ऋग्वेदः सूक्तं ९.९४
← सूक्तं ९.९३ | ऋग्वेदः - मण्डल ९ सूक्तं ९.९४ कण्वो घौरः |
सूक्तं ९.९५ → |
दे. पवमानः सोमः। त्रिष्टुप् |
अधि यदस्मिन्वाजिनीव शुभ स्पर्धन्ते धियः सूर्ये न विशः ।
अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म ॥१॥
द्विता व्यूर्ण्वन्नमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त ।
धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीरभि वावश्र इन्दुम् ॥२॥
परि यत्कविः काव्या भरते शूरो न रथो भुवनानि विश्वा ।
देवेषु यशो मर्ताय भूषन्दक्षाय रायः पुरुभूषु नव्यः ॥३॥
श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति ।
श्रियं वसाना अमृतत्वमायन्भवन्ति सत्या समिथा मितद्रौ ॥४॥
इषमूर्जमभ्यर्षाश्वं गामुरु ज्योतिः कृणुहि मत्सि देवान् ।
विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसे सोम शत्रून् ॥५॥
सायणभाष्यम्
‘ अधि यत्' इति पञ्चर्चं नवमं सूक्तमाङ्गिरसस्य कण्वस्यार्षम् । तथानुक्रम्यते---- अधि यत्कण्वः' इति । पूर्ववच्छन्दोदेवते । गतो विनियोगः ॥
अधि॒ यद॑स्मिन्वा॒जिनी॑व॒ शुभः॒ स्पर्ध॑न्ते॒ धियः॒ सूर्ये॒ न विशः॑ ।
अ॒पो वृ॑णा॒नः प॑वते कवी॒यन्व्र॒जं न प॑शु॒वर्ध॑नाय॒ मन्म॑ ॥१
अधि॑ । यत् । अ॒स्मि॒न् । वा॒जिनि॑ऽइव । शुभः॑ । स्पर्ध॑न्ते । धियः॑ । सूर्ये॑ । न । विशः॑ ।
अ॒पः । वृ॒णा॒नः । प॒व॒ते॒ । क॒वि॒ऽयन् । व्र॒जम् । न । प॒शु॒ऽवर्ध॑नाय । मन्म॑ ॥१
अधि । यत् । अस्मिन् । वाजिनिऽइव । शुभः । स्पर्धन्ते । धियः । सूर्ये । न । विशः ।
अपः । वृणानः । पवते । कविऽयन् । व्रजम् । न । पशुऽवर्धनाय । मन्म ॥१
“यत् यदा “अस्मिन् सोमे “वाजिनीव “शुभः अश्वे यथा वस्त्रप्रभृत्यलंकारा भवन्ति । यदा वास्मिन् सोमे “सूर्ये “न यथा सूर्ये “विशः रश्मय उदिता भवन्ति । तदा “धियः अङ्गुलयः “अधि “स्पर्धन्ते । अहं पुरस्ताच्छोधयाम्यहं पुरः शोधयामीत्यहमहमिकयोपतिष्ठन्ति । ततोऽयं सोमः “अपः वसतीवरीः “वृणानः आच्छादयन् “पवते पात्रेषु क्षरति । कलशानधिगच्छति। कीदृशः । “कवीयन् कविरिवाचरन् । यद्वा । कवयः स्तोतारः । तानिच्छन् । तत्र दृष्टान्तः। “व्रजं “न “मन्म मननीयं गवां गोष्ठं “पशुवर्धनाय पशूनां वर्धनाय गोपालः परिगच्छति । तथा देवानां प्रीणनाय पात्राणि प्रति पवत इति ॥
द्वि॒ता व्यू॒र्ण्वन्न॒मृत॑स्य॒ धाम॑ स्व॒र्विदे॒ भुव॑नानि प्रथन्त ।
