ऋग्वेदः सूक्तं ५.३१

(ऋग्वेद: सूक्तं ५.३१ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ५.३० ऋग्वेदः - मण्डल ५
सूक्तं ५.३१
अवस्युरात्रेयः
सूक्तं ५.३२ →
दे. इन्द्रः, ८ तृतीयपादस्य कुत्सो वा, चतुर्थपादस्य उशना वा, ९ इन्द्राकुत्सौ। त्रिष्टुप्।


इन्द्रो रथाय प्रवतं कृणोति यमध्यस्थान्मघवा वाजयन्तम् ।
यूथेव पश्वो व्युनोति गोपा अरिष्टो याति प्रथमः सिषासन् ॥१॥
आ प्र द्रव हरिवो मा वि वेनः पिशङ्गराते अभि नः सचस्व ।
नहि त्वदिन्द्र वस्यो अन्यदस्त्यमेनाँश्चिज्जनिवतश्चकर्थ ॥२॥
उद्यत्सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि विश्वा ।
प्राचोदयत्सुदुघा वव्रे अन्तर्वि ज्योतिषा संववृत्वत्तमोऽवः ॥३॥
अनवस्ते रथमश्वाय तक्षन्त्वष्टा वज्रं पुरुहूत द्युमन्तम् ।
ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥४॥
वृष्णे यत्ते वृषणो अर्कमर्चानिन्द्र ग्रावाणो अदितिः सजोषाः ।
अनश्वासो ये पवयोऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून् ॥५॥
प्र ते पूर्वाणि करणानि वोचं प्र नूतना मघवन्या चकर्थ ।
शक्तीवो यद्विभरा रोदसी उभे जयन्नपो मनवे दानुचित्राः ॥६॥
तदिन्नु ते करणं दस्म विप्राहिं यद्घ्नन्नोजो अत्रामिमीथाः ।
शुष्णस्य चित्परि माया अगृभ्णाः प्रपित्वं यन्नप दस्यूँरसेधः ॥७॥
त्वमपो यदवे तुर्वशायारमयः सुदुघाः पार इन्द्र ।
उग्रमयातमवहो ह कुत्सं सं ह यद्वामुशनारन्त देवाः ॥८॥
इन्द्राकुत्सा वहमाना रथेना वामत्या अपि कर्णे वहन्तु ।
निः षीमद्भ्यो धमथो निः षधस्थान्मघोनो हृदो वरथस्तमांसि ॥९॥
वातस्य युक्तान्सुयुजश्चिदश्वान्कविश्चिदेषो अजगन्नवस्युः ।
विश्वे ते अत्र मरुतः सखाय इन्द्र ब्रह्माणि तविषीमवर्धन् ॥१०॥
सूरश्चिद्रथं परितक्म्यायां पूर्वं करदुपरं जूजुवांसम् ।
भरच्चक्रमेतशः सं रिणाति पुरो दधत्सनिष्यति क्रतुं नः ॥११॥
आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोममिच्छन् ।
वदन्ग्रावाव वेदिं भ्रियाते यस्य जीरमध्वर्यवश्चरन्ति ॥१२॥
ये चाकनन्त चाकनन्त नू ते मर्ता अमृत मो ते अंह आरन् ।
वावन्धि यज्यूँरुत तेषु धेह्योजो जनेषु येषु ते स्याम ॥१३॥


सायणभाष्यम्

‘ इन्द्रो रथाय' इति त्रयोदशर्चं सप्तदशं सूक्तम् । अवस्युर्नाम आत्रेय ऋषिः । त्रिष्टुप् छन्दः । इन्द्रो देवता । ' उग्रमयातं ' ' सं ह यद्वाम्' इति पादयोः क्रमेण कुत्सोशनसौ विकल्पेन देवता । ‘ इन्द्राकुत्सा वहमाना' इत्यस्य इन्द्रः कुत्सश्च । तथा चानुक्रान्तम् - ‘इन्द्रो रथाय सप्तोनावस्युरुप्रमिति कौत्स्यौशनसौ वा पादौ परैन्द्राकौत्सी ' इति । विनियोगो लैङ्गिकः ॥


