ऋग्वेदः सूक्तं ९.७८
← सूक्तं ९.७७ | ऋग्वेदः - मण्डल ९ सूक्तं ९.७८ कविर्भार्गवः। |
सूक्तं ९.७९ → |
दे. पवमानः सोमः। जगती। |
प्र राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति ।
गृभ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्कृतम् ॥१॥
इन्द्राय सोम परि षिच्यसे नृभिर्नृचक्षा ऊर्मिः कविरज्यसे वने ।
पूर्वीर्हि ते स्रुतयः सन्ति यातवे सहस्रमश्वा हरयश्चमूषदः ॥२॥
समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन् ।
ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम् ॥३॥
गोजिन्नः सोमो रथजिद्धिरण्यजित्स्वर्जिदब्जित्पवते सहस्रजित् ।
यं देवासश्चक्रिरे पीतये मदं स्वादिष्ठं द्रप्समरुणं मयोभुवम् ॥४॥
एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन्द्रविणान्यर्षसि ।
जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस्कृधि ॥५॥
सायणभाष्यम्
‘ प्र राजा वाचम्' इति पञ्चर्चमेकादशं सूक्तम् । ऋष्याद्याः पूर्ववत् । ‘प्र राजा' इत्यनुक्रान्तम् । गतो विनियोगः ॥
प्र राजा॒ वाचं॑ ज॒नय॑न्नसिष्यदद॒पो वसा॑नो अ॒भि गा इ॑यक्षति ।
गृ॒भ्णाति॑ रि॒प्रमवि॑रस्य॒ तान्वा॑ शु॒द्धो दे॒वाना॒मुप॑ याति निष्कृ॒तं ॥१
प्र । राजा॑ । वाच॑म् । ज॒नय॑न् । अ॒सि॒स्य॒द॒त् । अ॒पः । वसा॑नः । अ॒भि । गाः । इ॒य॒क्ष॒ति॒ ।
गृ॒भ्णाति॑ । रि॒प्रम् । अविः॑ । अ॒स्य॒ । तान्वा॑ । शु॒द्धः । दे॒वाना॑म् । उप॑ । या॒ति॒ । निः॒ऽकृ॒तम् ॥१
प्र । राजा । वाचम् । जनयन् । असिस्यदत् । अपः । वसानः । अभि । गाः । इयक्षति ।
गृभ्णाति । रिप्रम् । अविः । अस्य । तान्वा । शुद्धः । देवानाम् । उप । याति । निःऽकृतम् ॥१
“राजा राजमानोऽयं सोमोऽभिषूयमाणः सन् "वाचं शब्दं "जनयन् उत्पादयन् “असिष्यदत् प्रस्यन्दते । तथा “अपः वसतीवरीः "वसानः आच्छादयन् “गाः स्तुतीः' “अभि “इयक्षति अभिगच्छति । इयक्षतिर्गतिकर्मसु पठितः । “अस्य सोमस्य “रिप्रम् अनुपादेयत्वेन पापरूपम् अभिषुतवल्लीशकलादिरूपम् “अविः अविरोमनिर्मितं दशापवित्रं “तान्वा स्वीयेन वस्त्रेण “गृभ्णाति गृह्णाति शोधनसमये । पश्चात् "शुद्धः "देवानां निष्कृतं संस्कृतं स्थानम् “उप “याति उपगच्छति ॥
इंद्रा॑य सोम॒ परि॑ षिच्यसे॒ नृभि॑र्नृ॒चक्षा॑ ऊ॒र्मिः क॒विर॑ज्यसे॒ वने॑ ।
पू॒र्वीर्हि ते॑ स्रु॒तयः॒ संति॒ यात॑वे स॒हस्र॒मश्वा॒ हर॑यश्चमू॒षदः॑ ॥२
