ऋग्वेदः सूक्तं ५.११

(ऋग्वेद: सूक्तं ५.११ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ५.१० ऋग्वेदः - मण्डल ५
सूक्तं ५.११
सुतंभर आत्रेयः
सूक्तं ५.१२ →
दे. अग्निः। जगती।


जनस्य गोपा अजनिष्ट जागृविरग्निः सुदक्षः सुविताय नव्यसे ।
घृतप्रतीको बृहता दिविस्पृशा द्युमद्वि भाति भरतेभ्यः शुचिः ॥१॥
यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समीधिरे ।
इन्द्रेण देवैः सरथं स बर्हिषि सीदन्नि होता यजथाय सुक्रतुः ॥२॥
असम्मृष्टो जायसे मात्रोः शुचिर्मन्द्रः कविरुदतिष्ठो विवस्वतः ।
घृतेन त्वावर्धयन्नग्न आहुत धूमस्ते केतुरभवद्दिवि श्रितः ॥३॥
अग्निर्नो यज्ञमुप वेतु साधुयाग्निं नरो वि भरन्ते गृहेगृहे ।
अग्निर्दूतो अभवद्धव्यवाहनोऽग्निं वृणाना वृणते कविक्रतुम् ॥४॥
तुभ्येदमग्ने मधुमत्तमं वचस्तुभ्यं मनीषा इयमस्तु शं हृदे ।
त्वां गिरः सिन्धुमिवावनीर्महीरा पृणन्ति शवसा वर्धयन्ति च ॥५॥
त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने ।
स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरः ॥६॥


सायणभाष्यम्

‘ जनस्य गोपाः' इति षडृचमेकादशं सूक्तमात्रेयस्य सुतंभरस्यार्षं जागतमाग्नेयम् । तथा चानुक्रान्तं - 'जनस्य षट् सुतंभरो जागतम्' इति । प्रातरनुवाके आश्विनशस्त्रे चास्य सूक्तस्य विनियोगः । ‘ जनस्य गोपास्त्वमग्न ऋतायवः ' (आश्व. श्रौ. ४. १३ ) इति ॥


जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्ष॑ः सुवि॒ताय॒ नव्य॑से ।

घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा॑ द्यु॒मद्वि भा॑ति भर॒तेभ्य॒ः शुचि॑ः ॥१

जन॑स्य । गो॒पाः । अ॒ज॒नि॒ष्ट॒ । जागृ॑विः । अ॒ग्निः । सु॒ऽदक्षः॑ । सु॒वि॒ताय॑ । नव्य॑से ।

घृ॒तऽप्र॑तीकः । बृ॒ह॒ता । दि॒वि॒ऽस्पृशा॑ । द्यु॒ऽमत् । वि । भा॒ति॒ । भ॒र॒तेभ्यः॑ । शुचिः॑ ॥१

