ऋग्वेदः सूक्तं ९.५४

(ऋग्वेद: सूक्तं ९.५४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.५३ ऋग्वेदः - मण्डल ९
सूक्तं ९.५४
अवत्सारः काश्यपः।
सूक्तं ९.५५ →
दे. पवमानः सोमः। गायत्री।


अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः ।
पयः सहस्रसामृषिम् ॥१॥
अयं सूर्य इवोपदृगयं सरांसि धावति ।
सप्त प्रवत आ दिवम् ॥२॥
अयं विश्वानि तिष्ठति पुनानो भुवनोपरि ।
सोमो देवो न सूर्यः ॥३॥
परि णो देववीतये वाजाँ अर्षसि गोमतः ।
पुनान इन्दविन्द्रयुः ॥४॥


सायणभाष्यम्

अस्य प्रत्नाम्' इति चतुर्ऋचं त्रिंशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘ अस्य प्रत्नाम्' इत्यनुक्रान्तम् । उक्तो विनियोगः ॥


अ॒स्य प्र॒त्नामनु॒ द्युतं॑ शु॒क्रं दु॑दुह्रे॒ अह्र॑यः ।

पयः॑ सहस्र॒सामृषिं॑ ॥१

अ॒स्य । प्र॒त्नाम् । अनु॑ । द्युत॑म् । शु॒क्रम् । दु॒दु॒ह्रे॒ । अह्र॑यः ।

पयः॑ । स॒ह॒स्र॒ऽसाम् । ऋषि॑म् ॥१

अस्य । प्रत्नाम् । अनु । द्युतम् । शुक्रम् । दुदुह्रे । अह्रयः ।

पयः । सहस्रऽसाम् । ऋषिम् ॥१

“अस्य सोमस्य “प्रत्नां पुराणां “द्युतं द्योतमानां तनुम् “अनु “शुक्रं दीप्तं “सहस्रसाम् अभिलषितस्यापरिमितस्य दातारम् “ऋषिम् अतीन्द्रियस्य कर्मफलस्य द्रष्टारं “पयः पातव्यं रसम् “अह्रयः कवयः “दुदुहे दुहन्ति ॥


अ॒यं सूर्य॑ इवोप॒दृग॒यं सरां॑सि धावति ।

स॒प्त प्र॒वत॒ आ दिवं॑ ॥२

अ॒यम् । सूर्यः॑ऽइव । उ॒प॒ऽदृक् । अ॒यम् । सरां॑सि । धा॒व॒ति॒ ।

स॒प्त । प्र॒ऽवतः॑ । आ । दिव॑म् ॥२

अयम् । सूर्यःऽइव । उपऽदृक् । अयम् । सरांसि । धावति ।

सप्त । प्रऽवतः । आ । दिवम् ॥२

“अयं सोमः “सूर्यइव यथा सूर्यः सर्वस्य लोकस्योपद्रष्टा तद्वत् कर्मणाम् “उपदृक् उपद्रष्टा । अपि च "अयं सोमः “सरांसि । त्रिंशदुक्थपात्राणीति केचिद्वर्णयन्ति । अपरे तु त्रिंशदहोरात्राणि सरांसीति । तानि “धावति गच्छति । तथा च यास्कः-’ तत्रैतद्याज्ञिका वेदयन्ते त्रिंशदुक्थपात्राणि माध्यंदिने सवन एकदेवतानि तान्येतस्मिन्काल एकेन प्रतिधानेन पिबन्ति तान्यत्र सरांस्युच्यन्ते । त्रिंशदपरपक्षस्याहोरात्रास्त्रिंशत्पूर्वपक्षस्येति नैरुक्ताः' (निरु. ५ . ११ ) इति । अपि चायं सोमः “दिवम् अधिकृत्य “सप्त “प्रवतः सप्त नदीः “आ तिष्ठति ॥


अ॒यं विश्वा॑नि तिष्ठति पुना॒नो भुव॑नो॒परि॑ ।

सोमो॑ दे॒वो न सूर्यः॑ ॥३

अ॒यम् । विश्वा॑नि । ति॒ष्ठ॒ति॒ । पु॒ना॒नः । भुव॑ना । उ॒परि॑ ।

सोमः॑ । दि॒वः । न । सूर्यः॑ ॥३

अयम् । विश्वानि । तिष्ठति । पुनानः । भुवना । उपरि ।

सोमः । दिवः । न । सूर्यः ॥३

“पुनानः पूयमानः “अयं “सोमः “विश्वानि सर्वाणि “भुवना भुवनानि सर्वेषां भुवनानाम् “उपरि “तिष्ठति । तत्र दृष्टान्तमाह । “देवो “न “सूर्यः । यथा सूर्यो देवः सर्वेषां भुवनानामुपरि तिष्ठति तद्वदयं सोमोऽपीत्यर्थः ॥


