ऋग्वेदः सूक्तं ८.३२

(ऋग्वेद: सूक्तं ८.३२ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ८.३१ ऋग्वेदः - मण्डल ८
सूक्तं ८.३२
मेधातिथिः काण्वः ।
सूक्तं ८.३३ →
दे. इन्द्रः । गायत्री।


प्र कृतान्यृजीषिणः कण्वा इन्द्रस्य गाथया ।
मदे सोमस्य वोचत ॥१॥
यः सृबिन्दमनर्शनिं पिप्रुं दासमहीशुवम् ।
वधीदुग्रो रिणन्नपः ॥२॥
न्यर्बुदस्य विष्टपं वर्ष्माणं बृहतस्तिर ।
कृषे तदिन्द्र पौंस्यम् ॥३॥
प्रति श्रुताय वो धृषत्तूर्णाशं न गिरेरधि ।
हुवे सुशिप्रमूतये ॥४॥
स गोरश्वस्य वि व्रजं मन्दानः सोम्येभ्यः ।
पुरं न शूर दर्षसि ॥५॥
यदि मे रारणः सुत उक्थे वा दधसे चनः ।
आरादुप स्वधा गहि ॥६॥
वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः ।
त्वं नो जिन्व सोमपाः ॥७॥
उत नः पितुमा भर संरराणो अविक्षितम् ।
मघवन्भूरि ते वसु ॥८॥
उत नो गोमतस्कृधि हिरण्यवतो अश्विनः ।
इळाभिः सं रभेमहि ॥९॥
बृबदुक्थं हवामहे सृप्रकरस्नमूतये ।
साधु कृण्वन्तमवसे ॥१०॥
यः संस्थे चिच्छतक्रतुरादीं कृणोति वृत्रहा ।
जरितृभ्यः पुरूवसुः ॥११॥
स नः शक्रश्चिदा शकद्दानवाँ अन्तराभरः ।
इन्द्रो विश्वाभिरूतिभिः ॥१२॥
यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा ।
तमिन्द्रमभि गायत ॥१३॥
आयन्तारं महि स्थिरं पृतनासु श्रवोजितम् ।
भूरेरीशानमोजसा ॥१४॥
नकिरस्य शचीनां नियन्ता सूनृतानाम् ।
नकिर्वक्ता न दादिति ॥१५॥
न नूनं ब्रह्मणामृणं प्राशूनामस्ति सुन्वताम् ।
न सोमो अप्रता पपे ॥१६॥
पन्य इदुप गायत पन्य उक्थानि शंसत ।
ब्रह्मा कृणोत पन्य इत् ॥१७॥
पन्य आ दर्दिरच्छता सहस्रा वाज्यवृतः ।
इन्द्रो यो यज्वनो वृधः ॥१८॥
वि षू चर स्वधा अनु कृष्टीनामन्वाहुवः ।
इन्द्र पिब सुतानाम् ॥१९॥
पिब स्वधैनवानामुत यस्तुग्र्ये सचा ।
उतायमिन्द्र यस्तव ॥२०॥
अतीहि मन्युषाविणं सुषुवांसमुपारणे ।
इमं रातं सुतं पिब ॥२१॥
इहि तिस्रः परावत इहि पञ्च जनाँ अति ।
धेना इन्द्रावचाकशत् ॥२२॥
सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिरः ।
निम्नमापो न सध्र्यक् ॥२३॥
अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे ।
भरा सुतस्य पीतये ॥२४॥
य उद्नः फलिगं भिनन्न्यक्सिन्धूँरवासृजत् ।
यो गोषु पक्वं धारयत् ॥२५॥
अहन्वृत्रमृचीषम और्णवाभमहीशुवम् ।
हिमेनाविध्यदर्बुदम् ॥२६॥
प्र व उग्राय निष्टुरेऽषाळ्हाय प्रसक्षिणे ।
देवत्तं ब्रह्म गायत ॥२७॥
यो विश्वान्यभि व्रता सोमस्य मदे अन्धसः ।
इन्द्रो देवेषु चेतति ॥२८॥
इह त्या सधमाद्या हरी हिरण्यकेश्या ।
वोळ्हामभि प्रयो हितम् ॥२९॥
अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।
सोमपेयाय वक्षतः ॥३०॥

