ऋग्वेदः सूक्तं ९.७६
← सूक्तं ९.७५ | ऋग्वेदः - मण्डल ९ सूक्तं ९.७६ कविर्भार्गवः। |
सूक्तं ९.७७ → |
दे. पवमानः सोमः। जगती। |
धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः ।
हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुते नदीष्वा ॥१॥
शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन्रथिरो गविष्टिषु ।
इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः ॥२॥
इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश ।
प्र णः पिन्व विद्युदभ्रेव रोदसी धिया न वाजाँ उप मासि शश्वतः ॥३॥
विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिमृषिषाळवीवशत् ।
यः सूर्यस्यासिरेण मृज्यते पिता मतीनामसमष्टकाव्यः ॥४॥
वृषेव यूथा परि कोशमर्षस्यपामुपस्थे वृषभः कनिक्रदत् ।
स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे त्वोतयः ॥५॥
सायणभाष्यम्
॥ श्रीगणेशाय नमः ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
व्याख्यायाव्याहतप्रज्ञः सप्तमस्य द्वितीयकम् ।
अध्यायं सायणामात्यस्तृतीयं व्याकरोत्यथ ॥
तत्र ‘ धर्ता ' इति पञ्चर्चं नवमं सूक्तं भार्गवस्य कवेरार्षं जागतं पवमानसोमदेवताकम् । ‘धर्ता' इत्यनुक्रान्तम् । गतो विनियोगः ॥
ध॒र्ता दि॒वः प॑वते॒ कृत्व्यो॒ रसो॒ दक्षो॑ दे॒वाना॑मनु॒माद्यो॒ नृभिः॑ ।
हरिः॑ सृजा॒नो अत्यो॒ न सत्व॑भि॒र्वृथा॒ पाजां॑सि कृणुते न॒दीष्वा ॥१
ध॒र्ता । दि॒वः । प॒व॒ते॒ । कृत्व्यः॑ । रसः॑ । दक्षः॑ । दे॒वाना॑म् । अ॒नु॒ऽमाद्यः॑ । नृऽभिः॑ ।
हरिः॑ । सृ॒जा॒नः । अत्यः॑ । न । सत्व॑ऽभिः । वृथा॑ । पाजां॑सि । कृ॒णु॒ते॒ । न॒दीषु॑ । आ ॥१
धर्ता । दिवः । पवते । कृत्व्यः । रसः । दक्षः । देवानाम् । अनुऽमाद्यः । नृऽभिः ।
हरिः । सृजानः । अत्यः । न । सत्वऽभिः । वृथा । पाजांसि । कृणुते । नदीषु । आ ॥१
“धर्ता सर्वस्य धारकः सोमः “दिवः अन्तरिक्षात् अन्तरिक्षस्थिताद्दशापवित्रात् “पवते पूयते । कीदृशः सोमः । “कृत्व्यः कर्तव्यः । शोध्य इत्यर्थः । “रसः रसात्मको “देवानां “दक्षः बलप्रदः । यद्वा । दक्षः प्रवर्धनीयो देवानामर्थाय । तथा “नृभिः नेतृभिर्ऋत्विग्भिः “अनुमाद्यः अनुमदनीयः स्तुत्यो वा “हरिः हरितवर्णः “सत्वभिः प्राणिभिः सादिभिः “सृजानः सृज्यमानः “अत्यो “न अश्व इव स यथा शिक्षितो “वृथा अनायासेन गच्छति तद्वत् वृथा अप्रयत्नेन “पाजांसि बलानि स्वीयान् वेगान् कृणुते कुरुते । “नदीषु वस्तीवरीषु । ताभिरित्यर्थः । “आ सिक्त इति शेषः । अयम् अभिषवसमयाभिप्रायः ॥