इंद्रो॒ रथा॑य प्र॒वतं॑ कृणोति॒ यम॒ध्यस्था॑न्म॒घवा॑ वाज॒यंतं॑ ।

यू॒थेव॑ प॒श्वो व्यु॑नोति गो॒पा अरि॑ष्टो याति प्रथ॒मः सिषा॑सन् ॥१

इन्द्रः॑ । रथा॑य । प्र॒ऽवत॑म् । कृ॒णो॒ति॒ । यम् । अ॒धि॒ऽअस्था॑त् । म॒घऽवा॑ । वा॒ज॒ऽयन्त॑म् ।

यू॒थाऽइ॑व । प॒श्वः । वि । उ॒नो॒ति॒ । गो॒पाः । अरि॑ष्टः । या॒ति॒ । प्र॒थ॒मः । सिसा॑सन् ॥१

इन्द्रः । रथाय । प्रऽवतम् । कृणोति । यम् । अधिऽअस्थात् । मघऽवा । वाजऽयन्तम् ।

यूथाऽइव । पश्वः । वि । उनोति । गोपाः । अरिष्टः । याति । प्रथमः । सिसासन् ॥१

“मघवा धनवान् “इन्द्रः “वाजयन्तम् अन्नमिच्छन्तं "यं रथम् अध्यस्थात् अधितिष्ठति तस्मै “रथाय “प्रवतं प्रवणमाजिं “कृणोति करोति । अपि च “गोपाः गोपालः “पश्वः “यूथेव पशोः पशूनां यूथानि यथा “व्युनोति प्रेरयति तथा शत्रुसैन्यानि प्रेरयति । “अरिष्टः शत्रुभिः स्वयमहिंसितः “प्रथमः देवानां मुख्य इन्द्रः “सिषासन् शत्रुधनानीच्छन् "याति गच्छति ।।


आ प्र द्र॑व हरिवो॒ मा वि वे॑नः॒ पिशं॑गराते अ॒भि नः॑ सचस्व ।

न॒हि त्वदिं॑द्र॒ वस्यो॑ अ॒न्यदस्त्य॑मे॒नांश्चि॒ज्जनि॑वतश्चकर्थ ॥२

आ । प्र । द्र॒व॒ । ह॒रि॒ऽवः॒ । मा । वि । वे॒नः॒ । पिश॑ङ्गऽराते । अ॒भि । नः॒ । स॒च॒स्व॒ ।

न॒हि । त्वत् । इ॒न्द्र॒ । वस्यः॑ । अ॒न्यत् । अस्ति॑ । अ॒मे॒नान् । चि॒त् । जनि॑ऽवतः । च॒क॒र्थ॒ ॥२

आ । प्र । द्रव । हरिऽवः । मा । वि । वेनः । पिशङ्गऽराते । अभि । नः । सचस्व ।

नहि । त्वत् । इन्द्र । वस्यः । अन्यत् । अस्ति । अमेनान् । चित् । जनिऽवतः । चकर्थ ॥२

हे "हरिवः हरिवन्निन्द्र त्वम् “आ अस्मानभिमुखं “प्र “द्रव प्रकर्षेण गच्छ। किंतु “मा “वि “वेनः । वेनतिः कान्तिकर्मा । अस्मासु विगतकामो मा भूः । किंच हे "पिशङ्गराते बहुरूपधनेन्द्र “नः अस्मान् “अभि “सचस्व अभिसेवस्व । अपि च हे “इन्द्र “वस्यः वसीयः श्रेयस्करं “त्वत् त्वत्तः “अन्यत् “नहि “अस्ति अन्यद्वस्तुजातं नास्ति । “अमेनांश्चित् । मेनाशब्दः स्त्रीवाची । अपगतस्त्रीकांश्चित् “जनिवतः जायावतः “चकर्थ करोषि ॥


उद्यत्सहः॒ सह॑स॒ आज॑निष्ट॒ देदि॑ष्ट॒ इंद्र॑ इंद्रि॒याणि॒ विश्वा॑ ।

प्राचो॑दयत्सु॒दुघा॑ व॒व्रे अं॒तर्वि ज्योति॑षा संववृ॒त्वत्तमो॑ऽवः ॥३

उत् । यत् । सहः॑ । सह॑सः । आ । अज॑निष्ट । देदि॑ष्टे । इन्द्रः॑ । इ॒न्द्रि॒याणि॑ । विश्वा॑ ।

