ऋग्वेदः सूक्तं ९.६१

(ऋग्वेद: सूक्तं ९.६१ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.६० ऋग्वेदः - मण्डल ९
सूक्तं ९.६१
अमहीयुराङ्गिरसः
सूक्तं ९.६२ →
दे. पवमानः सोमः। गायत्री


अया वीती परि स्रव यस्त इन्दो मदेष्वा ।
अवाहन्नवतीर्नव ॥१॥
पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् ।
अध त्यं तुर्वशं यदुम् ॥२॥
परि णो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् ।
क्षरा सहस्रिणीरिषः ॥३॥
पवमानस्य ते वयं पवित्रमभ्युन्दतः ।
सखित्वमा वृणीमहे ॥४॥
ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया ।
तेभिर्नः सोम मृळय ॥५॥
स नः पुनान आ भर रयिं वीरवतीमिषम् ।
ईशानः सोम विश्वतः ॥६॥
एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् ।
समादित्येभिरख्यत ॥७॥
समिन्द्रेणोत वायुना सुत एति पवित्र आ ।
सं सूर्यस्य रश्मिभिः ॥८॥
स नो भगाय वायवे पूष्णे पवस्व मधुमान् ।
चारुर्मित्रे वरुणे च ॥९॥
उच्चा ते जातमन्धसो दिवि षद्भूम्या ददे ।
उग्रं शर्म महि श्रवः ॥१०॥
एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् ।
सिषासन्तो वनामहे ॥११॥
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।
वरिवोवित्परि स्रव ॥१२॥
उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् ।
इन्दुं देवा अयासिषुः ॥१३॥
तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव ।
य इन्द्रस्य हृदंसनिः ॥१४॥
अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषम् ।
वर्धा समुद्रमुक्थ्यम् ॥१५॥
पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् ।
ज्योतिर्वैश्वानरं बृहत् ॥१६॥
पवमानस्य ते रसो मदो राजन्नदुच्छुनः ।
वि वारमव्यमर्षति ॥१७॥
पवमान रसस्तव दक्षो वि राजति द्युमान् ।
ज्योतिर्विश्वं स्वर्दृशे ॥१८॥
यस्ते मदो वरेण्यस्तेना पवस्वान्धसा ।
देवावीरघशंसहा ॥१९॥
जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे ।
गोषा उ अश्वसा असि ॥२०॥
सम्मिश्लो अरुषो भव सूपस्थाभिर्न धेनुभिः ।
सीदञ्छ्येनो न योनिमा ॥२१॥
स पवस्व य आविथेन्द्रं वृत्राय हन्तवे ।
वव्रिवांसं महीरपः ॥२२॥
सुवीरासो वयं धना जयेम सोम मीढ्वः ।
पुनानो वर्ध नो गिरः ॥२३॥
त्वोतासस्तवावसा स्याम वन्वन्त आमुरः ।
सोम व्रतेषु जागृहि ॥२४॥
अपघ्नन्पवते मृधोऽप सोमो अराव्णः ।
गच्छन्निन्द्रस्य निष्कृतम् ॥२५॥
महो नो राय आ भर पवमान जही मृधः ।
रास्वेन्दो वीरवद्यशः ॥२६॥
न त्वा शतं चन ह्रुतो राधो दित्सन्तमा मिनन् ।
यत्पुनानो मखस्यसे ॥२७॥
पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने ।
विश्वा अप द्विषो जहि ॥२८॥
अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे ।
सासह्याम पृतन्यतः ॥२९॥
या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे ।
रक्षा समस्य नो निदः ॥३०॥


सायणभाष्यम्

तृतीयेऽनुवाके सप्त सूक्तानि । तत्र ‘अया वीती' इति त्रिंशदृचं प्रथमं सूक्तम् । अमहीयुर्नामाङ्गिरस ऋषिः । गायत्री छन्दः । पवमानः सोमो देवता । तथा चानुक्रान्तम्- अया वीती त्रिंशदमहीयुः' इति । उक्तो विनियोगः ॥


अ॒या वी॒ती परि॑ स्रव॒ यस्त॑ इंदो॒ मदे॒ष्वा ।

अ॒वाह॑न्नव॒तीर्नव॑ ॥१

अ॒या । वी॒ती । परि॑ । स्र॒व॒ । यः । ते॒ । इ॒न्दो॒ इति॑ । मदे॑षु । आ ।

अ॒व॒ऽअह॑न् । न॒व॒तीः । नव॑ ॥१

अया । वीती । परि । स्रव । यः । ते । इन्दो इति । मदेषु । आ ।

अवऽअहन् । नवतीः । नव ॥१

हे “इन्दो सोम “अया अनेन रसेन “वीती वीत्या इन्द्रस्य भक्षणाय “परि “स्रव परिक्षर । कीदृशेन रसेनेत्यत आह । “ते तव “यः रसः “मदेषु संग्रामेषु “नवतीर्नव इति नवनवतिसंख्याकाश्च शत्रुपुरीः “अवाहन जघान । अमुं सोमरसं पीत्वा मत्तः सन्निन्द्र उक्तलक्षणाः शत्रुपुरीर्जघानेति कृत्वा रसो जघानेत्युपचारः ॥


