ऋग्वेदः सूक्तं ५.३६
← सूक्तं ५.३५ | ऋग्वेदः - मण्डल ५ सूक्तं ५.३६ प्रभूवसुराङ्गिरसः |
सूक्तं ५.३७ → |
दे. इन्द्रः। त्रिष्टुप्, ३ जगती। |
स आ गमदिन्द्रो यो वसूनां चिकेतद्दातुं दामनो रयीणाम् ।
धन्वचरो न वंसगस्तृषाणश्चकमानः पिबतु दुग्धमंशुम् ॥१॥
आ ते हनू हरिवः शूर शिप्रे रुहत्सोमो न पर्वतस्य पृष्ठे ।
अनु त्वा राजन्नर्वतो न हिन्वन्गीर्भिर्मदेम पुरुहूत विश्वे ॥२॥
चक्रं न वृत्तं पुरुहूत वेपते मनो भिया मे अमतेरिदद्रिवः ।
रथादधि त्वा जरिता सदावृध कुविन्नु स्तोषन्मघवन्पुरूवसुः ॥३॥
एष ग्रावेव जरिता त इन्द्रेयर्ति वाचं बृहदाशुषाणः ।
प्र सव्येन मघवन्यंसि रायः प्र दक्षिणिद्धरिवो मा वि वेनः ॥४॥
वृषा त्वा वृषणं वर्धतु द्यौर्वृषा वृषभ्यां वहसे हरिभ्याम् ।
स नो वृषा वृषरथः सुशिप्र वृषक्रतो वृषा वज्रिन्भरे धाः ॥५॥
यो रोहितौ वाजिनौ वाजिनीवान्त्रिभिः शतैः सचमानावदिष्ट ।
यूने समस्मै क्षितयो नमन्तां श्रुतरथाय मरुतो दुवोया ॥६॥
सायणभाष्यम्
‘स आ गमत्' इति षडृचं चतुर्थ सूक्तम् । आङ्गिरसः प्रभूवसुर्ऋषिः । तृतीया जगती शिष्टा अनुक्तत्वात् त्रिष्टुभः । इन्द्रो देवता । अनुक्रान्तं च -- स आ गमत् षट् तृतीया जगती' इति ॥ विनियोगो लैङ्गिकः ॥
स आ ग॑म॒दिंद्रो॒ यो वसू॑नां॒ चिके॑त॒द्दातुं॒ दाम॑नो रयी॒णां ।
ध॒न्व॒च॒रो न वंस॑गस्तृषा॒णश्च॑कमा॒नः पि॑बतु दु॒ग्धमं॒शुं ॥१
सः । आ । ग॒म॒त् । इन्द्रः॑ । यः । वसू॑नाम् । चिके॑तत् । दातु॑म् । दाम॑नः । र॒यी॒णाम् ।
ध॒न्व॒ऽच॒रः । न । वंस॑गः । तृ॒षा॒णः । च॒क॒मा॒नः । पि॒ब॒तु॒ । दु॒ग्धम् । अं॒शुम् ॥१
सः । आ । गमत् । इन्द्रः । यः । वसूनाम् । चिकेतत् । दातुम् । दामनः । रयीणाम् ।
धन्वऽचरः । न । वंसगः । तृषाणः । चकमानः । पिबतु । दुग्धम् । अंशुम् ॥१
“सः “इन्द्रः अस्मद्यज्ञं प्रति “आ “गमत् आगच्छतु । “यः देवः वसूनां धनानाम् ॥ कर्मणि षष्ठी ॥ वसूनि धनानि “चिकेतत् जानाति प्रदातुम् । स कीदृशः । “दामनः दाता दानमना वा “रयीणां धनानाम् । गमने दृष्टान्तः । “धन्वचरो “न धनुषा सह संचरन् धानुष्क इव “वंसगः वननीयगमनः “तृषाणः अत्यन्तं तृषितः “चकमानः कामयमानश्च सन् “दुग्धम् अभिषुतम् “अंशुं सोमं “पिबतु ॥
आ ते॒ हनू॑ हरिवः शूर॒ शिप्रे॒ रुह॒त्सोमो॒ न पर्व॑तस्य पृ॒ष्ठे ।
अनु॑ त्वा राज॒न्नर्व॑तो॒ न हि॒न्वन् गी॒र्भिर्म॑देम पुरुहूत॒ विश्वे॑ ॥२
आ । ते॒ । हनू॒ इति॑ । ह॒रि॒ऽवः॒ । शू॒र॒ । शिप्रे॒ इति॑ । रुह॑त् । सोमः॑ । न । पर्व॑तस्य । पृ॒ष्ठे ।
अनु॑ । त्वा॒ । रा॒ज॒न् । अर्व॑तः । न । हि॒न्वन् । गीः॒ऽभिः । म॒दे॒म॒ । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ॥२
