ऋग्वेदः सूक्तं ९.९०

(ऋग्वेद: सूक्तं ९.९० इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ९.८९ ऋग्वेदः - मण्डल ९
सूक्तं ९.९०
वसिष्ठो मैत्रावरुणिः
सूक्तं ९.९१ →
दे. पवमानः सोमः। त्रिष्टुप्


प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नयासीत् ।
इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः ॥१॥
अभि त्रिपृष्ठं वृषणं वयोधामाङ्गूषाणामवावशन्त वाणीः ।
वना वसानो वरुणो न सिन्धून्वि रत्नधा दयते वार्याणि ॥२॥
शूरग्रामः सर्ववीरः सहावाञ्जेता पवस्व सनिता धनानि ।
तिग्मायुधः क्षिप्रधन्वा समत्स्वषाळ्हः साह्वान्पृतनासु शत्रून् ॥३॥
उरुगव्यूतिरभयानि कृण्वन्समीचीने आ पवस्वा पुरंधी ।
अपः सिषासन्नुषसः स्वर्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥४॥
मत्सि सोम वरुणं मत्सि मित्रं मत्सीन्द्रमिन्दो पवमान विष्णुम् ।
मत्सि शर्धो मारुतं मत्सि देवान्मत्सि महामिन्द्रमिन्दो मदाय ॥५॥
एवा राजेव क्रतुमाँ अमेन विश्वा घनिघ्नद्दुरिता पवस्व ।
इन्दो सूक्ताय वचसे वयो धा यूयं पात स्वस्तिभिः सदा नः ॥६॥


सायणभाष्यम्

‘प्र हिन्वानः' इति षडृचं पञ्चमं सूक्तं मैत्रावरुणेर्वसिष्ठस्थार्षं त्रैष्टुभं पवमानसोमदेवताकम् । तथा चानुक्रान्तं- प्र हिन्वानः षड्वसिष्ठः' इति । गतो विनियोगः ।।


प्र हि॑न्वा॒नो ज॑नि॒ता रोद॑स्यो॒ रथो॒ न वाजं॑ सनि॒ष्यन्न॑यासीत् ।

इंद्रं॒ गच्छ॒न्नायु॑धा सं॒शिशा॑नो॒ विश्वा॒ वसु॒ हस्त॑योरा॒दधा॑नः ॥१

प्र । हि॒न्वा॒नः । ज॒नि॒ता । रोद॑स्योः । रथः॑ । न । वाज॑म् । स॒नि॒ष्यन् । अ॒या॒सी॒त् ।

इन्द्र॑म् । गच्छ॑न् । आयु॑धा । स॒म्ऽशिशा॑नः । विश्वा॑ । वसु॑ । हस्त॑योः । आ॒ऽदधा॑नः ॥१

प्र । हिन्वानः । जनिता । रोदस्योः । रथः । न । वाजम् । सनिष्यन् । अयासीत् ।

इन्द्रम् । गच्छन् । आयुधा । सम्ऽशिशानः । विश्वा । वसु । हस्तयोः । आऽदधानः ॥१

“हिन्वानः प्रेर्यमाणोऽध्वर्य्वादिभिः “जनिता उत्पादयिता रोदस्योः द्यावापृथिव्याः । तयोः जनयितृत्वं वृष्टिप्रदानहविष्प्रापणाभ्याम् । तादृक्सोमः “वाजम् अन्नं “सनिष्यन् दास्यन् “प्र “अयासीत् प्रगच्छति । “इन्द्रं “गच्छन् प्राप्नुवन् “आयुधा आयुधानि “संशिशानः सम्यक् तीक्ष्णीकुर्वन्निन्द्रसाहाय्यगमनार्थं तीक्ष्णायुधः सन् “विश्वा सर्वाणि "वसु वसूनि “हस्तयोरादधानः अस्मभ्यं दानाय । एवं कुर्वन् प्रायासीत् ॥