पुरः॑ स॒द्य इ॒त्थाधि॑ये॒ दिवो॑दासाय॒ शंब॑रं ।

अध॒ त्यं तु॒र्वशं॒ यदुं॑ ॥२

पुरः॑ । स॒द्यः । इ॒त्थाऽधि॑ये । दिवः॑ऽदासाय । शम्ब॑रम् ।

अध॑ । त्यम् । तु॒र्वश॑म् । यदु॑म् ॥२

पुरः । सद्यः । इत्थाऽधिये । दिवःऽदासाय । शम्बरम् ।

अध । त्यम् । तुर्वशम् । यदुम् ॥२

“सद्यः एकस्मिन्नेवाह्नि “पुरः शत्रूणां पुराणि सोमरसोऽवाहन् । “इत्थाधिये सत्यकर्मणे “दिवोदासाय राज्ञे “शम्बरं शत्रुपुराणां स्वामिनम् "अध अथ “त्यं तं “तुर्वशं तुर्वशनामकं राजानं दिवोदासशत्रुं “यदुं यदुनामकं राजानं च वशमानयञ्च । अत्रापि सोमरसं पीत्वा मत्तः सन्निन्द्रः सर्वमेतदकार्षीदिति सोमरसे कर्तृत्वमुपचर्यते ॥


परि॑ णो॒ अश्व॑मश्व॒विद्गोम॑दिंदो॒ हिर॑ण्यवत् ।

क्षरा॑ सह॒स्रिणी॒रिषः॑ ॥३

परि॑ । नः॒ । अश्व॑म् । अ॒श्व॒ऽवित् । गोऽम॑त् । इ॒न्दो॒ इति॑ । हिर॑ण्यऽवत् ।

क्षर॑ । स॒ह॒स्रिणीः॑ । इषः॑ ॥३

परि । नः । अश्वम् । अश्वऽवित् । गोऽमत् । इन्दो इति । हिरण्यऽवत् ।

क्षर । सहस्रिणीः । इषः ॥३

हे “इन्दो सोम “अश्ववित् अश्वस्य लम्भकस्त्वं “नः अस्माकम् “अश्वं “गोमत् गोयुक्तं “हिरण्यवत् हिरण्योपेतं धनं च “परि “क्षर । अपि च “सहस्रिणीः बहूनि “इषः अन्नानि क्षर ॥


पव॑मानस्य ते व॒यं प॒वित्र॑मभ्युंद॒तः ।

स॒खि॒त्वमा वृ॑णीमहे ॥४

पव॑मानस्य । ते॒ । व॒यम् । प॒वित्र॑म् । अ॒भि॒ऽउ॒न्द॒तः ।

स॒खि॒ऽत्वम् । आ । वृ॒णी॒म॒हे॒ ॥४

पवमानस्य । ते । वयम् । पवित्रम् । अभिऽउन्दतः ।

सखिऽत्वम् । आ । वृणीमहे ॥४

हे सोम “पवित्रमभ्युन्दतः पवित्रमभिक्लेदयतः “पवमानस्य क्षरतश्च “ते तव “सखित्वं सख्यं “वयम् अमहीयव आङ्गिरसाः “आ “वृणीमहे प्रार्थयामहे ।।


ये ते॑ प॒वित्र॑मू॒र्मयो॑ऽभि॒क्षरं॑ति॒ धार॑या ।

तेभि॑र्नः सोम मृळय ॥५

ये । ते॒ । प॒वित्र॑म् । ऊ॒र्मयः॑ । अ॒भि॒ऽक्षर॑न्ति । धार॑या ।

तेभिः॑ । नः॒ । सो॒म॒ । मृ॒ळ॒य॒ ॥५

ये । ते । पवित्रम् । ऊर्मयः । अभिऽक्षरन्ति । धारया ।

तेभिः । नः । सोम । मृळय ॥५

हे “सोम “ते तव “ये “ऊर्मयः तरङ्गाः “पवित्रं “धारया “क्षरन्ति "तेभिः तैरूर्मिभिः “नः अस्मान् “मृळय सुखय ॥ ॥ १८ ॥


स नः॑ पुना॒न आ भ॑र र॒यिं वी॒रव॑ती॒मिषं॑ ।

ईशा॑नः सोम वि॒श्वतः॑ ॥६

सः । नः॒ । पु॒ना॒नः । आ । भ॒र॒ । र॒यिम् । वी॒रऽव॑तीम् । इष॑म् ।

ईशा॑नः । सो॒म॒ । वि॒श्वतः॑ ॥६

सः । नः । पुनानः । आ । भर । रयिम् । वीरऽवतीम् । इषम् ।

ईशानः । सोम । विश्वतः ॥६

हे “सोम “विश्वतः सर्वस्य जगतः “ईशानः ईश्वरः “सः अभिषुतः “पुनानः पूयमानस्त्वं “नः अस्मभ्यं “रयिं धनं “वीरवतीं पुत्राद्युपेतम् “इषम् अन्नं च “आ “भर आहर ॥