प्र । अ॒चो॒द॒य॒त् । सु॒ऽदुघाः॑ । व॒व्रे । अ॒न्तः । वि । ज्योति॑षा । स॒म्ऽव॒वृ॒त्वत् । तमः॑ । अ॒व॒रित्य॑वः ॥३

उत् । यत् । सहः । सहसः । आ । अजनिष्ट । देदिष्टे । इन्द्रः । इन्द्रियाणि । विश्वा ।

प्र । अचोदयत् । सुऽदुघाः । वव्रे । अन्तः । वि । ज्योतिषा । सम्ऽववृत्वत् । तमः । अवरित्यवः ॥३

“यत् यदा “सहः सूर्यसंबन्धि तेजः “सहसः उषःसंबन्धिनस्तेजसः “उत् “आजनिष्ट उपरिष्टात् प्रादुर्बभूव तदा “इन्द्रः “विश्वा विश्वानि सर्वाणि इन्द्रियाणि धनानि । इन्द्रियमिति धननामैतत । “देदिष्टे । यजमानेभ्यो दिशति । “वव्रे निवारके पर्वते “अन्तः मध्ये बलेन निरुद्धाः "सुदुघाः सुष्ठु दोग्ध्रीर्गाः “प्राचोदयत् प्रैरयत् । “ज्योतिषा तेजसा “संववृत्वत् संवरणशीलं “तमः “वि “अवः निवारितवान् ।।


अन॑वस्ते॒ रथ॒मश्वा॑य तक्ष॒न्त्वष्टा॒ वज्रं॑ पुरुहूत द्यु॒मंतं॑ ।

ब्र॒ह्माण॒ इंद्रं॑ म॒हयं॑तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हंत॒वा उ॑ ॥४

अन॑वः । ते॒ । रथ॑म् । अश्वा॑य । त॒क्ष॒न् । त्वष्टा॑ । वज्र॑म् । पु॒रु॒ऽहू॒त॒ । द्यु॒ऽमन्त॑म् ।

ब्र॒ह्माणः॑ । इन्द्र॑म् । म॒हय॑न्तः । अ॒र्कैः । अव॑र्धयन् । अह॑ये । हन्त॒वै । ऊं॒ इति॑ ॥४

अनवः । ते । रथम् । अश्वाय । तक्षन् । त्वष्टा । वज्रम् । पुरुऽहूत । द्युऽमन्तम् ।

ब्रह्माणः । इन्द्रम् । महयन्तः । अर्कैः । अवर्धयन् । अहये । हन्तवै । ऊं इति ॥४

हे “पुरुहूत बहुभिः आहूतेन्द्र “ते त्वदीयं “रथम् “अश्वाय अश्वाभ्यां संयोगार्हम् "अनवः । अनवो मनुष्याः । ऋभवः “तक्षन् अतक्षन् अकुर्वन् । “त्वष्टा च त्वदीयं “वज्रं “द्युमन्तं दीप्तिमन्तम् अकरोत् । “उ अपि च “महयन्तः “इन्द्रं पूजयन्तः “ब्रह्माणः अङ्गिरसः परिवृढा मरुतो वा “अहये अहिं वृत्रं “हन्तवै हन्तुम् “अर्कैः स्तोत्रैः “अवर्धयन् वर्धितवन्तः ॥


वृष्णे॒ यत्ते॒ वृष॑णो अ॒र्कमर्चा॒निंद्र॒ ग्रावा॑णो॒ अदि॑तिः स॒जोषाः॑ ।

अ॒न॒श्वासो॒ ये प॒वयो॑ऽर॒था इंद्रे॑षिता अ॒भ्यव॑र्तंत॒ दस्यू॑न् ॥५

वृष्णे॑ । यत् । ते॒ । वृष॑णः । अ॒र्कम् । अर्चा॑न् । इन्द्र॑ । ग्रावा॑णः । अदि॑तिः । स॒ऽजोषाः॑ ।

अ॒न॒श्वासः॑ । ये । प॒वयः॑ । अ॒र॒थाः । इन्द्र॑ऽइषिताः । अ॒भि । अव॑र्तन्त । दस्यू॑न् ॥५

वृष्णे । यत् । ते । वृषणः । अर्कम् । अर्चान् । इन्द्र । ग्रावाणः । अदितिः । सऽजोषाः ।