धियः॑ पिन्वा॒नाः स्वस॑रे॒ न गाव॑ ऋता॒यन्ती॑र॒भि वा॑वश्र॒ इन्दु॑म् ॥२
द्वि॒ता । वि॒ऽऊ॒र्ण्वन् । अ॒मृत॑स्य । धाम॑ । स्वः॒ऽविदे॑ । भुव॑नानि । प्र॒थ॒न्त॒ ।
धियः॑ । पि॒न्वा॒नाः । स्वस॑रे । न । गावः॑ । ऋ॒त॒ऽयन्तीः॑ । अ॒भि । वा॒व॒श्रे॒ । इन्दु॑म् ॥२
द्विता । विऽऊर्ण्वन् । अमृतस्य । धाम । स्वःऽविदे । भुवनानि । प्रथन्त ।
धियः । पिन्वानाः । स्वसरे । न । गावः । ऋतऽयन्तीः । अभि । वावश्रे । इन्दुम् ॥२
“अमृतस्य उदकस्य “धाम धारकं स्थानमन्तरिक्षं सोमः “द्विता द्विधा “व्यूर्ण्वन् उभयतः स्वतेजसाच्छादयन् मध्येन गच्छति । ततः “स्वर्विदे सर्वज्ञाय तस्मै सोमाय “भुवनानि “प्रथन्त विस्तीर्णानि भवन्ति । तस्य रश्मीनां संचरणार्थं प्रथन्त इत्यर्थः । अथ “पिन्वानाः प्रीणयित्र्यः “धियः स्तुतिलक्षणा वाचः “ऋतायन्तीः यज्ञमिच्छन्त्यः सत्यस्तमिमम् “इन्दुं सोममभिलक्ष्य स्वसरे यागाहनि “वावश्रे शब्दायन्ते । यद्वा । सोमं कामयन्ते । तत्र दृष्टान्तः। “गावो “न यथा पिन्वमानाः पयः क्षरन्त्यो गावः “स्वसरे । सुष्ठु अस्यन्ते प्रेर्यन्ते गावोऽत्रेति स्वसरो गोष्ठम् । तस्मिन्नच्छाभिलक्ष्य शब्दं कुर्वन्ति तद्वत् ॥
परि॒ यत्क॒विः काव्या॒ भर॑ते॒ शूरो॒ न रथो॒ भुव॑नानि॒ विश्वा॑ ।
दे॒वेषु॒ यशो॒ मर्ता॑य॒ भूष॒न्दक्षा॑य रा॒यः पु॑रु॒भूषु॒ नव्यः॑ ॥३
परि॑ । यत् । क॒विः । काव्या॑ । भर॑ते । शूरः॑ । न । रथः॑ । भुव॑नानि । विश्वा॑ ।
दे॒वेषु॑ । यशः॑ । मर्ता॑य । भूष॑न् । दक्षा॑य । रा॒यः । पु॒रु॒ऽभूषु॑ । नव्यः॑ ॥३
परि । यत् । कविः । काव्या । भरते । शूरः । न । रथः । भुवनानि । विश्वा ।
देवेषु । यशः । मर्ताय । भूषन् । दक्षाय । रायः । पुरुऽभूषु । नव्यः ॥३
“कविः क्रान्तप्रज्ञः सोमः “काव्या काव्यानि कवेः कर्माणि स्तोत्राणि “यत् यदा “परि “भरते परितो बिभर्ति । परिगच्छतीति यावत् । कथमिव । “शूरो “न यथा शूरः शत्रूणां बाधकः “रथः तदीयः “विश्वा “भुवनानि सांग्रामिकाणि भूतानि परियाति तद्वत् । तदानीं “देवेषु स्थितं “यशः व्यापकं धनं “मर्ताय मनुष्याय स्तोत्रे “भूषन् । भवतेरन्तर्भावितण्यर्थात् सनि रूपम् । भावयितुमिच्छन् सोमः “रायः आत्मना दत्तस्य धनस्य “दक्षाय वृद्ध्यर्थं “पुरुभूषु बहुषु यज्ञभवनेषु “नव्यः स्तोतव्यो भवति । ‘णु स्तुतौ' । अचो यत् ॥
श्रि॒ये जा॒तः श्रि॒य आ निरि॑याय॒ श्रियं॒ वयो॑ जरि॒तृभ्यो॑ दधाति ।