शूरो॒ न ध॑त्त॒ आयु॑धा॒ गभ॑स्त्योः॒ स्वः१॒॑ सिषा॑सन्रथि॒रो गवि॑ष्टिषु ।
इंद्र॑स्य॒ शुष्म॑मी॒रय॑न्नप॒स्युभि॒रिंदु॑र्हिन्वा॒नो अ॑ज्यते मनी॒षिभिः॑ ॥२
शूरः॑ । न । ध॒त्ते॒ । आयु॑धा । गभ॑स्त्योः । स्व१॒॑रिति॑ स्वः॑ । सिसा॑सन् । र॒थि॒रः । गोऽइ॑ष्टिषु ।
इन्द्र॑स्य । शुष्म॑म् । ई॒रय॑न् । अ॒प॒स्युऽभिः॑ । इन्दुः॑ । हि॒न्वा॒नः । अ॒ज्य॒ते॒ । म॒नी॒षिऽभिः॑ ॥२
शूरः । न । धत्ते । आयुधा । गभस्त्योः । स्वरिति स्वः । सिसासन् । रथिरः । गोऽइष्टिषु ।
इन्द्रस्य । शुष्मम् । ईरयन् । अपस्युऽभिः । इन्दुः । हिन्वानः । अज्यते । मनीषिऽभिः ॥२
अयं सोमः “गभस्त्योः हस्तयोः “आयुधा आयुधानि “शूरो “न शूर इव “धत्ते धारयति । “स्वः स्वर्गसुखसाधनं यज्ञं वा “सिषासन् संभक्तुमिच्छन् “रथिरः रथवान्। रथादिरच्प्रत्ययः । “गविष्टिषु यजमानस्य गवामेषणेषु सत्सु । यजमानार्थं गोसंभजनाय रथवानित्यर्थः । “इन्द्रस्य “शुष्मं बलम् “ईरयन् प्रेरयन् “इन्दुः सोमो देवः “अपस्युभिः कर्मेच्छुभिः “मनीषिभिः मेधाविभिर्ऋत्विभिः “हिन्वानः प्रेर्यमाणः “अज्यते गोभिः ॥
इंद्र॑स्य सोम॒ पव॑मान ऊ॒र्मिणा॑ तवि॒ष्यमा॑णो ज॒ठरे॒ष्वा वि॑श ।
प्र णः॑ पिन्व वि॒द्युद॒भ्रेव॒ रोद॑सी धि॒या न वाजाँ॒ उप॑ मासि॒ शश्व॑तः ॥३
इन्द्र॑स्य । सो॒म॒ । पव॑मानः । ऊ॒र्मिणा॑ । त॒वि॒ष्यमा॑णः । ज॒ठरे॑षु । आ । वि॒श॒ ।
प्र । नः॒ । पि॒न्व॒ । वि॒ऽद्युत् । अ॒भ्राऽइ॑व । रोद॑सी॒ इति॑ । धि॒या । न । वाजा॑न् । उप॑ । मा॒सि॒ । शश्व॑तः ॥३
इन्द्रस्य । सोम । पवमानः । ऊर्मिणा । तविष्यमाणः । जठरेषु । आ । विश ।
प्र । नः । पिन्व । विऽद्युत् । अभ्राऽइव । रोदसी इति । धिया । न । वाजान् । उप । मासि । शश्वतः ॥३
हे “सोम “पवमानः पूयमानस्त्वं “तविष्यमाणः वर्धयिष्यमाणः सन् “इन्द्रस्य “जठरेषु “ऊर्मिणा प्रभूतया धारया “आ “विश । जठरप्रदेशस्य बाहुल्याद्बहुवचनम्। “नः अस्मदर्थं विद्युदभ्रेव अभ्राणीव सा यथा दोग्ध्यभ्राणि तद्वत् “प्र “पिन्व धुक्ष्व “रोदसी द्यावापृथिव्यौ। किंच “धिया कर्मणा “न इदानीम् । नेति संप्रत्यर्थे । “शश्वतः । बहुनामैतत् । बहून् “वाजान् अन्नानि “उप समीपे “मासि निर्मासि ।।
