ऋग्वेदः सूक्तं ५.२२
← सूक्तं ५.२१ | ऋग्वेदः - मण्डल ५ सूक्तं ५.२२ विश्वसामा आत्रेयः। |
सूक्तं ५.२३ → |
दे. अग्निः। अनुष्टुप्, ४ पंक्तिः । |
प्र विश्वसामन्नत्रिवदर्चा पावकशोचिषे ।
यो अध्वरेष्वीड्यो होता मन्द्रतमो विशि ॥१॥
न्यग्निं जातवेदसं दधाता देवमृत्विजम् ।
प्र यज्ञ एत्वानुषगद्या देवव्यचस्तमः ॥२॥
चिकित्विन्मनसं त्वा देवं मर्तास ऊतये ।
वरेण्यस्य तेऽवस इयानासो अमन्महि ॥३॥
अग्ने चिकिद्ध्यस्य न इदं वचः सहस्य ।
तं त्वा सुशिप्र दम्पते स्तोमैर्वर्धन्त्यत्रयो गीर्भिः शुम्भन्त्यत्रयः ॥४॥
सायणभाष्यम्
‘प्र विश्वसामन् ' इति चतुर्ऋचमष्टमं सूक्तम् । आत्रेयो विश्वसामा ऋषिः । चतुर्थी पङ्क्तिः शिष्टा अनुष्टुभः । अग्निर्देवता । तथा चानुक्रान्तं- प्र विश्वसामन्विश्वसाम ' इति । उक्तो विनियोगः प्रातरनुवाकाश्विनशस्त्रयोः ।।
प्र वि॑श्वसामन्नत्रि॒वदर्चा॑ पाव॒कशो॑चिषे ।
यो अ॑ध्व॒रेष्वीड्यो॒ होता॑ म॒न्द्रत॑मो वि॒शि ॥१
प्र । वि॒श्व॒ऽसा॒म॒न् । अ॒त्रि॒ऽवत् । अर्च॑ । पा॒व॒कऽशो॑चिषे ।
यः । अ॒ध्व॒रेषु॑ । ईड्यः॑ । होता॑ । म॒न्द्रऽत॑मः । वि॒शि ॥१
प्र । विश्वऽसामन् । अत्रिऽवत् । अर्च । पावकऽशोचिषे ।
यः । अध्वरेषु । ईड्यः । होता । मन्द्रऽतमः । विशि ॥१
हे "विश्वसामन् । ऋषेः संबोधनमेतत् । त्वम् "अत्रिवत् अत्रिरिव "पावकशोचिषे शोधकदीप्तये तस्मा अग्नये “प्र "अर्च प्रगाय । "यः अग्निः "अध्वरेष्वीड्यः सर्वैर्यज्वभिः स्तुत्यः “होता देवानामाह्वाता "विशि जने "मन्द्रतमः स्तुत्यतमः ।।
न्य१॒॑ग्निं जा॒तवे॑दसं॒ दधा॑ता दे॒वमृ॒त्विज॑म् ।
प्र य॒ज्ञ ए॑त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः ॥२
नि । अ॒ग्निम् । जा॒तऽवे॑दसम् । दधा॑त । दे॒वम् । ऋ॒त्विज॑म् ।
प्र । य॒ज्ञः । ए॒तु॒ । आ॒नु॒षक् । अ॒द्य । दे॒वव्य॑चःऽतमः ॥२
नि । अग्निम् । जातऽवेदसम् । दधात । देवम् । ऋत्विजम् ।
प्र । यज्ञः । एतु । आनुषक् । अद्य । देवव्यचःऽतमः ॥२
हे यजमानाः "जातवेदसं जातप्रज्ञं जातधनं वा “देवं द्योतमानम् "ऋत्विजम् ऋतुयष्टारम् “अग्निं "नि “दधात निधत्त । किंच “देवव्यचस्तमः देवानामाप्ततमः "यज्ञः यज्ञसाधनमस्माभिर्दीयमानं हविः "आनुषक् अनुषक्तं यथा भवति तथा “अद्य अस्मिन्नहनि तमग्निं "प्र “एतु प्रगच्छतु ॥
चि॒कि॒त्विन्म॑नसं त्वा दे॒वं मर्ता॑स ऊ॒तये॑ ।
वरे॑ण्यस्य॒ तेऽव॑स इया॒नासो॑ अमन्महि ॥३
चि॒कि॒त्वित्ऽम॑नसम् । त्वा॒ । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ ।
वरे॑ण्यस्य । ते॒ । अव॑सः । इ॒या॒नासः॑ । अ॒म॒न्म॒हि॒ ॥३
चिकित्वित्ऽमनसम् । त्वा । देवम् । मर्तासः । ऊतये ।
वरेण्यस्य । ते । अवसः । इयानासः । अमन्महि ॥३
हे अग्ने "चिकित्विन्मनसम् । चिकित्वित् जानत् मनो यस्यासौ चिकित्विन्मनाः । तं "देवं “त्वा त्वाम् "इयानासः उपगच्छन्तः "मर्तासः मनुष्या वयम् "ऊतये रक्षणार्थं "वरेण्यस्य संभजनीयस्य “ते तव “अवसः अवसे तर्पणाय “अमन्महि स्तुमः ।।
अग्ने॑ चिकि॒द्ध्य१॒॑स्य न॑ इ॒दं वच॑ः सहस्य ।
तं त्वा॑ सुशिप्र दम्पते॒ स्तोमै॑र्वर्ध॒न्त्यत्र॑यो गी॒र्भिः शु॑म्भ॒न्त्यत्र॑यः ॥४
अग्ने॑ । चि॒कि॒द्धि । अ॒स्य । नः॒ । इ॒दम् । वचः॑ । स॒ह॒स्य॒ ।
तम् । त्वा॒ । सु॒ऽशि॒प्र॒ । द॒म्ऽप॒ते॒ । स्तोमैः॑ । व॒र्ध॒न्ति॒ । अत्र॑यः । गीः॒ऽभिः । शु॒म्भ॒न्ति॒ । अत्र॑यः ॥४
अग्ने । चिकिद्धि । अस्य । नः । इदम् । वचः । सहस्य ।
तम् । त्वा । सुऽशिप्र । दम्ऽपते । स्तोमैः । वर्धन्ति । अत्रयः । गीःऽभिः । शुम्भन्ति । अत्रयः ॥४
हे "अग्ने "सहस्य सहसः बलस्य पुत्र "नः अस्मदीयम् "अस्य “इदं परिचरणमिदं "वचः स्तोत्रं च “चिकिद्धि जानीहि । हे "सुशिप्र । शोभने शिप्रे हनू नासिके वा यस्यासौ सुशिप्रः । तस्य संबोधनम् । सुशिप्र सुहनो "दम्पते गृहपते “तं त्वाम् "अत्रयः अत्रिपुत्राः "स्तोमैः स्तोत्रैः "वर्धन्ति वर्धयन्ति । “अत्रयः “गीर्भिः “शुम्भन्ति अलंकुर्वन्ति ॥ ॥ १४ ॥
मण्डल ५ | ||||
---|---|---|---|---|