आ । ते । हनू इति । हरिऽवः । शूर । शिप्रे इति । रुहत् । सोमः । न । पर्वतस्य । पृष्ठे ।
अनु । त्वा । राजन् । अर्वतः । न । हिन्वन् । गीःऽभिः । मदेम । पुरुऽहूत । विश्वे ॥२
हे इन्द्र हे "हरिवः हरिभ्यां तद्वन् “शूर “ते तव “हनू हननसाधने । यद्यप्ययं शिप्रावचनः तथापि पुनः शिप्राभिधानात् गौणोऽवगन्तव्यः । उक्तरूपे संहते वा “शिप्रे “आ “रुहत् आरोहतु प्राप्नोतु “सोमः अस्मद्दत्तः । “पर्वतस्य “पृष्ठे “न रुहत् नारोहति । तत्र न तिष्ठतीत्यर्थः । यद्वा । नशब्दः पुरस्तात्प्रयुक्तोऽप्यत्रोपमार्थः । पर्वतस्य पृष्ठे उपरिप्रदेशे सोमो न । तत्र यथा विस्रम्भेण प्रसरति तद्वत् । हे “राजन् राजमानेन्द्र “त्वा त्वाम् “अनु त्वया सह ॥ तृतीयार्थे ' इत्यनोः कर्मप्रवचनीयत्वम् ॥ “विश्वे वयम् “अर्वतो “न अश्वानिव तृणादिभिः “गीर्भिः स्तुतिभिः “हिन्वन् हिन्वन्तः त्वां प्रीणयन्तः सन्तः “मदेम हृष्येम । हे “पुरुहूत बहुप्रकारं बहुभिर्वाहूतेन्द्र ।।
च॒क्रं न वृ॒त्तं पु॑रुहूत वेपते॒ मनो॑ भि॒या मे॒ अम॑ते॒रिद॑द्रिवः ।
रथा॒दधि॑ त्वा जरि॒ता स॑दावृध कु॒विन्नु स्तो॑षन्मघवन्पुरू॒वसुः॑ ॥३
च॒क्रम् । न । वृ॒त्तम् । पु॒रु॒ऽहू॒त॒ । वे॒प॒ते॒ । मनः॑ । भि॒या । मे॒ । अम॑तेः । इत् । अ॒द्रि॒ऽवः॒ ।
रथा॑त् । अधि॑ । त्वा॒ । ज॒रि॒ता । स॒दा॒ऽवृ॒ध॒ । कु॒वित् । नु । स्तो॒ष॒म् । म॒घ॒ऽव॒न् । पु॒रु॒ऽवसुः॑ ॥३
चक्रम् । न । वृत्तम् । पुरुऽहूत । वेपते । मनः । भिया । मे । अमतेः । इत् । अद्रिऽवः ।
रथात् । अधि । त्वा । जरिता । सदाऽवृध । कुवित् । नु । स्तोषम् । मघऽवन् । पुरुऽवसुः ॥३
हे “पुरुहूत बहुभिराहूत हे “अद्रिवः वज्रवन्निन्द्र “मे “मनः "अमतेरित् दारिद्र्यादस्तोतुर्वा सकाशात् “भिया भीत्या “वेपते कम्पते । “वृत्तं “चक्रं “न भूमौ वर्तमानं चक्रमिव । यस्मादेवं तस्मात् “रथादधि उपरि स्थितं “त्वा त्वां हे “सदावृध सर्वदा वर्धमान हे “मघवन् इन्द्र “जरिता स्तोता “पुरूवसुः अहमृषिः “कुवित् बहु “नु क्षिप्रं “स्तोषत् स्तोष्यति स्तूयात् ॥ अत्र कुविच्छब्दयोगेऽपि आख्यातस्य बहुलग्रहणान्निघातः ॥
ए॒ष ग्रावे॑व जरि॒ता त॑ इं॒द्रेय॑र्ति॒ वाचं॑ बृ॒हदा॑शुषा॒णः ।
प्र स॒व्येन॑ मघव॒न्यंसि॑ रा॒यः प्र द॑क्षि॒णिद्ध॑रिवो॒ मा वि वे॑नः ॥४
ए॒षः । ग्रावा॑ऽइव । ज॒रि॒ता । ते॒ । इ॒न्द्र॒ । इय॑र्ति । वाच॑म् । बृ॒हत् । आ॒शु॒षा॒णः ।
प्र । स॒व्येन॑ । म॒घ॒ऽव॒न् । यंसि॑ । रा॒यः । प्र । द॒क्षि॒णित् । ह॒रि॒ऽवः॒ । मा । वि । वे॒नः॒ ॥४
एषः । ग्रावाऽइव । जरिता । ते । इन्द्र । इयर्ति । वाचम् । बृहत् । आशुषाणः ।
प्र । सव्येन । मघऽवन् । यंसि । रायः । प्र । दक्षिणित् । हरिऽवः । मा । वि । वेनः ॥४