विश्व॑स्य॒ राजा॑ पवते स्व॒र्दृश॑ ऋ॒तस्य॑ धी॒तिमृ॑षि॒षाळ॑वीवशत् ।
यः सूर्य॒स्यासि॑रेण मृ॒ज्यते॑ पि॒ता म॑ती॒नामस॑मष्टकाव्यः ॥४
विश्व॑स्य । राजा॑ । प॒व॒ते॒ । स्वः॒ऽदृशः॑ । ऋ॒तस्य॑ । धी॒तिम् । ऋ॒षि॒षाट् । अ॒वी॒व॒श॒त् ।
यः । सूर्य॑स्य । असि॑रेण । मृ॒ज्यते॑ । पि॒ता । म॒ती॒नाम् । अस॑मष्टऽकाव्यः ॥४
विश्वस्य । राजा । पवते । स्वःऽदृशः । ऋतस्य । धीतिम् । ऋषिषाट् । अवीवशत् ।
यः । सूर्यस्य । असिरेण । मृज्यते । पिता । मतीनाम् । असमष्टऽकाव्यः ॥४
“विश्वस्य जगतः “राजा स्वामी सोमः “स्वर्दृशः स्वर्गद्रष्टुः सर्वद्रष्टुर्वा “ऋतस्य सत्यभूतस्येन्द्रस्य । मनुष्यवाच्यनृतशब्दप्रतियोगिकस्य ऋतशब्दस्य देवार्थः। तत्रापि औचित्येनेन्द्रः परिगृह्यते । तस्य “धीतिं मतिं कर्म वा “ऋषिषाट् ऋषीणामतीन्द्रियद्रष्टॄणामभिभविता । महत्त्वेन स्वयमपि ऋषिश्रेष्ठत्वादिति भावः । तथा च मन्त्रान्तरं -- ब्रह्मा देवानां पदवीः कवीनामृषिः " (ऋ. सं.९.९६.६) इति । ईदृशः सोमः अवीवशत् अकामयत इन्द्रस्य कर्म । “यः सोमः “सूर्यस्य देवस्य “असिरेण क्षेपकेण रश्मिना “मृज्यते । “असमष्टकाव्यः अन्यैः कविभिरव्याप्तकर्मा सोमः “मतीनाम् अस्मदीयानां स्तुतीनां “पिता पालकः स्वामी भवतीति शेषः । यद्वा । यो मतीनां पिता असमष्टकाव्यश्च सन् मृज्यते सः “पवते इति संबन्धः ॥
वृषे॑व यू॒था परि॒ कोश॑मर्षस्य॒पामु॒पस्थे॑ वृष॒भः कनि॑क्रदत् ।
स इंद्रा॑य पवसे मत्स॒रिंत॑मो॒ यथा॒ जेषा॑म समि॒थे त्वोत॑यः ॥५
वृषा॑ऽइव । यू॒था । परि॑ । कोश॑म् । अ॒र्ष॒सि॒ । अ॒पाम् । उ॒पऽस्थे॑ । वृ॒ष॒भः । कनि॑क्रदत् ।
सः । इन्द्रा॑य । प॒व॒से॒ । म॒त्स॒रिन्ऽत॑मः । यथा॑ । जेषा॑म । स॒म्ऽइ॒थे । त्वाऽऊ॑तयः ॥५
वृषाऽइव । यूथा । परि । कोशम् । अर्षसि । अपाम् । उपऽस्थे । वृषभः । कनिक्रदत् ।
सः । इन्द्राय । पवसे । मत्सरिन्ऽतमः । यथा । जेषाम । सम्ऽइथे । त्वाऽऊतयः ॥५
हे सोम त्वं “वृषेव “यूथा यूथानि वृषभ इव स यथा तानि प्रविशति तद्वत् “कोशं कोशवत् रसधारकं कलशं “परि “अर्षसि परिगच्छसि । कुत्रस्थः सन् । “अपामुपस्थे अन्तरिक्षे । कीदृशः सन् । “वृषभः वर्षिता “कनिक्रदत् शब्दं कुर्वन् । “सः त्वं हे सोम “इन्द्राय इन्द्रार्थं “पवसे पूयसे । “मत्सरिन्तमः मादयितृतमस्त्वम् । “यथा वयं “जेषाम जयेम “समिथे संग्रामे “त्वोतयः त्वया रक्षिताः सन्तः ॥ ॥ १ ॥
टिप्पणी
मण्डल ९ | |||
---|---|---|---|