रामायणम्/युद्धकाण्डम्/सर्गः ७३
← सर्गः ७२ | रामायणम् सर्गः ७३ वाल्मीकिः |
सर्गः ७४ → |
ततो हतान् राक्षसपुङ्गवांस्तान् देवान्तकादित्रिशिरोतिकायान् ।
रक्षोगणास्तत्र हतावशिष्टास्ते रावणाय त्वरितं शशंसुः ।। ६.७३.१ ।।
ततो हतांस्तान् सहसा निशम्य राजा मुमोहाश्रुपरिप्लुताक्षः ।
पुत्रक्षयं भ्रातृवधं च घोरं विचिन्त्य राजा विपुलं प्रदध्यौ ।। ६.७३.२ ।।
ततस्तु राजानमुदीक्ष्य दीनं शोकार्णवे सम्परिपुप्लुवानम् ।
रथर्षभो राक्षसराजसूनुस्तमिन्द्रजिद्वाक्यमिदं बभाषे ।। ६.७३.३ ।।
न तात मोहं प्रतिगन्तुमर्हसि यत्रेन्द्रजिज्जीवति राक्षसेन्द्र ।
नेन्द्रारिबाणाभिहतो हि कश्चित् प्राणान् समर्थः समरे ऽभिपातुम् ।। ६.७३.४ ।।
पश्याद्य रामं सह लक्ष्मणेन मद्बाणनिर्भिन्नविकीर्णदेहम् ।
गतायुषं भूमितले शयानं शितैः शरैराचितसर्वगात्रम् ।। ६.७३.५ ।।
इमां प्रतिज्ञां शृणु शक्रशत्रोः सुनिश्चितां पौरुषदैवयुक्ताम् ।
अद्यैव रामं सह लक्ष्मणेन सन्तर्पयिष्यामि शरैरमोघैः ।। ६.७३.६ ।।
अद्येन्द्रवैवस्वतविष्णुमित्रसाध्याश्विवैश्वानरचन्द्रसूर्याः ।
द्रक्ष्यन्तु मे विक्रममप्रमेयं विष्णोरिवोग्रं बलियज्ञवाटे ।। ६.७३.७ ।।
स एवमुक्त्वा त्रिदशेन्द्रशत्रुरापृच्छ्य राजानमदीनसत्त्वः ।
समारुरोहानिलतुल्यवेगं रथं खरश्रेष्ठसमाधियुक्तम् ।। ६.७३.८ ।।
तमास्थाय महातेजा रथं हरिरथोपमम् ।
जगाम सहसा तत्र यत्र युद्धमरिन्दमः ।। ६.७३.९ ।।
तं प्रस्थितं महात्मानमनुजग्मुर्महाबलाः ।
संहर्षमाणा बहवो धनुःप्रवरपाणयः ।। ६.७३.१० ।।
गजस्कन्धगताः केचित् केचित् प्रवरवाजिभिः ।
प्रासमुद्गरनिस्त्रिंशपरश्वधगदाधराः ।। ६.७३.११ ।।
स शङ्खनिनदैः पूर्णैर्भेरीणां चापि निस्वनैः ।
जगाम त्रिदशेन्द्रारिः स्तूयमानो निशाचरैः ।। ६.७३.१२ ।।
स शङ्खशशिवर्णेन छत्रेण रिपुसूदनः ।
रराज प्रतिपूर्णेन नभश्चान्द्रमसा यथा ।। ६.७३.१३ ।।
अवीज्यत ततो वीरो हैमैर्हेमविभूषितैः ।
चारुचामरमुख्यैश्च मुख्यः सर्वधनुष्मताम् ।। ६.७३.१४ ।।
ततस्त्विन्द्रजिता लङ्का सूर्यप्रतिमतेजसा ।
रराजा प्रतिवीरेण द्यौरिवार्केण भास्वता ।। ६.७३.१५ ।।
स सम्प्राप्य महातेजा युद्धभूमिमरिन्दमः ।
स्थापयामास रक्षांसि रथं प्रति समन्ततः ।। ६.७३.१६ ।।
ततस्तु हुतभोक्तारं हुतभुक्सदृशप्रभः ।
जुहाव राक्षसश्रेष्ठो मन्त्रवद्विधिवत्तदा ।। ६.७३.१७ ।।