सायणभाष्यम्

।। श्रीगणेशाय नमः ।।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥

अथ षष्ठस्य तृतीयोऽध्याय आरभ्यते । प्र कृतानि ' इति त्रिंशदृचं द्वितीयं सूक्तम् । तत्रेयमनुक्रमणिका--- ‘प्र कृतानि त्रिंशन्मेधातिथिः' इति । काण्वो मेधातिथिर्ऋषिः । ‘ परं गायत्रं प्राग्वत्सप्रेः' इति परिभाषया गायत्री छन्दः । अनादेशपरिभाषयेन्द्रो देवता । महाव्रते निष्केवल्ये गायत्रतृचाशीतावेतत्सूक्तम् । तथैव पञ्चमारण्यके शौनकेन सूत्रितं - प्र कृतान्यृजीषिण आ घा ये अग्निमिन्धते ' ( ऐ. आ. ५. २. ३ ) इति । अतिरात्रे प्रथमे पर्याये मैत्रावरुणशस्त्रे ‘ प्र कृतानि ' इति तृचोऽनुरूपः । सूत्रितं च - प्र व इन्द्राय मादनं' प्र कृतान्यृजीषिणः' (आश्व. श्रौ. ६. ४ ) इति । तस्मिन्नेव शस्त्रे प्रति श्रुताय' इत्याद्याः पञ्चदशर्चः । सूत्र्यते हि- ‘ प्रति श्रुताय वो धृषदिति पञ्चदश' ( आश्व श्रौ. ६. ४ ) इति । दशमेऽहनि प्रातःसवनेऽच्छावाकवादे पत्नीयजमानस्थाने ‘ प्रति श्रुताय ' इति तृचः । सूत्रितं च--- प्रति श्रुताय वो धृषदिति तृचौ ' ( आश्व. श्रौ. ८. १२) इति । अहीनान्तर्गतस्यातिरात्रस्य प्रथमे पर्याये होतुः ‘पन्य इदुप गायत' इत्यनुरूपः ॥


प्र कृ॒तान्यृ॑जी॒षिण॒ः कण्वा॒ इन्द्र॑स्य॒ गाथ॑या ।

मदे॒ सोम॑स्य वोचत ॥१

प्र । कृ॒तानि॑ । ऋ॒जी॒षिणः॑ । कण्वाः॑ । इन्द्र॑स्य । गाथ॑या ।

मदे॑ । सोम॑स्य । वो॒च॒त॒ ॥१

प्र । कृतानि । ऋजीषिणः । कण्वाः । इन्द्रस्य । गाथया ।

मदे । सोमस्य । वोचत ॥१

हे “कण्वाः “ऋजीषिणः ऋजीषवतः “सोमस्य “कृतानि कर्माणि “इन्द्रस्य “गाथया इन्द्रस्य वाचा “मदे अस्य मदे संजाते सति “प्र “वोचत प्रबूत ॥


यः सृबि॑न्द॒मन॑र्शनिं॒ पिप्रुं॑ दा॒सम॑ही॒शुव॑म् ।

वधी॑दु॒ग्रो रि॒णन्न॒पः ॥२

यः । सृबि॑न्दम् । अन॑र्शनिम् । पिप्रु॑म् । दा॒सम् । अ॒ही॒शुव॑म् ।

वधी॑त् । उ॒ग्रः । रि॒णन् । अ॒पः ॥२

यः । सृबिन्दम् । अनर्शनिम् । पिप्रुम् । दासम् । अहीशुवम् ।

वधीत् । उग्रः । रिणन् । अपः ॥२

“यः इन्द्रः “उग्रः उद्गूर्णस्तेजस्वी वा सः “अपः उदकानि “रिणन् प्रेरयन् सृबिन्दं सृबिन्दनामकं शत्रुम् “अनर्शनिम् अनर्शनिनामकं “पिप्रुं पिप्रुनामकं च "दासं च "अहीशुवं च शत्रुं “वधीत् अवधीत् जघान ।।


न्यर्बु॑दस्य वि॒ष्टपं॑ व॒र्ष्माणं॑ बृह॒तस्ति॑र ।

कृ॒षे तदि॑न्द्र॒ पौंस्य॑म् ॥३

नि । अर्बु॑दस्य । वि॒ष्टप॑म् । व॒र्ष्माण॑म् । बृ॒ह॒तः । ति॒र॒ ।

कृ॒षे । तत् । इ॒न्द्र॒ । पौंस्य॑म् ॥३

नि । अर्बुदस्य । विष्टपम् । वर्ष्माणम् । बृहतः । तिर ।

कृषे । तत् । इन्द्र । पौंस्यम् ॥३

हे "इन्द्र “बृहतः महतः “अर्बुदस्य मेघस्य “वर्ष्माणम् उदकस्य वारकं “विष्टपं स्थानं “नि “तिर विध्य । “तत् प्रसिद्ध “पौंस्यं व्रतं च "कृषे कुरु ।।


