रामायणम्/युद्धकाण्डम्/सर्गः ६७
← सर्गः ६६ | रामायणम् सर्गः ६७ वाल्मीकिः |
सर्गः ६८ → |
ते निवृत्ता महाकायाः श्रुत्वा ऽङ्गदवचस्तदा ।
नैष्ठिकीं बुद्धिमासाद्य सर्वे सङ्ग्रामकाङ्क्षिणः ।। ६.६७.१ ।।्रशक्त्या ।। ६.६७.१९ ।। ।।व चक्षुषा ।
समुदीरितवीर्याश्च समारोपितविक्रमाः ।
पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः ।। ६.६७.२ ।।
प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः ।
चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ।। ६.६७.३ ।।
अथ वृक्षान् महाकायाः सानूनि सुमहान्ति च ।
वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रुताः ।। ६.६७.४ ।।
स कुम्भकर्णः सङ्क्रुद्धो गदामुद्यम्य वीर्यवान् ।
अर्दयन् सुमहाकायः समन्ताद्व्यक्षिपद्रिपून् ।। ६.६७.५ ।।
शतानि सप्त चाष्टौ च सहस्राणि च वानराः ।
प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः ।। ६.६७.६ ।।
षोडशाष्टौ च दश च विंशत्ऺित्रंशत्तथैव च ।
परिक्षिप्य च बाहुभ्यां खादन् विपरिधावति ।
भक्षयन् भृशसङ्क्रुद्धो गरुडः पन्नगानिव ।। ६.६७.७ ।।
कृच्छ्रेण च समाश्वस्ताः सङ्गम्य च ततस्ततः ।
वृक्षाद्रिहस्ता हरयस्तस्थुः सङ्ग्राममूर्धनि ।। ६.६७.८ ।।
ततः पर्वतमुत्पाट्य द्विविदः प्लवगर्षभः ।
दुद्राव गिरिशृङ्गाभं विलम्ब इव तोयदः ।। ६.६७.९ ।।
तं समुत्पत्य चिक्षेप कुम्भकर्णस्य वानरः ।
तमप्राप्तो महाकायं तस्य सैन्ये ऽपतत्तदा ।। ६.६७.१० ।।
ममर्दाश्वान् गजांश्चापि रथांश्चैव नगोत्तमः ।
तानि चान्यानि रक्षांसि पुनश्चान्यद्गिरेः शिरेः ।। ६.६७.११ ।।
तच्छैलशृङ्गाभिहतं हताश्वं हतसारथि ।
रक्षसां रुधिरक्लिन्नं बभूवायोधनं महत् ।। ६.६७.१२ ।।६.६७.१२९ ।।।।। ६.६७.१२३ ।।णो वीरो निर्दहन्निव चक्षुषा ।
रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः ।
शिरांसि नदतां जह्रुः सहसा भीमनिस्वनाः ।। ६.६७.१३ ।।
वानराश्च महात्मानः समुत्पाट्य महाद्रुमान् ।
रथानश्वान् गजानुष्ट्रान् राक्षसानभ्यसूदयन् ।। ६.६७.१४ ।।
हनुमान् शैलशृङ्गाणि वृक्षांश्च विविधान् बहून् ।
ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः ।। ६.६७.१५ ।।
तानि पर्वतशृङ्गाणि शूलेन स बिभेद ह ।
बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः ।। ६.६७.१६ ।।
ततो हरीणां तदनीकमुग्रं दुद्राव शूलं निशितं प्रगृह्य ।
तस्थौ ततो ऽस्यापततः पुरस्तान्महीधराग्रं हनुमान् प्रगृह्य ।। ६.६७.१७ ।।
स कुम्भकर्णं कुपितो जघान वेगेन शैलोत्तमभीमकायम् ।
स चुक्षुभे तेन तदा ऽभिभूतो मेदार्द्रगात्रो रुधिरावसिक्तः ।। ६.६७.१८ ।।
स शूलमाविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिताग्रशृङ्गम् ।
बाह्वन्तरे मारुतिमाजघान गुहो ऽचलं क्रौञ्चमिवोग्रशक्त्या ।। ६.६७.१९ ।।
स शूलनिर्भिन्नमहाभूजान्तरः प्रविह्वलः शोणितमुद्वमन् मुखात् ।
ननाद भीमं हनुमान् महाहवे युगान्तमेघस्तनितस्वनोपमम् ।। ६.६७.२० ।।
ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य ।
प्लवङ्गमास्तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात् ।। ६.६७.२१ ।।
ततस्तु नीलो बलवान् पर्यवस्थापयन् बलम् ।
प्रविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते ।। ६.६७.२२ ।।
तमापतन्तं सम्प्रेक्ष्य मुष्टिना ऽभिजघान ह ।
मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत ।। ६.६७.२३ ।।
सविस्फुलिङ्गं सज्वालं निपपात महीतले ।
ऋषभः शरभो नीलो गवाक्षो गन्धमादनः ।। ६.६७.२४ ।।
पञ्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन् ।। ६.६७.२५ ।।
शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः ।
कुम्भकर्णं महाकायं सर्वतो ऽभिप्रदुद्रुवुः ।। ६.६७.२६ ।।
स्पर्शानिव प्रहारांस्तान् वेदयानो न विव्यथे ।
ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे ।। ६.६७.२७ ।।
कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः ।
निपपातर्षभो भीमः प्रमुखाद्वान्तशोणितः ।। ६.६७.२८ ।।
मुष्टिना शरभं हत्वा जानुना नीलमाहवे ।
आजघान गवाक्षं तु तलेनेन्द्ररिपुस्तदा ।। ६.६७.२९ ।।
पादेनाभ्यहनत् क्रुद्धस्तरसा गन्धमादनम् ।
दत्तप्रहारव्यथिता मुमुहुः शोणितोक्षिताः ।। ६.६७.३० ।।
निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः ।
तेषु वानरमुख्येषु पतितेषु महात्मसु ।
वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः ।। ६.६७.३१ ।।
तं शैलमिव शैलाभाः सर्वे ते प्लवगर्षभाः ।
समारुह्य समुत्पत्य ददंशुश्च महाबलाः ।। ६.६७.३२ ।।
तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा ।
कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः ।। ६.६७.३३ ।।
स वानरसहस्रैस्तैराचितः पर्वतोपमः ।
रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ।। ६.६७.३४ ।।
बाहुभ्यां वानरान् सर्वान् प्रगृह्य सुमहाबलः ।
भक्षयामास सङ्क्रुद्धो गरुडः पन्नगानिव ।। ६.६७.३५ ।।
प्रक्षिप्ताः कुम्भकर्णेन वक्त्रे पातालसन्निभे ।
नासापुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः ।। ६.६७.३६ ।।
भक्षयन् भृशसङ्क्रुद्धो हरीन् पर्वतसन्निभः ।
बभञ्ज वानरान् सर्वान् सङ्क्रुद्धो राक्षसोत्तमः ।। ६.६७.३७ ।।
मांसशोणितसङ्क्लेदां भूमिं कुर्वन् स राक्षसः ।
चचार हरिसैन्येषु कालाग्निरिव मूर्च्छितः ।। ६.६७.३८ ।।
वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः ।
शूलहस्तो बभौ सङ्ख्ये कुम्भकर्णो महाबलः ।। ६.६७.३९ ।।
यथा शुष्काण्यरण्यानि ग्रीष्मे दहति पावकः ।
तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत् ।। ६.६७.४० ।।
ततस्ते वध्यमानास्तु हतयूथा विनायकाः ।।
वानरा भयसंविग्ना विनेदुर्विस्वरं भृशम् ।। ६.६७.४१ ।।
अनेकशो वध्यमानाः कुम्भकर्णेन वानराः ।
राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः ।। ६.६७.४२ ।।