श्रियं॒ वसा॑ना अमृत॒त्वमा॑य॒न्भव॑न्ति स॒त्या स॑मि॒था मि॒तद्रौ॑ ॥४
श्रि॒ये । जा॒तः । श्रि॒ये । आ । निः । इ॒या॒य॒ । श्रिय॑म् । वयः॑ । ज॒रि॒तृऽभ्यः॑ । द॒धा॒ति॒ ।
श्रिय॑म् । वसा॑नाः । अ॒मृ॒त॒ऽत्वम् । आ॒य॒न् । भव॑न्ति । स॒त्या । स॒म्ऽइ॒था । मि॒तऽद्रौ॑ ॥४
श्रिये । जातः । श्रिये । आ । निः । इयाय । श्रियम् । वयः । जरितृऽभ्यः । दधाति ।
श्रियम् । वसानाः । अमृतऽत्वम् । आयन् । भवन्ति । सत्या । सम्ऽइथा । मितऽद्रौ ॥४
स सोमः “श्रिये “जातः संपदर्थं प्रादुर्भूतो भवति । तदेवाह । “श्रिये श्र्यर्थमेव “आ “निरियाय । अंशुभ्य आभिमुख्येन निर्गच्छति । निर्गतश्च स सोमः “जरितृभ्यः स्तोतृभ्यः “श्रियं “वयः अन्नं जीवनं वा “दधाति विदधाति प्रयच्छति । तेन दत्तां “श्रियं “वसानाः आच्छादयन्तः स्तोतारः “अमृतत्वं देवत्वममरणं वा “आयन प्राप्नुवन् । तस्मिन् “मितद्रौ मितगमने सोमे “समिथा । युद्धनामैतत् सम्यक् प्राप्यतेऽत्रेति । ‘ समीणः ' ( उ. सू. २. ११ ) इत्येतेः संपूर्वस्य थक्प्रत्ययः । तानि युद्धानि “सत्या सत्यानि यथार्थानि “भवन्ति न तु वितथानि । तेन सोमेन पराजितानि भवन्तीत्यर्थः ।।
इष॒मूर्ज॑म॒भ्य१॒॑र्षाश्वं॒ गामु॒रु ज्योतिः॑ कृणुहि॒ मत्सि॑ दे॒वान् ।
विश्वा॑नि॒ हि सु॒षहा॒ तानि॒ तुभ्यं॒ पव॑मान॒ बाध॑से सोम॒ शत्रू॑न् ॥५
इष॑म् । ऊर्ज॑म् । अ॒भि । अ॒र्ष॒ । अश्व॑म् । गाम् । उ॒रु । ज्योतिः॑ । कृ॒णु॒हि॒ । मत्सि॑ । दे॒वान् ।
विश्वा॑नि । हि । सु॒ऽसहा॑ । तानि॑ । तुभ्य॑म् । पव॑मान । बाध॑से । सो॒म॒ । शत्रू॑न् ॥५
इषम् । ऊर्जम् । अभि । अर्ष । अश्वम् । गाम् । उरु । ज्योतिः । कृणुहि । मत्सि । देवान् ।
विश्वानि । हि । सुऽसहा । तानि । तुभ्यम् । पवमान । बाधसे । सोम । शत्रून् ॥५
हे सोम “इषम् अन्नम् “ऊर्जम् अन्नरसं च अस्मभ्यम् “अभ्यर्ष अभिगमय । किंच “अश्वं वाहनं “गां पयःप्रदानेन यज्ञस्य साधनभूतां गां च । तथा “उरु महत् “ज्योतिः सूर्याख्यं “कृणुहि जगदालोकनार्थं कुरु । किंच "देवान् इन्द्रादीन् “मत्सि सोमेन तर्पय । मदेर्लटि ‘बहुलं छन्दसि' इति विकरणस्य लुक् । वाक्यभेदादनिघातः । अपि च हे सोम “तुभ्यं “विश्वानि सर्वाणि रक्षांसि “सुषहा सुसहान्यनायासेनैवाभिभवितुं शक्यानि भवन्ति । हिरवधारणे । अत एव हे “पवमान पूयमान हे “सोम सर्वान् “शत्रून् “बाधसे जहि ॥ ॥ ४ ॥
मण्डल ९ | |||
---|---|---|---|