प्रति॑ श्रु॒ताय॑ वो धृ॒षत्तूर्णा॑शं॒ न गि॒रेरधि॑ ।

हु॒वे सु॑शि॒प्रमू॒तये॑ ॥४

प्रति॑ । श्रु॒ताय॑ । वः॒ । धृ॒षत् । तूर्णा॑शम् । न । गि॒रेः । अधि॑ ।

हु॒वे । सु॒ऽशि॒प्रम् । ऊ॒तये॑ ॥४

प्रति । श्रुताय । वः । धृषत् । तूर्णाशम् । न । गिरेः । अधि ।

हुवे । सुऽशिप्रम् । ऊतये ॥४

हे स्तोतारः “वः युष्माकं "श्रुताय स्तुतीनां श्रवणाय रक्षणाय च “धृषत् शत्रून् धृषन्तं “सुशिप्रं सुहनुमिन्द्रं "प्रति “हुवे ह्वयामि । “तूर्णाशं “न । यथा घर्मेऽभितप्तः पुमांस्तूर्णाशमुदकम् । तथा च यास्कः - ‘ तूर्णाशमुदकं भवति तूर्णमश्नुते ' ( निरु. ५. १६ ) इति । “गिरेरधि मेघं प्रति ह्वयति । ‘पर्वतो गिरिः' इति मेघनामसु पाठात् । तद्वदित्यर्थः ।।


स गोरश्व॑स्य॒ वि व्र॒जं म॑न्दा॒नः सो॒म्येभ्य॑ः ।

पुरं॒ न शू॑र दर्षसि ॥५

सः । गोः । अश्व॑स्य । वि । व्र॒जम् । म॒न्दा॒नः । सो॒म्येभ्यः॑ ।

पुर॑म् । न । शू॒र॒ । द॒र्ष॒सि॒ ॥५

सः । गोः । अश्वस्य । वि । व्रजम् । मन्दानः । सोम्येभ्यः ।

पुरम् । न । शूर । दर्षसि ॥५

हे “शूर इन्द्र “सः प्रसिद्धस्त्वं “मन्दानः मोदमानः “गोः अश्वस्य च “व्रजं निवासस्थानं “सोम्येभ्यः सोमार्हेभ्यः “पुरं “न शत्रूणां नगरीमिव “वि “दर्षसि विवृतद्वारं करोषि ॥ ॥ १ ॥


यदि॑ मे रा॒रण॑ः सु॒त उ॒क्थे वा॒ दध॑से॒ चन॑ः ।

आ॒रादुप॑ स्व॒धा ग॑हि ॥६

यदि॑ । मे॒ । र॒रणः॑ । सु॒ते । उ॒क्थे । वा॒ । दध॑से । चनः॑ ।

आ॒रात् । उप॑ । स्व॒धा । आ । ग॒हि॒ ॥६

यदि । मे । ररणः । सुते । उक्थे । वा । दधसे । चनः ।

आरात् । उप । स्वधा । आ । गहि ॥६

हे इन्द्र “मे मम "सुते अभिषुते सोमे “उक्थे स्तोत्रे “वा “यदि "रारणः रमसे “चनः अन्नं यदि च “दधसे मह्यं प्रयच्छसि तर्हि "आरात् दूरात् "स्वधा अन्नेन “उप “आ “गहि उपागच्छ ।


व॒यं घा॑ ते॒ अपि॑ ष्मसि स्तो॒तार॑ इन्द्र गिर्वणः ।

त्वं नो॑ जिन्व सोमपाः ॥७

व॒यम् । घ॒ । ते॒ । अपि॑ । स्म॒सि॒ । स्तो॒तारः॑ । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।

त्वम् । नः॒ । जि॒न्व॒ । सो॒म॒ऽपाः॒ ॥७

वयम् । घ । ते । अपि । स्मसि । स्तोतारः । इन्द्र । गिर्वणः ।

त्वम् । नः । जिन्व । सोमऽपाः ॥७

हे "गिर्वणः गीर्भिर्वननीय “इन्द्र “ते तव "अपि “वयं “घ वयं खलु “स्तोतारः “स्मसि भवामः । हे "सोमपाः सोमस्य पातरिन्द्र “त्वं “नः अस्मान् "जिन्व प्रीणयसि ॥


उ॒त न॑ः पि॒तुमा भ॑र संररा॒णो अवि॑क्षितम् ।

मघ॑व॒न्भूरि॑ ते॒ वसु॑ ॥८

उ॒त । नः॒ । पि॒तुम् । आ । भ॒र॒ । स॒म्ऽर॒रा॒णः । अवि॑ऽक्षितम् ।

मघ॑ऽवन् । भूरि॑ । ते॒ । वसु॑ ॥८

उत । नः । पितुम् । आ । भर । सम्ऽरराणः । अविऽक्षितम् ।

मघऽवन् । भूरि । ते । वसु ॥८

“उत अपि च हे “मघवन् “संरराणः संरममाणस्त्वम् “अविक्षितम् अविक्षीणं “पितुम् अन्नम् । ‘पृक्षः पितुः' इत्यन्ननामसु पाठात् । “नः अस्मभ्यम् “आ “भर आहर । “ते तव “वसु धनं “भूरि अधिकं हि ॥


