रामायणम्/युद्धकाण्डम्/सर्गः १०४
← सर्गः १०३ | रामायणम् सर्गः १०४ वाल्मीकिः |
सर्गः १०५ → |
तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः ।
सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी ।। ६.१०४.१ ।।
सिंहशार्दूलवान् शैलः सञ्चचाल चलद्रुमः ।
बभूव चातिक्षुभितः समुद्रः सरितां पतिः ।। ६.१०४.२ ।।
खगाश्च खरनिर्घोषा गगने परुषा घनाः ।
औत्पातिकानि नर्दन्तः समन्तात् परिचक्रमुः ।। ६.१०४.३ ।।
रामं दृष्ट्वा सुसङ्क्रुद्धमुत्पातांश्च सुदारुणान् ।
वित्रेसुः सर्वभूतानि रावणस्याभवद्भयेम् ।। ६.१०४.४ ।।
विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः ।
ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः ।। ६.१०४.५ ।।
ददृशुस्ते महायुद्धं लोकसंवर्तसंस्थितम् ।
नानाप्रहरणैर्भीमैः शूरयोः सम्प्रयुद्ध्यतोः ।। ६.१०४.६ ।।
ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः ।
प्रेक्षमाणा महद्युद्धं वाक्यं भक्त्या प्रहृष्टवत् ।। ६.१०४.७ ।।
दशग्रीवं जयेत्याहुरसुराः समवस्थिताः ।
देवा राममथोचुस्ते त्वं जयेति पुनःपुनः ।। ६.१०४.८ ।।
एतस्मिन्नन्तरे क्रोधाद्राघवस्य स रावणः ।
प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत् ।। ६.१०४.९ ।।
वज्रसारं महानादं सर्वशत्रुनिबर्हणम् ।
शैलशृङ्गनिभैः कूटैश्चितं दृष्टिभयावहम् ।। ६.१०४.१० ।।
सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम् ।
अतिरौद्रमनासाद्यं कालेनापि दुरासदम् ।। ६.१०४.११ ।।
त्रासनं सर्वभूतानां दारणं भेदनं तदा ।
प्रदीप्तमिव रोषेण शूलं जग्राह रावणः ।। ६.१०४.१२ ।।
तच्छूलं परमक्रुद्धो मध्ये जग्राह वीर्यवान् ।
अनेकैः समरे शूरै राक्षसैः परिवारितः ।। ६.१०४.१३ ।।
समुद्यम्य महाकायो ननाद युधि भैरवम् ।
संरक्तनयनो रोषात् स्वसैन्यमभिहर्षयन् ।। ६.१०४.१४ ।।
पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा ।
प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः ।। ६.१०४.१५ ।।
अतिनादस्य नादेन तेन तस्य दुरात्मनः ।
सर्वभूतानि वित्रेसुः सागरश्च प्रचुक्षुभे ।। ६.१०४.१६ ।।
स गृहीत्वा महावीर्यः शूलं तद्रावणो महत् ।
विनद्य सुमहानादं रामं परुषमब्रवीत् ।। ६.१०४.१७ ।।
शूलो ऽयं वज्रसारस्ते राम रोषान्मयोद्यतः ।
तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति ।। ६.१०४.१८ ।।
रक्षसामद्य शूराणां निहतानां चमूमुखे ।
त्वां निहत्य रणश्लाघिन् करोमि तरसा समम् ।
तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव ।। ६.१०४.१९ ।।
एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः ।। ६.१०४.२० ।।
तद्रावणकरान्मुक्तं विद्युज्ज्वालासमाकुलम् ।
अष्टघण्टं महानादं वियद्गतमशोभत ।। ६.१०४.२१ ।।
तच्छूलं राघवो दृष्ट्वा ज्वलन्तं घोरदर्शनम् ।
ससर्ज विशिखान् रामश्चापमायम्य वीर्यवान् ।। ६.१०४.२२ ।।
आपतन्तं शरौघेण वारयामास राघवः ।
उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः ।। ६.१०४.२३ ।।
निर्ददाह स तान् बाणान् रामकार्मुकनिस्सृतान् ।
रावणस्य महाशूलः पतङ्गानिव पावकः ।। ६.१०४.२४ ।।
तान् दृष्ट्वा भस्मसाद्भूतान् शूल संस्पर्शचूर्णितान् ।
सायकानन्तरिक्षस्थान् राघवः क्रोधमाहरत् ।। ६.१०४.२५ ।।
स तां मातलिना ऽ ऽनीतां शक्तिं वासवनिर्मिताम् ।
जग्राह परमक्रुद्धो राघवो रघुनन्दनः ।। ६.१०४.२६ ।।
सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना ।
नभः प्रज्वालयामास युगान्तोल्केव सप्रभा ।। ६.१०४.२७ ।।
सा क्षिप्ता राक्षसेन्द्रस्य तस्मिन् शूले पपात ह ।
भिन्नः शक्त्या महान् शूलो निपपात हतद्युतिः ।। ६.१०४.२८ ।।
निर्बिभेद ततो बाणैर्हयानस्य महाजवान् ।
रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैः शितैः शरैः ।। ६.१०४.२९ ।।
निर्बिभेदोरसि ततो रावणं निशितैः शरैः ।
राघवः परमायत्तो ललाटे पत्रिभिस्त्रिभिः ।। ६.१०४.३० ।।
स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः ।
राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ ।। ६.१०४.३१ ।।
स रामबाणैरभिविद्धगात्रो निशाचरेन्द्रः क्षतजार्द्रगात्रः ।
जगाम खेदं च समाजमध्ये क्रोधं च चक्रे सुभृशं तदानीम् ।। ६.१०४.३२ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे चतुरुत्तरशततमः सर्गः ।। १०४ ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।