ए॒तमु॒ त्यं दश॒ क्षिपो॑ मृ॒जंति॒ सिंधु॑मातरं ।

समा॑दि॒त्येभि॑रख्यत ॥७

ए॒तम् । ऊं॒ इति॑ । त्यम् । दश॑ । क्षिपः॑ । मृ॒जन्ति॑ । सिन्धु॑ऽमातरम् ।

सम् । आ॒दि॒त्येभिः॑ । अ॒ख्य॒त॒ ॥७

एतम् । ऊं इति । त्यम् । दश । क्षिपः । मृजन्ति । सिन्धुऽमातरम् ।

सम् । आदित्येभिः । अख्यत ॥७

“सिन्धुमातरं यस्य सोमस्य सिन्धवो नद्यो मातरो भवन्ति “त्यं तम् “एतम् इमं सोमं “दश “क्षिपः दशसंख्याका अङ्गुलयः “मृजन्ति शोधयन्ति । अपि च सोऽयं सोमः “आदित्येभिः आदित्यैः “सम् “अख्यत संगच्छते ।।


समिंद्रे॑णो॒त वा॒युना॑ सु॒त ए॑ति प॒वित्र॒ आ ।

सं सूर्य॑स्य र॒श्मिभिः॑ ॥८

सम् । इन्द्रे॑ण । उ॒त । वा॒युना॑ । सु॒तः । ए॒ति॒ । प॒वित्रे॑ । आ ।

सम् । सूर्य॑स्य । र॒श्मिऽभिः॑ ॥८

सम् । इन्द्रेण । उत । वायुना । सुतः । एति । पवित्रे । आ ।

सम् । सूर्यस्य । रश्मिऽभिः ॥८

“सुतः अभिषुतः सोमः “पवित्रे “इन्द्रेण “सम् “एति संगच्छते । “उत अपि च “वायुना समेति । “सूर्यस्य “रश्मिभिः मयूखैरपि “सम् एति ॥


स नो॒ भगा॑य वा॒यवे॑ पू॒ष्णे प॑वस्व॒ मधु॑मान् ।

चारु॑र्मि॒त्रे वरु॑णे च ॥९

सः । नः॒ । भगा॑य । वा॒यवे॑ । पू॒ष्णे । प॒व॒स्व॒ । मधु॑ऽमान् ।

चारुः॑ । मि॒त्रे । वरु॑णे । च॒ ॥९

सः । नः । भगाय । वायवे । पूष्णे । पवस्व । मधुऽमान् ।

चारुः । मित्रे । वरुणे । च ॥९

हे सोम “मधुमान् मधुररसः “चारुः कल्याणस्वरूपश्च “सः अभिषुतस्त्वं “नः अस्माकं यज्ञे “भगाय भगाख्याय देवाय “वायवे च “पूष्णे च “मित्रे मित्राय देवाय “वरुणे वरुणाय “च “पवस्व क्षर ॥


उ॒च्चा ते॑ जा॒तमंध॑सो दि॒वि षद्भूम्या द॑दे ।

उ॒ग्रं शर्म॒ महि॒ श्रवः॑ ॥१०

उ॒च्चा । ते॒ । जा॒तम् । अन्ध॑सः । दि॒वि । सत् । भूमिः॑ । आ । द॒दे॒ ।

उ॒ग्रम् । शर्म॑ । महि॑ । श्रवः॑ ॥१०

उच्चा । ते । जातम् । अन्धसः । दिवि । सत् । भूमिः । आ । ददे ।

उग्रम् । शर्म । महि । श्रवः ॥१०

हे सोम “ते तव संबन्धिनः “अन्धसः रसस्य “उच्चा उपरि “जातं जन्म अपि च “दिवि द्युलोके "सत् विद्यमानं स्वतस्तव संबन्धि “उग्रम उद्गूर्णं “शर्म सुखं “महि महत् “श्रवः अन्नं च “भूमिः “आ “ददे। भूम्या ददे इति पदत्रयमामनन्ति । विसर्जनीयलोपः सांहितिकः । भूमिर्भौमा जना मादृशाः । भूमिष्ठैरादीयत इत्यर्थः ॥ ॥ १९ ॥


ए॒ना विश्वा॑न्य॒र्य आ द्यु॒म्नानि॒ मानु॑षाणां ।

सिषा॑संतो वनामहे ॥११

ए॒ना । विश्वा॑नि । अ॒र्यः । आ । द्यु॒म्नानि॑ । मानु॑षाणाम् ।

सिसा॑सन्तः । व॒ना॒म॒हे॒ ॥११

एना । विश्वानि । अर्यः । आ । द्युम्नानि । मानुषाणाम् ।

सिसासन्तः । वनामहे ॥११

“एना एनेनानेन सोमेन "मानुषाणां मनुष्याणां विश्वा “विश्वानि “द्युम्नानि अन्नानि “आ “अर्यः अभिगच्छन्तः “सिषासन्तः संभक्तुमिच्छन्तश्च वयं “वनामहे संभजामहे ।।


