “विदासि लम्भयसि “नः अस्माकम् ॥
इंदो॑ समुद्रमींखय॒ पव॑स्व विश्वमेजय ।
रा॒यो ध॒र्ता न॒ ओज॑सा ॥२
इन्दो॒ इति॑ । स॒मु॒द्र॒म्ऽई॒ङ्ख॒य॒ । पव॑स्व । वि॒श्व॒म्ऽए॒ज॒य॒ ।
रा॒यः । ध॒र्ता । नः॒ । ओज॑सा ॥२
इन्दो इति । समुद्रम्ऽईङ्खय । पवस्व । विश्वम्ऽएजय ।
रायः । धर्ता । नः । ओजसा ॥२
हे “इन्दो सोम हे “समुद्रमीङ्खय । समुद्रमित्युदकनाम । ईङ्खयतिर्गतिकर्मा । उदकप्रेरक तथा हे “विश्वमेजय विश्वस्य सर्वस्यास्मच्छत्रोः कम्पयितः सोम त्वम् “ओजसा त्वदीयेन बलेन “नः अस्मभ्यं “रायः धनस्य “धर्ता धारकः “पवस्व । भवेत्यर्थः । अत्र यद्यप्युदकप्रेरणसर्वशत्रुकम्पने संबोधनान्तर्गतत्वादुद्देश्यगते तथापि यजमानस्यापेक्षिते इति रायो धर्तृत्ववदाशास्ये अधिगन्तव्ये ॥
त्वया॑ वी॒रेण॑ वीरवो॒ऽभि ष्या॑म पृतन्य॒तः ।
क्षरा॑ णो अ॒भि वार्यं॑ ॥३
त्वया॑ । वी॒रेण॑ । वी॒र॒ऽवः॒ । अ॒भि । स्या॒म॒ । पृ॒त॒न्य॒तः ।
क्षर॑ । नः॒ । अ॒भि । वार्य॑म् ॥३
त्वया । वीरेण । वीरऽवः । अभि । स्याम । पृतन्यतः ।
क्षर । नः । अभि । वार्यम् ॥३
हे “वीरवः वीरवन् सोम “वीरेण “त्वया साधनेन “पृतन्यतः संग्राममिच्छतः शत्रून् “अभि “ष्याम अभिभवेम । अतः “नः अस्माकं “वार्यं वरणीयं धनम् “अभि “क्षर । अभिगमयेत्यर्थः । अथवा वरणीयं सोमाख्यं धनं क्षर पवस्व ॥
प्र वाज॒मिंदु॑रिष्यति॒ सिषा॑सन्वाज॒सा ऋषिः॑ ।
व्र॒ता वि॑दा॒न आयु॑धा ॥४
प्र । वाज॑म् । इन्दुः॑ । इ॒ष्य॒ति॒ । सिसा॑सन् । वा॒ज॒ऽसाः । ऋषिः॑ ।
व्र॒ता । वि॒दा॒नः । आयु॑धा ॥४
प्र । वाजम् । इन्दुः । इष्यति । सिसासन् । वाजऽसाः । ऋषिः ।
व्रता । विदानः । आयुधा ॥४
सोमः “वाजम् अन्नम् “इष्यति प्रेरयति यजमानेभ्यः । किं कुर्वन् । “सिषासन् यजमानान् संभक्तुमिच्छन् । ईदृशः “इन्दुः “वाजसाः अन्नस्य दाता “ऋषिः सर्वस्य द्रष्टा “व्रता कर्माणि आयुधानि च "विदानः जानन् ।
तं गी॒र्भिर्वा॑चमींख॒यं पु॑ना॒नं वा॑सयामसि ।
सोमं॒ जन॑स्य॒ गोप॑तिं ॥५
तम् । गीः॒ऽभिः । वा॒च॒म्ऽई॒ङ्ख॒यम् । पु॒ना॒नम् । वा॒स॒या॒म॒सि॒ ।
सोम॑म् । जन॑स्य । गोऽप॑तिम् ॥५
तम् । गीःऽभिः । वाचम्ऽईङ्खयम् । पुनानम् । वासयामसि ।
सोमम् । जनस्य । गोऽपतिम् ॥५
“तं सोमं “गीर्भिः स्तुतिवाग्भिः स्तौमीति शेषः । किंच “वाचमीङ्खयं वाचः प्रेरयितारं “पुनानं पूयमानं तं “सोमं “वासयामसि वासयामः श्रयणद्रव्यैः । कीदृशं सोमम् । “जनस्य “गोपतिं गवां पालकम् । यद्वा । एकमेव वाक्यम् । उक्तविशेषणविशिष्टं सोमं स्तुतिभिर्वासयाम इति । माधवस्तु वाचमिति पृथक्पदं तिङन्तं कृत्वा वाक्यद्वयं चकार ॥
विश्वो॒ यस्य॑ व्र॒ते जनो॑ दा॒धार॒ धर्म॑ण॒स्पतेः॑ ।
पु॒ना॒नस्य॑ प्र॒भूव॑सोः ॥६
विश्वः॑ । यस्य॑ । व्र॒ते । जनः॑ । दा॒धार॑ । धर्म॑णः । पतेः॑ ।
पु॒ना॒नस्य॑ । प्र॒भुऽव॑सोः ॥६
विश्वः । यस्य । व्रते । जनः । दाधार । धर्मणः । पतेः ।
पुनानस्य । प्रभुऽवसोः ॥६
“विश्वः सर्वः “जनः मनुष्यो यजमानः “यस्य सोमस्य “व्रते कर्मणि “दाधार धारयति मन इति शेषः । कीदृशस्य । “धर्मणः कर्मणः “पतेः पालकस्य “पुनानस्य पूयमानस्य “प्रभूवसोः प्रभूतधनस्य ॥ ॥ २५ ॥
मण्डल ९ | |||
---|---|---|---|