ऋग्वेदः सूक्तं ५.२०

(ऋग्वेद: सूक्तं ५.२० इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ५.१९ ऋग्वेदः - मण्डल ५
सूक्तं ५.२०
प्रयस्वन्त आत्रेयाः
सूक्तं ५.२१ →
दे. अग्निः। अनुष्टुप्, ५ पङ्क्तिः।


यमग्ने वाजसातम त्वं चिन्मन्यसे रयिम् ।
तं नो गीर्भिः श्रवाय्यं देवत्रा पनया युजम् ॥१॥
ये अग्ने नेरयन्ति ते वृद्धा उग्रस्य शवसः ।
अप द्वेषो अप ह्वरोऽन्यव्रतस्य सश्चिरे ॥२॥
होतारं त्वा वृणीमहेऽग्ने दक्षस्य साधनम् ।
यज्ञेषु पूर्व्यं गिरा प्रयस्वन्तो हवामहे ॥३॥
इत्था यथा त ऊतये सहसावन्दिवेदिवे ।
राय ऋताय सुक्रतो गोभिः ष्याम सधमादो वीरैः स्याम सधमादः ॥४॥


सायणभाष्यम्

‘ यमग्ने ' इति चतुर्ऋचं षष्ठं सूक्तमत्रीणां प्रयस्वतामार्षमाग्नेयम् । अन्त्या पङ्क्तिः शिष्टा अनुष्टुभः । तथा चानुक्रान्तं - ‘ यमग्ने चतुष्कं प्रयस्वन्तः पङ्य्त््न्तं ह ' इति । प्रातरनुवाकाश्विनशस्त्रयोरुक्तो विनियोगः । अत्रेश्चतुराख्येऽहीने द्वितीयेऽहनीदं सूक्तमाज्यशस्त्रम् । सूत्रितं च - यमग्ने वाजसातमेति द्वितीयेऽहन्याज्यम्' (आश्व. श्रौ. १०. २) इति ॥


यम॑ग्ने वाजसातम॒ त्वं चि॒न्मन्य॑से र॒यिम् ।

तं नो॑ गी॒र्भिः श्र॒वाय्यं॑ देव॒त्रा प॑नया॒ युज॑म् ॥१

यम् । अ॒ग्ने॒ । वा॒ज॒ऽसा॒त॒म॒ । त्वम् । चि॒त् । मन्य॑से । र॒यिम् ।

तम् । नः॒ । गीः॒ऽभिः । श्र॒वाय्य॑म् । दे॒व॒ऽत्रा । प॒न॒य॒ । युज॑म् ॥१

यम् । अग्ने । वाजऽसातम । त्वम् । चित् । मन्यसे । रयिम् ।

तम् । नः । गीःऽभिः । श्रवाय्यम् । देवऽत्रा । पनय । युजम् ॥१

हे "अग्ने हे “वाजसातम अत्यन्तमन्नद “त्वं "यं "रयिं धनमस्माभिर्दीयमानं हवीरूपं धनं “मन्यसे बुध्यसे । “चित् इति पादपूरणः। “श्रवाय्यं श्रवणीयं प्रशस्यं "गीर्भिः स्तुतिभिः “युजं युक्तं "नः अस्मदीयं हविर्लक्षणं धनं "तं "देवत्रा देवेषु "पनय प्रापयेत्यर्थः ॥


ये अ॑ग्ने॒ नेरय॑न्ति ते वृ॒द्धा उ॒ग्रस्य॒ शव॑सः ।

अप॒ द्वेषो॒ अप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिरे ॥२

ये । अ॒ग्ने॒ । न । ई॒रय॑न्ति । ते॒ । वृ॒द्धाः । उ॒ग्रस्य॑ । शव॑सः ।

अप॑ । द्वेषः॑ । अप॑ । ह्वरः॑ । अ॒न्यऽव्र॑तस्य । स॒श्चि॒रे॒ ॥२

ये । अग्ने । न । ईरयन्ति । ते । वृद्धाः । उग्रस्य । शवसः ।

अप । द्वेषः । अप । ह्वरः । अन्यऽव्रतस्य । सश्चिरे ॥२

हे "अग्ने "ये जनाः "वृद्धाः पश्वादिलक्षणैर्धनैः समृद्धाः सन्तः “ते तुभ्यं “नेरयन्ति हवींषि न प्रयच्छन्ति ते "उग्रस्य अधिकेन “शवसः बलेन अन्नेन वा “अप नीताः बलान्नहीना भवन्तीत्यर्थः । किंच “अन्यव्रतस्य अन्यद्वैदिकाद्विभक्तं व्रतं कर्म यस्य तस्यासुरस्य “द्वेषः त्वत्संबन्धिनं विरोधं “ह्वरः अतिहिंसां च "अप "सश्चिरे आत्मानं प्रापयन्ति ॥


होता॑रं त्वा वृणीम॒हेऽग्ने॒ दक्ष॑स्य॒ साध॑नम् ।

य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वन्तो हवामहे ॥३

होता॑रम् । त्वा॒ । वृ॒णी॒म॒हे॒ । अग्ने॑ । दक्ष॑स्य । साध॑नम् ।

य॒ज्ञेषु॑ । पू॒र्व्यम् । गि॒रा । प्रय॑स्वन्तः । ह॒वा॒म॒हे॒ ॥३

होतारम् । त्वा । वृणीमहे । अग्ने । दक्षस्य । साधनम् ।

यज्ञेषु । पूर्व्यम् । गिरा । प्रयस्वन्तः । हवामहे ॥३

हे "अग्ने “प्रयस्वन्तः अन्नवन्तः एतन्नामका वयं "दक्षस्य बलस्य “साधनं साधकं साधयितारं त्वां “होतारं देवानामाह्वातारं "वृणीमहे । किंच "यज्ञेषु “पूर्व्यं मुख्यं त्वां “गिरा स्तुतिरूपया वाचा “हवामहे स्तुमः ॥


इ॒त्था यथा॑ त ऊ॒तये॒ सह॑सावन्दि॒वेदि॑वे ।

रा॒य ऋ॒ताय॑ सुक्रतो॒ गोभि॑ः ष्याम सध॒मादो॑ वी॒रैः स्या॑म सध॒माद॑ः ॥४

इ॒त्था । यथा॑ । ते॒ । ऊ॒तये॑ । सह॑साऽवन् । दि॒वेऽदि॑वे ।

रा॒ये । ऋ॒ताय॑ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । गोभिः॑ । स्या॒म॒ । स॒ध॒ऽमादः॑ । वी॒रैः । स्या॒म॒ । स॒ध॒ऽमादः॑ ॥४

इत्था । यथा । ते । ऊतये । सहसाऽवन् । दिवेऽदिवे ।

राये । ऋताय । सुक्रतो इति सुऽक्रतो । गोभिः । स्याम । सधऽमादः । वीरैः । स्याम । सधऽमादः ॥४

हे "सहसावन् बलवन्नग्ने “दिवेदिवे अन्वहं वयं "ते तव “ऊतये रक्षणाय “यथा स्याम तथा “इत्था इत्थं कुरु । हे "सुक्रतो "राये धनाय “ऋताय यज्ञाय च यथा “स्याम तथा कुरु । किंच वयं "गोभिः "सधमादः सह माद्यन्तः "स्याम । “वीरैः पुत्रैश्च "सधमादः सह माद्यन्तः स्याम । तथा कुरु ॥ ॥ १२ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.२०&oldid=199401" इत्यस्माद् प्रतिप्राप्तम्