“एषः “जरिता गरिता स्तोता "ग्रावेव अभिषवाश्मेव । स यथा रसं जनयति तद्वत् हे “इन्द्र “ते तुभ्यं “वाचं स्तुतिम् “इयर्ति प्रेरयतीत्यर्थः। “बृहत् महत् प्रभूतं फलम् “आशुषाणः आशु संभक्ता सन् हे “मघवन् 'सव्येन हस्तेन “रायः धनानि “प्र “यंसि प्रयच्छसि । “दक्षिणित् दक्षिणेनापि “प्र यंसीति शेषः । “मा “वि “वेनः विगतकामं मा कार्षीः ॥
वृषा॑ त्वा॒ वृष॑णं वर्धतु॒ द्यौर्वृषा॒ वृष॑भ्यां वहसे॒ हरि॑भ्यां ।
स नो॒ वृषा॒ वृष॑रथः सुशिप्र॒ वृष॑क्रतो॒ वृषा॑ वज्रि॒न्भरे॑ धाः ॥५
वृषा॑ । त्वा॒ । वृष॑णम् । व॒र्ध॒तु॒ । द्यौः । वृषा॑ । वृष॑ऽभ्याम् । व॒ह॒से॒ । हरि॑ऽभ्याम् ।
सः । नः॒ । वृषा॑ । वृष॑ऽरथः । सु॒ऽशि॒प्र॒ । वृष॑क्रतो॒ इति॒ वृष॑ऽक्रतो । वृषा॑ । व॒ज्रि॒न् । भरे॑ । धाः॒ ॥५
वृषा । त्वा । वृषणम् । वर्धतु । द्यौः । वृषा । वृषऽभ्याम् । वहसे । हरिऽभ्याम् ।
सः । नः । वृषा । वृषऽरथः । सुऽशिप्र । वृषक्रतो इति वृषऽक्रतो । वृषा । वज्रिन् । भरे । धाः ॥५
हे इन्द्र “त्वा त्वाम् “वृषा वर्षित्री “द्यौः द्योतयित्री स्तुतिः ॥ द्योततेर्दीव्यतेर्वा स्तुत्यर्थस्येदं रूपम् ।। “वृषणं कामानां वर्षकं त्वां “वर्धतु वर्धयतु । “वृषा त्वं “वृषभ्यां सेक्तृभ्यां “हरिभ्यां “वहसे यज्ञं प्रत्युह्यसे । हे “सुशिप्र शोभनहनो “वृषक्रतो वर्षणकर्मन् हे “वज्रिन् वज्रयुक्तेन्द्र “सः त्वं “वृषा “वृषरथः च सन् “नः अस्मान् “भरे संग्रामे भरणवति यज्ञे वा “धाः धारय ॥॥३॥
यो रोहि॑तौ वा॒जिनौ॑ वा॒जिनी॑वांत्रि॒भिः श॒तैः सच॑माना॒वदि॑ष्ट ।
यूने॒ सम॑स्मै क्षि॒तयो॑ नमंतां श्रु॒तर॑थाय मरुतो दुवो॒या ॥६
यः । रोहि॑तौ । वा॒जिनौ॑ । वा॒जिनी॑ऽवान् । त्रि॒ऽभिः । श॒तैः । सच॑मानौ । अदि॑ष्ट ।
यूने॑ । सम् । अ॒स्मै॒ । क्षि॒तयः॑ । न॒म॒न्ता॒म् । श्रु॒तऽर॑थाय । म॒रु॒तः॒ । दु॒वः॒ऽया ॥६
यः । रोहितौ । वाजिनौ । वाजिनीऽवान् । त्रिऽभिः । शतैः । सचमानौ । अदिष्ट ।
यूने । सम् । अस्मै । क्षितयः । नमन्ताम् । श्रुतऽरथाय । मरुतः । दुवःऽया ॥६
इयं श्रुतरथस्य राज्ञो दानस्तुतिः । “यः राजा “वाजिनीवान् अन्नवान् श्रुतरथः “रोहितौ रोहितवर्णौ वाजिनौ वेजनवन्तावश्वौ “त्रिभिः “शतैः गवां धनानां वा उक्तसंख्याभिः “सचमानौ संगच्छमानौ "अदिष्ट । ददातेः दिशतेर्वा लुङीदं रूपम् ॥ "यूने सर्वत्र मिश्रयित्रे नित्यतरुणाय वा “अस्मै श्रुतरथाय "क्षितयः सर्वाः प्रजाः “दुवोया ॥ तृतीयैकवचनस्य याजादेशः ॥ परिचर्यया “सं “नमन्तां प्रणता भवन्तु । सेवन्तामित्यर्थः । हे "मरुतः इति इन्द्रसहायभूतानां मरुतां संबोधनम् ।। ।। ७ ।।
मण्डल ५ | ||||
---|---|---|---|---|