अ॒भि त्रि॑पृ॒ष्ठं वृष॑णं वयो॒धामां॑गू॒षाणा॑मवावशंत॒ वाणीः॑ ।

वना॒ वसा॑नो॒ वरु॑णो॒ न सिंधू॒न्वि र॑त्न॒धा द॑यते॒ वार्या॑णि ॥२

अ॒भि । त्रि॒ऽपृ॒ष्ठम् । वृष॑णम् । व॒यः॒ऽधाम् । आ॒ङ्गू॒षाणा॑म् । अ॒वा॒व॒श॒न्त॒ । वाणीः॑ ।

वना॑ । वसा॑नः । वरु॑णः । न । सिन्धू॑न् । वि । र॒त्न॒ऽधाः । द॒य॒ते॒ । वार्या॑णि ॥२

अभि । त्रिऽपृष्ठम् । वृषणम् । वयःऽधाम् । आङ्गूषाणाम् । अवावशन्त । वाणीः ।

वना । वसानः । वरुणः । न । सिन्धून् । वि । रत्नऽधाः । दयते । वार्याणि ॥२

“त्रिपृष्ठम् । त्रीणि पृष्ठानि स्तोत्राणि द्रोणकलशादिस्थानानि वा सवनानि वा यस्य स तथोक्तः । तं “वृषणं वर्षकं “वयोधाम् अन्नस्य दातारं सोमम् “आङ्गूषाणाम् आघोषवतां स्तोतॄणां “वाणीः वाचः “अभि “अवावशन्त शब्दयन्ते । “वना वनान्युदकानि “वसानः आच्छादयन् “वरुणो “न वरुण इव “सिन्धून् आच्छादयति तद्वत् । “रत्नधाः रत्नानां दाता सोमः “वार्याणि धनानि “दयते प्रयच्छति स्तोतृभ्यः ॥


शूर॑ग्रामः॒ सर्व॑वीरः॒ सहा॑वां॒जेता॑ पवस्व॒ सनि॑ता॒ धना॑नि ।

ति॒ग्मायु॑धः क्षि॒प्रध॑न्वा स॒मत्स्वषा॑ळ्हः सा॒ह्वान्पृत॑नासु॒ शत्रू॑न् ॥३

शूर॑ऽग्रामः । सर्व॑ऽवीरः । सहा॑वान् । जेता॑ । प॒व॒स्व॒ । सनि॑ता । धना॑नि ।

ति॒ग्मऽआ॑युधः । क्षि॒प्रऽध॑न्वा । स॒मत्ऽसु॑ । अषा॑ळ्हः । स॒ह्वान् । पृत॑नासु । शत्रू॑न् ॥३

शूरऽग्रामः । सर्वऽवीरः । सहावान् । जेता । पवस्व । सनिता । धनानि ।

तिग्मऽआयुधः । क्षिप्रऽधन्वा । समत्ऽसु । अषाळ्हः । सह्वान् । पृतनासु । शत्रून् ॥३

हे सोम “पवस्व त्वम् । कीदृशस्त्वम् । “शूरग्रामः शूराणां ग्रामः संघो यस्य सः । “सर्ववीरः । सर्वे वीरा यस्य स तथोक्तः । “सहावान् सहनवान् “जेता जयशीलः “सनिता संभक्ता “धनानि “तिग्मायुधः तीक्ष्णप्रहरणसाधनः “क्षिप्रधन्वा क्षिप्रसहनशीलधन्वा “समत्सु संग्रामेषु “अषाळ्हः असोढः “साह्वान् अभिभवन् । कुत्र। “पृतनासु शत्रुसेनासु । कान्। “शत्रून् ॥


उ॒रुग॑व्यूति॒रभ॑यानि कृ॒ण्वन्त्स॑मीची॒ने आ प॑वस्वा॒ पुरं॑धी ।

अ॒पः सिषा॑सन्नु॒षसः॒ स्व१॒॑र्गाः सं चि॑क्रदो म॒हो अ॒स्मभ्यं॒ वाजा॑न् ॥४

उ॒रुऽग॑व्यूतिः । अभ॑यानि । कृ॒ण्वन् । स॒मी॒ची॒ने इति॑ स॒म्ऽई॒ची॒ने । आ । प॒व॒स्व॒ । पुर॑न्धी॒ इति॒ पुर॑म्ऽधी ।