जनस्य । गोपाः । अजनिष्ट । जागृविः । अग्निः । सुऽदक्षः । सुविताय । नव्यसे ।

घृतऽप्रतीकः । बृहता । दिविऽस्पृशा । द्युऽमत् । वि । भाति । भरतेभ्यः । शुचिः ॥१

"जनस्य "गोपाः गोपायिता रक्षिता "जागृविः जागरणशीलः सदा प्रबुद्धः "सुदक्षः सुबलः सर्वैः श्लाघनीयबलः सः "अग्निः "नव्यसे नवतराय “सुविताय लोकानां कल्याणाय “अजनिष्ट जातः । “घृतप्रतीकः घृतेन प्रज्वलिताङ्गः “बृहता महता "दिविस्पृशा अभ्रंलिहेन तेजसा युक्तः "शुचिः शुद्धः एवंविधोऽग्निः "भरतेभ्यः ऋत्विग्भ्यस्तदर्थं “द्युमत् दीप्तिमत् यथा भवति तथा “वि “भाति प्रकाशते ॥ गोपाः । ‘ गुपू रक्षणे '। आयप्रत्ययः । गोपायतेः क्विप् । परत्वादतो लोपः । अत्र परत्वादपृक्तलोपे कृते वर्णाश्रयत्वात् प्रत्ययलक्षणाभावेन यलोपो न स्यात् । ‘ लोपो व्योर्वलिः' इति प्रथमं लोपग्रहणात् ज्ञापकाद्यलोप एव भवति । लोपाजादेशस्य यलोपविधिं प्रति न स्थानिवद्भावः । प्रत्ययस्वरः । जागृविः । ‘ जागृ निद्राक्षये '। ‘ जॄशॄस्तॄजागृभ्यः क्विन् ' इति क्विन्प्रत्ययः । ‘ जाग्रोऽविचिण्णल्ङित्सु ' इति प्रतिषेधाद्गुणाभावः । नित्त्वादाद्युदात्तः । सुदक्षः । ‘ आद्युदात्तं द्व्यच्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् । सुविताय । ‘ तन्वादीनां छन्दस्युपसंख्यानम्' इति सोरुवङादेशः । ‘ सूपमानात् क्तः' इत्युत्तरपदान्तोदात्तत्वम् । नव्यसे । नवशब्दादतिशायनेऽर्थे ईयसुन्प्रत्ययः । ईकारलोपश्छान्दसः । अतो लोपः । आद्युदात्तः । दिविस्पृशा । ‘ हृद्द्युभ्यां ङेरुपसंख्यानम्' इत्यलुक् । कृदुत्तरपदप्रकृतिस्वरत्वम् । द्युमत् । ‘ह्रस्वनुड्भ्यां मतुप् ' इति ह्रस्वात्परस्य मतुपोऽन्तोदात्तत्वम् ॥


य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समी॑धिरे ।

इन्द्रे॑ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता॑ य॒जथा॑य सु॒क्रतु॑ः ॥२

य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रःऽहि॑तम् । अ॒ग्निम् । नरः॑ । त्रि॒ऽस॒ध॒स्थे । सम् । ई॒धि॒रे॒ ।

इन्द्रे॑ण । दे॒वैः । स॒ऽरथ॑म् । सः । ब॒र्हिषि॑ । सीद॑त् । नि । होता॑ । य॒जथा॑य । सु॒ऽक्रतुः॑ ॥२

यज्ञस्य । केतुम् । प्रथमम् । पुरःऽहितम् । अग्निम् । नरः । त्रिऽसधस्थे । सम् । ईधिरे ।

इन्द्रेण । देवैः । सऽरथम् । सः । बर्हिषि । सीदत् । नि । होता । यजथाय । सुऽक्रतुः ॥२

“नरः ऋत्विजः "यज्ञस्य यागस्य "केतुं प्रज्ञापकं "पुरोहितं यजमानैः पुरस्कृतम् "इन्द्रेण “देवैः च "सरथं तेषां मान्यत्वात् समानरथम् "अग्निं "त्रिषधस्थे त्रिस्थाने विहारप्रदेशे "प्रथमं “समीधिरे समैन्धत । "सुक्रतुः शोभनकर्मा “होता देवानामाह्वाता “सः अग्निः "बर्हिषि बर्हिर्युक्ते तस्मिन् स्थाने "यजथाय यज्ञाय "नि “सीदत् प्रतिष्ठितोऽभवदिति यावत् ॥ केतुम् । ‘ कित ज्ञाने ' । औणादिक उप्रत्ययः । अन्तोदात्तः । पुरोहितम् । “पुरोऽव्ययम्' इति गतिसंज्ञायां ‘ गतिरनन्तरः' इति पूर्वपदप्रकृतिस्वरत्वम् । त्रिषधस्थे । आहवनीयादिलक्षणेन त्रिप्रकारेणानेन सह तिष्ठतीति त्रिषधस्थः । कप्रत्ययः । ‘ सध मादस्थयोश्छन्दसि' इति सधादेशः । कृदुत्तरपदप्रकृतिस्वरत्वम् । सीदत् । सदेः पाघ्रादिना सीदादेशः । ‘ बहुलं छन्दस्यमाङ्योगेऽपि ' इत्यडभावः । पादादित्वान्निघाताभावः । यजथाय । यजेरौणादिकोऽथप्रत्ययः । प्रत्ययस्वरेण मध्योदात्तः ॥


अस॑म्मृष्टो जायसे मा॒त्रोः शुचि॑र्म॒न्द्रः क॒विरुद॑तिष्ठो वि॒वस्व॑तः ।

घृ॒तेन॑ त्वावर्धयन्नग्न आहुत धू॒मस्ते॑ के॒तुर॑भवद्दि॒वि श्रि॒तः ॥३

अस॑म्ऽमृष्टः । जा॒य॒से॒ । मा॒त्रोः । शुचिः॑ । म॒न्द्रः । क॒विः । उत् । अ॒ति॒ष्ठः॒ । वि॒वस्व॑तः ।

