ऋग्वेदः सूक्तं ८.५०

(ऋग्वेद: सूक्तं ८.५० इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ८.४९ ऋग्वेदः - मण्डल ८
सूक्तं ८.५०
पुष्टिगुः काण्वः।
सूक्तं ८.५१ →
दे. इन्द्रः । प्रगाथः (विषमा बृहती, समा सतोबृहती )


प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये ।
यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥१॥
शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः ।
गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः ॥२॥
यदीं सुतास इन्दवोऽभि प्रियममन्दिषुः ।
आपो न धायि सवनं म आ वसो दुघा इवोप दाशुषे ॥३॥
अनेहसं वो हवमानमूतये मध्वः क्षरन्ति धीतयः ।
आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे ॥४॥
आ नः सोमे स्वध्वर इयानो अत्यो न तोशते ।
यं ते स्वदावन्स्वदन्ति गूर्तयः पौरे छन्दयसे हवम् ॥५॥
प्र वीरमुग्रं विविचिं धनस्पृतं विभूतिं राधसो महः ।
उद्रीव वज्रिन्नवतो वसुत्वना सदा पीपेथ दाशुषे ॥६॥
यद्ध नूनं परावति यद्वा पृथिव्यां दिवि ।
युजान इन्द्र हरिभिर्महेमत ऋष्व ऋष्वेभिरा गहि ॥७॥
रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति ।
येभिर्नि दस्युं मनुषो निघोषयो येभिः स्वः परीयसे ॥८॥
एतावतस्ते वसो विद्याम शूर नव्यसः ।
यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजे ॥९॥
यथा कण्वे मघवन्मेधे अध्वरे दीर्घनीथे दमूनसि ।
यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम् ॥१०॥

भाष्यम्

‘प्र सु श्रुतम्' इति दशर्चं द्वितीयं सूक्तं काण्वस्य पुष्टिगोरार्षमैन्द्रम् । अनुक्रम्यते च- 'प्र सु श्रुतं पुष्टिगुः' इति । कण्वस्य पुत्रः पुष्टिगुः ऋषिः । इन्द्रो देवता । अयुजां बृहती छन्दः । युजां सतोबृहती छन्दः । विनियोगः सूत्रादवगन्तव्यः ।।


प्र सु श्रु॒तं सु॒राध॑स॒मर्चा॑ श॒क्रम॒भिष्ट॑ये ।

यः सु॑न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे॑णेव॒ मंह॑ते ॥१

प्र । सु । श्रु॒तम् । सु॒ऽराध॑सम् । अर्च॑ । श॒क्रम् । अ॒भिष्ट॑ये ।

यः । सु॒न्व॒ते । स्तु॒व॒ते । काम्य॑म् । वसु॑ । स॒हस्रे॑णऽइव । मंह॑ते ॥१

प्र । सु । श्रुतम् । सुऽराधसम् । अर्च । शक्रम् । अभिष्टये।

यः । सुन्वते । स्तुवते । काम्यम् । वसु । सहस्रेणऽइव । मंहते ॥ १ ॥

ऋषिरात्मानं ब्रूते । हे पुष्टिगो त्वम् अभिष्टये अभिलषितसिद्धये तं शक्रं सर्वकर्मसु शक्तमिन्द्रं सु सुष्टु यथा तथा प्र अर्च प्रकर्षेण पूजय । कीदृशम् । श्रुतं विख्यातं सुराधसं शोभनधनोपेतम् । तं कम् । य इन्द्रः सुन्वते सोमाभिषवं कुर्वते स्तुवते स्तुतिं कुर्वते यजमानाय काम्यं कामिनं( कमनीयं ) वसु धनं सहस्रेणेव असंख्यातमेव मंहते ददाति तम् । मंहतिर्दानार्थः ।। दानकर्मसु तत्पाठात् ।।