स हविर्लाजसंस्कारैर्माल्यगन्धपुरस्कृतैः ।
जुहुवे पावकं तत्र राक्षसेन्द्रः प्रतापवान् ।। ६.७३.१८ ।।
शस्त्राणि शरपत्राणि समिधो ऽथ विभीतकाः ।
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ।। ६.७३.१९ ।।
स तत्राग्निं समास्तीर्य शरपत्रैः सतोमरैः ।
छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः ।। ६.७३.२० ।।
सकृदेव समिद्धस्य विधूमस्य महार्चिषः ।
बभूवुस्तानि लिङ्गानि विजयं यान्यदर्शयन् ।। ६.७३.२१ ।।
प्रदक्षिणावर्तशिखस्तप्तकाञ्चनभूषणः ।
हविस्तत् प्रतिजग्राह पावकः स्वयमास्थितः ।। ६.७३.२२ ।।
सो ऽस्त्रमाहारयामास ब्राह्ममिन्द्ररिपुस्तदा ।
धनुश्चात्मरथं चैव सर्वं तत्राभ्यमन्त्रयत् ।। ६.७३.२३ ।।
तस्मिन्नाहूयमाने ऽस्त्रे हूयमाने च पावके ।
सार्धं ग्रहेन्दुनक्षत्रैर्वितत्रास नभःस्थलम् ।। ६.७३.२४ ।।
स पावकं पावकदीप्ततेजा हुत्वा महेन्द्रप्रतिमप्रभावः ।
सचापबाणासिरथाश्वसूतः खे ऽन्तर्दधेत्मानमचिन्त्यरूपः ।। ६.७३.२५ ।।
ततो हयरथाकीर्णं पताकाध्वजशोभितम् ।
निर्ययौ राक्षसबलं नर्दमानं युयुत्सया ।। ६.७३.२६ ।।
ते शरैर्बहुभिश्चित्रैस्तीक्ष्णवेगैरलङ्कृतैः ।
तोमरैरङ्कुशैश्चापि वानरान् जघ्नुराहवे ।। ६.७३.२७ ।।
रावणिस्तु ततः क्रुद्धस्तान्निरीक्ष्य निशाचरान् ।
हृष्टा भवन्तो युद्ध्यन्तु वानराणां जिघांसया ।। ६.७३.२८ ।।
ततस्ते राक्षसाः सर्वे नर्दन्तो जयकाङ्क्षिणः ।
अभ्यवर्षंस्ततो घोरान् वानरान् शरवृष्टिभिः ।। ६.७३.२९ ।।
स तु नालीकनाराचैर्गदाभिर्मुसलैरपि ।
रक्षोभिः संवृतः सङ्ख्ये वानरान् विचकर्त ह ।। ६.७३.३० ।।
ते वध्यमानाः समरे वानराः पादपायुधाः ।
अभ्यद्रवन्त सहिता रावणिं रणकर्कशम् ।। ६.७३.३१ ।।
इन्द्रजित्तु ततः क्रुद्धो महातेजा महाबलः ।
वानराणां शरीराणि व्यधमद्रावणात्मजः ।। ६.७३.३२ ।।
शरेणैकेन च हरीन् नव पञ्च च सप्त च ।
चिच्छेद समरे क्रुद्धो राक्षसान् सम्प्रहर्षयन् ।। ६.७३.३३ ।।
स शरैः सूर्यसङ्काशैः शातकुम्भविभूषितैः ।
वानरान् समरे वीरः प्रममाथ सुदुर्जयः ।। ६.७३.३४ ।।
ते भिन्नगात्राः समरे वानराः शपपीडिताः ।
पेतुर्मथितसङ्कल्पाः सुरैरिव महासुराः ।। ६.७३.३५ ।।
तं तपन्तमिवादित्यं घोरैर्बाणगभस्तिभिः ।
अभ्यधावन्त सङ्क्रुद्धाः संयुगे वानरर्षभाः ।। ६.७३.३६ ।।
ततस्तु वानराः सर्वे भिन्नदेहा विचेतसः ।