अनश्वासः । ये । पवयः । अरथाः । इन्द्रऽइषिताः । अभि । अवर्तन्त । दस्यून् ॥५

हे “इन्द्र “यत् यदा “वृषणः सेचनसमर्था मरुतः “वृष्णे कामानां वर्षित्रे “ते तुभ्यम् "अर्कं स्तोत्रम् “अर्चान् अस्तुवन् अकुर्वन्नित्यर्थः । तदा "अदितिः अदीनाः ॥ वचनव्यत्ययः ॥ “ग्रावाणः अभिषवपाषाणाः “सजोषाः संगता बभूवुरिति शेषः । “अनश्वासः अश्ववर्जिताः “अरथाः रथहीनाः “इन्द्रेषिताः इन्द्रेण प्रेषिताः "पवयः पवमाना गच्छन्तः “ये मरुतः “दस्यून् शत्रून् “अभ्यवर्तन्त अभिभूतान् कुर्वन्तो वर्तन्ते स्म ते मरुतोऽर्चानिति संबन्धः ॥ ॥ २९ ॥


प्र ते॒ पूर्वा॑णि॒ कर॑णानि वोचं॒ प्र नूत॑ना मघव॒न्या च॒कर्थ॑ ।

शक्ती॑वो॒ यद्वि॒भरा॒ रोद॑सी उ॒भे जय॑न्न॒पो मन॑वे॒ दानु॑चित्राः ॥६

प्र । ते॒ । पूर्वा॑णि । कर॑णानि । वो॒च॒म् । प्र । नूत॑ना । म॒घ॒ऽव॒न् । या । च॒कर्थ॑ ।

शक्ति॑ऽवः । यत् । वि॒ऽभराः॑ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । जय॑न् । अ॒पः । मन॑वे । दानु॑ऽचित्राः ॥६

प्र । ते । पूर्वाणि । करणानि । वोचम् । प्र । नूतना । मघऽवन् । या । चकर्थ ।

शक्तिऽवः । यत् । विऽभराः । रोदसी इति । उभे इति । जयन् । अपः । मनवे । दानुऽचित्राः ॥६

हे इन्द्र "ते त्वदीयानि “पूर्वाणि पुरातनानि "करणानि कर्माणि “प्र “वोचम् अहं प्रकर्षेण ब्रवीमि । “नूतना नूतनानि नवानि कर्माणि “प्र वोचं प्रब्रवीमि । हे “मघवन् धनवन्निन्द्र “या यानि कर्माणि “चकर्थ कृतवानसि तानि प्र वोचमिति संबन्धः । हे “शक्तीवः शक्तिमन् । शक्तिर्वज्रं कर्म वा । तद्वन्निन्द्र “यत् यस्त्वम् “उभे “रोदसी द्यावापृथिव्यौ “जयन् वशीकुर्वन् “अपः उदकानि “मनवे मनुष्याय “विभराः विविच्य बिभर्षि । कीदृशीः । “दानुचित्राः चित्रदानाः ॥


तदिन्नु ते॒ कर॑णं दस्म वि॒प्राहिं॒ यद्घ्नन्नोजो॒ अत्रामि॑मीथाः ।

शुष्ण॑स्य चि॒त्परि॑ मा॒या अ॑गृभ्णाः प्रपि॒त्वं यन्नप॒ दस्यूँ॑रसेधः ॥७

तत् । इत् । नु । ते॒ । कर॑णम् । द॒स्म॒ । वि॒प्र॒ । अहि॑म् । यत् । घ्नन् । ओजः॑ । अत्र॑ । अमि॑मीथाः ।

शुष्ण॑स्य । चि॒त् । परि॑ । मा॒याः । अ॒गृ॒भ्णाः॒ । प्र॒ऽपि॒त्वम् । यन् । अप॑ । दस्यू॑न् । अ॒से॒धः॒ ॥७

तत् । इत् । नु । ते । करणम् । दस्म । विप्र । अहिम् । यत् । घ्नन् । ओजः । अत्र । अमिमीथाः ।

शुष्णस्य । चित् । परि । मायाः । अगृभ्णाः । प्रऽपित्वम् । यन् । अप । दस्यून् । असेधः ॥७

