← सर्गः ७९ रामायणम्
सर्गः ८०
वाल्मीकिः
सर्गः ८१ →
अशीतितमः सर्गः श्रूयताम्
रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्रिसप्ततितमः सर्गः ॥६-७३॥

मकराक्षं हतं श्रुत्वा रावणः समितिंजयः।
रोषेण महताविष्टो दन्तान् कटकटाय्य च॥ १॥

कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन्।
आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम्॥ २॥

जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ।
अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः॥ ३॥

त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे।
किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे॥ ४॥

तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः।
यज्ञभूमौ स विधिवत् पावकं जुहुवेन्द्रजित्॥ ५॥

जुह्वतश्चापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः।
आजग्मुस्तत्र सम्भ्रान्ता राक्षस्यो यत्र रावणिः॥ ६॥

शस्त्राणि शरपत्राणि समिधोऽथ बिभीतकाः।
लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा॥ ७॥

सर्वतोऽग्निं समास्तीर्य शरपत्रैः सतोमरैः।
छागस्य सर्वकृष्णस्य गलं जग्राह जीवतः॥ ८॥

सकृद्धोमसमिद्धस्य विधूमस्य महार्चिषः।
बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च॥ ९॥

प्रदक्षिणावर्तशिखस्तप्तहाटकसंनिभः।
हविस्तत् प्रतिजग्राह पावकः स्वयमुत्थितः॥ १०॥

हुत्वाग्निं तर्पयित्वाथ देवदानवराक्षसान्।
आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम्॥ ११॥

स वाजिभिश्चतुर्भिस्तु बाणैस्तु निशितैर्युतः।
आरोपितमहाचापः शुशुभे स्यन्दनोत्तमः॥ १२॥

जाज्वल्यमानो वपुषा तपनीयपरिच्छदः।
मृगैश्चन्द्रार्धचन्द्रैश्च स रथः समलंकृतः॥ १३॥

जाम्बूनदमहाकम्बुर्दीप्तपावकसंनिभः।
बभूवेन्द्रजितः केतुर्वैदूर्यसमलंकृतः॥ १४॥

तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः।
स बभूव दुराधर्षो रावणिः सुमहाबलः॥ १५॥

सोऽभिनिर्याय नगरादिन्द्रजित् समितिंजयः।
हुत्वाग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत्॥ १६॥

अद्य हत्वा रणे यौ तौ मिथ्या प्रव्रजितौ वने।
जयं पित्रे प्रदास्यामि रावणाय रणेऽधिकम्॥ १७॥

अद्य निर्वानरामुर्वीं हत्वा रामं च लक्ष्मणम्।
करिष्ये परमां प्रीतिमित्युक्त्वान्तरधीयत॥ १८॥

आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः।
तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे॥ १९॥

स ददर्श महावीर्यौ नागौ त्रिशिरसाविव।
सृजन्ताविषुजालानि वीरौ वानरमध्यगौ॥ २०॥

इमौ ताविति संचिन्त्य सज्यं कृत्वा च कार्मुकम्।
संततानेषुधाराभिः पर्जन्य इव वृष्टिमान्॥ २१॥

स तु वैहायसरथो युधि तौ रामलक्ष्मणौ।
अचक्षुर्विषये तिष्ठन् विव्याध निशितैः शरैः॥ २२॥

तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ।
धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचक्रतुः॥ २३॥

प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ।
तमस्त्रैः सूर्यसंकाशैर्नैव पस्पर्शतुः शरैः॥ २४॥

स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः।
दिशश्चान्तर्दधे श्रीमान् नीहारतमसा वृताः॥ २५॥

नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः।
शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते॥ २६॥

घनान्धकारे तिमिरे शिलावर्षमिवाद्भुतम्।
स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः॥ २७॥

स रामं सूर्यसंकाशैः शरैर्दत्तवरैर्भृशम्।
विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः॥ २८॥

तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ।
हेमपुङ्खान् नरव्याघ्रौ तिग्मान् मुमुचतुः शरान्॥ २९॥

अन्तरिक्षे समासाद्य रावणिं कङ्कपत्रिणः।
निकृत्य पतगा भूमौ पेतुस्ते शोणिताप्लुताः॥ ३०॥

अतिमात्रं शरौघेण दीप्यमानौ नरोत्तमौ।
तानिषून् पततो भल्लैरनेकैर्विचकर्ततुः॥ ३१॥

यतो हि ददृशाते तौ शरान् निपतिताञ्छितान्।
ततस्तु तौ दाशरथी ससृजातेऽस्त्रमुत्तमम्॥ ३२॥

रावणिस्तु दिशः सर्वा रथेनातिरथोऽपतत्।
विव्याध तौ दाशरथी लघ्वस्त्रो निशितैः शरैः॥ ३३॥

तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहतैः।
बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ॥ ३४॥

नास्य वेगगतिं कश्चिन्न च रूपं धनुः शरान्।
न चास्य विदितं किंचित् सूर्यस्येवाभ्रसम्प्लवे॥ ३५॥

तेन विद्धाश्च हरयो निहताश्च गतासवः।
बभूवुः शतशस्तत्र पतिता धरणीतले॥ ३६॥

लक्ष्मणस्तु ततः क्रुद्धो भ्रातरं वाक्यमब्रवीत्।
ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम्॥ ३७॥

तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम्।
नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि॥ ३८॥

अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम्।
पलायमानं मत्तं वा न हन्तुं त्वमिहार्हसि॥ ३९॥

तस्यैव तु वधे यत्नं करिष्यामि महाभुज।
आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान्॥ ४०॥

तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात्।
राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः॥ ४१॥

यद्येष भूमिं विशते दिवं वा
रसातलं वापि नभस्तलं वा।
एवं विगूढोऽपि ममास्त्रदग्धः
पतिष्यते भूमितले गतासुः॥ ४२॥

इत्येवमुक्त्वा वचनं महार्थं
रघुप्रवीरः प्लवगर्षभैर्वृतः।
वधाय रौद्रस्य नृशंसकर्मण-
स्तदा महात्मा त्वरितं निरीक्षते॥ ४३॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अशीतितमः सर्गः ॥ ८० ॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।