ऋग्वेदः सूक्तं ५.८५

(ऋग्वेद: सूक्तं ५.८५ इत्यस्मात् पुनर्निर्दिष्टम्)
← सूक्तं ५.८४ ऋग्वेदः - मण्डल ५
सूक्तं ५.८५
भौमोऽत्रिः।
सूक्तं ५.८६ →
दे. वरुणः। त्रिष्टुप् ।

प्र सम्राजे बृहदर्चा गभीरं ब्रह्म प्रियं वरुणाय श्रुताय ।
वि यो जघान शमितेव चर्मोपस्तिरे पृथिवीं सूर्याय ॥१॥
वनेषु व्यन्तरिक्षं ततान वाजमर्वत्सु पय उस्रियासु ।
हृत्सु क्रतुं वरुणो अप्स्वग्निं दिवि सूर्यमदधात्सोममद्रौ ॥२॥
नीचीनबारं वरुणः कवन्धं प्र ससर्ज रोदसी अन्तरिक्षम् ।
तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर्व्युनत्ति भूम ॥३॥
उनत्ति भूमिं पृथिवीमुत द्यां यदा दुग्धं वरुणो वष्ट्यादित् ।
समभ्रेण वसत पर्वतासस्तविषीयन्तः श्रथयन्त वीराः ॥४॥
इमामू ष्वासुरस्य श्रुतस्य महीं मायां वरुणस्य प्र वोचम् ।
मानेनेव तस्थिवाँ अन्तरिक्षे वि यो ममे पृथिवीं सूर्येण ॥५॥
इमामू नु कवितमस्य मायां महीं देवस्य नकिरा दधर्ष ।
एकं यदुद्ना न पृणन्त्येनीरासिञ्चन्तीरवनयः समुद्रम् ॥६॥
अर्यम्यं वरुण मित्र्यं वा सखायं वा सदमिद्भ्रातरं वा ।
वेशं वा नित्यं वरुणारणं वा यत्सीमागश्चकृमा शिश्रथस्तत् ॥७॥
कितवासो यद्रिरिपुर्न दीवि यद्वा घा सत्यमुत यन्न विद्म ।
सर्वा ता वि ष्य शिथिरेव देवाधा ते स्याम वरुण प्रियासः ॥८॥

सायणभाष्यम्

‘ प्र सम्राजे ' इत्यष्टर्चं त्रयोदशं सूक्तमात्रेयं त्रैष्टुभं वारुणम् । अनुक्रम्यते च- प्र सम्राजेऽष्टौ वारुणम्' इति । विनियोगो लैङ्गिकः ॥


प्र स॒म्राजे॑ बृ॒हद॑र्चा गभी॒रं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑ ।

वि यो ज॒घान॑ शमि॒तेव॒ चर्मो॑प॒स्तिरे॑ पृथि॒वीं सूर्या॑य ॥१

प्र । स॒म्ऽराजे॑ । बृ॒हत् । अ॒र्च॒ । ग॒भी॒रम् । ब्रह्म॑ । प्रि॒यम् । वरु॑णाय । श्रु॒ताय॑ ।

वि । यः । ज॒घान॑ । श॒मि॒ताऽइ॑व । चर्म॑ । उ॒प॒ऽस्तिरे॑ । पृ॒थि॒वीम् । सूर्या॑य ॥१

प्र । सम्ऽराजे । बृहत् । अर्च। गभीरम् । ब्रह्म । प्रियम् । वरुणाय । श्रुताय ।

वि। यः । जघाने । शमिताऽइव । चर्म । उपऽस्तिरे । पृथिवीम् । सूर्याय ।। १ ।।

अत्रिः स्वात्मानं संबोध्य ब्रवीति । हे अत्रे त्वं “सम्राजे सम्यक् राजमानायेश्वराय “श्रुताय सर्वत्र श्रूयमाणाय “वरुणाय उपद्रवस्य निवारकाय जनानामावरकाय चैतन्नामकाय देवाय "बृहत् प्रभूतं “गभीरं दुरवगाहं बह्वर्थोपेतं "प्रियं प्रियभूतं “ब्रह्म स्तोत्ररूपं कर्म “प्र “अर्च प्रार्चय । प्रोञ्चारयेत्यर्थः । “यः वरुणः “शमितेव “चर्म शमिता पशुविशसनकर्ता यथोपस्तरणाय चर्म हन्ति तद्वत् “पृथिवीं विस्तीर्णमन्तरिक्षम् ॥ ‘ तृतीयस्यां पृथिव्याम् ' (तै. सं. १. २. १२. १ ) इति श्रुतेः अन्तरिक्षस्यापि पृथिवीशब्दवाच्यत्वम् ॥ "सूर्याय सूर्यस्य “उपस्तिरे आस्तरणाय "वि “जघान विस्तारयामास । विस्तृतं हि व्यवहारयोग्यं भवति तस्मात् व्यवहाराय अन्तरिक्षं विस्तारितवान् । ‘ उरुं हि राजा वरुणश्चकार' (ऋ. सं. १. २४. ८) इति ह्युक्तम् ।।