श॒तानी॑का हे॒तयो॑ अस्य दु॒ष्टरा॒ इन्द्र॑स्य स॒मिषो॑ म॒हीः ।

गि॒रिर्न भु॒ज्मा म॒घव॑त्सु पिन्वते॒ यदीं॑ सु॒ता अम॑न्दिषुः ॥२

श॒तऽअ॑नीकाः । हे॒तयः॑ । अ॒स्य॒ । दु॒स्तराः॑ । इन्द्र॑स्य । स॒म्ऽइषः॑ । म॒हीः ।

गि॒रिः । न । भु॒ज्मा । म॒घव॑त्ऽसु । पि॒न्व॒ते॒ । यत् । ई॒म् । सु॒ताः । अम॑न्दिषुः ॥२

शतऽअनीकाः । हेतयः । अस्य । दुस्तराः । इन्द्रस्य । सम्ऽइषः । महीः ।

गिरिः । न । भुज्मा । मघवत्ऽसु । पिन्वते । यत् । ईम् । सुताः । अमन्दिषुः ॥ २ ॥

सुता अभिषुताः सोमाः यद्यदा ईमेनमिन्द्रम् अमन्दिषुः अमादयन् तदा अस्येन्द्रस्य हेतयः हननसाधनान्यायुधानि मघवत्सु हविर्लक्षणधनवत्सु यजमानेषु पिन्वते । तदीयशत्रुधनानि तेषु समर्प्य तान् प्रणयन्तीत्यर्थः । क इव । भुज्मा गिरिर्न पालको मेघ इव । स यथा भुवि जलानि समर्प्य तान् प्रीणयति तद्वत् । शत्रुधनाहरणं तु ‘शत्रूयतामा भरा भोजनानि' (ऋ. सं. ५. ४.५ ) इत्यादिश्रुतिप्रसिद्धम् । कीदृश्यो हेतयः । शतानीकाः । शतमपरिमितानि अनीकानि मुखानि यासां ताः । सर्वतोमुखा इत्यर्थः । अत एव दुस्तरा दुर्निवार्याः । समिषः सम्यक् इट् अन्नं याभ्यस्ताः । महीः महत्यः ।।


यदीं॑ सु॒तास॒ इन्द॑वो॒ऽभि प्रि॒यमम॑न्दिषुः ।

आपो॒ न धा॑यि॒ सव॑नं म॒ आ व॑सो॒ दुघा॑ इ॒वोप॑ दा॒शुषे॑ ॥३

यत् । ई॒म् । सु॒तासः॑ । इन्द॑वः । अ॒भि । प्रि॒यम् । अम॑न्दिषुः ।

आपः॑ । न । धा॒यि॒ । सव॑नम् । मे॒ । आ । व॒सो॒ इति॑ । दुघाः॑ऽइव । उप॑ । दा॒शुषे॑ ॥३

यत् । ईम् । सुतासः । इन्दवः । अभि । प्रियम् । अमन्दिषुः ।।

आपः । न । धायि । सवनम् । मे। आ । वसो इतिं । दुघाऽइव । उप । दाशुषे ॥ ३ ॥

हे इन्द्र यद्यदा सुतासः अभिषुताः इन्दवः सोमाः यं( प्रियं )वल्लभम् ईम् एनं त्वाम् अभि अभिलक्ष्य अमन्दिषुः अमादयन् । तदा हे वसो वासयितरिन्द्र त्वया दाशुषे हविर्दत्तवते मे मह्यं मदर्थं सवनं यज्ञः उपगम्य आ धायि कार्त्स्येन सफलीकृतः । तत्र दृष्टान्तः । आपो न । ता यथा स्नानपानादिना सफलीक्रियन्ते तद्वत् । अपरो दृष्टान्तः । दुघाइव । हविर्दुघा धेनवो यथा सांनाय्यसेवनादिना सफलीक्रियन्ते तद्वत् सोमपानादिना यज्ञः सफलीकृत इत्यर्थः ।।