परि॑ णो दे॒ववी॑तये॒ वाजाँ॑ अर्षसि॒ गोम॑तः ।

पु॒ना॒न इं॑दविंद्र॒युः ॥४

परि॑ । नः॒ । दे॒वऽवी॑तये । वाजा॑न् । अ॒र्ष॒सि॒ । गोऽम॑तः ।

पु॒ना॒नः । इ॒न्दो॒ इति॑ । इ॒न्द्र॒ऽयुः ॥४

परि । नः । देवऽवीतये । वाजान् । अर्षसि । गोऽमतः ।

पुनानः । इन्दो इति । इन्द्रऽयुः ॥४

हे “इन्दो सोम “इन्द्रयुः इन्द्रकामः “पुनानः पूयमानस्त्वं “नः अस्माकं “देववीतये यज्ञाय “गोमत: गोयुक्तानि “वाजान् अन्नानि “परि “अर्षसि परितः क्षरेत्यर्थः ॥ ॥ ११ ॥

टिप्पणी

९.५४.१ अस्य प्रत्नामनु इति

भ्राजम्

ऋषभः पवमानः

आहवनीयोपस्थानम् -- अस्य प्रत्नाम् अनु द्युतꣳ शुक्रं दुदुह्रे अह्रयः । पयः सहस्रसाम् ऋषिम् - तैसं. १.५.५.१

अस्य प्रत्नाम् अनु द्युतम् इत्य् आह सुवर्गो वै लोकः प्रत्नः सुवर्गम् एव लोकꣳ समारोहति । - तैसं १.५.७.१

बृहदुपस्थानम् - अस्य प्रत्नाम् । अनु द्युतं शुक्रं दुदुह्रे अह्रयः पयः सहस्रसामृषिमिति परमा वा एषा सनीनां यत्सहस्रसनिस्तदेतस्यैवावरुद्धै तस्मादाह पयः सहस्रसामृषिमिति - माश २.३.४.१५

अस्य प्रत्नामनु द्युतं इति , असौ वै लोकः प्रत्नं , अमुत एव स्तोमं युनक्ति , अथो देवा वै प्रत्नं , तान् एव स्तोमं उपयुनक्ति , उभयत एव स्तोमं युनक्तीतश्चामुतश्च - मैसं १.५.५

अस्य प्रत्नामनु द्युतमिति देवा वै प्रत्नं ते सत्सत्स्तोमस्तानेव प्रायुक्त स्वर्गाय - काठ.सं. ७.४

अस्य प्रत्नामनु द्युतमित्यूध एवैतया करोति - काठ.सं. ७.५

प्रत्नोपरि संक्षिप्त टिप्पणी

अस्य प्रत्नाम् अनु द्युतम् इति प्रतिपदं कुर्वीत यस्य पिता वा पितामहो वा श्रेयान् स्याद् अथात्मना पापीयान् इव मन्येत। यैवास्य पित्र्या पैतामही श्रीस् ताम् एवाश्नुते॥ शुक्रं दुदुह्ने अह्रयः इति। यज्ञो वै शुक्रः पशवो ऽह्रयः। यज्ञं चैवैतेन पशूंश् वावरुन्द्ध॥ पयस् सहस्रसाम् ऋषिम् इति। पयस्वान् एव भवत्य् आस्य सहस्रसा वीरो जायते॥जैब्रा १.९३

ब्रह्म वा अग्निष्टोमः। ब्रह्म प्रायणीयम् अहः। एषा वै यज्ञस्य मात्रा यद् अग्निष्टोमः। यैव यज्ञस्य मात्रा तयैवैतत् सत्र आक्रमन्ते यादृक् प्रवयणत स्पर्शस् तादृग् उपप्रार्ञ्जनतः। तस्माद् अग्निष्टोमेनैव प्रयन्त्य्, अग्निष्टोमेनोद्यन्ति। मनो वै पूर्वम् अथ वाक्। मनो वै बृहद् वाग् रथन्तरम्। प्रत्नं वै बृहद् उप रथन्तरम्। तद् यद् एताः प्रत्नवतीश् चोपवतीश् च भवन्ति बृहद्रथन्तरे एवैतत् सत्राय युज्येते। प्रेति च वा एति च गायत्र्यै रूपम्। तद् यत् प्रेति चेति च भवति गायत्र्या एवैतद् रूपेण प्रयन्ति न वैता भवन्ति न वा हस्यैष युक्त्या ऋचर् चैवाहर् युज्यते यथा नद्धयुगस्य शम्या अवदध्यात् तादृक् तत्। - जैब्रा ३.१२


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.५४&oldid=314470" इत्यस्माद् प्रतिप्राप्तम्