अ॒पः । सिसा॑सन् । उ॒षसः॑ । स्वः॑ । गाः । सम् । चि॒क्र॒दः॒ । म॒हः । अ॒स्मभ्य॑म् । वाजा॑न् ॥४

उरुऽगव्यूतिः । अभयानि । कृण्वन् । समीचीने इति सम्ऽईचीने । आ । पवस्व । पुरन्धी इति पुरम्ऽधी ।

अपः । सिसासन् । उषसः । स्वः । गाः । सम् । चिक्रदः । महः । अस्मभ्यम् । वाजान् ॥४

हे सोम “उरुगव्यूतिः विस्तीर्णमार्गस्त्वम् “अभयानि स्तोतृभ्यः “कृण्वन् कुर्वन् “पुरंधी। इदं द्यावापृथिव्योर्नाम । ते “समीचीने संगते कुर्वन् “आ “पवस्व आक्षर। “अपः “उषसः “स्वः आदित्यं “गाः रश्मींश्च “सिषासन् पुष्ट्यर्थं संभक्तुमिच्छन् “सं “चिक्रदः संक्रन्दसे । “महः महतो महान्ति “वाजान् अन्नानि “अस्मभ्यं दातुमिति शेषः ॥


मत्सि॑ सोम॒ वरु॑णं॒ मत्सि॑ मि॒त्रं मत्सींद्र॑मिंदो पवमान॒ विष्णुं॑ ।

मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॑ म॒हामिंद्र॑मिंदो॒ मदा॑य ॥५

मत्सि॑ । सो॒म॒ । वरु॑णम् । मत्सि॑ । मि॒त्रम् । मत्सि॑ । इन्द्र॑म् । इ॒न्दो॒ इति॑ । प॒व॒मा॒न॒ । विष्णु॑म् ।

मत्सि॑ । शर्धः॑ । मारु॑तम् । मत्सि॑ । दे॒वान् । मत्सि॑ । म॒हाम् । इन्द्र॑म् । इ॒न्दो॒ इति॑ । मदा॑य ॥५

मत्सि । सोम । वरुणम् । मत्सि । मित्रम् । मत्सि । इन्द्रम् । इन्दो इति । पवमान । विष्णुम् ।

मत्सि । शर्धः । मारुतम् । मत्सि । देवान् । मत्सि । महाम् । इन्द्रम् । इन्दो इति । मदाय ॥५

हे “पवमान पूयमान “इन्दो “सोम त्वं वरुणादीन् “मत्सि तर्पय तेषां "मदाय । इन्द्रस्य प्राधान्यात् द्विरभिधानम् ॥


ए॒वा राजे॑व॒ क्रतु॑माँ॒ अमे॑न॒ विश्वा॒ घनि॑घ्नद्दुरि॒ता प॑वस्व ।

इंदो॑ सू॒क्ताय॒ वच॑से॒ वयो॑ धा यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥६

ए॒व । राजा॑ऽइव । क्रतु॑ऽमान् । अमे॑न । विश्वा॑ । घनि॑घ्नत् । दुः॒ऽइ॒ता । प॒व॒स्व॒ ।

इन्दो॒ इति॑ । सु॒ऽउ॒क्ताय॑ । वच॑से । वयः॑ । धाः॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥६

एव । राजाऽइव । क्रतुऽमान् । अमेन । विश्वा । घनिघ्नत् । दुःऽइता । पवस्व ।

इन्दो इति । सुऽउक्ताय । वचसे । वयः । धाः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥६