प्रभग्नान् वानरान् दृष्ट्वा वज्रहस्तसुतात्मजः ।
अभ्यधावत वेगेन कुम्भकर्णं महाहवे ।। ६.६७.४३ ।।
शैलशृङ्गं महद्गृह्य विनदंश्च मुहुर्मुहुः ।
त्रासयन् राक्षसान् सर्वान् कुम्भकर्णपदानुगान् ।। ६.६७.४४ ।।
चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि ।
स तेनाभिहतो ऽत्यर्थं गिरिशृङ्गेण मूर्धनि ।। ६.६७.४५ ।।
कुम्भकर्णः प्रजज्वाल कोपेन महता तदा ।
सो ऽभ्यधावत वेगेन वालिपुत्रममर्षणः ।। ६.६७.४६ ।।
कुम्भकर्णो महानादस्त्रासयन् सर्ववानरान् ।
शूलं ससर्ज वै रोषादङ्गदे स महावलः ।। ६.६७.४७ ।।
तमापतन्तं बुद्ध्वा तु युद्धमार्गविशारदः ।
लाघवान्मोचयामास बलवान् वानरर्षभः ।। ६.६७.४८ ।।
उत्पत्य चैनं सहसा तलेनोरस्यताडयत् ।
स तेनाभिहतः कोपात् प्रमुमोहाचलोपमः ।। ६.६७.४९ ।।
स लब्धसञ्ज्ञो बलवान् मुष्टिमावर्त्त्य राक्षसः ।
अपहासेन चिक्षेप विसञ्ज्ञः स पपात ह ।। ६.६७.५० ।।
तस्मिन् प्लवगशार्दूले विसञ्ज्ञे पतिते भुवि ।
तच्छूलं समुपादाय सुग्रीवमभिदुद्रुवे ।। ६.६७.५१ ।।
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णं महाबलम् ।
उत्पपात तदा वीरः सुग्रीवो वानराधिपः ।। ६.६७.५२ ।।
पर्वताग्रं समुत्क्षिप्य समाविध्य महाकपिः ।
अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् ।। ६.६७.५३ ।।
तमापतन्तं सम्प्रेक्ष्य कुम्भकर्णः प्लवङ्गमम् ।
तस्थौ विकृतसर्वाङ्गो वानरेन्द्रसमुन्मुखः ।। ६.६७.५४ ।।
कपिशोणितदिग्धाङ्गं भक्षयन्तं प्लवङ्गमान् ।
कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ।। ६.६७.५५ ।।
पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम् ।
भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ।। ६.६७.५६ ।।
त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि ।
सह स्वैकनिपातं मे पर्वतस्यास्य राक्षस ।। ६.६७.५७ ।।
तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् ।
श्रुत्वा राक्षसशार्दूलः कुम्भकर्णो ऽब्रवीद्वचः ।। ६.६७.५८ ।।
प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजस्सुतः ।
श्रुतपौरुषसम्पन्नः कस्माद्गर्जसि वानर ।। ६.६७.५९ ।।
स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच ।
तेनाजघानोरसि कुम्भकर्णं शैलेन वज्राशनिसन्निभेन ।। ६.६७.६० ।।
तच्छैलशृङ्गं सहसा विशीर्णं भुजान्तरे तस्य तदा विशाले ।
ततो विषेदुः सहसा प्लवङ्गा रक्षोगणाश्चापि मुदा विनेदुः ।। ६.६७.६१ ।।
स शैलशृङ्गाभिहतश्चुकोप ननाद कोपाच्च विवृत्य वक्त्रम् ।
व्याविध्य शूलं च तडित्प्रकाशं चिक्षेप हर्यृक्षपतेर्वधाय ।। ६.६७.६२ ।।
तत् कुम्भकर्णस्य भुजप्रविद्धं शूलं शितं काञ्चनधामजुष्टम् ।
क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां बभञ्ज वेगेन सुतो ऽनिलस्य ।। ६.६७.६३ ।।
कृतं भारसहस्रस्य शूलं कालायसं महत् ।
बभञ्ज जानुन्यारोप्य प्रहृष्टः प्लवगर्षभः ।। ६.६७.६४ ।।