स न॒ इंद्रा॑य॒ यज्य॑वे॒ वरु॑णाय म॒रुद्भ्यः॑ ।

व॒रि॒वो॒वित्परि॑ स्रव ॥१२

सः । नः॒ । इन्द्रा॑य । यज्य॑वे । वरु॑णाय । म॒रुत्ऽभ्यः॑ ।

व॒रि॒वः॒ऽवित् । परि॑ । स्र॒व॒ ॥१२

सः । नः । इन्द्राय । यज्यवे । वरुणाय । मरुत्ऽभ्यः ।

वरिवःऽवित् । परि । स्रव ॥१२

हे सोम “वरिवोवित् धनस्य लम्भकः पवमानस्त्वं “नः अस्माकं “यज्यवे यष्टव्याय “इन्द्राय “वरुणाय च “मरुद्भ्यः च “परि “स्रव धारया क्षर ॥


उपो॒ षु जा॒तम॒प्तुरं॒ गोभि॑र्भं॒गं परि॑ष्कृतं ।

इंदुं॑ दे॒वा अ॑यासिषुः ॥१३

उपो॒ इति॑ । सु । जा॒तम् । अ॒प्ऽतुर॑म् । गोभिः॑ । भ॒ङ्गम् । परि॑ऽकृतम् ।

इन्दु॑म् । दे॒वाः । अ॒या॒सि॒षुः॒ ॥१३

उपो इति । सु । जातम् । अप्ऽतुरम् । गोभिः । भङ्गम् । परिऽकृतम् ।

इन्दुम् । देवाः । अयासिषुः ॥१३

“सु “जातं सम्यक्प्रादुर्भूतम् “अप्तुरं वसतीवरीभिः प्रेरितं “भङ्गं शत्रूणां भञ्जकं “गोभिः गोविकारैः पयोभिः “परिष्कृतम् अलंकृतं संस्कृतम् “इन्दुं सोमं “देवाः इन्द्रादयः “उप “अयासिषुः उपागच्छन्ति ।


तमिद्व॑र्धन्तु नो॒ गिरो॑ व॒त्सं सं॒शिश्व॑रीरिव ।

य इन्द्र॑स्य हृदं॒सनिः॑ ॥१४

तम् । इत् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । व॒त्सम् । सं॒शिश्व॑रीःऽइव ।

यः । इन्द्र॑स्य । हृ॒द॒म्ऽसनिः॑ ॥१४

तम् । इत् । वर्धन्तु । नः । गिरः । वत्सम् । संशिश्वरीःऽइव ।

यः । इन्द्रस्य । हृदम्ऽसनिः ॥१४

“यः सोमः "इन्द्रस्य “हृदंसनिः हृदयस्य संभक्ता भवति “तमित् तमेव सोमं “नः अस्माकं “गिरः स्तुतिरूपा वाचः “सं “वर्धन्तु सम्यग्वर्धयन्तु । तत्र दृष्टान्तः । “वत्सं बालं “शिश्वरीरिव । यथा शिश्वर्यो बद्धपयस्का मातरो वत्सं वर्धयन्ति तद्वदित्यर्थः ॥


अर्षा॑ णः सोम॒ शं गवे॑ धु॒क्षस्व॑ पि॒प्युषी॒मिषं॑ ।

वर्धा॑ समु॒द्रमु॒क्थ्यं॑ ॥१५

अर्ष॑ । नः॒ । सो॒म॒ । शम् । गवे॑ । धु॒क्षस्व॑ । पि॒प्युषी॑म् । इष॑म् ।

वर्ध॑ । स॒मु॒द्रम् । उ॒क्थ्य॑म् ॥१५

अर्ष । नः । सोम । शम् । गवे । धुक्षस्व । पिप्युषीम् । इषम् ।

वर्ध । समुद्रम् । उक्थ्यम् ॥१५

हे “सोम त्वं “नः अस्माकं “गवे “शं सुखम् “अर्ष क्षर । अपि च "पिप्युषीं प्रवृद्धम् “इषम् अन्नं “धुक्षस्व पूरय । किंच “उक्थ्यं प्रशस्यं “समुदम् उदकं “वर्ध वर्धय ॥ ॥ २० ॥


पव॑मानो अजीजनद्दि॒वश्चि॒त्रं न त॑न्य॒तुं ।

ज्योति॑र्वैश्वान॒रं बृ॒हत् ॥१६

पव॑मानः । अ॒जी॒ज॒न॒त् । दि॒वः । चि॒त्रम् । न । त॒न्य॒तुम् ।

ज्योतिः॑ । वै॒श्वा॒न॒रम् । बृ॒हत् ॥१६

पवमानः । अजीजनत् । दिवः । चित्रम् । न । तन्यतुम् ।

ज्योतिः । वैश्वानरम् । बृहत् ॥१६

“पवमानः सोमः "बृहत् महत् “वैश्वानरं वैश्वानराख्यं “ज्योतिः तेजः “दिवः द्युलोकस्य “चित्रं विचित्रं “तन्यतुं “न अशनिमिव “अजीजनत् अजनयत् ॥


