ऋग्वेदः सूक्तं ९.४

(ऋग्वेद: सूक्तं ९.४ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.३ ऋग्वेदः - मण्डल ९
सूक्तं ९.४
हिरण्यस्तूप आङ्गिरसः
सूक्तं ९.५ →
दे. पवमानः सोमः। गायत्री


सना च सोम जेषि च पवमान महि श्रवः ।
अथा नो वस्यसस्कृधि ॥१॥
सना ज्योतिः सना स्वर्विश्वा च सोम सौभगा ।
अथा नो वस्यसस्कृधि ॥२॥
सना दक्षमुत क्रतुमप सोम मृधो जहि ।
अथा नो वस्यसस्कृधि ॥३॥
पवीतारः पुनीतन सोममिन्द्राय पातवे ।
अथा नो वस्यसस्कृधि ॥४॥
त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः ।
अथा नो वस्यसस्कृधि ॥५॥
तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम् ।
अथा नो वस्यसस्कृधि ॥६॥
अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम् ।
अथा नो वस्यसस्कृधि ॥७॥
अभ्यर्षानपच्युतो रयिं समत्सु सासहिः ।
अथा नो वस्यसस्कृधि ॥८॥
त्वां यज्ञैरवीवृधन्पवमान विधर्मणि ।
अथा नो वस्यसस्कृधि ॥९॥
रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर ।
अथा नो वस्यसस्कृधि ॥१०॥


सायणभाष्यम्

‘सना च' इति दशर्चं चतुर्थं सूक्तमाङ्गिरसकुलस्य हिरण्यस्तूपस्थार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रान्तं च- सन हिरण्यस्तूपः ' इति । उक्तो विनियोगः ॥


सना॑ च सोम॒ जेषि॑ च॒ पव॑मान॒ महि॒ श्रवः॑ ।

अथा॑ नो॒ वस्य॑सस्कृधि ॥१

सन॑ । च॒ । सो॒म॒ । जेषि॑ । च॒ । पव॑मान । महि॑ । श्रवः॑ ।

अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥१

सन । च । सोम । जेषि । च । पवमान । महि । श्रवः ।

अथ । नः । वस्यसः । कृधि ॥१

हे “महि “श्रवः महदन्न “पवमान “सोम “सन । अस्मद्यागे यजनीयान् देवान् भज । “जेषि “च । यागविध्वंसकारिणो राक्षसांश्च जय । “अथ देवान् प्राप्य राक्षसांश्च जित्वानन्तरं “नः अस्मान “वस्यसः श्रेयसः “कृधि कुरु। श्रेयोऽस्मभ्यं देहीत्यर्थः ॥


सना॒ ज्योतिः॒ सना॒ स्व१॒॑र्विश्वा॑ च सोम॒ सौभ॑गा ।

अथा॑ नो॒ वस्य॑सस्कृधि ॥२

सन॑ । ज्योतिः॑ । सन॑ । स्वः॑ । विश्वा॑ । च॒ । सो॒म॒ । सौभ॑गा ।

अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥२

सन । ज्योतिः । सन । स्वः । विश्वा । च । सोम । सौभगा ।

अथ । नः । वस्यसः । कृधि ॥२

हे "सोम त्वं “ज्योतिः तेजः “सन अस्मभ्यं प्रयच्छ । अपि च "स्वः स्वर्गं “सन अस्मभ्यं देहि । “विश्वा विश्वानि "सौभगा सौभाग्यानि “च सन । सिद्धमन्यत् ॥


सना॒ दक्ष॑मु॒त क्रतु॒मप॑ सोम॒ मृधो॑ जहि ।

अथा॑ नो॒ वस्य॑सस्कृधि ॥३

सन॑ । दक्ष॑म् । उ॒त । क्रतु॑म् । अप॑ । सो॒म॒ । मृधः॑ । ज॒हि॒ ।

अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥३

सन । दक्षम् । उत । क्रतुम् । अप । सोम । मृधः । जहि ।

अथ । नः । वस्यसः । कृधि ॥३

हे “सोम त्वं “दक्षं बलं "सन अस्मभ्यं देहि । "उत अपि च “क्रतुं प्रज्ञानं सन । “मृधः हिंसकान् शत्रूंश्च “अप "जहि मारय । सिद्धमन्यत् ॥


पवी॑तारः पुनी॒तन॒ सोम॒मिंद्रा॑य॒ पात॑वे ।

अथा॑ नो॒ वस्य॑सस्कृधि ॥४

पवि॑तारः । पु॒नी॒तन॑ । सोम॑म् । इन्द्रा॑य । पात॑वे ।

अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥४

पवितारः । पुनीतन । सोमम् । इन्द्राय । पातवे ।

अथ । नः । वस्यसः । कृधि ॥४

हे “पवीतारः सोमाभिषवकर्तारः यूयम् “इन्द्राय “पातवे पातुं “सोमं “पुनीतन अभिषुणुत । सिद्धमन्यत् ॥