शूलं भग्नं हनुमता दृष्ट्वा वानरवाहिनी ।
हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे ।। ६.६७.६५ ।।
सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः ।
मारुतिं पूजयाञ्चक्रुर्दृष्ट्वा शूलं तथागतम् ।। ६.६७.६६ ।।
स तत्तदा भग्नमवेक्ष्य शूलं चुकोप रक्षोधिपतिर्महात्मा ।
उत्पाट्य लङ्कामलयात् स शृङ्गं जघान सुग्रीवमुपेत्य तेन ।। ६.६७.६७ ।।
स शैलशृङ्गाभिहतो विसञ्ज्ञः पपात भूमौ युधि वानरेन्द्रः ।
तं प्रेक्ष्य भूमौ पतितं विसञ्ज्ञं नेदुः प्रहृष्टास्त्वथ यातुधानाः ।। ६.६७.६८ ।।
तमभ्युपेत्याद्भुतघोरवीर्यं स कुम्भकर्णो युधि वानरेन्द्रम् ।
जहार सुग्रीवमभिप्रगृह्य यथा ऽनिलो मेघमतिप्रचण्डः ।। ६.६७.६९ ।।
स तं महामेघनिकाशरूपमुत्पाट्य गच्छन् युधि कुम्भकर्णः ।
रराज मेरुप्रतिमानरूपो मेरुर्यथा ऽभ्युच्छ्रितघोरशृङ्गः ।। ६.६७.७० ।।
ततस्तमुत्पाट्य जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रैः ।
शृण्वन्निनादं त्रिदशालयानां प्लवङ्गराजग्रहविस्मितानाम् ।। ६.६७.७१ ।।
ततस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः ।
अस्मिन् हृते सर्वमिदं हृतं स्यात् सराघवं सैन्यमितीन्द्रशत्रुः ।। ६.६७.७२ ।।
विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः ।
कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम् ।। ६.६७.७३ ।।
हनुमांश्चिन्तयामास मतिमान् मारुतात्मजः ।
एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ।। ६.६७.७४ ।।
यद्वै न्याय्यं मया कर्तुं तत् करिष्यामि सर्वथा ।
भूत्वा पर्वतसङ्काशो नाशयिष्यामि राक्षसम् ।। ६.६७.७५ ।।
मया हते संयति कुम्भकर्णे महाबले मुष्टिविकीर्णदेहे ।
विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्लवगाः समस्ताः ।। ६.६७.७६ ।।
अथवा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः ।
गृहीतो ऽयं यदि भवेत्ऺित्रदशैः सासुरोरगैः ।। ६.६७.७७ ।।
मन्ये न तावदात्मानं बुद्ध्यते वानराधिपः ।
शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे ।। ६.६७.७८ ।।
अयं मुहूर्तात् सुग्रीवो लब्धसञ्ज्ञो महाहवे ।
आत्मनो वानराणां च यत् पथ्यं तत् करिष्यति ।। ६.६७.७९ ।।
मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः ।
अप्रीतिश्च भवेत् कष्टा कीर्तिनाशश्च शाश्वतः ।। ६.६७.८० ।।
तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य तु ।
भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ।। ६.६७.८१ ।।
इत्येवं चिन्तयित्वा तु हनुमान् मारुतात्मजः ।
भूयः संस्तम्भयामास वानराणां महाचमूम् ।। ६.६७.८२ ।।
स कुम्भकर्णो ऽथ विवेश लङ्कां स्फुरन्तमादाय महाकपिं तम् ।
विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरवकीर्यमाणः ।। ६.६७.८३ ।।
लाजगन्धोदवर्षैस्तु सिच्यमानः शनैःशनैः ।
राजमार्गस्य शीतत्वात् सञ्ज्ञामाप महाबलः ।। ६.६७.८४ ।।