हे “दस्म दर्शनीय “विप्र मेधाविन्निन्द्र त्वम् “अत्र अस्मिँल्लोके “अहिं वृत्रमसुरं “घ्नन् हिंसन् “यत् “ओजः यद्बलम् "अमिमीथाः प्रकाशितवानसि “तदिन्नु तत्खलु “ते त्वदीयं "करणं कर्म विद्यते । अपि च “शुष्णस्य “चित् एतन्नामकस्याप्यसुरस्य संबन्धिनीः "मायाः प्रज्ञाः “परि “अगृभ्णाः परिगृहीतवानसि । हे इन्द्र त्वं “प्रपित्वं संग्रामं समीपं वा “यन् प्राप्नुवन् "दस्यून् असुरान् “अप “असेधः अपाबाधथाः ॥


त्वम॒पो यद॑वे तु॒र्वशा॒यार॑मयः सु॒दुघाः॑ पा॒र इं॑द्र ।

उ॒ग्रम॑यात॒मव॑हो ह॒ कुत्सं॒ सं ह॒ यद्वा॑मु॒शनारं॑त दे॒वाः ॥८

त्वम् । अ॒पः । यद॑वे । तु॒र्वशा॒य । अर॑मयः । सु॒ऽदुघाः॑ । पा॒रः । इ॒न्द्र॒ ।

उ॒ग्रम् । अ॒या॒त॒म् । अव॑हः । ह॒ । कुत्स॑म् । सम् । ह॒ । यत् । वा॒म् । उ॒शना॑ । अर॑न्त । दे॒वाः ॥८

त्वम् । अपः । यदवे । तुर्वशाय । अरमयः । सुऽदुघाः । पारः । इन्द्र ।

उग्रम् । अयातम् । अवहः । ह । कुत्सम् । सम् । ह । यत् । वाम् । उशना । अरन्त । देवाः ॥८

हे “इन्द्र “त्वं पारे नदीनां तीरे । प्रवृद्धाः। इति शेषः। 'सुदुघाः ओषधिवनस्पतीन् सुष्ठु दुहतीः "अपः उदकानि “यदवे यदुनामकाय राज्ञे “तुर्वशाय एतन्नामकाय राज्ञे च "अरमयः रमितवानसि । हे इन्द्र युवाम् । त्वं कुत्सश्चेति शेषः । "उग्रम् उद्गूर्णं शुष्णम् "अयातम् अगच्छतम् । तदनन्तरं त्वं शुष्णं हत्वा “कुत्सम् "अवहो “ह स्वगृहं प्रापितवानसि खलु । “यत् यदा “वां युवामिन्द्राकुत्सौ "उशना भार्गवः "देवाः च "सम् "अरन्त “ह संभेजिरे खलु ॥


इंद्रा॑कुत्सा॒ वह॑माना॒ रथे॒ना वा॒मत्या॒ अपि॒ कर्णे॑ वहंतु ।

निः षी॑म॒द्भ्यो धम॑थो॒ निः ष॒धस्था॑न्म॒घोनो॑ हृ॒दो व॑रथ॒स्तमां॑सि ॥९

इन्द्रा॑कुत्सा । वह॑माना । रथे॑न । आ । वा॒म् । अत्याः॑ । अपि॑ । कर्णे॑ । व॒ह॒न्तु॒ ।

निः । सी॒म् । अ॒त्ऽभ्यः । धम॑थः । निः । स॒धऽस्था॑त् । म॒घोनः॑ । हृ॒दः । व॒र॒थः॒ । तमां॑सि ॥९

इन्द्राकुत्सा । वहमाना । रथेन । आ । वाम् । अत्याः । अपि । कर्णे । वहन्तु ।

निः । सीम् । अत्ऽभ्यः । धमथः । निः । सधऽस्थात् । मघोनः । हृदः । वरथः । तमांसि ॥९

हे 'इन्द्राकुत्सा इन्द्राकुत्सौ “रथेन “वहमाना वहमानौ उह्यमानौ “वां युवाम् “अत्याः अश्वाः “कर्णे “अपि । स्तोत्राणि कृणोति करोतीति कर्णः स्तोता यजमानो वा । तत्समीपेऽपीति यावत् । “आ “वहन्तु आ समन्तात् वाहका भवन्तु । युवामपि “अद्भ्यः अप्सु प्रविष्टं “सीम् एनं शुष्णासुरं “निः “धमथः अबाधेथाम् । सीमिति शुष्णासुरो बुद्धिस्थः परामृश्यते । “सधस्थात् स्वकीयात् स्थानात् “निः अबाधेथाम् । “मघोनः मघवतो हविष्मतो यजमानस्य “हृदः हृदयात् “तमांसि अज्ञानरूपाणि पापानि “वरथः निवारयथः ॥


