ऋग्वेदः सूक्तं ९.१००

(ऋग्वेद: सूक्तं ९.१०० इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.९९ ऋग्वेदः - मण्डल ९
सूक्तं ९.१००
रेभसूनू काश्यपौ
सूक्तं ९.१०१ →
दे. पवमानः सोमः। अनुष्टुप्


अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् ।
वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ॥१॥
पुनान इन्दवा भर सोम द्विबर्हसं रयिम् ।
त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे ॥२॥
त्वं धियं मनोयुजं सृजा वृष्टिं न तन्यतुः ।
त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ॥३॥
परि ते जिग्युषो यथा धारा सुतस्य धावति ।
रंहमाणा व्यव्ययं वारं वाजीव सानसिः ॥४॥
क्रत्वे दक्षाय नः कवे पवस्व सोम धारया ।
इन्द्राय पातवे सुतो मित्राय वरुणाय च ॥५॥
पवस्व वाजसातमः पवित्रे धारया सुतः ।
इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः ॥६॥
त्वां रिहन्ति मातरो हरिं पवित्रे अद्रुहः ।
वत्सं जातं न धेनवः पवमान विधर्मणि ॥७॥
पवमान महि श्रवश्चित्रेभिर्यासि रश्मिभिः ।
शर्धन्तमांसि जिघ्नसे विश्वानि दाशुषो गृहे ॥८॥
त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे ।
प्रति द्रापिममुञ्चथाः पवमान महित्वना ॥९॥


सायणभाष्यम्

‘ अभी नवन्ते' इति नवर्चं चतुर्थं सूक्तम् । पूर्ववदृषिदेवते । सर्वा अनुष्टुभः । तथा चानुक्रम्यते’ अभी नवन्ते नव' इति । गतो विनियोगः ॥


अ॒भी न॑वन्ते अ॒द्रुहः॑ प्रि॒यमिन्द्र॑स्य॒ काम्यं॑ ।

व॒त्सं न पूर्व॒ आयु॑नि जा॒तं रि॑हन्ति मा॒तरः॑ ॥१

अ॒भि । न॒व॒न्ते॒ । अ॒द्रुहः॑ । प्रि॒यम् । इन्द्र॑स्य । काम्य॑म् ।

व॒त्सम् । न । पूर्वे॑ । आयु॑नि । जा॒तम् । रि॒ह॒न्ति॒ । मा॒तरः॑ ॥१

अभि । नवन्ते । अद्रुहः । प्रियम् । इन्द्रस्य । काम्यम् ।

वत्सम् । न । पूर्वे । आयुनि । जातम् । रिहन्ति । मातरः ॥१

यथा “मातरः गावः “पूर्वे प्रथमे “आयुनि वयसि “जातं “वत्सं “रिहन्ति लिहन्ति तथा “अद्रुहः अद्रोहा वसतीवर्याख्या आपः “इन्द्रस्य “प्रियं “काम्यं सर्वैः काम्यमानं सोमम् “अभि “नवन्ते अभिगच्छन्ति ॥


पु॒ना॒न इंन्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिं ।

त्वं वसू॑नि पुष्यसि॒ विश्वा॑नि दा॒शुषो॑ गृ॒हे ॥२

पु॒ना॒नः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ । सोम॑ । द्वि॒ऽबर्ह॑सम् । र॒यिम् ।

त्वम् । वसू॑नि । पु॒ष्य॒सि॒ । विश्वा॑नि । दा॒शुषः॑ । गृ॒हे ॥२

पुनानः । इन्दो इति । आ । भर । सोम । द्विऽबर्हसम् । रयिम् ।

त्वम् । वसूनि । पुष्यसि । विश्वानि । दाशुषः । गृहे ॥२

हे “इन्दो दीप्यमान हे “सोम “पुनानः पूयमानस्त्वं “द्विबर्हसं द्वयोः स्थानयोः परिबृंहणशीलं “रयिं धनमस्मभ्यम् “आ “भर आहर देहि । “त्वं हि “दाशुषः हविर्दत्तवतो यजमानस्य “गृहे स्थित्वा “विश्वानि सर्वाणि “वसूनि धनानि “पुष्यसि पोषयसि ।।