वने॑षु॒ व्य१॒॑न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया॑सु ।

हृ॒त्सु क्रतुं॒ वरु॑णो अ॒प्स्व१॒॑ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ॑ ॥२

वने॑षु । वि । अ॒न्तरि॑क्षम् । त॒ता॒न॒ । वाज॑म् । अर्व॑त्ऽसु । पयः॑ । उ॒स्रिया॑सु ।

हृ॒त्ऽसु । क्रतु॑म् । वरु॑णः । अ॒प्ऽसु । अ॒ग्निम् । दि॒वि । सूर्य॑म् । अ॒द॒धा॒त् । सोम॑म् । अद्रौ॑ ॥२

वनेषु । वि। अन्तरिक्षम् । ततान । वाजम् । अर्वत्सु । पयः । उस्रियासु ।

हृत्ऽसु । क्रतुम्। वरुणः । अप्ऽसु । अग्निम् । दिवि । सूर्यम् । अदधात् । सोमम् । अद्रौ ॥ २ ॥

अयं वरुणः “वनेषु वृक्षाग्रेषु “अन्तरिक्षं "वि “ततान विस्तारितवान् । तथा वाजसनेयकं - ‘ वनेषु हीदमेषु वृक्षाग्रेष्वन्तरिक्षं विततं तस्मादाह वनेषु व्यन्तरिक्षं ततान' इति । “वाजं बलम् अर्वत्सु अश्वेषु वि ततान । “पयः क्षीरम् "उस्रियासु गोषु । उस्रियेति गोनाम । उत्स्राविणोऽस्यां भोगा इति तद्व्युत्पत्तिः । "हृत्सु हृदयेषु “क्रतुं कर्मसंकल्पम् । यद्धि मनसा ध्यायति तत्कर्मणा करोति । “अप्सु उदकेषु “अग्निं वैद्युतमौर्वं वा । सर्वत्र वि ततानेति संबन्धः । किंच “दिवि द्युलोके "सूर्यम् “अदधात् स्थापितवान् । “सोमं च "अद्रौ पर्वतेऽदधात् ॥


नी॒चीन॑बारं॒ वरु॑ण॒ः कव॑न्धं॒ प्र स॑सर्ज॒ रोद॑सी अ॒न्तरि॑क्षम् ।

तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ॥३

नी॒चीन॑ऽबारम् । वरु॑णः । कव॑न्धम् । प्र । स॒स॒र्ज॒ । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ।

तेन॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ । यव॑म् । न । वृ॒ष्टिः । वि । उ॒न॒त्ति॒ । भूम॑ ॥३

नीचीनऽबारम् । वरुणः । कवन्धम् । प्र । ससर्ज । रोदसी इति । अन्तरिक्षम् ।

तेन । विश्वस्य । भुवनस्य । राजा । यवम् । न । वृष्टिः । वि। उनत्ति । भूम ॥ ३ ॥

“नीचीनबारम् अधोमुखबिलं “प्र ससर्ज कृतवान् । कम् । “कवन्धम् । कवनमुदकम् । “तत् धीयतेऽत्रेति कवन्धो मेघः । तं तथाकरोत् । अथवा कवन्धमुदकम् । तदुदकं नीचीनबारं नीचीननिर्गमनबिलं चकार । मेघं विदार्य उदकमधोमुखं चकारेत्यर्थः । किं प्रतीत्युच्यते । “रोदसी द्यावापृथिव्यौ “अन्तरिक्षं च प्रति । लोकत्रयहितायेत्यर्थः । “तेन उदकेन “विश्वस्य सर्वस्य “भुवनस्य भूतजातस्य “राजा स्वामी “वरुणः "भूम भूमिं “व्युनत्ति क्लेदयति । “वृष्टिः सेक्ता पुमान् “यवं “न यवमिव यवान् यथा प्ररोहाय सर्वत्र प्रसारयति तद्वत् भूमिं सर्वत्रोनत्ति । अथवा वृष्टिर्वरुण इति संबन्धः । वर्षकः पर्जन्य इत्यर्थः । अस्मिन् पक्षे यवं पुरुष इवेति पुरुषशब्दोऽध्याहार्यः । अत्र ‘नीचीनबारं वरुणः कवन्धम् ' ( निरु. १०. ४ ) इत्यादिनिरुक्तं द्रष्टव्यम् ॥