अ॒ने॒हसं॑ वो॒ हव॑मानमू॒तये॒ मध्वः॑ क्षरन्ति धी॒तयः॑ ।

आ त्वा॑ वसो॒ हव॑मानास॒ इन्द॑व॒ उप॑ स्तो॒त्रेषु॑ दधिरे ॥४

अ॒ने॒हस॑म् । वः॒ । हव॑मानम् । ऊ॒तये॑ । मध्वः॑ । क्ष॒र॒न्ति॒ । धी॒तयः॑ ।

आ । त्वा॒ । व॒सो॒ इति॑ । हव॑मानासः । इन्द॑वः । उप॑ । स्तो॒त्रेषु॑ । द॒धि॒रे॒ ॥४

अनेहसम् । वः । हवमानम् । ऊतये । मध्वः । क्षरन्ति । धीतयः ।

आ । त्वा । वसो इति । हवमानासः । इन्दवः । उप । स्तोत्रेषु । दधिरे ॥ ४ ॥

हे ऋत्विजः वः युष्मत्संबन्धिन्यः धीतयोऽङ्गुलयः ऊतये रक्षार्थं हवमानं स्तूयमानमिन्द्रमुद्दिश्य मध्वः मधुररसं सोमं क्षरन्ति । कीदृशम् । अनेहसम् । न आहन्यत इत्यनेहः तम् । शत्रुभिरनभिभाव्यमित्यर्थः । हे वसो वासयितरिन्द्र हवमानासः स्तूयमानाः इन्दवः सोमाः स्तोत्रेषु निमित्तेषु त्वा त्वाम् उप समीपे आ दधिरे आभिमुख्येन स्थापितवन्तः ।।


आ न॒ः सोमे॑ स्वध्व॒र इ॑या॒नो अत्यो॒ न तो॑शते ।

यं ते॑ स्वदाव॒न्स्वद॑न्ति गू॒र्तयः॑ पौ॒रे छ॑न्दयसे॒ हव॑म् ॥५

आ । नः॒ । सोमे॑ । सु॒ऽअ॒ध्व॒रे । इ॒या॒नः । अत्यः॑ । न । तो॒श॒ते॒ ।

यम् । ते॒ । स्व॒दा॒ऽव॒न् । स्वद॑न्ति । गू॒र्तयः॑ । पौ॒रे । छ॒न्द॒य॒से॒ । हव॑म् ॥५

आ । नः । सोमे। सुऽअध्वरे । इयानः । अत्यः । न । तोशते ।

यम् । ते । स्वदाऽवन् । स्वदन्ति । गूर्तयः । पौरे । छन्दयसे । हवम् ॥ ५॥ ॥१६॥

नोऽस्माकं यजमानानां संबन्धिनि स्वध्वरे शोभनयज्ञे सोमे सोमपाने निमित्तभूते सति अत्यो न सततगमनशीलोऽश्व इव इयानः गच्छन्निन्द्रः आ तोशते अस्मच्छत्रून् हिनस्ति । तोशतिर्वधकर्मा । 'नितोशते निबर्हयति' इति वधकर्मसु पाठात् । इन्द्रं प्रत्यक्षीकृत्य ब्रूते । हे स्वदावन् आस्वादनकुशलेन्द्र ते तव स्वभूताः गूर्तयः उद्यताः स्तुतयः यं त्वां स्वदन्ति आत्मानमास्वादयन्ति स त्वं पौरे पुरजनसमूहे हवमात्मनः स्तुतिं छन्दयसे कामयसे । ऋत्विग्भिः स्वस्तुतिः कर्तब्येत्यभिलषसीत्यर्थः ।। ॥१६॥


प्र वी॒रमु॒ग्रं विवि॑चिं धन॒स्पृतं॒ विभू॑तिं॒ राध॑सो म॒हः ।

उ॒द्रीव॑ वज्रिन्नव॒तो व॑सुत्व॒ना सदा॑ पीपेथ दा॒शुषे॑ ॥६

प्र । वी॒रम् । उ॒ग्रम् । विवि॑चिम् । ध॒न॒ऽस्पृत॑म् । विऽभू॑तिम् । राध॑सः । म॒हः ।