त्वं सूर्ये॑ न॒ आ भ॑ज॒ तव॒ क्रत्वा॒ तवो॒तिभिः॑ ।

अथा॑ नो॒ वस्य॑सस्कृधि ॥५

त्वम् । सूर्ये॑ । नः॒ । आ । भ॒ज॒ । तव॑ । क्रत्वा॑ । तव॑ । ऊ॒तिऽभिः॑ ।

अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥५

त्वम् । सूर्ये । नः । आ । भज । तव । क्रत्वा । तव । ऊतिऽभिः ।

अथ । नः । वस्यसः । कृधि ॥५

हे सोम “त्वं “तव “क्रत्वा “तव “ऊतिभिः स्वकर्तृकेण कर्मणा त्वत्कर्तृकाभी रक्षाभिश्च “नः अस्मान् “सूर्ये “आ “भज प्रापय । सिद्धमन्यत् ॥ ॥ २२ ॥


तव॒ क्रत्वा॒ तवो॒तिभि॒र्ज्योक्प॑श्येम॒ सूर्यं॑ ।

अथा॑ नो॒ वस्य॑सस्कृधि ॥६

तव॑ । क्रत्वा॑ । तव॑ । ऊ॒तिऽभिः॑ । ज्योक् । प॒श्ये॒म॒ । सूर्य॑म् ।

अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥६

तव । क्रत्वा । तव । ऊतिऽभिः । ज्योक् । पश्येम । सूर्यम् ।

अथ । नः । वस्यसः । कृधि ॥६

हे सोम “तव “क्रत्वा प्रज्ञानेन “तव “ऊतिभिः रक्षाभिश्च “ज्योक् चिरं “पश्येम "सूर्यम् । पश्याम द्रक्ष्यामः । सिद्धमन्यत् ॥


अ॒भ्य॑र्ष स्वायुध॒ सोम॑ द्वि॒बर्ह॑सं र॒यिं ।

अथा॑ नो॒ वस्य॑सस्कृधि ॥७

अ॒भि । अ॒र्ष॒ । सु॒ऽआ॒यु॒ध॒ । सोम॑ । द्वि॒ऽबर्ह॑सम् । र॒यिम् ।

अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥७

अभि । अर्ष । सुऽआयुध । सोम । द्विऽबर्हसम् । रयिम् ।

अथ । नः । वस्यसः । कृधि ॥७

हे "स्वायुध शोभनायुध “सोम त्वं द्विबर्हसं द्वयोर्द्यावापृथिव्योः स्थानयोः परिवृढं “रयिं धनम् “अभ्यर्ष अस्मानभिगमय । सिद्धमन्यत् ॥


अ॒भ्य१॒॑र्षान॑पच्युतो र॒यिं स॒मत्सु॑ सास॒हिः ।

अथा॑ नो॒ वस्य॑सस्कृधि ॥८

अ॒भि । अ॒र्ष॒ । अन॑पऽच्युतः । र॒यिम् । स॒मत्ऽसु॑ । स॒स॒हिः ।

अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥८

अभि । अर्ष । अनपऽच्युतः । रयिम् । समत्ऽसु । ससहिः ।

अथ । नः । वस्यसः । कृधि ॥८

हे सोम "समत्सु संग्रामेषु अनपच्युतः शत्रुभिरनाहतः “सासहिः शत्रूणामभिभविता त्वं “रयिं धनम् “अभ्यर्ष अस्मानभिगमय । सिद्धमन्यत् ॥


त्वां य॒ज्ञैर॑वीवृध॒न्पव॑मान॒ विध॑र्मणि ।

अथा॑ नो॒ वस्य॑सस्कृधि ॥९

त्वाम् । य॒ज्ञैः । अ॒वी॒वृ॒ध॒न् । पव॑मान । विऽध॑र्मणि ।

अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥९

त्वाम् । यज्ञैः । अवीवृधन् । पवमान । विऽधर्मणि ।

अथ । नः । वस्यसः । कृधि ॥९

हे “पवमान सोम यजमानानां विधारणाय प्रवृत्तं “त्वां “यज्ञैः “विधर्मणि आत्मनो विधारणार्थम् “अवीवृधन् यजमाना वर्धयन्ति । सिद्धमन्यत् ॥


र॒यिं न॑श्चि॒त्रम॒श्विन॒मिंदो॑ वि॒श्वायु॒मा भ॑र ।

अथा॑ नो॒ वस्य॑सस्कृधि ॥१०

र॒यिम् । नः॒ । चि॒त्रम् । अ॒श्विन॑म् । इन्दो॒ इति॑ । वि॒श्वऽआ॑युम् । आ । भ॒र॒ ।

अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥१०

रयिम् । नः । चित्रम् । अश्विनम् । इन्दो इति । विश्वऽआयुम् । आ । भर ।

अथ । नः । वस्यसः । कृधि ॥१०

हे “इन्दो यागेषु क्लिद्यमान सोम त्वं “चित्रं नानाविधम् “अश्विनम् अश्ववन्तं च “विश्वायुं सर्वगामिनं “रयिं “नः अस्मभ्यम् “आ “भर आहर । सिद्धमन्यत् ॥ ॥ २३ ॥

मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.४&oldid=208506" इत्यस्माद् प्रतिप्राप्तम्