घृ॒तेन॑ । त्वा॒ । अ॒व॒र्ध॒य॒न् । अ॒ग्ने॒ । आ॒ऽहु॒त॒ । धू॒मः । ते॒ । के॒तुः । अ॒भ॒व॒त् । दि॒वि । श्रि॒तः ॥३

असम्ऽमृष्टः । जायसे । मात्रोः । शुचिः । मन्द्रः । कविः । उत् । अतिष्ठः । विवस्वतः ।

घृतेन । त्वा । अवर्धयन् । अग्ने । आऽहुत । धूमः । ते । केतुः । अभवत् । दिवि । श्रितः ॥३

हे "अग्ने "मात्रोः अरण्योः । स्वजनननिमित्तत्वात् अरणी मातरावित्युच्येते । ताभ्याम् "असंमृष्टः अबाधित एव "जायसे प्रादुर्भूतो भवसि । "मन्द्रः सर्वैः स्तुत्यः "कविः क्रान्तः सर्वत्र व्याप्तः । अथवा मेधावी “शुचिः त्वं "विवस्वतः अग्निहोत्राद्यर्थं गृहे विशेषेण वसतः यजमानात् “उदतिष्ठः उदितोऽभवः । पूर्वे महर्षयः "त्वा त्वां “घृतेन “अवर्धयन् वृद्धिमनयन् । हे “आहुत आहुतिभिर्हुत “ते तव "दिवि अन्तरिक्षे "श्रितः व्याप्तः “धूमः "केतुः प्रज्ञापकः "अभवत् । अग्न्यनुमापकत्वात् धूमस्य ॥ मात्रोः । उदात्तयणो हल्पूर्वात् ' इति विभक्तेरुदात्तत्वम् । मन्द्रः । ‘ मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । अत्र स्तुत्यर्थादस्मात् ' स्फायितञ्चि° ' इत्यादिना रक् । अन्तोदात्तः । कविः । क्रमेः ‘इन् सर्वधातुभ्यः ' इति इन्प्रत्ययः । बाहुलकत्वात् मकारस्य वत्वं रेफलोपश्च । व्यत्ययेनान्तोदात्तत्वम् । उदतिष्ठः । उत्पूर्वादूर्ध्वकर्मवाचिनस्तिष्ठतेरात्मनेपदाभावः । विवस्वतः। विपूर्वाद्वसतेः संपदादिलक्षणो भावे क्विप् । ‘ तदस्यास्ति° ' इति मतुप् । ' मादुपधायाश्च° ' इति वत्वम् । मतुपोऽनुदात्तत्वाद्धातुस्वरः ॥


अ॒ग्निर्नो॑ य॒ज्ञमुप॑ वेतु साधु॒याग्निं नरो॒ वि भ॑रन्ते गृ॒हेगृ॑हे ।

अ॒ग्निर्दू॒तो अ॑भवद्धव्य॒वाह॑नो॒ऽग्निं वृ॑णा॒ना वृ॑णते क॒विक्र॑तुम् ॥४

अ॒ग्निः । नः॒ । य॒ज्ञम् । उप॑ । वे॒तु॒ । सा॒धु॒ऽया । अ॒ग्निम् । नरः॑ । वि । भ॒र॒न्ते॒ । गृ॒हेऽगृ॑हे ।

अ॒ग्निः । दू॒तः । अ॒भ॒व॒त् । ह॒व्य॒ऽवाह॑नः । अ॒ग्निम् । वृ॒णा॒नाः । वृ॒ण॒ते॒ । क॒विऽक्र॑तुम् ॥४

अग्निः । नः । यज्ञम् । उप । वेतु । साधुऽया । अग्निम् । नरः । वि । भरन्ते । गृहेऽगृहे ।

अग्निः । दूतः । अभवत् । हव्यऽवाहनः । अग्निम् । वृणानाः । वृणते । कविऽक्रतुम् ॥४

“साधुया सर्वपुरुषार्थानां साधकः "अग्निर्नो "यज्ञम् अस्मदीयं यागं प्रति "उप "वेतु आगच्छतु । “नरः मनुष्याः "गृहेगृहे अनुगृहम् "अग्निं "वि “भरन्ते विहरन्ति विहरणं कुर्वन्तीत्यर्थः । “हव्यवाहनः हव्यानां हविषां वोढा "अग्निर्दूतः देवानां दूतः "अभवत् । "वृणानाः संभजमानाः सन्तः "कविक्रतुं क्रान्तयज्ञम् "अग्निं "वृणते संभजन्ते ॥ साधुया । ‘ सुपां सुलुक् ' इत्यादिना विभक्तेर्यादेशः ॥