उ॒त नो॒ गोम॑तस्कृधि॒ हिर॑ण्यवतो अ॒श्विन॑ः ।

इळा॑भि॒ः सं र॑भेमहि ॥९

उ॒त । नः॒ । गोऽम॑तः । कृ॒धि॒ । हिर॑ण्यऽवतः । अ॒श्विनः॑ ।

इळा॑भिः । सम् । र॒भे॒म॒हि॒ ॥९

उत । नः । गोऽमतः । कृधि । हिरण्यऽवतः । अश्विनः ।

इळाभिः । सम् । रभेमहि ॥९

"उत अपि च हे इन्द्र “नः अस्मान् “गोमतः गोमिनः “कृधि कुरु। “अश्विनः अश्वयुक्तान् कृधि । “हिरण्यवतः धनवतश्च कृधि । “इळाभिः अन्नैश्च “सं “रभेमहि वयं संरब्धा भवेम ॥


बृ॒बदु॑क्थं हवामहे सृ॒प्रक॑रस्नमू॒तये॑ ।

साधु॑ कृ॒ण्वन्त॒मव॑से ॥१०

बृ॒बत्ऽउ॑क्थम् । ह॒वा॒म॒हे॒ । सृ॒प्रऽक॑रस्नम् । ऊ॒तये॑ ।

साधु॑ । कृ॒ण्वन्त॑म् । अव॑से ॥१०

बृबत्ऽउक्थम् । हवामहे । सृप्रऽकरस्नम् । ऊतये ।

साधु । कृण्वन्तम् । अवसे ॥१०

“ऊतये लोकस्य रक्षणाय “सृप्रकरस्नं प्रसृतबाहुम् । ‘करस्नौ बाहू कर्मणां प्रस्नातारौ ' (निरु. ६. १७) इति यास्कवचनात् । “अवसे लोकस्य पालनाय “साधु “कृण्वन्तं साधु कुर्वन्तं “बृबदुक्थं महदुक्थमिन्द्रं “हवामहे ह्वयामः । तथा च यास्कः - बृबदुक्थो महदुक्थो वक्तव्यमस्मा उक्थम् ' (निरु. ६. ४) इति ॥ ॥ २ ॥


यः सं॒स्थे चि॑च्छ॒तक्र॑तु॒रादीं॑ कृ॒णोति॑ वृत्र॒हा ।

ज॒रि॒तृभ्य॑ः पुरू॒वसु॑ः ॥११

यः । स॒म्ऽस्थे । चि॒त् । श॒तऽक्र॑तुः । आत् । ई॒म् । कृ॒णोति॑ । वृ॒त्र॒ऽहा ।

ज॒रि॒तृऽभ्यः॑ । पु॒रु॒ऽवसुः॑ ॥११

यः । सम्ऽस्थे । चित् । शतऽक्रतुः । आत् । ईम् । कृणोति । वृत्रऽहा ।

जरितृऽभ्यः । पुरुऽवसुः ॥११

"यः प्रसिद्ध इन्द्रः “संस्थे संग्रामे “शतक्रतुः बहुकर्मा भवति अपि च "आत् अनन्तरम् “ईम् इदं शत्रुवधादिकं “कृणोति करोति “चित् एव अयमिन्द्रः “वृत्रहा शत्रूणां हन्ता भवति । किंच “जरितृभ्यः स्तोतॄणामर्थे पुरूवसुः बहुधनो भवति । न स्वार्थमित्यर्थः ॥


स न॑ः श॒क्रश्चि॒दा श॑क॒द्दान॑वाँ अन्तराभ॒रः ।

इन्द्रो॒ विश्वा॑भिरू॒तिभि॑ः ॥१२

सः । नः॒ । श॒क्रः । चि॒त् । आ । श॒क॒त् । दान॑ऽवान् । अ॒न्त॒र॒ऽआ॒भ॒रः ।

इन्द्रः॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ॥१२

सः । नः । शक्रः । चित् । आ । शकत् । दानऽवान् । अन्तरऽआभरः ।

इन्द्रः । विश्वाभिः । ऊतिऽभिः ॥१२

“शक्रः शक्तः “सः इन्द्रः “नः “चित् अस्मानपि “आ “शकत् शक्तान् करोतु । अपि च “इन्द्रः “दानवान् “विश्वाभिः सर्वैः “ऊतिभिः पालनैः “अन्तराभरः अन्तराहरश्छिद्राणामापूरकः ।। छिद्रापिधायीत्यर्थः ॥