उ॒नत्ति॒ भूमिं॑ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् ।

सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यन्तः॑ श्रथयन्त वी॒राः ॥४

उ॒नत्ति॑ । भूमि॑म् । पृ॒थि॒वीम् । उ॒त । द्याम् । य॒दा । दु॒ग्धम् । वरु॑णः । वष्टि॑ । आत् । इत् ।

सम् । अ॒भ्रेण॑ । व॒स॒त॒ । पर्व॑तासः । त॒वि॒षी॒ऽयन्तः॑ । श्र॒थ॒य॒न्त॒ । वी॒राः ॥४

उनत्ति । भूमिम् । पृथिवीम् । उत । द्याम् । यदा । दुग्धम् । वरुणः । वष्टि । आत् । इत् ।

सम् । अभ्रेण । वसत । पर्वतासः । तविषीऽयन्तः । श्रथयन्त । वीराः ॥ ४ ॥

“वरुणः “भूमिं “पृथिवीं प्रथितमन्तरिक्षम् । अन्तरिक्षस्यापि पृथिवीशब्दवाच्यत्वं पूर्वमुक्तम् । “उत अपि च “द्यां द्युलोकम् "उनत्ति क्लेदयति । “यदा अयं “दुग्धम् उदकपूरणं “वष्टि कामयते । अथवा दुग्धमुदकम् । तेन तत्कार्यमोषध्यादिकं लक्ष्यते । औषध्यादयः प्रवर्धन्तामिति यदा कामयते "आदित् अनन्तरमेव “सं “वसत समाच्छादयन्ति । के। "पर्वतासः पर्ववन्तः। अद्रयः । केन । “अभ्रेण मेघेन । किंच "तविषीयन्तः बलमिच्छन्तः “वीराः विशेषेण वृष्टेः प्रेरयितारो मरुतः “श्रथयन्त श्रथयन्ति मेघान् ।।


इ॒मामू॒ ष्वा॑सु॒रस्य॑ श्रु॒तस्य॑ म॒हीं मा॒यां वरु॑णस्य॒ प्र वो॑चम् ।

माने॑नेव तस्थि॒वाँ अ॒न्तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये॑ण ॥५

इ॒माम् । ऊं॒ इति॑ । सु । आ॒सु॒रस्य॑ । श्रु॒तस्य॑ । म॒हीम् । मा॒याम् । वरु॑णस्य । प्र । वो॒च॒म् ।

माने॑नऽइव । त॒स्थि॒ऽवान् । अ॒न्तरि॑क्षे । वि । यः । म॒मे । पृ॒थि॒वीम् । सूर्ये॑ण ॥५

इमाम् । ॐ इति । सु । आसुरस्य । श्रुतस्य । महीम् । मायाम् । वरुणस्य । प्र । वोचम् ।

मानेनऽइव । तस्थिवान् । अन्तरिक्षे । वि । यः । ममे । पृथिवीम् । सूर्येण ।। ५ ।।

“आसुरस्य असुरसंबन्धिनः । असुराणामस्य च वध्यघातकभावः संबन्धः । असुरहन्तुरित्यर्थः । अथवा असुरो मेघः । प्राणदानात् तत्संबन्धिनः “श्रुतस्य विश्रुतस्य “महीं महतीम् "इमां “मायां प्रज्ञां “प्र “वोचं प्रब्रवीमि । कैषा मायेति सोच्यते । “यः वरुणः अन्तरिक्षे “तस्थिवान् तिष्ठन् “मानेनेव दण्डेनेव “सूर्येण “पृथिवीम् अन्तरिक्षं "वि "ममे परिच्छिनत्ति तस्यैषा माया ॥ ॥ ३० ॥


इ॒मामू॒ नु क॒वित॑मस्य मा॒यां म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष ।