त्वं धियं॑ मनो॒युजं॑ सृ॒जा वृ॒ष्टिं न त॑न्य॒तुः ।

त्वं वसू॑नि॒ पार्थि॑वा दि॒व्या च॑ सोम पुष्यसि ॥३

त्वम् । धिय॑म् । म॒नः॒ऽयुज॑म् । सृ॒ज । वृ॒ष्टिम् । न । त॒न्य॒तुः ।

त्वम् । वसू॑नि । पार्थि॑वा । दि॒व्या । च॒ । सो॒म॒ । पु॒ष्य॒सि॒ ॥३

त्वम् । धियम् । मनःऽयुजम् । सृज । वृष्टिम् । न । तन्यतुः ।

त्वम् । वसूनि । पार्थिवा । दिव्या । च । सोम । पुष्यसि ॥३

हे “सोम “त्वं “मनोयुजं मनसा युज्यमानां मनोवेगां “धियं ध्यातव्यां धारां “सृज पात्रेषु विसृज । तत्र दृष्टान्तः । "वृष्टिं “न “तन्यतुः । ‘ तनु विस्तारे'।' ऋतन्यञ्जि°' इत्यादिना यतुच्प्रत्ययः । तनोति विस्तारयतीति तन्यतुर्मेघः । यथा मेघो वृष्टिं सृजति तद्वत् । ततो हे सोम “त्वं “पार्थिवा पृथिव्यां भवानि “वसूनि धनानि तथा दिव्यानि दिवि भवानि धनानि “च “पुष्यसि अस्मभ्यं पोषयसि । प्रयच्छसीत्यर्थः ॥


परि॑ ते जि॒ग्युषो॑ यथा॒ धारा॑ सु॒तस्य॑ धावति ।

रंह॑माणा॒ व्य१॒॑व्ययं॒ वारं॑ वा॒जीव॑ सान॒सिः ॥४

परि॑ । ते॒ । जि॒ग्युषः॑ । य॒था॒ । धारा॑ । सु॒तस्य॑ । धा॒व॒ति॒ ।

रंह॑माणा । वि । अ॒व्यय॑म् । वार॑म् । वा॒जीऽइ॑व । सा॒न॒सिः ॥४

परि । ते । जिग्युषः । यथा । धारा । सुतस्य । धावति ।

रंहमाणा । वि । अव्ययम् । वारम् । वाजीऽइव । सानसिः ॥४

“सुतस्य “ते त्वदीया “सानसिः संभजनशीला यद्वा स्तोतृभिः संभजनीया “रंहमाणा वेगं कुर्वाणा “धारा “अव्ययम् अविमयं “वारं वालं पवित्रं “वि “परि “धावति विशेषेण परितो गच्छति । तत्र दृष्टान्तः । “जिग्युषः शत्रूणां जेतुर्वीरस्य “वाजीव अश्वो यथा युद्धं परितो धावति तद्वत् । जयतेः क्वसौ ‘सन्लिटोर्जेः' इति कुत्वम् । "यथा इति पूरकः ॥


क्रत्वे॒ दक्षा॑य नः कवे॒ पव॑स्व सोम॒ धार॑या ।

इन्द्रा॑य॒ पात॑वे सु॒तो मि॒त्राय॒ वरु॑णाय च ॥५

क्रत्वे॑ । दक्षा॑य । नः॒ । क॒वे॒ । पव॑स्व । सो॒म॒ । धार॑या ।

इन्द्रा॑य । पात॑वे । सु॒तः । मि॒त्राय॑ । वरु॑णाय । च॒ ॥५

क्रत्वे । दक्षाय । नः । कवे । पवस्व । सोम । धारया ।

इन्द्राय । पातवे । सुतः । मित्राय । वरुणाय । च ॥५

हे "कवे क्रान्तदर्शिन् हे "सोम “नः अस्माकं “क्रत्वे प्रज्ञानाय “दक्षाय बलाय च त्वं “धारया “पवस्व क्षर । कीदृशः। “इन्द्राय “पातवे पानार्थं तथा “मित्राय “वरुणाय “च “सुतः अभिषुतः खलु ॥ ॥ २७ ॥


पव॑स्व वाज॒सात॑मः प॒वित्रे॒ धार॑या सु॒तः ।

इन्द्रा॑य सोम॒ विष्ण॑वे दे॒वेभ्यो॒ मधु॑मत्तमः ॥६

पव॑स्व । वा॒ज॒ऽसात॑मः । प॒वित्रे॑ । धार॑या । सु॒तः ।

इन्द्रा॑य । सो॒म॒ । विष्ण॑वे । दे॒वेभ्यः॑ । मधु॑मत्ऽतमः ॥६

पवस्व । वाजऽसातमः । पवित्रे । धारया । सुतः ।

इन्द्राय । सोम । विष्णवे । देवेभ्यः । मधुमत्ऽतमः ॥६

हे “सोम “वाजसातमः अतिशयेनान्नस्य दाता “सुतः अभिषुतस्त्वं “पवित्रे “धारया सह “पवस्व क्षर। ततो हे सोम त्वम् “इन्द्राय "विष्णवे चान्येभ्यो मित्रादिभ्यः “देवेभ्यः च “मधुमत्तमः अतिशयेन माधुयोंपेतो भव ॥