पव॑मानस्य ते॒ रसो॒ मदो॑ राजन्नदुच्छु॒नः ।

वि वार॒मव्य॑मर्षति ॥१७

पव॑मानस्य । ते॒ । रसः॑ । मदः॑ । रा॒ज॒न् । अ॒दु॒च्छु॒नः ।

वि । वार॑म् । अव्य॑म् । अ॒र्ष॒ति॒ ॥१७

पवमानस्य । ते । रसः । मदः । राजन् । अदुच्छुनः ।

वि । वारम् । अव्यम् । अर्षति ॥१७

हे “राजन् दीप्यमान सोम “पवमानस्य क्षरतः “ते तव “अदुच्छुनः रक्षोवर्जितः “मदः मदकरः “रसः “अव्यम् अविमयं “वारं वालं दशापवित्रम् “अर्षति अभिगच्छति ॥


पव॑मान॒ रस॒स्तव॒ दक्षो॒ वि रा॑जति द्यु॒मान् ।

ज्योति॒र्विश्वं॒ स्व॑र्दृ॒शे ॥१८

पव॑मान । रसः॑ । तव॑ । दक्षः॑ । वि । रा॒ज॒ति॒ । द्यु॒ऽमान् ।

ज्योतिः॑ । विश्व॑म् । स्वः॑ । दृ॒शे ॥१८

पवमान । रसः । तव । दक्षः । वि । राजति । द्युऽमान् ।

ज्योतिः । विश्वम् । स्वः । दृशे ॥१८

हे “पवमान सोम “तव त्वदीयः “दक्षः वृद्धः "द्युमान् दीप्तिमान् “रसः “वि “राजति प्रकाशते । न केवलं स्वयमेव प्रकाशते किंतु “विश्वं व्याप्तं “स्वः सर्वं “ज्योतिः तेजश्च “दृशे द्रष्टुं करोतीति शेषः ।।


यस्ते॒ मदो॒ वरे॑ण्य॒स्तेना॑ पव॒स्वांध॑सा ।

दे॒वा॒वीर॑घशंस॒हा ॥१९

यः । ते॒ । मदः॑ । वरे॑ण्यः । तेन॑ । प॒व॒स्व॒ । अन्ध॑सा ।

दे॒व॒ऽअ॒वीः । अ॒घ॒शं॒स॒ऽहा ॥१९

यः । ते । मदः । वरेण्यः । तेन । पवस्व । अन्धसा ।

देवऽअवीः । अघशंसऽहा ॥१९

हे सोम “ते तव “देवावीः देवकामः “अघशंसहा राक्षसानां हन्ता “वरेण्यः सर्वैर्वरणीयः “मदः मदकरः “यः रसो विद्यते “तेन रसेन “अन्धसा अदनीयेन “पवस्व क्षर ॥


जघ्नि॑र्वृ॒त्रम॑मि॒त्रियं॒ सस्नि॒र्वाजं॑ दि॒वेदि॑वे ।

गो॒षा उ॑ अश्व॒सा अ॑सि ॥२०

जघ्निः॑ । वृ॒त्रम् । अ॒मि॒त्रिय॑म् । सस्निः॑ । वाज॑म् । दि॒वेऽदि॑वे ।

गो॒ऽसाः । ऊं॒ इति॑ । अ॒श्व॒ऽसाः । अ॒सि॒ ॥२०

जघ्निः । वृत्रम् । अमित्रियम् । सस्निः । वाजम् । दिवेऽदिवे ।

गोऽसाः । ऊं इति । अश्वऽसाः । असि ॥२०

हे सोम त्वम् “अमित्रियम् अमित्रभवं “वृत्रं शत्रुं “जघ्निः हन्ता “असि भवसि । किंच “दिवेदिवे प्रतिदिनं “वाजं संग्रामं “सस्निः संभक्तासि । किंच “गोषाः गवां दातासि । “अश्वसाः अश्वानां दाता चासि ॥ ॥ २१ ॥


सम्मि॑श्लो अरु॒षो भ॑व सूप॒स्थाभि॒र्न धे॒नुभिः॑ ।

सीदं॑छ्ये॒नो न योनि॒मा ॥२१

सम्ऽमि॑श्लः । अ॒रु॒षः । भ॒व॒ । सु॒ऽउ॒प॒स्थाभिः॑ । न । धे॒नुऽभिः॑ ।

सीद॑न् । श्ये॒नः । न । योनि॑म् । आ ॥२१

सम्ऽमिश्लः । अरुषः । भव । सुऽउपस्थाभिः । न । धेनुऽभिः ।

सीदन् । श्येनः । न । योनिम् । आ ॥२१

हे सोम त्वं “सूपस्थाभिः शोभनोपस्थानाभिः “धेनुभिः गोभिः । गोविकारैः पयोभिरित्यर्थः । “संमिश्लः संमिश्रितः “श्येनो “न यथा श्येनः शीघ्रमागत्य स्थानमासीदति तद्वत् “योनिं स्वकीयं स्थानम् “आ “सीदन् । “न संप्रत्यर्थे । इदानीम् "अरुषः आरोचमानः “भव ॥