ततः स सञ्ज्ञामुपलभ्य कृच्छ्राद्वलीयसस्तस्य भुजान्तरस्थः ।
अवेक्षमाणः पुरराजमार्गं विचिन्तयामास मुहुर्महात्मा ।। ६.६७.८५ ।।
एवं गृहीतेन कथं नु नाम शक्यं मया सम्प्रतिकर्तुमद्य ।
तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम् ।। ६.६७.८६ ।।
ततः कराग्रैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रुम् ।
खरैश्च कर्णौ दशनैश्च नासां ददंश पार्श्वेषु च कुम्भकर्णम् ।। ६.६७.८७ ।।
स कुम्भकर्णो हृतकर्णनासो विदारितस्तेन विमर्दितश्च ।
रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्य पिपेष भूमौ ।। ६.६७.८८ ।।
स भूतले भीमबलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः ।
जगाम खं वेगवदभ्युपेत्य पुनश्च रामेण समाजगाम ।। ६.६७.८९ ।।
कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः ।
रराज शोणितैः सिक्तो गिरिः प्रस्रवणैरिव ।। ६.६७.९० ।।
शोणितार्द्रो महाकायो राक्षसो भीमविक्रमः ।
युद्धायाभिमुखो भूयो मनश्चके महाबलः ।। ६.६७.९१ ।।
अमर्षाच्छोणितोद्गरी शुशुभे रावणानुजः ।
नीलाञ्जनचयप्रख्यः ससन्ध्य इव तोयदः ।। ६.६७.९२ ।।
गते तु तस्मिन् सुरराजशत्रुः क्रोधात् प्रदुद्राव रणाय भूयः ।
अनायुधो ऽस्मीति विचिन्त्य रौद्रो घोरं तदा मुद्गरमाससाद ।। ६.६७.९३ ।।
ततः स पुर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् ।
बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रदीप्तः ।। ६.६७.९४ ।।
बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद्वानरसैन्यमुग्रम् ।
चखाद रक्षांसि हरीन् पिशाचानृक्षांश्च मोहाद्युधि कुम्भकर्णः ।। ६.६७.९५ ।।
यथैव मृत्युर्हरते युगान्ते स भक्षयामास हरींश्च मुख्यान् ।। ६.६७.९६ ।।
एकं द्वे त्रीन् बहून् क्रुद्धो वानरान् सह राक्षसैः ।
समादायैकहस्तेन प्रचिक्षेप त्वरन् मुखे ।। ६.६७.९७ ।।
सम्प्रस्रवंस्तदा मेदः शोणितं च महाबलः ।
वध्यमानो नगेन्द्राग्रैर्भक्षयामास वानरान् ।। ६.६७.९८ ।।
ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम् ।। ६.६७.९९ ।।
कुम्भकर्णो भृशं क्रुद्धः कपीन् खादन् प्रधावति ।। ६.६७.१०० ।।
शतानि सप्त चाष्टौ च विंशत्ऺित्रंशत्तथैव च ।
सम्परिष्वज्य बाहुभ्यां खादन् विपरिधावति ।। ६.६७.१०१ ।।
तस्मिन् काले सुमित्रायाः पुत्रः परबलार्दनः ।
चकार लक्ष्मणः क्रुद्धो युद्धं परपुरञ्जयः ।। ६.६७.१०२ ।।
स कुम्भकर्णस्य शरान् शरीरे सप्त वीर्यवान् ।
निचखानाददे बाणान् विससर्ज च लक्ष्मणः ।। ६.६७.१०३ ।।
अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः ।
राममेवाभिदुद्राव दारयन्निव मेदिनीम् ।। ६.६७.१०४ ।।
अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् ।
कुम्भकर्णस्य हृदये ससर्ज निशितान् शरान् ।। ६.६७.१०५ ।।
तस्य रामेण विद्धस्य सहसा ऽभिप्रधावतः ।
अङ्गारमित्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ।। ६.६७.१०६ ।।