यो रा॒यो॒३॒॑ऽवनि॑र्म॒हान्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।

तमिन्द्र॑म॒भि गा॑यत ॥१३

यः । रा॒यः । अ॒वनिः॑ । म॒हान् । सु॒ऽपा॒रः । सु॒न्व॒तः । सखा॑ ।

तम् । इन्द्र॑म् । अ॒भि । गा॒य॒त॒ ॥१३

यः । रायः । अवनिः । महान् । सुऽपारः । सुन्वतः । सखा ।

तम् । इन्द्रम् । अभि । गायत ॥१३

“यः इन्द्रः “रायः धनस्य “अवनिः पालकः “महान् सर्वोत्तमः "सुपारः शोभनपारणश्च भवति । यश्च “सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य “सखा प्रियो भवति। “तमिन्द्रमभि "गायत अभिष्टुत ।


आ॒य॒न्तारं॒ महि॑ स्थि॒रं पृत॑नासु श्रवो॒जित॑म् ।

भूरे॒रीशा॑न॒मोज॑सा ॥१४

आ॒ऽय॒न्तार॑म् । महि॑ । स्थि॒रम् । पृत॑नासु । श्र॒वः॒ऽजित॑म् ।

भूरेः॑ । ईशा॑नम् । ओज॑सा ॥१४

आऽयन्तारम् । महि । स्थिरम् । पृतनासु । श्रवःऽजितम् ।

भूरेः । ईशानम् । ओजसा ॥१४

“आयन्तारम् आगन्तारं "महि महान्तं “पृतनासु संग्रामेषु “स्थिरम् अचलं “श्रवोजितं श्रवसो जेतारम् "ओजसा बलेन "भूरेः बहोर्धनस्य “ईशानम् ईश्वरमभिगायत ॥


नकि॑रस्य॒ शची॑नां निय॒न्ता सू॒नृता॑नाम् ।

नकि॑र्व॒क्ता न दा॒दिति॑ ॥१५

नकिः॑ । अ॒स्य॒ । शची॑नाम् । नि॒ऽय॒न्ता । सू॒नृता॑नाम् ।

नकिः॑ । व॒क्ता । न । दा॒त् । इति॑ ॥१५

नकिः । अस्य । शचीनाम् । निऽयन्ता । सूनृतानाम् ।

नकिः । वक्ता । न । दात् । इति ॥१५

“अस्य इन्द्रस्य “सूनृतानां शोभनानां “शचीनां कर्मणाम् । ‘ धीः शची' इति कर्मनामसु पाठात् । “नकिः न कश्चित् “नियन्ता नियामकः । अयमिन्द्रः “न “दादिति न प्रयच्छतीति “नकिर्वक्ता न कश्चिद्वदति । किंतु सर्वोऽपि जनोऽयं प्रदातेत्येव ब्रवीतीत्यर्थः ॥ ॥ ३ ॥


न नू॒नं ब्र॒ह्मणा॑मृ॒णं प्रा॑शू॒नाम॑स्ति सुन्व॒ताम् ।

न सोमो॑ अप्र॒ता प॑पे ॥१६

न । नू॒नम् । ब्र॒ह्मणा॑म् । ऋ॒णम् । प्रा॒शू॒नाम् । अ॒स्ति॒ । सु॒न्व॒ताम् ।

न । सोमः॑ । अ॒प्र॒ता । प॒पे॒ ॥१६

न । नूनम् । ब्रह्मणाम् । ऋणम् । प्राशूनाम् । अस्ति । सुन्वताम् ।

न । सोमः । अप्रता । पपे ॥१६

“प्राशूनाम् । ये सोमं प्राश्नुवन्ति ते प्राशवः । तेषां सोमं “सुन्वतां “ब्रह्मणां ब्राह्मणानाम् “ऋणं देवर्णं “न “नूनम् अस्ति न खलु विद्यते । तथा च श्रूयते - ‘एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी' ( तै. सं. ६. ३. १०. ५) इति । किंच “अप्रता अविस्तीर्णधनेन “सोमः “न “पपे न पीयते । प्रभूतधनेनैव सोमः पीयत इत्यर्थः ।।


पन्य॒ इदुप॑ गायत॒ पन्य॑ उ॒क्थानि॑ शंसत ।

ब्रह्मा॑ कृणोत॒ पन्य॒ इत् ॥१७

पन्ये॑ । इत् । उप॑ । गा॒य॒त॒ । पन्ये॑ । उ॒क्थानि॑ । शं॒स॒त॒ ।

ब्रह्म॑ । कृ॒णो॒त॒ । पन्ये॑ । इत् ॥१७

पन्ये । इत् । उप । गायत । पन्ये । उक्थानि । शंसत ।

ब्रह्म । कृणोत । पन्ये । इत् ॥१७

हे उपगातारः “पन्य “इत् स्तुत्य एवेन्द्रे “उप “गायत उपगानं कुरुत । किंच “पन्ये एवेन्द्रे “उक्थानि स्तोत्राणि “शंसत । हे स्तोतार इति शेषः । “पन्ये “इत् स्तुत्य एवेन्द्रे ब्रह्माण्यन्यानि स्तोत्राणि “कृणोत कुरुत ।।