स प॑वस्व॒ य आवि॒थेंद्रं॑ वृ॒त्राय॒ हंत॑वे ।

व॒व्रि॒वांसं॑ म॒हीर॒पः ॥२२

सः । प॒व॒स्व॒ । यः । आवि॑थ । इन्द्र॑म् । वृ॒त्राय॑ । हन्त॑वे ।

व॒व्रि॒ऽवांस॑म् । म॒हीः । अ॒पः ॥२२

सः । पवस्व । यः । आविथ । इन्द्रम् । वृत्राय । हन्तवे ।

वव्रिऽवांसम् । महीः । अपः ॥२२

हे सोम “यः त्वं “महीः महतीः “अपः महान्त्युदकानि “वव्रिवांसं निरुन्धानं “वृत्राय वृत्रं “हन्तवे हन्तुम् “इन्द्रम् “आविथ अरक्षः “सः त्वं “पवस्व धारया क्षर । सोमं पीत्वा मत्त: सन्निन्द्रो महान्त्युदकानि निरुन्धानं वृत्रं जघानेत्यर्थः ॥


सु॒वीरा॑सो व॒यं धना॒ जये॑म सोम मीढ्वः ।

पु॒ना॒नो व॑र्ध नो॒ गिरः॑ ॥२३

सु॒ऽवीरा॑सः । व॒यम् । धना॑ । जये॑म । सो॒म॒ । मी॒ढ्वः॒ ।

पु॒ना॒नः । व॒र्ध॒ । नः॒ । गिरः॑ ॥२३

सुऽवीरासः । वयम् । धना । जयेम । सोम । मीढ्वः ।

पुनानः । वर्ध । नः । गिरः ॥२३

“सुवीरासः सुवीराः कल्याणपुत्राः “वयम् अमहीयव आङ्गिरसाः “धना शत्रूणां धनानि "जयेम । शत्रून् जित्वा तदीयानि धनानि स्वीकुर्यामेत्यर्थः । हे "मीढ्वः सेक्तः “सोम “पुनानः पूयमानस्त्वं “नः अस्माकं “गिरः स्तुतिरूपा वाचश्च “वर्ध वर्धय ॥


त्वोता॑स॒स्तवाव॑सा॒ स्याम॑ व॒न्वंत॑ आ॒मुरः॑ ।

सोम॑ व्र॒तेषु॑ जागृहि ॥२४

त्वाऽऊ॑तासः । तव॑ । अव॑सा । स्याम॑ । व॒न्वन्तः॑ । आ॒ऽमुरः॑ ।

सोम॑ । व्र॒तेषु॑ । जा॒गृ॒हि॒ ॥२४

त्वाऽऊतासः । तव । अवसा । स्याम । वन्वन्तः । आऽमुरः ।

सोम । व्रतेषु । जागृहि ॥२४

हे “सोम “तव त्वदीयेन “अवसा रक्षणेन “त्वोतासः त्वया रक्षिताः सन्तः “वन्वन्तः शत्रून् भजमानाः “आमुरः तेषामभिमारकाः “स्याम भवेम । “व्रतेषु अस्माकं कर्मसु “जागृहि प्रबुद्धो भव ॥


अ॒प॒घ्नन्प॑वते॒ मृधोऽप॒ सोमो॒ अरा॑व्णः ।

गच्छ॒न्निंद्र॑स्य निष्कृ॒तं ॥२५

अ॒प॒ऽघ्नन् । प॒व॒ते॒ । मृधः॑ । अप॑ । सोमः॑ । अरा॑व्णः ।

गच्छ॑न् । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥२५

अपऽघ्नन् । पवते । मृधः । अप । सोमः । अराव्णः ।

गच्छन् । इन्द्रस्य । निःऽकृतम् ॥२५

“सोमः "मृधः हिंसकाञ्छत्रून् "अपघ्नन् मारयन् “अराव्णः शक्तौ सत्यां धनानामदातॄंश्च “अप घ्नन् “इन्द्रस्य "निष्कृतं स्थानं “गच्छन् प्राप्नुवन् “पवते धारया क्षरति ॥ ॥ २२ ॥


म॒हो नो॑ रा॒य आ भ॑र॒ पव॑मान ज॒ही मृधः॑ ।

रास्वें॑दो वी॒रव॒द्यशः॑ ॥२६

म॒हः । नः॒ । रा॒यः । आ । भ॒र॒ । पव॑मान । ज॒हि । मृधः॑ ।

रास्व॑ । इ॒न्दो॒ इति॑ । वी॒रऽव॑त् । यशः॑ ॥२६

महः । नः । रायः । आ । भर । पवमान । जहि । मृधः ।

रास्व । इन्दो इति । वीरऽवत् । यशः ॥२६

हे “पवमान “इन्दो सोम “नः अस्माकं “महः महान्ति "रायः धनानि “आ “भर आहर । "मृधः हिंसकाञ्छत्रूंश्च "जहि मारय । “वीरवत् पुत्राद्युपेतां “यशः कीर्तिं च "रास्व अस्मभ्यं देहि ॥