वात॑स्य यु॒क्तान्त्सु॒युज॑श्चि॒दश्वा॑न्क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः ।

विश्वे॑ ते॒ अत्र॑ म॒रुतः॒ सखा॑य॒ इंद्र॒ ब्रह्मा॑णि॒ तवि॑षीमवर्धन् ॥१०

वात॑स्य । यु॒क्तान् । सु॒ऽयुजः॑ । चि॒त् । अश्वा॑न् । क॒विः । चि॒त् । ए॒षः । अ॒ज॒ग॒न् । अ॒व॒स्युः ।

विश्वे॑ । ते॒ । अत्र॑ । म॒रुतः॑ । सखा॑यः । इन्द्र॑ । ब्रह्मा॑णि । तवि॑षीम् । अ॒व॒र्ध॒न् ॥१०

वातस्य । युक्तान् । सुऽयुजः । चित् । अश्वान् । कविः । चित् । एषः । अजगन् । अवस्युः ।

विश्वे । ते । अत्र । मरुतः । सखायः । इन्द्र । ब्रह्माणि । तविषीम् । अवर्धन् ॥१०

“कविश्चित् प्राज्ञोऽपि “अवस्युः एतन्नामकः “एषः मन्त्रद्रष्टा “वातस्य वायोर्वेगेन “युक्तान् संयुक्तान् “सुयुजश्चित् सुष्ठु योजनीयान् “अश्वान् “अजगन् प्राप्नोत् । अवस्योः “सखायः “विश्वे सर्वे “मरुतः बहवः स्तोतारो हे “इन्द्र “अत्र अस्मिँलोके “ते त्वदीयां “तविषीं बलं “ब्रह्माणि ब्रह्मभिः स्तोत्रैः “अवर्धन् अवर्धयन् ॥ ॥ ३० ॥


सूर॑श्चि॒द्रथं॒ परि॑तक्म्यायां॒ पूर्वं॑ कर॒दुप॑रं जूजु॒वांसं॑ ।

भर॑च्च॒क्रमेत॑शः॒ सं रि॑णाति पु॒रो दध॑त्सनिष्यति॒ क्रतुं॑ नः ॥११

सूरः॑ । चि॒त् । रथ॑म् । परि॑ऽतक्म्यायाम् । पूर्व॑म् । क॒र॒त् । उप॑रम् । जू॒जु॒ऽवांस॑म् ।

भर॑त् । च॒क्रम् । एत॑शः । सम् । रि॒णा॒ति॒ । पु॒रः । दध॑त् । स॒नि॒ष्य॒ति॒ । क्रतु॑म् । नः॒ ॥११

सूरः । चित् । रथम् । परिऽतक्म्यायाम् । पूर्वम् । करत् । उपरम् । जूजुऽवांसम् ।

भरत् । चक्रम् । एतशः । सम् । रिणाति । पुरः । दधत् । सनिष्यति । क्रतुम् । नः ॥११

इन्द्रः “परितक्म्यायां संग्रामे । परितो गच्छन्त्यस्यां भटाः इति परितक्म्या संग्रामः। एतशाख्येन ऋषिणा सह योद्धुः "सूरश्चित् सूर्यस्यापि संबन्धिनं "जूजुवांसं वेगेन गच्छन्तं “रथम् “उपरम् उपरतव्यापारं “पूर्वं करत् पुराकरोत् । “एतशः एतशाय ॥ विभक्तिव्यत्ययः ॥ इन्द्रः पूर्वं द्विचक्रस्य रथस्यैकं “चक्रं "भरत् अहरत् । स इन्द्रस्तेन चक्रेणासुरान् “सं “रिणाति हिनस्ति । अपि च “पुरो दधत् अस्मान् पुरस्कुर्वन् “नः अस्मदीयं “क्रतुं यज्ञं "सनिष्यति संभजतु ॥


आयं ज॑ना अभि॒चक्षे॑ जगा॒मेंद्रः॒ सखा॑यं सु॒तसो॑ममि॒च्छन् ।

वद॒न्ग्रावाव॒ वेदिं॑ भ्रियाते॒ यस्य॑ जी॒रम॑ध्व॒र्यव॒श्चरं॑ति ॥१२

आ । अ॒यम् । ज॒नाः॒ । अ॒भि॒ऽचक्षे॑ । ज॒गा॒म॒ । इन्द्रः॑ । सखा॑यम् । सु॒तऽसो॑मम् । इ॒च्छन् ।