उ॒द्रीऽइ॑व । व॒ज्रि॒न् । अ॒व॒तः । व॒सु॒ऽत्व॒ना । सदा॑ । पी॒पे॒थ॒ । दा॒शुषे॑ ॥६

प्र । वीरम् । उग्रम् । विविचिम् । धनऽस्पृतम् । विऽभूतिम् । राधसः । महः ।

उद्रीऽइव । वज्रिन्। अवतः । वसुऽत्वना । सदा । पीपेथ । दाशुषे ॥ ६ ॥

हे इन्द्र वीरं विशेषेण शत्रूणां प्रेरयितारं महः महत् राधसः राधो धनम् । कर्मणि षष्ठयौ । प्र प्रार्थये याचामि । उपसर्गवशाद्योग्यक्रियाध्याहारः । कीदृशं त्वाम् । उग्रमुद्गूर्णबलं विविचिं पुण्यापुण्ययोर्विवक्तारं धनस्पृतं धनदातारं विभूतिं विविधैश्वर्योपेतान् ( पेतं ) यतः हे वज्रिन् वज्रवन्निन्द्र त्वं दाशुषे हविषां दातारम् । कर्मणि चतुर्थी । सदा सर्वदा वसुत्वना धनदानेन पीपेथ आप्याययसि । वर्धयसीत्यर्थः । क इव। उद्रीव अवतः उदकवान् कूप इव । स यथा उदकदानेन जगदाप्याययति तद्वत् ॥


यद्ध॑ नू॒नं प॑रा॒वति॒ यद्वा॑ पृथि॒व्यां दि॒वि ।

यु॒जा॒न इ॑न्द्र॒ हरि॑भिर्महेमत ऋ॒ष्व ऋ॒ष्वेभि॒रा ग॑हि ॥७

यत् । ह॒ । नू॒नम् । प॒रा॒ऽवति॑ । यत् । वा॒ । पृ॒थि॒व्याम् । दि॒वि ।

यु॒जा॒नः । इ॒न्द्र॒ । हरि॑ऽभिः । म॒हे॒ऽम॒ते॒ । ऋ॒ष्वः । ऋ॒ष्वेभिः॑ । आ । ग॒हि॒ ॥७

यत् । ह । नूनम् । पराऽवति । यत् । वा । पृथिव्याम् । दिवि ।

युजानः । इन्द्र । हरिऽभिः । महेऽमते । ऋष्वः । ऋष्वेभिः । आ । गहि ॥ ७ ॥

हे महेमते पूजासक्तबुद्धे इन्द्र यद्ध यत्र क्वचित् परावति दूरदेशे नूनं निश्चितं वर्तसे । यद्वा यत्र वा पृथिव्यां भुवि दिवि द्युलोके वा वर्तसे । अस्मात् स्थानविशेषात् ऋष्वैः महद्भिः हरिभिः एतत्संज्ञकैरश्वैः रथं युजानः युक्तं कुर्वाणः ऋष्वः महांस्त्वमा गहि आगच्छास्मद्यज्ञम् ।।


र॒थि॒रासो॒ हर॑यो॒ ये ते॑ अ॒स्रिध॒ ओजो॒ वात॑स्य॒ पिप्र॑ति ।

येभि॒र्नि दस्युं॒ मनु॑षो नि॒घोष॑यो॒ येभि॒ः स्वः॑ प॒रीय॑से ॥८

र॒थि॒रासः॑ । हर॑यः । ये । ते॒ । अ॒स्रिधः॑ । ओजः॑ । वात॑स्य । पिप्र॑ति ।

येभिः॑ । नि । दस्यु॑म् । मनु॑षः । नि॒ऽघोष॑यः । येभिः॑ । स्व१॒॑रिति॑ स्वः॑ । प॒रि॒ऽईय॑से ॥८

रथिरासः । हरयः । ये । ते। अस्रिधः। ओजः । वातस्य । पिप्रति ।

येभिः । नि। दस्युम् । मनुषः । निऽघोषयः । येभिः । स्वरिति स्वः । परिऽईयसे ॥८॥

ये हरयोऽश्वाः ते तव स्वभूताः रथिरासः रथार्हाः अस्रिधः । स्रिधो हिंसकाः शत्रवः । तद्रहिताः सन्ति । येभिर्यैरश्वैः मनुषः मनुष्यस्य यजमानस्य संबन्धिनं दस्युमुपक्षपयितारं शत्रुं निः निरन्तरं निघोषयः नितरामाक्रोशयसि । अश्वशफप्रहारैस्तं चूर्णयन् विशब्दितं करोषीत्यर्थः । किंच येभिः यैरश्वैः स्वः स्वर्लोकं परीयसे परितो गच्छसि । ते हरयो वातस्य वायोः ओजः बलं पिप्रति पूरयन्ति । वायोः सामर्थ्यमात्मनि संपादयन्तीत्यर्थः ।।