न त्वा॑ श॒तं च॒न ह्रुतो॒ राधो॒ दित्सं॑त॒मा मि॑नन् ।

यत्पु॑ना॒नो म॑ख॒स्यसे॑ ॥२७

न । त्वा॒ । श॒तम् । च॒न । ह्रुतः॑ । राधः॑ । दित्स॑न्तम् । आ । मि॒न॒न् ।

यत् । पु॒ना॒नः । म॒ख॒स्यसे॑ ॥२७

न । त्वा । शतम् । चन । ह्रुतः । राधः । दित्सन्तम् । आ । मिनन् ।

यत् । पुनानः । मखस्यसे ॥२७

हे सोम “राधः धनम् “आ “दित्सन्तम् आदातुमिच्छन्तं “त्वा त्वां “शतं “चन बहवोऽपि “ह्रुतः हिंसकाः शत्रवः “न “मिनन् न हिंसन्ति । कदेत्यत्राह । “यत् यदा “पुनानः पूयमानस्त्वं “मखस्यसे अस्मभ्यं धनं दातुमिच्छसि । ।


पव॑स्वेंदो॒ वृषा॑ सु॒तः कृ॒धी नो॑ य॒शसो॒ जने॑ ।

विश्वा॒ अप॒ द्विषो॑ जहि ॥२८

पव॑स्व । इ॒न्दो॒ इति॑ । वृषा॑ । सु॒तः । कृ॒धि । नः॒ । य॒शसः॑ । जने॑ ।

विश्वाः॑ । अप॑ । द्विषः॑ । ज॒हि॒ ॥२८

पवस्व । इन्दो इति । वृषा । सुतः । कृधि । नः । यशसः । जने ।

विश्वाः । अप । द्विषः । जहि ॥२८

हे “इन्दो सोम “सुतः अभिषुतः “वृषा सेक्ता त्वं “पवस्व धारया क्षर। “जने जनपदेषु “नः अस्मान् “यशसः यशस्विनः “कृधि कुरु । “विश्वाः सर्वान् “द्विषः द्वेष्टॄन् शत्रून् “अप "जहि मारय च ॥


अस्य॑ ते स॒ख्ये व॒यं तवें॑दो द्यु॒म्न उ॑त्त॒मे ।

सा॒स॒ह्याम॑ पृतन्य॒तः ॥२९

अस्य॑ । ते॒ । स॒ख्ये । व॒यम् । तव॑ । इ॒न्दो॒ इति॑ । द्यु॒म्ने । उ॒त्ऽत॒मे ।

स॒स॒ह्याम॑ । पृ॒त॒न्य॒तः ॥२९

अस्य । ते । सख्ये । वयम् । तव । इन्दो इति । द्युम्ने । उत्ऽतमे ।

ससह्याम । पृतन्यतः ॥२९

हे “इन्दो सोम “अस्य अस्मिन् यागे वर्तमानस्य “ते तव “सख्ये सखित्वे सति “वयम् अमहीयव आङ्गिरसा: “तव त्वदीये “उतमे श्रेष्ठे “द्युम्ने अन्ने तृप्तिं प्राप्ता: । तथा च यास्कः-- द्युम्नं द्योततेर्यशो वान्नं वा ' ( निरु, ५. ५) इति । “पृतन्यतः युद्धमिच्छतः शत्रून् “ससह्याम अभिभवेम ॥


या ते॑ भी॒मान्यायु॑धा ति॒ग्मानि॒ संति॒ धूर्व॑णे ।

रक्षा॑ समस्य नो नि॒दः ॥३०

या । ते॒ । भी॒मानि॑ । आयु॑धा । ति॒ग्मानि॑ । सन्ति॑ । धूर्व॑णे ।

रक्ष॑ । स॒म॒स्य॒ । नः॒ । नि॒दः ॥३०

या । ते । भीमानि । आयुधा । तिग्मानि । सन्ति । धूर्वणे ।

रक्ष । समस्य । नः । निदः ॥३०

हे सोम “ते तव “या यानि “भीमानि शत्रूणां भयंकराणि “तिग्मानि तीक्ष्णानि “आयुधा आयुधानि “धूर्वणे शत्रुवधार्थं “सन्ति तैरायुधैः “समस्य सर्वस्य शत्रोः “निदः निन्दायाः “नः अस्मान् “रक्ष पालय ॥ ॥ २३ ॥

टिप्पणी

९.६१.७ एतमु त्यं दश क्षिपो इति

इहवद्वामदेव्यम्


९.६१.१० उच्चा ते जातमिति

उच्चैःश्रवा उपरि टिप्पणी

अध्वर्युर् आग्रायणं ग्रहं गृह्णन् हिंकरोति। तद् एव हिंकृतं भवति। अथोद्गात्रैकर्चो गायत्रं गायति उच्चा ते जातम् अन्धसा इति। स उदित्येवेतो देवेभ्यो हव्यं वहति दिवि सद् भूम्य् आ ददे इत्य् अमुतो वृष्टिम् आच्यावयति। ताव् इमौ लोकौ सवासिनौ करोति। ताव् अस्मै कामं पिन्वाते। कामम् अस्मा इमौ लोकौ पिन्वाते य एवं वेद॥ - जैब्रा १.८१