अनया स्तुतिमुपसंहरन् फलमाशास्ते । हे सोम “एव एवं स्तुत इति शेषः। “क्रतुमान् त्वं “राजेव “अमेन बलेन “विश्वा सर्वाणि “दुरिता दुरितानि “घनिघ्नत् विनाशयन् "पवस्व । हे “इन्दो दीप्त सोम "सूक्ताय शोभनमुदिताय “वचसे अस्माकं स्तोत्राय तद्वचो विमृष्यार्थवदवगत्य “वयो “धाः अन्नं धेहि। अन्नलाभस्य स्तुतिनिमित्तकत्वात्तस्य स्तुतिवचसः प्राधान्येनोक्तिः । शिष्टं सिद्धम् ॥ ॥२६॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाश ऋक्संहिताभाष्ये सप्तमाष्टके तृतीयोऽध्यायः समाप्तः ॥


मण्डल ९

सूक्तं ९.१

सूक्तं ९.२

सूक्तं ९.३

सूक्तं ९.४

सूक्तं ९.५

सूक्तं ९.६

सूक्तं ९.७

सूक्तं ९.८

सूक्तं ९.९

सूक्तं ९.१०

सूक्तं ९.११

सूक्तं ९.१२

सूक्तं ९.१३

सूक्तं ९.१४

सूक्तं ९.१५

सूक्तं ९.१६

सूक्तं ९.१७

सूक्तं ९.१८

सूक्तं ९.१९

सूक्तं ९.२०

सूक्तं ९.२१

सूक्तं ९.२२

सूक्तं ९.२३

सूक्तं ९.२४

सूक्तं ९.२५

सूक्तं ९.२६

सूक्तं ९.२७

सूक्तं ९.२८

सूक्तं ९.२९

सूक्तं ९.३०

सूक्तं ९.३१

सूक्तं ९.३२

सूक्तं ९.३३

सूक्तं ९.३४

सूक्तं ९.३५

सूक्तं ९.३६

सूक्तं ९.३७

सूक्तं ९.३८

सूक्तं ९.३९

सूक्तं ९.४०

सूक्तं ९.४१

सूक्तं ९.४२

सूक्तं ९.४३

सूक्तं ९.४४

सूक्तं ९.४५

सूक्तं ९.४६

सूक्तं ९.४७

सूक्तं ९.४८

सूक्तं ९.४९

सूक्तं ९.५०

सूक्तं ९.५१

सूक्तं ९.५२

सूक्तं ९.५३

सूक्तं ९.५४

सूक्तं ९.५५

सूक्तं ९.५६

सूक्तं ९.५७

सूक्तं ९.५८

सूक्तं ९.५९

सूक्तं ९.६०

सूक्तं ९.६१

सूक्तं ९.६२

सूक्तं ९.६३

सूक्तं ९.६४

सूक्तं ९.६५

सूक्तं ९.६६

सूक्तं ९.६७

सूक्तं ९.६८

सूक्तं ९.६९

सूक्तं ९.७०

सूक्तं ९.७१

सूक्तं ९.७२

सूक्तं ९.७३

सूक्तं ९.७४

सूक्तं ९.७५

सूक्तं ९.७६

सूक्तं ९.७७

सूक्तं ९.७८

सूक्तं ९.७९

सूक्तं ९.८०

सूक्तं ९.८१

सूक्तं ९.८२

सूक्तं ९.८३

सूक्तं ९.८४

सूक्तं ९.८५

सूक्तं ९.८६

सूक्तं ९.८७

सूक्तं ९.८८

सूक्तं ९.८९

सूक्तं ९.९०

सूक्तं ९.९१

सूक्तं ९.९२

सूक्तं ९.९३

सूक्तं ९.९४

सूक्तं ९.९५

सूक्तं ९.९६

सूक्तं ९.९७

सूक्तं ९.९८

सूक्तं ९.९९

सूक्तं ९.१००

सूक्तं ९.१०१

सूक्तं ९.१०२

सूक्तं ९.१०३

सूक्तं ९.१०४

सूक्तं ९.१०५

सूक्तं ९.१०६

सूक्तं ९.१०७

सूक्तं ९.१०८

सूक्तं ९.१०९

सूक्तं ९.११०

सूक्तं ९.१११

सूक्तं ९.११२

सूक्तं ९.११३

सूक्तं ९.११४

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_९.९०&oldid=208684" इत्यस्माद् प्रतिप्राप्तम्