एकं॒ यदु॒द्ना न पृ॒णन्त्येनी॑रासि॒ञ्चन्ती॑र॒वन॑यः समु॒द्रम् ॥६

इ॒माम् । ऊं॒ इति॑ । नु । क॒विऽत॑मस्य । मा॒याम् । म॒हीम् । दे॒वस्य॑ । नकिः॑ । आ । द॒ध॒र्ष॒ ।

एक॑म् । यत् । उ॒द्ना । न । पृ॒णन्ति॑ । एनीः॑ । आ॒ऽसि॒ञ्चन्तीः॑ । अ॒वन॑यः । स॒मु॒द्रम् ॥६

इमाम् । ॐ इति । नु । कविऽतमस्य । मायाम् । महीम् । देवस्य । नकिः । आ । दधर्ष ।

एकम् । यत् । उद्ना । न । पृणन्ति । एनीः । आऽसिञ्चन्तीः । अवनयः । समुद्रम् ॥ ६॥

“कवितमस्य प्रकृष्टप्रज्ञस्य “देवस्य द्योतमानस्य स्तुत्यस्य वा वरुणस्य “इमां सर्वप्रसिद्धां “महीं महतीं "मायां प्रज्ञां "नकिः नैव “आ “दधर्ष न हिनस्ति कश्चिदपि । “ऊ “नु इति पूरणौ। “यत् यस्मात् “एकं “समुद्रम् “उद्ना उदकेन “न “पृणन्ति न पूरयन्ति । काः। “एनीः एन्यः शुभ्रा गमनशीला वा “आसिञ्चन्तीः उदकमासेचयन्त्यः “अवनयः नद्यः । बह्व्यो नद्यः सर्वदोदकेन पूरयन्त्योऽपि नैकमपि समुद्रं पूरयन्तीति । इदं वरुणस्य महत् कर्म इति । अत्र अन्तरिक्षविस्तारादि समुद्रापूरणपर्यन्तं कर्म परमेश्वरस्यैवोचितं न वरुणस्येति न वाच्यं तस्य वरुणादिरूपावस्थानात् । एष ब्रह्मेत्यादिश्रुतेः ॥


अ॒र्य॒म्यं॑ वरुण मि॒त्र्यं॑ वा॒ सखा॑यं वा॒ सद॒मिद्भ्रात॑रं वा ।

वे॒शं वा॒ नित्यं॑ वरु॒णार॑णं वा॒ यत्सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ॥७

अ॒र्य॒म्य॑म् । व॒रु॒ण॒ । मि॒त्र्य॑म् । वा॒ । सखा॑यम् । वा॒ । सद॑म् । इत् । भ्रात॑रम् । वा॒ ।

वे॒शम् । वा॒ । नित्य॑म् । व॒रु॒ण॒ । अर॑णम् । वा॒ । यत् । सी॒म् । आगः॑ । च॒कृ॒म । शि॒श्रथः॑ । तत् ॥७

अर्यम्यम् । वरुण । मित्र्यम् । वा। सखायम् । वा। सदम् । इत् । भ्रातरम् । वा।

वेशम् । वा । नित्यम् । वरुण । अरणम् । वा ।। यत् । सीम् । आगः । चकृम । शिश्रथः । तत् ॥ ७ ॥

हे “वरुण “अर्यम्यम् । अर्यमैवार्यभ्यः ॥ स्वार्थिको यत् । अर्तेरिदं रूपम् ॥ प्रदातारमित्यर्थः । अथवा ईरणात् मननात् च शास्तीत्यर्यमा गुरुः । तम् । “वा अथवा “मित्र्यम् ॥ ' ञिमिदा स्नेहने ' इत्यस्मात् मित्रम् । स्वार्थिको यत् ॥ अनुरक्तमित्यर्थः । “वा अथवा "सखायं समानख्यानं “सदमित् सर्वदैव “भ्रातरं “वा । “नित्यं निरन्तरं "वेशं निकटनिकेतनवर्तिनं “वा । “अरणं “वा अशब्दमित्यर्थः । अथवा अरणमदातारं वा नित्यं निरन्तरम् । एतान् प्रति "यत्सीं यदेतत् “आगः अपराधं “चकृम “तत् "शिश्रथः अस्मत्तो विनाशय ॥


कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म ।

सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाधा॑ ते स्याम वरुण प्रि॒यासः॑ ॥८

कि॒त॒वासः॑ । यत् । रि॒रि॒पुः । न । दी॒वि । यत् । वा॒ । घ॒ । स॒त्यम् । उ॒त । यत् । न । वि॒द्म ।