त्वां रि॑हन्ति मा॒तरो॒ हरिं॑ प॒वित्रे॑ अ॒द्रुहः॑ ।

व॒त्सं जा॒तं न धे॒नवः॒ पव॑मान॒ विध॑र्मणि ॥७

त्वाम् । रि॒ह॒न्ति॒ । मा॒तरः॑ । हरि॑म् । प॒वित्रे॑ । अ॒द्रुहः॑ ।

व॒त्सम् । जा॒तम् । न । धे॒नवः॑ । पव॑मान । विऽध॑र्मणि ॥७

त्वाम् । रिहन्ति । मातरः । हरिम् । पवित्रे । अद्रुहः ।

वत्सम् । जातम् । न । धेनवः । पवमान । विऽधर्मणि ॥७

हे “पवमान सोम “विधर्मणि विविधं हविषां धारके यज्ञे “अद्रुहः द्रोहवर्जिताः “मातरः मातृभूता वसतीवर्यः “हरिं हरितवर्णं “त्वां “पवित्रे स्थितं “रिहन्ति लिहन्ति आस्वादयन्ति । कथमिव । यथा “धेनवः "जातं “वत्सं लिहन्ति तथा ॥


पव॑मान॒ महि॒ श्रव॑श्चि॒त्रेभि॑र्यासि र॒श्मिभिः॑ ।

शर्धं॒तमां॑सि जिघ्नसे॒ विश्वा॑नि दा॒शुषो॑ गृ॒हे ॥८

पव॑मान । महि॑ । श्रवः॑ । चि॒त्रेभिः॑ । या॒सि॒ । र॒श्मिऽभिः॑ ।

शर्ध॑न् । तमां॑सि । जि॒घ्न॒से॒ । विश्वा॑नि । दा॒शुषः॑ । गृ॒हे ॥८

पवमान । महि । श्रवः । चित्रेभिः । यासि । रश्मिऽभिः ।

शर्धन् । तमांसि । जिघ्नसे । विश्वानि । दाशुषः । गृहे ॥८

हे “पवमान “महि महत् “श्रवः श्रवणीयमन्तरिक्षं “चित्रेभिः चित्रैर्नानाविधैश्चायनीयैर्वा “रश्मिभिः परि “यासि परिगच्छसि । तथा “शर्धन् वेगं कुर्वंस्त्वं “दाशुषः हविर्दत्तवतो यजमानस्य “गृहे स्थित्वा “विश्वानि सर्वाणि “तमांसि तमोरूपाणि रक्षांसि “जिघ्नसे हंसि । एवं द्यावापृथिव्योः वर्तस इत्यर्थः ॥


त्वं द्यां च॑ महिव्रत पृथि॒वीं चाति॑ जभ्रिषे ।

प्रति॑ द्रा॒पिम॑मुंचथाः॒ पव॑मान महित्व॒ना ॥९

त्वम् । द्याम् । च॒ । म॒हि॒ऽव्र॒त॒ । पृ॒थि॒वीम् । च॒ । अति॑ । ज॒भ्रि॒षे॒ ।

प्रति॑ । द्रा॒पिम् । अ॒मु॒ञ्च॒थाः॒ । पव॑मान । म॒हि॒ऽत्व॒ना ॥९

त्वम् । द्याम् । च । महिऽव्रत । पृथिवीम् । च । अति । जभ्रिषे ।

प्रति । द्रापिम् । अमुञ्चथाः । पवमान । महिऽत्वना ॥९

हे “महिव्रत महाकर्मन् बहुविधकर्मन् सोम “त्वं “द्यां द्युलोकं च पृथिवीं “च "अति “जभ्रिष अत्यन्तं बिभर्षि ।' डुभृञ् धारणपोषणयोः । तस्य छान्दसे लिटि सर्वविधीनां छन्दसि विकल्पितत्वादत्रेडागमः । अन्तरिक्षे सोमात्मनेति पृथिव्यां लतारूपेणेत्येवं लोकद्वयवर्तित्वम्। हे “पवमान क्षरन् सोम त्वं “महित्वना महत्त्वेन युक्तः सन् "द्रापिं कवचं “प्रति "अमुञ्चथाः प्रतिमुञ्चसि संवृणोषि ॥ ॥ २८ ॥

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्ये सप्तमाष्टके चतुर्थोऽध्यायः समाप्तः ॥


टिप्पणी

९.१००.१ अभी नवन्ते इति

द्र. पार्जन्यं साम


९.१००.६-९ पवस्व वाजसातये इति

द्र. शाक्वरऋषभम् साम


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.१००&oldid=333854" इत्यस्माद् प्रतिप्राप्तम्