इन्द्रा॑य । सो॒म॒ । परि॑ । सि॒च्य॒से॒ । नृऽभिः॑ । नृ॒ऽचक्षाः॑ । ऊ॒र्मिः । क॒विः । अ॒ज्य॒से॒ । वने॑ ।
पू॒र्वीः । हि । ते॒ । स्रु॒तयः॑ । सन्ति॑ । यात॑वे । स॒हस्र॑म् । अश्वाः॑ । हर॑यः । च॒मू॒ऽसदः॑ ॥२
इन्द्राय । सोम । परि । सिच्यसे । नृऽभिः । नृऽचक्षाः । ऊर्मिः । कविः । अज्यसे । वने ।
पूर्वीः । हि । ते । स्रुतयः । सन्ति । यातवे । सहस्रम् । अश्वाः । हरयः । चमूऽसदः ॥२
हे “सोम त्वम् “इन्द्राय इन्द्रार्थं "नृभिः नेतृभिर्ऋत्विग्भिः “परि “षिच्यसे अभिषूयसे । तथा हे सोम “नृचक्षाः नृणां यष्टॄणामनुग्रहेण द्रष्टा “ऊर्मिः प्रेर्यमाणः प्रवृद्धो वा “कविः मेधावी च त्वं “वने उदके “अज्यसे प्रेर्यसे । “पूर्वीः बह्व्यः “हि “ते "स्रुतयः मार्गाश्छिद्राणि “सन्ति “यातवे यातुम् । अल्पस्य सोमस्य अपरिमितस्रुतिगमनासंभवात्तस्य बाहुल्यमाह । “चमूषदः अभिषवणफलकयोः सीदतः “सहस्रम् अपरिमिताः “अश्वाः व्याप्ताः "हरयः हरितवर्णा अंशवः सन्ति । अथवा । इन्द्राय परिषिच्यस इत्युक्तत्वादिन्द्रप्राप्तौ मार्गसाधनयोः सद्भाव उत्तरार्धेन प्रतिपादितः । ते पुरातन्यः सरण्यः सन्तीन्द्रं प्रति यातुम् । तथा सहस्रसंख्याका हरितवर्णा अश्वाश्च सन्ति। चमूषदस्तवेति ॥
स॒मु॒द्रिया॑ अप्स॒रसो॑ मनी॒षिण॒मासी॑ना अं॒तर॒भि सोम॑मक्षरन् ।
ता ईं॑ हिन्वंति ह॒र्म्यस्य॑ स॒क्षणिं॒ याचं॑ते सु॒म्नं पव॑मान॒मक्षि॑तं ॥३
स॒मु॒द्रियाः॑ । अ॒प्स॒रसः॑ । म॒नी॒षिण॑म् । आसी॑नाः । अ॒न्तः । अ॒भि । सोम॑म् । अ॒क्ष॒र॒न् ।
ताः । ई॒म् । हि॒न्व॒न्ति॒ । ह॒र्म्यस्य॑ । स॒क्षणि॑म् । याच॑न्ते । सु॒म्नम् । पव॑मानम् । अक्षि॑तम् ॥३
समुद्रियाः । अप्सरसः । मनीषिणम् । आसीनाः । अन्तः । अभि । सोमम् । अक्षरन् ।
ताः । ईम् । हिन्वन्ति । हर्म्यस्य । सक्षणिम् । याचन्ते । सुम्नम् । पवमानम् । अक्षितम् ॥३
“समुद्रियाः । समुद्रसाधनत्वात् समुद्रमन्तरिक्षम् । तत्संबन्धिन्यः "अप्सरसः काश्चन “अन्तः यज्ञमध्ये “आसीनाः पात्रेषु वर्तमाना वसतीवर्यः “मनीषिणं मेधाविनं “सोमम् “अभि “अक्षरन् अभिषूयमाणं सोममभिक्षरन्ति । “ताः एता आपः “ईम् एनं “हर्म्यस्य हर्म्यवत्सुखकरस्य यागगृहस्य “सक्षणिं सेचनशीलं “हिन्वन्ति वर्धयन्ति पोषयन्ति । ता एव स्तोतारो वा “पवमानं सोमम् “अक्षितम् अक्षीणं “सुम्नं सुखं “याचन्ते प्रार्थयन्ते । तत्रायं भावः । काश्चनाप्सरसः सोमं राजानं मनीषिणं कामयमाना देवानपि परित्यज्य स्वर्गादागत्य राज्ञः समीपे स्थित्वा तस्य रसानाददते । स्वरसेन वर्धयन्ति तं सुखं च याचन्त इति ॥
