ऋग्वेदः सूक्तं ५.७१

(ऋग्वेद: सूक्तं ५.७१ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ५.७० ऋग्वेदः - मण्डल ५
सूक्तं ५.७१
बाहुवृक्त आत्रेयः
सूक्तं ५.७२ →
दे. मित्रावरुणौ। गायत्री ।


आ नो गन्तं रिशादसा वरुण मित्र बर्हणा ।
उपेमं चारुमध्वरम् ॥१॥
विश्वस्य हि प्रचेतसा वरुण मित्र राजथः ।
ईशाना पिप्यतं धियः ॥२॥
उप नः सुतमा गतं वरुण मित्र दाशुषः ।
अस्य सोमस्य पीतये ॥३॥


सायणभाष्यम्

‘ आ नो गन्तम् ' इति तृचात्मकं पञ्चदशं सूक्तं बाहुवृक्तस्यात्रेयस्यार्षं गायत्रं मैत्रावरुणम् । । ' आ नस्तृचं बाहुवृक्तः ' इत्यनुक्रमणिका । उक्तः सूक्तविनियोगः । अग्निष्टोमे प्रातःसवने मैत्रावरुणशस्त्रे अयमनुरूपस्तृचः । सूत्रितं च--- आ नो मित्रावरुणा नो गन्तं रिशादसा ( आश्व. श्रौ. ५. १० ) इति ॥


आ नो॑ गन्तं रिशादसा॒ वरु॑ण॒ मित्र॑ ब॒र्हणा॑ ।

उपे॒मं चारु॑मध्व॒रम् ॥१

आ । नः॒ । ग॒न्त॒म् । रि॒शा॒द॒सा॒ । वरु॑ण । मित्र॑ । ब॒र्हणा॑ ।

उप॑ । इ॒मम् । चारु॑म् । अ॒ध्व॒रम् ॥१

आ । नः । गन्तम् । रिशादसा । वरुण । मित्र । बर्हणा ।

उप । इमम् । चारुम् । अध्वरम् ॥१

हे “वरुण हे “मित्र हे “रिशादसा शत्रूणां प्रेरकौ युवां “नः अस्माकम् “इमं "चारुं चरणीयम् “अध्वरम् अहिंसकं यज्ञम् "उप “आ “गन्तम् उपागच्छतम् । कीदृशौ । “बर्हणा परिबर्हणौ निबर्हणौ हन्तारौ शत्रूणाम् ॥


विश्व॑स्य॒ हि प्र॑चेतसा॒ वरु॑ण॒ मित्र॒ राज॑थः ।

ई॒शा॒ना पि॑प्यतं॒ धिय॑ः ॥२

विश्व॑स्य । हि । प्र॒ऽचे॒त॒सा॒ । वरु॑ण । मित्र॑ । राज॑थः ।

ई॒शा॒ना । पि॒प्य॒त॒म् । धियः॑ ॥२

विश्वस्य । हि । प्रऽचेतसा । वरुण । मित्र । राजथः ।

ईशाना । पिप्यतम् । धियः ॥२

हे “मित्र हे “वरुण “प्रचेतसा प्रकृष्टज्ञानौ युवां “विश्वस्य “राजथः सर्वस्य स्वामिनौ भवथः । “हि इति प्रसिद्धौ । हे “ईशाना अस्माकमीश्वरौ युवां “धियः अस्मदीयानि कर्माणि “पिप्यतं प्याययतं फलैः॥


उप॑ नः सु॒तमा ग॑तं॒ वरु॑ण॒ मित्र॑ दा॒शुष॑ः ।

अ॒स्य सोम॑स्य पी॒तये॑ ॥३

उप॑ । नः॒ । सु॒तम् । आ । ग॒त॒म् । वरु॑ण । मित्र॑ । दा॒शुषः॑ ।

अ॒स्य । सोम॑स्य । पी॒तये॑ ॥३

उप । नः । सुतम् । आ । गतम् । वरुण । मित्र । दाशुषः ।

अस्य । सोमस्य । पीतये ॥३

“नः अस्माकं “सुतम् अभिषुतं सोमं प्रति हे “वरुण हे "मित्र युवाम् “उप “आ “गतम् उपागच्छतम् । “दाशुषः हविर्दातुर्मम “अस्य “सोमस्य “पीतये पानाय ।। ॥ ९ ॥


टिप्पणी

8.8.17*;

मित्रावरुणाव् अब्रवीद् युवं न इमं यज्ञस्याङ्गम् अनुसमाहरतं मैत्रावरुणीयाम् तथेत्य् अब्रूताम् तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम् तौ ह्य् अस्यैतद् यज्ञस्याङ्गम् अनुसमाहरतां मैत्रावरुणीयाम् तस्मान् मैत्रावरुणः प्रातःसवने मैत्रावरुणानि शंसति। ...आ नो मित्रावरुणा [ऋ. ३.६२.१६] आ नो गन्तं रिशादसा इति मैत्रावरुणस्य स्तोत्रियानुरूपौ - गोब्रा.2.3.13;

आश्वश्रौ. 5. 10.28.

आ नो मित्रावरुणा नो गन्तमिति स्तोत्रियानुरूपौ मैत्रावरुणस्य - शांश्रौ. 7. 11.2;

काव्येभिरदाभ्या नो गन्तमिति तृचौ - शांश्रौ 12.2. 15.


मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.७१&oldid=403737" इत्यस्माद् प्रतिप्राप्तम्