वद॑न् । ग्रावा॑ । अव॑ । वेदि॑म् । भ्रि॒या॒ते॒ । यस्य॑ । जी॒रम् । अ॒ध्व॒र्यवः॑ । चर॑न्ति ॥१२

आ । अयम् । जनाः । अभिऽचक्षे । जगाम । इन्द्रः । सखायम् । सुतऽसोमम् । इच्छन् ।

वदन् । ग्रावा । अव । वेदिम् । भ्रियाते । यस्य । जीरम् । अध्वर्यवः । चरन्ति ॥१२

हे "जनाः "अभिचक्षे युष्मानभिद्रष्टुम् “अयम् इन्द्रः “सखायं स्तोतारं “सुतसोमम् अभिषुतसोमं यजमानम् "इच्छन् अभिलषन् “आ “जगाम आगच्छति । “अध्वर्यवः “यस्य ग्राव्णः “जीरं क्षेपणं प्रेरणं “चरन्ति कुर्वन्ति सः “ग्रावा सोमाभिषवपाषाणः “वदन् शब्दं कुर्वन “वेदिम् “अव “भ्रियाते अभिह्रियते ॥


ये चा॒कनं॑त चा॒कनं॑त॒ नू ते मर्ता॑ अमृत॒ मो ते अंह॒ आर॑न् ।

वा॒वं॒धि यज्यूँ॑रु॒त तेषु॑ धे॒ह्योजो॒ जने॑षु॒ येषु॑ ते॒ स्याम॑ ॥१३

ये । चा॒कन॑न्त । चा॒कन॑न्त । नु । ते । मर्ताः॑ । अ॒मृ॒त॒ । मो इति॑ । ते । अंहः॑ । आ । अ॒र॒न् ।

व॒व॒न्धि । यज्यू॑न् । उ॒त । तेषु॑ । धे॒हि॒ । ओजः॑ । जने॑षु । येषु॑ । ते॒ । स्याम॑ ॥१३

ये । चाकनन्त । चाकनन्त । नु । ते । मर्ताः । अमृत । मो इति । ते । अंहः । आ । अरन् ।

ववन्धि । यज्यून् । उत । तेषु । धेहि । ओजः । जनेषु । येषु । ते । स्याम ॥१३

हे इन्द्र धनार्थिनः "ये जनास्त्वां “चाकनन्त अकामयन्त पुनश्च “ते “नु क्षिप्रमेव त्वां “चाकनन्त हे “अमृत अमरणशीलेन्द्र “मर्ताः मरणधर्माणः “ते जनाः “अंहः अनर्थं "मो “आरन् मा गमन् । मा उ इति निपातसमुदायो मेत्येकनिपातार्थे वर्तते । “उत अपि च “यज्यून् यजमानान् "ववन्धि संभजस्व । “येषु “जनेषु येषां जनानां मध्ये वयं स्तोतारः “ते त्वदीयाः “स्याम भवाम हे इन्द्र त्वं “तेषु जनेषु “ओजः बलं “धेहि ॥ ॥ ३१ ॥


टिप्पणी

५.३१.१ इन्द्रो रथाय प्रवतं इति इन्द्रो रथाय प्रवतं कृणोतीति मरुत्वतीयं प्रवत्प्रवद्वै प्रथमस्याह्नो रूपम् - कौ.ब्रा. २०.२


५.३१.४ अनवस्ते इति

श्लोकानुश्लोके

इन्द्रायार्काश्वमेधवते पुरोडाशम् एकादशकपालं निर् वपेद् यम् महायज्ञो नोपनमेत् (तैसं. २.२.७.५) इत्यस्य पुरोनुवाक्या - अनवस्ते इति।

अनु/अनः उपरि टिप्पणी


५.३१.९

प्रमादस्त्वेष हन्ताहं न स स्व इत्यपह्नवः । इन्द्राकुत्सेत्युपप्रैषो न विजानामि संज्वरः ।।बृहद्देवता १.५६ ।।

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.३१&oldid=400186" इत्यस्माद् प्रतिप्राप्तम्