← सर्गः १८ रामायणम्
सर्गः १९
वाल्मीकिः
सर्गः २० →

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकोनविंशः सर्गः ॥६-१९॥

एकोनविंशः सर्गः श्रूयताम्
रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१


राघवेणाभये दत्ते संनतो रावणानुजः।
विभीषणो महाप्राज्ञो भूमिं समवलोकयत्॥ १॥

खात् पपातावनिं हृष्टो भक्तैरनुचरैः सह।
स तु रामस्य धर्मात्मा निपपात विभीषणः॥ २॥

पादयोर्निपपाताथ चतुर्भिः सह राक्षसैः।
अब्रवीच्च तदा वाक्यं रामं प्रति विभीषणः॥ ३॥

धर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम्।
अनुजो रावणस्याहं तेन चास्म्यवमानितः॥ ४॥

भवन्तं सर्वभूतानां शरण्यं शरणं गतः।
परित्यक्ता मया लङ्का मित्राणि च धनानि च॥ ५॥

भवद‍्गतं हि मे राज्यं जीवितं च सुखानि च।
तस्य तद् वचनं श्रुत्वा रामो वचनमब्रवीत्॥ ६॥

वचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव।
आख्याहि मम तत्त्वेन राक्षसानां बलाबलम्॥ ७॥

एवमुक्तं तदा रक्षो रामेणाक्लिष्टकर्मणा।
रावणस्य बलं सर्वमाख्यातुमुपचक्रमे॥ ८॥

अवध्यः सर्वभूतानां गन्धर्वोरगपक्षिणाम्।
राजपुत्र दशग्रीवो वरदानात् स्वयम्भुवः॥ ९॥

रावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान्।
कुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि॥ १०॥

राम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः।
कैलासे येन समरे मणिभद्रः पराजितः॥ ११॥

बद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि।
धनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित्॥ १२॥

संग्रामे सुमहद‍्व्यूहे तर्पयित्वा हुताशनम्।
अन्तर्धानगतः श्रीमानिन्द्रजिद्धन्ति राघव॥ १३॥

महोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः।
अनीकपास्तु तस्यैते लोकपालसमा युधि॥ १४॥

दशकोटिसहस्राणि रक्षसां कामरूपिणाम्।
मांसशोणितभक्ष्याणां लङ्कापुरनिवासिनाम्॥ १५॥

स तैस्तु सहितो राजा लोकपालानयोधयत्।
सह देवैस्तु ते भग्ना रावणेन दुरात्मना॥ १६॥

विभीषणस्य तु वचस्तच्छ्रुत्वा रघुसत्तमः।
अन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत्॥ १७॥

यानि कर्मापदानानि रावणस्य विभीषण।
आख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम्॥ १८॥

अहं हत्वा दशग्रीवं सप्रहस्तं सहात्मजम्।
राजानं त्वां करिष्यामि सत्यमेतच्छृणोतु मे॥ १९॥

रसातलं वा प्रविशेत् पातालं वापि रावणः।
पितामहसकाशं वा न मे जीवन् विमोक्ष्यते॥ २०॥

अहत्वा रावणं संख्ये सपुत्रजनबान्धवम्।
अयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे॥ २१॥

श्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः।
शिरसाऽऽवन्द्य धर्मात्मा वक्तुमेवं प्रचक्रमे॥ २२॥

राक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे।
करिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम्॥ २३॥

इति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम्।
अब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय॥ २४॥

तेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम्।
राजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद॥ २५॥

एवमुक्तस्तु सौमित्रिरभ्यषिञ्चद् विभीषणम्।
मध्ये वानरमुख्यानां राजानं राजशासनात्॥ २६॥

तं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः।
प्रचुक्रुशुर्महात्मानं साधुसाध्विति चाब्रुवन्॥ २७॥

अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम्।
कथं सागरमक्षोभ्यं तराम वरुणालयम्।
सैन्यैः परिवृताः सर्वे वानराणां महौजसाम्॥ २८॥

उपायैरभिगच्छाम यथा नदनदीपतिम्।
तराम तरसा सर्वे ससैन्या वरुणालयम्॥ २९॥

एवमुक्तस्तु धर्मात्मा प्रत्युवाच विभीषणः।
समुद्रं राघवो राजा शरणं गन्तुमर्हति॥ ३०॥

खानितः सगरेणायमप्रमेयो महोदधिः।
कर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः॥ ३१॥

एवं विभीषणेनोक्तो राक्षसेन विपश्चिता।
आजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः॥ ३२॥

ततश्चाख्यातुमारेभे विभीषणवचः शुभम्।
सुग्रीवो विपुलग्रीवः सागरस्योपवेशनम्॥ ३३॥

प्रकृत्या धर्मशीलस्य रामस्यास्याप्यरोचत।
सलक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम्॥ ३४॥

सत्क्रियार्थं क्रियादक्षं स्मितपूर्वमभाषत।
विभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते॥ ३५॥

सुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः।
उभाभ्यां सम्प्रधार्यार्थं रोचते यत् तदुच्यताम्॥ ३६॥

एवमुक्तौ ततो वीरावुभौ सुग्रीवलक्ष्मणौ।
समुदाचारसंयुक्तमिदं वचनमूचतुः॥ ३७॥

किमर्थं नौ नरव्याघ्र न रोचिष्यति राघव।
विभीषणेन यत् तूक्तमस्मिन् काले सुखावहम्॥ ३८॥

अबद्‍ध्वा सागरे सेतुं घोरेऽस्मिन् वरुणालये।
लङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः॥ ३९॥

विभीषणस्य शूरस्य यथार्थं क्रियतां वचः।
अलं कालात्ययं कृत्वा सागरोऽयं नियुज्यताम्।
यथा सैन्येन गच्छाम पुरीं रावणपालिताम्॥ ४०॥

एवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः।
संविवेश तदा रामो वेद्यामिव हुताशनः॥ ४१॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनविंशः सर्गः ।। १९ ।।

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।