मरुत्वतीः प्रतिपदो भवन्ति। मरुत्वन्तं ग्रहं गृह्णन्ति। मरुत्वान्वा इन्द्रो वृत्रम् अहन् वार्त्रहत्याय। उच्चा ते जातम् अन्धसा इत्य् अन्धस्वतीर् भवन्ति। अहर् वा अन्धः। अह्ना एव रम्भः। यज्ञो वा अन्धः। यज्ञस्यैवारम्भः। त्रीणि यज्ञे ऽन्धांसीति ह स्म पूर्वे ब्राह्मणा मीमांसन्ते उच्चा ते जातम् अन्धसा॥ वसोर् मन्दानम् अन्धसः(८.८८.१)॥ पुरोजिती वो अन्धसः इति(९.१०१.१)। त्रयः पशुषु भोगाः प्रातर् मध्यंदिने सायम्। तान् एवैतेनावरुन्द्धे॥ इमे वै लोका सह सन्तौ व्यैताम्। तयोर् न किं चन समपतत्। ते देवमनुष्या अशनायन्। इतः प्रदानाद् धि त देवा जीवन्त्य् अमुतः प्रदानान् मनुष्याः। स एताः प्रजापतिर् इति चोपश्याद् उच्चा ते जातम् अन्धसा इति। स उदित्येवेतो देवेभ्यो हव्यम् अवहत् दिवि सद् भूम्य् आददे इत्य् अमुतो वृष्टिम् अच्यावयत्। ताव् इमौ लोकौ सवासिनाव् अकरोत्। ताव् अस्मै कामम् अपिन्वाताम्। कामम् अस्मा इमौ लोकौ पिन्वाते य एवं वेद॥ तासु गायत्रम् उक्तब्राह्मणम्॥जैब्रा १.११६

उच्चा ते जातम् अन्धसेत्य् अन्धस्वतीर् भवत्य् अन्धस्वद् वै जगत्यै रूपं - तेन जगत्यै रूपान् न यन्ति। - जैब्रा २.२३७

अथ यद् वो ऽवोचं दैव्यं स्म मिथुनम् उपेतेत्य्, उच्चा ते जातम् अन्धसा, स्वादिष्ठया मदिष्ठयेत्य् एते एव वस् तद् गायत्र्याव् अवोचम् इति। एतद् वै दैव्यं मिथुनं यद् एते गायत्र्या - उच्चा त इति पुंसो रूपं, स्वादिष्ठयेति स्त्रियै। तद् एतन् मिथुनं प्रजननं क्रियते। - जैब्रा २.४२२

उच्चा ते जातम् अन्धसेति। माध्यन्दिनस्य पवमानस्यान्धस्वतीर् गायत्र्यो भवन्त्य् - अन्नं वा अन्धो - ऽन्नाद्यस्यैवावरुद्धयै। दिवि सद् भूम्य् आ दद इति द्यावापृथिवीया भवन्ति। अ - प्रतिष्ठितम् इव वा एतद् अहर् यद् वैरूपम्। तद् यद् एता द्यावापृथिवीया भवन्त्य् अहर् एवैताभिः प्रतिष्ठापयन्ति। स न इन्द्राय यज्यवे वरुणाय मरुद्भ्य इति मरुत्वतीर् भवन्ति। मरुत्वद् वै मध्यन्दिनस्य रूपम्। मध्यन्दिनस्यैव तद् रूपान् न यन्ति। एना विश्वान्य् अर्य आ इति विश्ववतीर् भवन्ति। वैश्वदेवं ह्य् एतद् अहः। तासु गायत्रम् उक्तब्राह्मणम्। - जै.ब्रा ३.४०

आभीकम्

आजिगम् (ऊहगानम्)

आमहीयवम्

आजिगम् (ग्रामगेयः)

तृतीयमहः -- उच्चा ते जातमन्धस इति गायत्री भवति। उद्वद्वा एतदहर्यत् तृतीयं तदेव तदभिवदति। अन्धस्वती भवत्यहर्वा अन्धोऽह्न आरम्भः - तांब्रा १२.३.१

दशमेऽहनि माध्यन्दिनपवमानस्य स्तोत्रीयं तृचं -- उच्चा ते जातमन्धस इत्युद्वत्यो गायत्र्यो भवन्त्युत्थानस्य रूपम् - तांब्रा १५.९.१


९.६१.१३ उपोषु जातमप्तुरम् इति

यामानि त्रीणि (ग्रामगेयः)

श्रुध्यम्

९.६१.१९ यस्ते मदो वरेण्य इति

दक्षणिधनोमौक्षम्

अग्नेरर्कः

अध्यर्द्धेडं सोमसाम

भासम् (ग्रामगेयः)

बलभित्

यस्ते मदो वरेण्य इति गायत्री भवति। मदवद्वै रसवत् तृतीयसवनं मदमेव तद्रसं दधाति - पञ्च.ब्रा. ११.१०.१, १४.५.१


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.६१&oldid=333851" इत्यस्माद् प्रतिप्राप्तम्