पन्य॒ आ द॑र्दिरच्छ॒ता स॒हस्रा॑ वा॒ज्यवृ॑तः ।

इन्द्रो॒ यो यज्व॑नो वृ॒धः ॥१८

पन्यः॑ । आ । द॒र्दि॒र॒त् । श॒ता । स॒हस्रा॑ । वा॒जी । अवृ॑तः ।

इन्द्रः॑ । यः । यज्व॑नः । वृ॒धः ॥१८

पन्यः । आ । दर्दिरत् । शता । सहस्रा । वाजी । अवृतः ।

इन्द्रः । यः । यज्वनः । वृधः ॥१८

“यः “वाजी बलवान् “शता वीराणां शतानि "सहस्रा सहस्राणि च “आ “दर्दिरत् आभिमुख्येन दास्यति सोऽयम् “इन्द्रः शत्रुभिः “अवृतः “पन्यः स्तुत्यो भवति । "यज्वनः विधिनेष्टवतो यजमानस्य “वृधः वर्धयिता च भवति ॥


वि षू च॑र स्व॒धा अनु॑ कृष्टी॒नामन्वा॒हुव॑ः ।

इन्द्र॒ पिब॑ सु॒ताना॑म् ॥१९

वि । सु । च॒र॒ । स्व॒धाः । अनु॑ । कृ॒ष्टी॒नाम् । अनु॑ । आ॒ऽहुवः॑ ।

इन्द्र॑ । पिब॑ । सु॒ताना॑म् ॥१९

वि । सु । चर । स्वधाः । अनु । कृष्टीनाम् । अनु । आऽहुवः ।

इन्द्र । पिब । सुतानाम् ॥१९

हे “इन्द्र “आहुवः आह्वातव्यस्त्वं “कृष्टीनां मनुष्याणां “स्वधाः हवींषि “अनु “सु सुष्ठु “वि “चर । द्वितीयः “अनु पूरणः । 'सुतानाम् अभिषुतान् सोमांश्च पिब ।।


पिब॒ स्वधै॑नवानामु॒त यस्तुग्र्ये॒ सचा॑ ।

उ॒तायमि॑न्द्र॒ यस्तव॑ ॥२०

पिब॑ । स्वऽधै॑नवानाम् । उ॒त । यः । तुग्र्ये॑ । सचा॑ ।

उ॒त । अ॒यम् । इ॒न्द्र॒ । यः । तव॑ ॥२०

पिब । स्वऽधैनवानाम् । उत । यः । तुग्र्ये । सचा ।

उत । अयम् । इन्द्र । यः । तव ॥२०

हे “इन्द्र “स्वधैनवानां स्वधैनवान् स्वभूतपयसो धेनोः संबन्धिनः सोमान् । धेन्वा क्रीतानित्यर्थः । तथा च श्रूयते- ‘ धेन्वा क्रीणाति' (तै. सं. ६. १. १०. २ ) इति । "उत अपि च “यः सोमः “तुग्र्ये उदके। ‘बुसं तुग्र्यम्' इत्युदकनामसु पाठात् । “सचा संसृष्टः तमपि सोमं “पिब । “उत अपि च “यः सोमः “तव त्वदीयः त्वामुद्दिश्य गृहीतः सः “अयं त्वया पातव्य इति शेषः ॥ ॥ ४ ॥


अती॑हि मन्युषा॒विणं॑ सुषु॒वांस॑मु॒पार॑णे ।

इ॒मं रा॒तं सु॒तं पि॑ब ॥२१

अति॑ । इ॒हि॒ । म॒न्यु॒ऽसा॒विन॑म् । सु॒सु॒ऽवांस॑म् । उ॒प॒ऽअर॑णे ।

इ॒मम् । रा॒तम् । सु॒तम् । पि॒ब॒ ॥२१

अति । इहि । मन्युऽसाविनम् । सुसुऽवांसम् । उपऽअरणे ।

इमम् । रातम् । सुतम् । पिब ॥२१

हे इन्द्र “मन्युषाविणं क्रोधेन सोमं सुन्वन्तम् “अतीहि अतिगच्छ । तथा “उपारणे । ब्राह्मणा उपेत्य यस्मिन् देशे न रमन्ते स उपारणः । तस्मिन् देशे “सुषुवांसं सुन्वन्तम् अतीहि । “इमं “रातं ब्राह्मणोपद्रवरहिते देशे अस्माभिर्दत्तमिमं “सुतं सोमं “पिब ।।