गो॒जिन्नः॒ सोमो॑ रथ॒जिद्धि॑रण्य॒जित्स्व॒र्जिद॒ब्जित्प॑वते सहस्र॒जित् ।
यं दे॒वास॑श्चक्रि॒रे पी॒तये॒ मदं॒ स्वादि॑ष्ठं द्र॒प्सम॑रु॒णं म॑यो॒भुवं॑ ॥४
गो॒ऽजित् । नः॒ । सोमः॑ । र॒थ॒ऽजित् । हि॒र॒ण्य॒ऽजित् । स्वः॒ऽजित् । अ॒प्ऽजित् । प॒व॒ते॒ । स॒ह॒स्र॒ऽजित् ।
यम् । दे॒वासः॑ । च॒क्रि॒रे । पी॒तये॑ । मद॑म् । स्वादि॑ष्ठम् । द्र॒प्सम् । अ॒रु॒णम् । म॒यः॒ऽभुव॑म् ॥४
गोऽजित् । नः । सोमः । रथऽजित् । हिरण्यऽजित् । स्वःऽजित् । अप्ऽजित् । पवते । सहस्रऽजित् ।
यम् । देवासः । चक्रिरे । पीतये । मदम् । स्वादिष्ठम् । द्रप्सम् । अरुणम् । मयःऽभुवम् ॥४
“नः अस्माकं “गोजित् गवां जेता तथा “रथजित् रथस्य जेता “हिरण्यजित् हिरण्यस्य जेता तथा “स्वर्जित् स्वर्गस्य सुखस्य जेता “अब्जित् अपां जेता “सहस्रजित् सहस्रसंख्याकस्य धनस्य जेता “सोमः “पवते पूयते । “यं “देवासः देवाः “चक्रिरे कृतवन्तः । किमर्थम्। “पीतये पानाय । कीदृशं सोमम् । मदं मदकरं “स्वादिष्ठं स्वादुतमं “द्रप्सं रसात्मकम् "अरुणम् अरुणवर्णं “मयोभुवं सुखस्य भावयितारम् ॥ एतानि सोम पर्वमानो अस्मयुः सत्यानि कृण्वन् द्रविणान्यर्षसि ।।
ए॒तानि॑ सोम॒ पव॑मानो अस्म॒युः स॒त्यानि॑ कृ॒ण्वंद्रवि॑णान्यर्षसि ।
ज॒हि शत्रु॑मंति॒के दू॑र॒के च॒ य उ॒र्वीं गव्यू॑ति॒मभ॑यं च नस्कृधि ॥५
ए॒तानि॑ । सो॒म॒ । पव॑मानः । अ॒स्म॒ऽयुः । स॒त्यानि॑ । कृ॒ण्वन् । द्रवि॑णानि । अ॒र्ष॒सि॒ ।
ज॒हि । शत्रु॑म् । अ॒न्ति॒के । दू॒र॒के । च॒ । यः । उ॒र्वीम् । गव्यू॑तिम् । अभ॑यम् । च॒ । नः॒ । कृ॒धि॒ ॥५
एतानि । सोम । पवमानः । अस्मऽयुः । सत्यानि । कृण्वन् । द्रविणानि । अर्षसि ।
जहि । शत्रुम् । अन्तिके । दूरके । च । यः । उर्वीम् । गव्यूतिम् । अभयम् । च । नः । कृधि ॥५
हे सोम “एतानि पूर्वमन्त्रोक्तानि गवादीनि “द्रविणानि धनानि "सत्यानि “कृण्वन् कुर्वन् “पवमानः पूयमानः “अर्षसि पवसे । “जहि च “शत्रुं “यः अस्मच्छत्रुः “अन्तिके समीपे “दूरके अत्यन्तं दूरे देशे “च वर्तते तं जहि । तथा “उर्वीं “गव्यूतिं विस्तीर्णं मार्गम् “अभयं “च “नः अस्माकं “कृधि कुरु ॥ ॥ ३ ॥
{{|
}}
मण्डल ९ | |||
---|---|---|---|