व्यथिता विद्रवन्ति स्म रुधिरेण समुक्षिताः ।। ६.७३.३७ ।।
रामस्यार्थे पराक्रम्य वानरास्त्यक्तजीविताः ।
नर्दन्तस्ते ऽभिवृत्तास्तु समरे सशिलायुधाः ।। ६.७३.३८ ।।
ते द्रुमैः पर्वताग्रैश्च शिलाभिश्च प्लवङ्गमाः ।
अभ्यवर्षन्त समरे रावणिं पर्यवस्थिताः ।। ६.७३.३९ ।।
तद्द्रुमाणां शिलानां च वर्षं प्राणहरं महत् ।
व्यपोहत महातेजा रावणिः समितिञ्जयः ।। ६.७३.४० ।।
ततः पावकसङ्काशैः शरैराशीविषोपमैः ।
वानराणामनीकानि बिभेद समरे प्रभुः ।। ६.७३.४१ ।।
अष्टादशशरैस्तीक्ष्णैः स विद्ध्वा गन्धमादनम् ।
विव्याध नवभिश्चैव नलं दूरादवस्थितम् ।। ६.७३.४२ ।।
सप्तभिस्तु महा वीर्यो मैन्दं मर्मविदारणैः ।
पञ्चभिर्विशिखैश्चैव गजं विव्याध संयुगे ।। ६.७३.४३ ।।
जाम्बवन्तं तु दशभिर्नीलं त्रिंशद्भिरेव च ।
सुग्रीवमृषभं चैव सो ऽङ्गदं द्विविदं तथा ।
घोरैर्दत्तवरैस्तीक्ष्णैर्निष्प्राणानकरोत्तदा ।। ६.७३.४४ ।।
अन्यानपि तदा मुख्यान् वानरान् बहुभिः शरैः ।
अर्दयामास सङ्क्रुद्धः कालाग्निरिव मूर्च्छितः ।। ६.७३.४५ ।।
स शरैः सूर्यसङ्काशैः सुमुक्तैः शीघ्रगामिभिः ।
वानराणामनीकानि निर्ममन्थ महारणे ।। ६.७३.४६ ।।
आकुलां वानरीं सेनां शरजालेन मोहिताम् ।
हृष्टः स परया प्रीत्या ददर्श क्षतजोक्षिताम् ।। ६.७३.४७ ।।
पुनरेव महातेजा राक्षसेन्द्रात्मजो बली ।
संसृज्य बाणवर्षं च शस्त्रवर्षं च दारुणम् ।
ममर्द वानरानीकमिन्द्रजित्त्वरितो बली ।। ६.७३.४८ ।।
स्वसैन्यमुत्सृज्य समेत्य तूर्णं महारणे वानरवाहिनीषु ।
अदृश्यमानः शरजालमुग्रं ववर्ष नीलाम्बुधरो यथा ऽम्बु ।। ६.७३.४९ ।।
ते शक्रजिद्बाणविशीर्णदेहा मायाहता विस्वरमुन्नदन्तः ।
रणे निपेतुर्हरयो ऽद्रिकल्पा यथेन्द्रवज्राभिहता नगेन्द्राः ।। ६.७३.५० ।।
ते केवलं सन्ददृशुः शिताग्रान् बाणान् रणे वानरवाहिनीषु ।
मायानिगूढं तु सुरेन्द्रशत्रुं न चावृतं राक्षसमभ्यपश्यन् ।। ६.७३.५१ ।।
ततः स रक्षोधिपतिर्महात्मा सर्वे दिशो बाणगणैः शिताग्रैः ।
प्रच्छादयामास रविप्रकाशैर्विषादयामास च वानरेन्द्रान् ।। ६.७३.५२ ।।
स शूलनिस्त्रिंशपरश्वधानि व्याविध्य दीप्तानलसन्निभानि ।
सविस्फुलिङ्गोज्ज्वलपावकानि ववर्ष तीर्व्रं प्लवगेन्द्रसैन्ये ।। ६.७३.५३ ।।
ततो ज्वलनसङ्काशैः शरैर्वानरयूथपाः ।
ताडिताः शक्रजिद्बाणैः प्रफुल्ला इव किंशुकाः ।। ६.७३.५४ ।।