इ॒हि ति॒स्रः प॑रा॒वत॑ इ॒हि पञ्च॒ जनाँ॒ अति॑ ।

धेना॑ इन्द्राव॒चाक॑शत् ॥२२

इ॒हि । ति॒स्रः । प॒रा॒ऽवतः॑ । इ॒हि । पञ्च॑ । जना॑न् । अति॑ ।

धेनाः॑ । इ॒न्द्र॒ । अ॒व॒ऽचाक॑शत् ॥२२

इहि । तिस्रः । पराऽवतः । इहि । पञ्च । जनान् । अति ।

धेनाः । इन्द्र । अवऽचाकशत् ॥२२

हे “इन्द्र “धेनाः अस्मदीयाः स्तुतीः “अवचाकशत् योऽपश्यत् स त्वं “परावतः दूरात् । ‘आरे परावतः' इति दूरनामसु पाठात् । “तिस्रः अग्रपृष्ठपार्श्वदिशः “इहि गच्छ । अनेन अग्रतः पृष्ठतः पार्श्वतश्च इन्द्रस्यागमनमाशास्ते । अपि च “पञ्च “जनान् मनुष्यान् “अति “इहि अतिगच्छ । यद्वा । गन्धर्वाः पितरो देवा असुरा रक्षांसि च पञ्चजनाः । तानतीहीत्यर्थः । तथा च यास्कः--- ‘ गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येके चत्वारो वर्णा निषादः पञ्चम इत्यौपमन्यवः' (निरु. ३.८) इति ॥


सूर्यो॑ र॒श्मिं यथा॑ सृ॒जा त्वा॑ यच्छन्तु मे॒ गिर॑ः ।

नि॒म्नमापो॒ न स॒ध्र्य॑क् ॥२३

सूर्यः॑ । र॒श्मिम् । यथा॑ । सृ॒ज॒ । आ । त्वा॒ । य॒च्छ॒न्तु॒ । मे॒ । गिरः॑ ।

नि॒म्नम् । आपः॑ । न । स॒ध्र्य॑क् ॥२३

सूर्यः । रश्मिम् । यथा । सृज । आ । त्वा । यच्छन्तु । मे । गिरः ।

निम्नम् । आपः । न । सध्र्यक् ॥२३

हे इन्द्र “सूर्यः “यथा “रश्मिं रश्मीन् किरणानश्वप्रग्रहान् वा विसृजति तथा मह्यं धनं विसृज । अपि च “मे मदीयाः “गिरः स्तुतयः “सध्र्यक् सह त्वाम् “आ “यच्छन्तु ! “निम्नमापो “न । यथा निम्नं देशमापः सह परिगृह्णन्ति तद्वदित्यर्थः । ।


अध्व॑र्य॒वा तु हि षि॒ञ्च सोमं॑ वी॒राय॑ शि॒प्रिणे॑ ।

भरा॑ सु॒तस्य॑ पी॒तये॑ ॥२४

अध्व॑र्यो॒ इति॑ । आ । तु । हि । सि॒ञ्च । सोम॑म् । वी॒राय॑ । शि॒प्रिणे॑ ।

भर॑ । सु॒तस्य॑ । पी॒तये॑ ॥२४

अध्वर्यो इति । आ । तु । हि । सिञ्च । सोमम् । वीराय । शिप्रिणे ।

भर । सुतस्य । पीतये ॥२४

हे “अध्वर्यो “शिप्रिणे हनूमते “वीराय शूरायेन्द्राय “सोमं “तु “हि क्षिप्रमेव “आ “सिञ्च । “सुतस्य सुतं सोमं “पीतये पानाय च “भर आहर च ।।


य उ॒द्नः फ॑लि॒गं भि॒नन्न्य१॒॑क्सिन्धूँ॑र॒वासृ॑जत् ।

यो गोषु॑ प॒क्वं धा॒रय॑त् ॥२५

यः । उ॒द्नः । फ॒लि॒ऽगम् । भि॒नत् । न्य॑क् । सिन्धू॑न् । अ॒व॒ऽअसृ॑जत् ।

यः । गोषु॑ । प॒क्वम् । धा॒रय॑त् ॥२५

यः । उद्नः । फलिऽगम् । भिनत् । न्यक् । सिन्धून् । अवऽअसृजत् ।

यः । गोषु । पक्वम् । धारयत् ॥२५

“यः “उद्नः उदकार्थं “फलिगं मेघम् । रैवतः फलिगः' इति मेघनामसु पाठात् । “भिनत् अभिनत् । “सिन्धून् अपश्च अन्तरिक्षात् “न्यक् अर्वाक् “अवासृजत् । “यः च “गोषु “पक्वं पयः “धारयत् अधारयत् । स इन्द्र इत्यर्थः ॥ ॥ ५ ॥