तुभ्ये॒दम॑ग्ने॒ मधु॑मत्तमं॒ वच॒स्तुभ्यं॑ मनी॒षा इ॒यम॑स्तु॒ शं हृ॒दे ।

त्वां गिर॒ः सिन्धु॑मिवा॒वनी॑र्म॒हीरा पृ॑णन्ति॒ शव॑सा व॒र्धय॑न्ति च ॥५

तुभ्य॑ । इ॒दम् । अ॒ग्ने॒ । मधु॑मत्ऽतमम् । वचः॑ । तुभ्य॑म् । म॒नी॒षा । इ॒यम् । अ॒स्तु॒ । शम् । हृ॒दे ।

त्वाम् । गिरः॑ । सिन्धु॑म्ऽइव । अ॒वनीः॑ । म॒हीः । आ । पृ॒ण॒न्ति॒ । शव॑सा । व॒र्धय॑न्ति । च॒ ॥५

तुभ्य । इदम् । अग्ने । मधुमत्ऽतमम् । वचः । तुभ्यम् । मनीषा । इयम् । अस्तु । शम् । हृदे ।

त्वाम् । गिरः । सिन्धुम्ऽइव । अवनीः । महीः । आ । पृणन्ति । शवसा । वर्धयन्ति । च ॥५

हे “अग्ने "तुभ्य तुभ्यं त्वदर्थं "मधुमत्तमम् अत्यन्तं मधुरम् “इदं "वचः क्रियते । “हदे हृदि "शं सुखं कुर्वती “इयं "मनीषा स्तुतिः “तुभ्यम् "अस्तु । “गिरः स्तुतिरूपा वाचः "त्वाम् “आ “पृणन्ति पूरयन्ति । "शवसा बलेन "वर्धयन्ति च । कथमिव । "महीः महत्यः "अवनीः अवन्यः नद्यः “सिन्धुमिव समुद्रमिव ।।


त्वाम॑ग्ने॒ अङ्गि॑रसो॒ गुहा॑ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने॑वने ।

स जा॑यसे म॒थ्यमा॑न॒ः सहो॑ म॒हत्त्वामा॑हु॒ः सह॑सस्पु॒त्रम॑ङ्गिरः ॥६

त्वाम् । अ॒ग्ने॒ । अङ्गि॑रसः । गुहा॑ । हि॒तम् । अनु॑ । अ॒वि॒न्द॒न् । शि॒श्रि॒या॒णम् । वने॑ऽवने ।

सः । जा॒य॒से॒ । म॒थ्यमा॑नः । सहः॑ । म॒हत् । त्वाम् । आ॒हुः॒ । सह॑सः । पु॒त्रम् । अ॒ङ्गि॒रः॒ ॥६

त्वाम् । अग्ने । अङ्गिरसः । गुहा । हितम् । अनु । अविन्दन् । शिश्रियाणम् । वनेऽवने ।

सः । जायसे । मथ्यमानः । सहः । महत् । त्वाम् । आहुः । सहसः । पुत्रम् । अङ्गिरः ॥६

हे "अग्ने "अङ्गिरसः ऋषयः "गुहा गुहायां “हितं निहितं निगूढं "वनेवने वृक्षेवृक्षे “शिश्रियाणम् आश्रितं "त्वाम् "अन्वविन्दन् अलभन्त । "महत् महता "सहः सहसा बलेन युक्तः “सः त्वं “मथ्यमानः “जायसे । हे "अङ्गिरः अङ्गिरसां प्रकृतिभूत “त्वां "सहसः “पुत्रम् “आहुः ॥ शिश्रियाणम् । श्रिञ् सेवायाम्' । लिटः कानच् । शपः श्लुः । ‘श्लौ' इति द्विर्वचनम् । इयङादेशः । चित्त्वादन्तोदात्तः ॥ ॥ ३ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.११&oldid=199053" इत्यस्माद् प्रतिप्राप्तम्