ते ऽन्योन्यमभिसर्पन्तो निनदन्तश्च विस्वरम् ।
राक्षसेन्द्रास्त्रनिर्भिन्ना निपेतुर्वानरर्षभाः ।। ६.७३.५५ ।।
उदीक्षमाणा गगनं केचिन्नेत्रेषु ताडिताः ।
शरैर्विविशुरन्योन्यं पेतुश्च जगतीतले ।। ६.७३.५६ ।।
हनुमन्तं च सुग्रीवमङ्गदं गन्धमादनम् ।
जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ।। ६.७३.५७ ।।
मैन्दं च द्विविदं नीलं गवाक्षं गजगोमुखौ ।
केसरिं हरिलोमानं विद्युदृंष्ट्रं च वानरम् ।। ६.७३.५८ ।।
सूर्याननं ज्योतिमुखं तथा दधिमुखं हरिम् ।
पावकाक्षं नलं चैव कुमुदं चैव वानरम् ।। ६.७३.५९ ।।
प्रासैः शूलैः शितैर्बाणैरिन्द्रजिन्मन्त्रसंहितैः ।
विव्याध हरिशार्दूलान् सर्वांस्तान् राक्षसोत्तमः ।। ६.७३.६० ।।
स वै गदाभिर्हरियूथमुख्यान् निर्भिद्य बाणैस्तपनीयपुङ्खैः ।
ववर्ष रामं शरवृष्टिजालैः सलक्ष्मणं भास्कररश्मिकल्पैः ।। ६.७३.६१ ।।
स बाणवर्षैरभिवर्ष्यमाणो धारानिपातानिव तानचिन्त्य ।
समीक्षमाणः परमाद्भुतश्री रामस्तदा लक्ष्मणमित्युवाच ।। ६.७३.६२ ।।
असौ पुनर्लक्ष्मण राक्षसेन्द्रो ब्रह्मास्त्रमाश्रित्य सुरेन्द्रशत्रुः ।
निपातयित्वा हरिसैन्यमुग्रमस्मान् शरैरर्दयति प्रसक्तः ।। ६.७३.६३ ।।
स्वयम्भुवा दत्तवरो महात्मा खमास्थितो ऽन्तर्हितभीमकायः ।
कथं नु शक्यो युधि नष्टदेहो निहन्तुमद्येन्द्रजिदुद्यतास्त्रः ।। ६.७३.६४ ।।
मन्ये स्वयम्भूर्भगवानचिन्त्यो यस्यैतदस्त्रं प्रभवश्च यो ऽस्य ।
बाणावपातांस्त्वमिहाद्य धीमन् मया सहाव्यग्रमनाः सहस्व ।। ६.७३.६५ ।।
प्रच्छादयत्येष हि राक्षसेन्द्रः सर्वा दिशः सायकवृष्टिजालैः ।
एतच्च सर्वं पतिताग्र्यशूरं न भ्राजते वानरराजसैन्यम् ।। ६.७३.६६ ।।
आवां तु दृष्ट्वा पतितौ विसञ्ज्ञौ निवृत्तयुद्धौ गतरोषहर्षो ।
ध्रुवं प्रवेक्ष्यत्यमरारिवासमसौ समादाय रणाग्रलक्ष्मीम् ।। ६.७३.६७ ।।
ततस्तु ताविन्द्रजिदस्त्रजालैर्बभूवतुस्तत्र तथा विशस्तौ ।
स चापि तौ तत्र विदर्शयित्वा ननाद हर्षाद्युधि राक्षसेन्द्रः ।। ६.७३.६८ ।।
स तत्तदा वानरसैन्यमेवं रामं च सङ्ख्ये सह लक्ष्मणेन ।
विषादयित्वा सहसा विवेश पुरीं दशग्रीवभुजाभिगुप्ताम् ।। ६.७३.६९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे त्रिसप्ततितमः सर्गः ।। ७३ ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।