अह॑न्वृ॒त्रमृची॑षम और्णवा॒भम॑ही॒शुव॑म् ।

हि॒मेना॑विध्य॒दर्बु॑दम् ॥२६

अह॑न् । वृ॒त्रम् । ऋची॑षमः । औ॒र्ण॒ऽवा॒भम् । अ॒ही॒शुव॑म् ।

हि॒मेन॑ । अ॒वि॒ध्य॒त् । अर्बु॑दम् ॥२६

अहन् । वृत्रम् । ऋचीषमः । और्णऽवाभम् । अहीशुवम् ।

हिमेन । अविध्यत् । अर्बुदम् ॥२६

“ऋचीषमः ऋचा दीप्त्या सम इन्द्रः “वृत्रं वृत्रनामकं शत्रुम् “अहन् जघान । तथा “और्णवाभम् और्णवाभनामकम् “अहीशुवम् अहीशुवनामकं च शत्रुमहन् । तथा “हिमेन तुषारेणोदकेन वा “अर्बुदं मेघम् “अविध्यत् ॥


प्र व॑ उ॒ग्राय॑ नि॒ष्टुरेऽषा॑ळ्हाय प्रस॒क्षिणे॑ ।

दे॒वत्तं॒ ब्रह्म॑ गायत ॥२७

प्र । वः॒ । उ॒ग्राय॑ । निः॒ऽतुरे॑ । अषा॑ळ्हाय । प्र॒ऽस॒क्षिणे॑ ।

दे॒वत्त॑म् । ब्रह्म॑ । गा॒य॒त॒ ॥२७

प्र । वः । उग्राय । निःऽतुरे । अषाळ्हाय । प्रऽसक्षिणे ।

देवत्तम् । ब्रह्म । गायत ॥२७

हे उद्गातारः “वः यूयम् “उग्राय उद्गूर्णाय “निष्टुरे शत्रून्निस्तरते “अषाळ्हाय शत्रूणामभिभवित्रे “प्रसक्षिणे प्रसहनशीलायेन्द्राय “देवत्तं देवप्रसादलब्धं “ब्रह्म स्तोत्रं “प्र “गायत ।।


यो विश्वा॑न्य॒भि व्र॒ता सोम॑स्य॒ मदे॒ अन्ध॑सः ।

इन्द्रो॑ दे॒वेषु॒ चेत॑ति ॥२८

यः । विश्वा॑नि । अ॒भि । व्र॒ता । सोम॑स्य । मदे॑ । अन्ध॑सः ।

इन्द्रः॑ । दे॒वेषु॑ । चेत॑ति ॥२८

यः । विश्वानि । अभि । व्रता । सोमस्य । मदे । अन्धसः ।

इन्द्रः । देवेषु । चेतति ॥२८

“अन्धसः अद्यमानस्य “सोमस्य “मदे संजाते “विश्वानि सर्वाणि “व्रता व्रतानि कर्माणि “यः “इन्द्रः "देवेषु “अभि “चेतति ज्ञापयति तस्मा इन्द्राय देवत्तं ब्रह्म गायतेत्यर्थः ।।


इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या ।

वो॒ळ्हाम॒भि प्रयो॑ हि॒तम् ॥२९

इ॒ह । त्या । स॒ध॒ऽमाद्या॑ । हरी॒ इति॑ । हिर॑ण्यऽकेश्या ।

वो॒ळ्हाम् । अ॒भि । प्रयः॑ । हि॒तम् ॥२९

इह । त्या । सधऽमाद्या । हरी इति । हिरण्यऽकेश्या ।

वोळ्हाम् । अभि । प्रयः । हितम् ॥२९

“इह यज्ञे “त्या तौ प्रसिद्धौ “सधमाद्या सह माद्यन्तौ “हिरण्यकेश्या हिरण्यकेश्यौ “हरी अश्वौ “हितं हितकरं “प्रयः सोमरूपमन्नम् “अभि अभिलक्ष्य “वोळ्हाम् इन्द्रं वहताम् । प्रापयतामिति ।।


अ॒र्वाञ्चं॑ त्वा पुरुष्टुत प्रि॒यमे॑धस्तुता॒ हरी॑ ।

सो॒म॒पेया॑य वक्षतः ॥३०

अ॒र्वाञ्च॑म् । त्वा॒ । पु॒रु॒ऽस्तु॒त॒ । प्रि॒यमे॑धऽस्तुता । हरी॒ इति॑ ।

सो॒म॒ऽपेया॑य । व॒क्ष॒तः॒ ॥३०

अर्वाञ्चम् । त्वा । पुरुऽस्तुत । प्रियमेधऽस्तुता । हरी इति ।

सोमऽपेयाय । वक्षतः ॥३०

हे पुरुष्टुत इन्द्र “त्वा त्वां “प्रियमेधस्तुता “हरी अश्वौ “सोमपेयाय सोमपानाय “अर्वाञ्चम् अस्मदभिमुखं “वक्षतः वहतः ॥ ॥ ६ ॥

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.३२&oldid=191541" इत्यस्माद् प्रतिप्राप्तम्