ए॒ताव॑तस्ते वसो वि॒द्याम॑ शूर॒ नव्य॑सः ।

यथा॒ प्राव॒ एत॑शं॒ कृत्व्ये॒ धने॒ यथा॒ वशं॒ दश॑व्रजे ॥९

ए॒ताव॑तः । ते॒ । व॒सो॒ इति॑ । वि॒द्याम॑ । शू॒र॒ । नव्य॑सः ।

यथा॑ । प्र॒ऽआवः॑ । एत॑शम् । कृत्व्ये॑ । धने॑ । यथा॑ । वश॑म् । दश॑ऽव्रजे ॥९

एतावतः । ते । वसो इति । विद्याम । शूर । नव्यसः ।।

यथा । प्र । आवः । एतशम् । कृत्व्ये । धने । यथा । वशम् । दशऽव्रजे ॥ ९॥

हे वसो वासयितः हे शूर विक्रान्तेन्द्र यथा येन प्रकारेण कृत्व्ये कर्तव्ये धने निमित्ते सति एतशम् एतन्नामानमृषिं प्रावः प्रकर्षेण रक्षितवानसि । किंच यथा येन प्रकारेण दशव्रजे दशसंख्याकशत्रुसमूहे वशम् एतत्संज्ञकमृषिं प्रावः प्रकर्षेण रक्षितवानसि । एतावतः एतावत्पराक्रमोपेतं ते त्वां नव्यसः स्तुत्यं विद्याम जानीमो वयम् । सर्वत्र कर्मणि षष्ठी ।।


यथा॒ कण्वे॑ मघव॒न्मेधे॑ अध्व॒रे दी॒र्घनी॑थे॒ दमू॑नसि ।

यथा॒ गोश॑र्ये॒ असि॑षासो अद्रिवो॒ मयि॑ गो॒त्रं ह॑रि॒श्रिय॑म् ॥१०

यथा॑ । कण्वे॑ । म॒घ॒ऽव॒न् । मेधे॑ । अ॒ध्व॒रे । दी॒र्घऽनी॑थे । दमू॑नसि ।

यथा॑ । गोऽश॑र्ये । असि॑सासः । अ॒द्रि॒ऽवः॒ । मयि॑ । गो॒त्रम् । ह॒रि॒ऽश्रिय॑म् ॥१०

यथा । कण्वे । मघवन् । मेधे । अध्वरे। दीर्घऽनीथे । दमूनसि ।।

यथा । गोऽशर्ये । असिसासः । अद्रिवः । मयि । गोत्रम् । हरिऽश्रियम् ॥१०॥ ॥१७॥

हे अद्रिवः वज्रिवन् इन्द्र मेधे यज्ञे यथा येन प्रकारेण कण्वे एतन्नामके ऋषौ निमित्ते हरिश्रियम् । हरिः जगत्तापहर्त्री हरितवर्णा वा श्रीः जललक्ष्मीर्यस्य तादृशम् । गोत्रं मेघम् असिसासः दत्तवानसि । ईदृशे कण्वे अध्वरे । ध्वरतिर्हिंसाकर्मा । तद्रहिते दीर्घनीथे दीर्घं स्वर्लोकपर्यन्तं नीथं हविः प्रापणं यस्य तथाभूते । पुनः कीदृशे । दमूनसि दानमनसि उदारे । यथा च गोशर्ये एतन्नामके ऋषौ मेघं दत्तवानसि तथा मयि पुष्टिगौ हरिश्रियं गोत्रं देहि। यथा तयोरनुग्रहदृष्ट्या मेघवृष्टिं कृतवानसि तथा मय्यपि कृपादृष्ट्या अभिलषितवृष्टिं कुर्वित्यभिप्रायः ॥ ॥ १७ ॥



मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.५०&oldid=208998" इत्यस्माद् प्रतिप्राप्तम्