रामास्त्रविद्धो घोरं वै नदन् राक्षसपुङ्गवः ।
अभ्यधावत सङ्क्रुद्धो हरीन् विद्रावयन् रणे ।। ६.६७.१०७ ।।
तस्योरसि निमग्नाश्च शरा बर्हिणवाससः ।
हस्ताच्चापि परिभ्रष्टा पपातोर्व्यां महागदा ।
आयुधानि च सर्वाणि विप्रकीर्यन्त भूतले ।। ६.६७.१०८ ।।
स निरायुधमात्मानं यदा मेने महाबलः ।
मुष्टिभ्यां चरणाभ्यां च चकार कदनं महत् ।। ६.६७.१०९ ।।
स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः ।
रुधिरं प्रतिसुस्राव गिरिः प्रस्रवणं यथा ।। ६.६७.११० ।।
स तीर्वेण च कोपेन रुधिरेण च मूर्च्छितः ।
वानरान् राक्षसानृक्षान् खादन् विपरिधावति ।। ६.६७.१११ ।।
अथ शृङ्गं समाविध्य भीमं भीमपराक्रमः ।
चिक्षेप राममुद्दिश्य बलवानन्तकोपमः ।। ६.६७.११२ ।।
अप्राप्तमन्तरा रामः सप्तभिस्तैरजिह्मगैः ।
शरैः काञ्चनचित्राङ्गैश्चिच्छेद पुरुषर्षभः ।। ६.६७.११३ ।।
तन्मेरुशिखराकारं द्योतमानमिव श्रिया ।
द्वे शते वानरेन्द्राणां पतमानमपातयत् ।। ६.६७.११४ ।।
तस्मिन् काले स धर्मात्मा लक्ष्मणो वाक्यमब्रवीत् ।
कुम्भकर्णवधे युक्तो योगान् परिमृशन् बहून् ।। ६.६७.११५ ।।
नैवायं वानरान् राजन्नापि जानाति राक्षसान् ।
मत्तः शोणितगन्धेन स्वान् परांश्चैव खादति ।। ६.६७.११६ ।।
साध्वेनमधिरोहन्तु सर्वे ते वानरर्षभाः ।
यूथपाश्च यथा मुख्यास्तिष्ठन्त्वस्य समन्ततः ।। ६.६७.११७ ।।
अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः ।
प्रपतन् राक्षसो भूमौ नान्यान् हन्यात् प्लवङ्गमान् ।। ६.६७.११८ ।।
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।
ते समारुरुहुर्हृष्टाः कुम्भकर्णं प्लवङ्गमाः ।। ६.६७.११९ ।।
कुम्भकर्णस्तु सङ्क्रुद्धः समारूढः प्लवङ्गमैः ।
व्यधूनयत्तान् वेगेन दुष्टहस्तीव हस्तिपान् ।। ६.६७.१२० ।।
तान् दृष्ट्वा निर्धुतान् रामो दुष्टो ऽयमिति राक्षसः ।
सुमुत्पपात वेगेन धनुरुत्तममाददे ।। ६.६७.१२१ ।।
क्रोधताम्रेक्षणो वीरो निर्दहन्निव चक्षुषा ।
राघवो राक्षसं रोषादभिदुद्राव वेगितः ।
यूथपान् हर्षयन् सर्वान् कुम्भकर्णभयार्दितान् ।। ६.६७.१२२ ।।
स चापमादाय भुजङ्गकल्पं दृढज्यमुग्रं तपनीयचित्रम् ।
हरीन् समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणबाणः ।। ६.६७.१२३ ।।
स वानरगणैस्तैस्तु वृतः परमदुर्जयः ।
लक्ष्मणानुचरो रामः सम्प्रतस्थे महावलः ।। ६.६७.१२४ ।।
स ददर्श महात्मानं किरीटिनमरिन्दमम् ।
शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम् ।। ६.६७.१२५ ।।
सर्वान् समभिधावन्तं यथा रुष्टं दिशागजम् ।
मार्गमाणं हरीन् क्रुद्धं राक्षसैः परिवारितम् ।। ६.६७.१२६ ।।
विन्ध्यमन्दरसङ्काशं काञ्चनाङ्गदभूषणम् ।
स्रवन्तं रुधिरं वक्त्राद्वर्षमेघमिवोत्थितम् ।। ६.६७.१२७ ।।
जिह्वया परिलिह्यन्तं शोणितं शोणितेक्षणम् ।
मृद्नन्तं वानरानीकं कालान्तकयमोपमम् ।। ६.६७.१२८ ।।
तं दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम् ।