सर्वा॑ । ता । वि । स्य॒ । शि॒थि॒राऽइ॑व । दे॒व॒ । अध॑ । ते॒ । स्या॒म॒ । व॒रु॒ण॒ । प्रि॒यासः॑ ॥८

कितवासः। यत् । रिरिपुः । न । दीवि । यत्। वा। घ। सत्यम् । उत । यत् । न । विद्म।

सर्वा । ता । वि । स्य । शिथिराऽइव । देव । अध । ते । स्याम । वरुण । प्रियासः ॥ ८॥

"कितवासः कितवा द्यूतकृतः । किं तवास्ति सर्वं मया जितमिति वदतीति कितवः । ते “दीवि “न देवने द्यूते यथा "यद्रिरिपुः लेपयन्ति पापमारोपयन्ति तथास्मासु द्वेष्टारो मयि त्वमेतत् पापमकरोः इत्याक्षिपन्ति । अत्र पुरस्तादुपचारोऽपि नकार उपमार्थीयः । “वा अथवा । “घ इति पूरणः । “यत् पापं "सत्यम् आरोपमन्तरेण कृतवन्तः स्मः। “उत अपि च “यत् कृतं पापं “न विद्म न जानीमः “ता तानि “सर्वा सर्वाणि “शिथिरेव शिथिलानीव शिथिलबन्धनानि फलानीव “वि “ष्य विमोचय ॥ स्यतिरुपसृष्टो विमोचने ॥ हे “देव "अध अनन्तरं “ते तव “प्रियासः प्रियाः “स्याम भवेम ॥ ॥ ३१ ॥

मण्डल ५

सूक्तं ५.१

सूक्तं ५.२

सूक्तं ५.३

सूक्तं ५.४

सूक्तं ५.५

सूक्तं ५.६

सूक्तं ५.७

सूक्तं ५.८

सूक्तं ५.९

सूक्तं ५.१०

सूक्तं ५.११

सूक्तं ५.१२

सूक्तं ५.१३

सूक्तं ५.१४

सूक्तं ५.१५

सूक्तं ५.१६

सूक्तं ५.१७

सूक्तं ५.१८

सूक्तं ५.१९

सूक्तं ५.२०

सूक्तं ५.२१

सूक्तं ५.२२

सूक्तं ५.२३

सूक्तं ५.२४

सूक्तं ५.२५

सूक्तं ५.२६

सूक्तं ५.२७

सूक्तं ५.२८

सूक्तं ५.२९

सूक्तं ५.३०

सूक्तं ५.३१

सूक्तं ५.३२

सूक्तं ५.३३

सूक्तं ५.३४

सूक्तं ५.३५

सूक्तं ५.३६

सूक्तं ५.३७

सूक्तं ५.३८

सूक्तं ५.३९

सूक्तं ५.४०

सूक्तं ५.४१

सूक्तं ५.४२

सूक्तं ५.४३

सूक्तं ५.४४

सूक्तं ५.४५

सूक्तं ५.४६

सूक्तं ५.४७

सूक्तं ५.४८

सूक्तं ५.४९

सूक्तं ५.५०

सूक्तं ५.५१

सूक्तं ५.५२

सूक्तं ५.५३

सूक्तं ५.५४

सूक्तं ५.५५

सूक्तं ५.५६

सूक्तं ५.५७

सूक्तं ५.५८

सूक्तं ५.५९

सूक्तं ५.६०

सूक्तं ५.६१

सूक्तं ५.६२

सूक्तं ५.६३

सूक्तं ५.६४

सूक्तं ५.६५

सूक्तं ५.६६

सूक्तं ५.६७

सूक्तं ५.६८

सूक्तं ५.६९

सूक्तं ५.७०

सूक्तं ५.७१

सूक्तं ५.७२

सूक्तं ५.७३

सूक्तं ५.७४

सूक्तं ५.७५

सूक्तं ५.७६

सूक्तं ५.७७

सूक्तं ५.७८

सूक्तं ५.७९

सूक्तं ५.८०

सूक्तं ५.८१

सूक्तं ५.८२

सूक्तं ५.८३

सूक्तं ५.८४

सूक्तं ५.८५

सूक्तं ५.८६

सूक्तं ५.८७

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_५.८५&oldid=209192" इत्यस्माद् प्रतिप्राप्तम्