विस्फारयामास तदा कार्मुकं पुरुषर्षभः ।। ६.६७.१२९ ।।
स तस्य चापनिर्घोषात् कुपितो राक्षसर्षभः ।
अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् ।। ६.६७.१३० ।।
ततस्तु वातोद्धतमेघकल्पं भुजङ्गराजोत्तमभोगबाहुम् ।
तमापतन्तं धरणीधराभमुवाच रामो युधि कुम्भकर्णम् ।। ६.६७.१३१ ।।
आगच्छ रक्षोधिप मा विषादमवस्थितो ऽहं प्रगृहीतचापः ।
अवेहि मां शक्रसपत्न रामं मया मुहूर्ताद्भविता विचेताः ।। ६.६७.१३२ ।।
रामो ऽयमिति विज्ञाय जहास विकृतस्वनम् ।
अभ्यधावत सङ्क्रुद्धो हरीन् विद्रावयन् रणे ।। ६.६७.१३३ ।।
पातयन्निव सर्वेषां हृदयानि वनौकसाम् ।। ६.६७.१३४ ।।
प्रहस्य विकृतं भीमं स मेघस्तनितोपमम् ।
कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् ।। ६.६७.१३५ ।।
नाहं विराधो विज्ञेयो न कबन्धः खरो न च ।
न वाली न च मारीचः कुम्भकर्णो ऽहमागतः ।। ६.६७.१३६ ।।
पश्य मे मुद्गरं घोरं सर्वकालायसं महत् ।
अनेन निर्जिता देवा दानवाश्च पुरा मया ।। ६.६७.१३७ ।।
विकर्णनास इति मां नावज्ञातुं त्वमर्हसि ।
स्वल्पा ऽपि हि न मे पीडा कर्णनासाविनाशनात् ।। ६.६७.१३८ ।।
दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु ।
ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् ।। ६.६७.१३९ ।।
स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान् विससर्ज बाणान् ।
तैराहतो वज्रसमग्रवेगैर्न चुक्षुभे न व्यथते सुरारिः ।। ६.६७.१४० ।।
यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुङ्गवश्च ।
ते कुम्भकर्णस्य तदा शरीरे वज्रोपमा न व्यथयाम्प्रचक्रुः ।। ६.६७.१४१ ।।
स वारिधारा इव सायकांस्तान् पिबन् शरीरेण महेन्द्रशत्रुः ।
जघान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवेगम् ।। ६.६७.१४२ ।।
ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम् ।
विव्याध तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम् ।। ६.६७.१४३ ।।
वायव्यमादाय ततो वरास्त्रं रामः प्रचिक्षेप निशाचराय ।
समुद्गरं तेन जघान बाहुं स कृत्तबाहुस्तुमुलं ननाद ।। ६.६७.१४४ ।।
स तस्य बाहुर्गिरिशृङ्गकल्पः समुद्गरो राघवबाणकृत्तः ।
पपात तस्मिन् हरिराजसैन्ये जघान तां वानरवाहनीं च ।। ६.६७.१४५ ।।
ते वानरा भग्नहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः ।
प्रवेपिताङ्गं ददृशुः सुघोरं नरेन्द्ररक्षोधिपसन्निपातम् ।। ६.६७.१४६ ।।
स कुम्भकर्णो ऽस्त्रनिकृत्तबाहुर्महान्निकृत्ताग्र इवाचलेन्द्रः ।
उत्पाटयामास करेण वृक्षं ततो ऽभिदुद्राव रणे नरेन्द्रम् ।। ६.६७.१४७ ।।
स तस्य बाहुं सहसालवृक्षं समुद्यतं पन्नगभोगकल्पम् ।
ऐन्द्रास्त्रयुक्तेन जघान रामो बाणेन जाम्बूनदचित्रितेन ।। ६.६७.१४८ ।।
स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसन्निकाशः ।
विवेष्टमानो ऽभिजघान वृक्षान् शैलान् शिला वानरराक्षसांश्च ।। ६.६७.१४९ ।।
तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम् ।
द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य ।। ६.६७.१५० ।।
तौ तस्य पादौ प्रदिशो दिशश्च गिरीन् गुहाश्चैव महार्णवं च ।
लङ्कां च सेनां कपिराक्षसानां विनादयन्तौ विनिपेततुश्च ।। ६.६७.१५१ ।।
निकृत्तबाहुर्विनिकृत्तपादो विदार्य वक्त्रं वडवामुखाभम् ।
दुद्राव रामं सहसा ऽभिगर्जन् राहुर्यथा चन्द्रमिवान्तरिक्षे ।। ६.६७.१५२ ।।
अपूरयत्तस्य मुखं शिताग्रै रामः शरैर्हेमपिनद्धपुङ्खैः ।
स पूर्णवक्त्रो न शशाक वक्तुं चुकूज कृच्छ्रेण मुमोह चापि ।। ६.६७.१५३ ।।
अथाददे सूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम् ।
अरिष्टमैन्द्रं निशितं सुपुङ्खं रामः शरं मारुततुल्यवेगम् ।। ६.६७.१५४ ।।
तं वज्रजाम्बूनदचारुपुङ्खं प्रदीप्तसूर्यज्वलनप्रकाशम् ।
महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय ।। ६.६७.१५५ ।।
स सायको राघवबाहुचोदितो दिशः स्वभासा दश सम्प्रकाशयन् ।
सधूमवैश्वानरदीप्तदर्शनो जगाम शक्राशनिवीर्यविक्रमः ।। ६.६७.१५६ ।।
स तन्महापर्वतकूटसन्निभं विवृत्तदंष्ट्रं चलचारुकुण्डलम् ।
चकर्त रक्षोधिपतेः शिरस्तथा यथैव वृत्रस्य पुरा पुरन्दरः ।। ६.६७.१५७ ।।
कुम्भकर्णशिरो भाति कुण्डलालङ्कृतं महत् ।
आदित्ये ऽभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः ।। ६.६७.१५८ ।।
तद्रामबाणाभिहतं पपात रक्षश्शिरःपर्वतसन्निकाशम् ।
बभञ्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपातयच्च ।। ६.६७.१५९ ।।
न्यपतत् कुम्भकर्णो ऽथ स्वकायेन निपातयन् ।
प्लवङ्गमानां कोट्यश्च परितः सम्प्रधावताम् ।। ६.६७.१६० ।।
तच्चाति कायं हिमवत्प्रकाशं रक्षस्ततस्तोयनिधौ पपात ।
ग्राहान् वरान् मीनवरान् भुजङ्गान् ममर्द भूमिं च तदा विवेश ।। ६.६७.१६१ ।।
तस्मिन् हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे ।
चचाल भूर्भूमिधराश्च सर्वे हर्षाच्च देवास्तुमुलं प्रणेदुः ।। ६.६७.१६२ ।।
ततस्तु देवर्षिमहर्षिपन्नगाः सुराश्च भूतानि सुपर्णगुह्यकाः ।
सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता रामपराक्रमेण ।। ६.६७.१६३ ।।
ततस्तु ते तस्य वधेन भूरिणा मनस्विनो नैर्ऋतराजबान्धवाः ।
विनेदुरुच्चैर्व्यथिता रघूत्तमं हरिं समीक्ष्यैव यथा सुरार्दिताः ।। ६.६७.१६४ ।।
स देवलोकस्य तमो निहत्य सूर्यो यथा राहुमुखाद्विमुक्तः ।
तथा व्यभासीद्भुवि वानरौघे निहत्य रामो युधि कुम्भकर्णम् ।। ६.६७.१६५ ।।
प्रहर्षमीयुर्बहवस्तु वानराः प्रबुद्धपद्मप्रतिमैरिवाननैः ।
अपूजयन् राघवमिष्टभागिनं हते रिपौ भीमबले दुरासदे ।। ६.६७.१६६ ।।
स कुम्भकर्णं सुरसङ्घमर्दनं महत्सु युद्धेषु पराजितश्रमम् ।
ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रमिवामराधिपः ।। ६.६७.१६७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तषष्टितमः सर्गः ।। ६७ ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।