← सर्गः २६ रामायणम्/युद्धकाण्डम्
युद्धकाण्डम्
वाल्मीकिः
सर्गः २८ →

श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तविंशः सर्गः ॥६-२७॥

सप्तविंशः सर्गः श्रूयताम्
रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१

तांस्तु तेऽहं प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान् ०१
राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम् 6.27.1 ०१
स्निग्धा यस्य बहुश्यामा बाला लाङ्गूलमाश्रिताः ०२
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ०२
प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः ०३
पृथिव्यां चानुकृष्यन्ते हरो नामैष यूथपः ०३
यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः ०४
द्रुमानुद्यम्य सहिता लङ्कारोहणतत्पराः ०४
एष कोटीसहस्रेण वानराणां महौजसाम् ०५
आकाङ्क्षते त्वां संग्रामे जेतुं परपुरंजय ०५
नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि ०६
असिताञ्जनसंकाशान् युद्धे सत्यपराक्रमान् ०६
नखदंष्ट्रायुधान् वीरांस्तीक्ष्णकोपान् भयावहान् ०७
असंख्येयाननिर्देश्यान् परं पारमिवोदधेः ०७
पर्वतेषु च ये के चिद्विषमेषु नदीषु च ०८
एते त्वामभिवर्तन्ते राजन्नृष्काः सुदारुणाः ०८
एषां मध्ये स्थितो राजन् भीमाक्षो भीमदर्शनः ०९
पर्जन्य इव जीमूतैः समन्तात्परिवारितः ०९
ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन् १०
सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः १०
यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम् ११
भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे ११
स एष जाम्बवान्नाम महायूथपयूथपः १२
प्रशान्तो गुरुवर्ती च संप्रहारेष्वमर्षणः १२
एतेन साह्यं सुमहत्कृतं शक्रस्य धीमता १३
देवासुरे जाम्बवता लब्धाश्च बहवो वराः १३
आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः १४
मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च १४
राक्षसानां च सदृशाः पिशाचानां च रोमशाः १५
एतस्य सैन्ये बहवो विचरन्त्यग्नितेजसः १५
यं त्वेनमभिसंरब्धं प्लवमानमिव स्थितम् १६
प्रेक्षन्ते वानराः सर्वे स्थितं यूथपयूथपम् १६
एष राजन् सहस्राक्षं पर्युपास्ते हरीश्वरः १७
बलेन बलसंपन्नो रम्भो नामैष यूथपः १७
यः स्थितं योजने शैलं गच्छन् पार्श्वेन सेवते १८
ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् १८
यस्मान्न परमं रूपं चतुष्पादेषु विद्यते १९
श्रुतः संनादनो नाम वानराणां पितामहः १९
येन युद्धं तदा दत्तं रणे शक्रस्य धीमता २०
पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः २०
यस्य विक्रममाणस्य शक्रस्येव पराक्रमः २०
एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना २१
पुरा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् २१
यस्य वैश्रवणो राजा जम्बूमुपनिषेवते २२
यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम् २२
विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप २३
तत्रैष वसति श्रीमान् बलवान् वानरर्षभः २३
युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः २३
वृतः कोटिसहस्रेण हरीणां समुपस्थितः २४
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् २४
यो गङ्गामनु पर्येति त्रासयन् हस्तियूथपान् २५
हस्तिनां वानराणां च पूर्ववैरमनुस्मरन् २५
एष यूथपतिर्नेता गच्छन् गिरिगुहाशयः २६
हरीणां वाहिनी मुख्यो नदीं हैमवतीमनु २६
उशीर बीजमाश्रित्य पर्वतं मन्दरोपमम् २७
रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम् २७
एनं शतसहस्राणां सहस्रमभिवर्तते २८
एष दुर्मर्षणो राजन् प्रमाथी नाम यूथपः २८
वातेनेवोद्धतं मेघं यमेनमनुपश्यसि २९
विवर्तमानं बहुशो यत्रैतद्बहुलं रजः २९
एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः ३०
शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् ३०
गोलाङ्गूलं महावेगं गवाक्षं नाम यूथपम् ३१
परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा ३१
भ्रमराचरिता यत्र सर्वकामफलद्रुमाः ३२
यं सूर्यतुल्यवर्णाभमनुपर्येति पर्वतम् ३२
यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः ३३
यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः ३३
तत्रैष रमते राजन् रम्ये काञ्चनपर्वते ३४
मुख्यो वानरमुख्यानां केसरी नाम यूथपः ३४
षष्टिर्गिरिसहस्राणां रम्याः काञ्चनपर्वताः ३५
तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम् ३५
तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः ३६
निवसन्त्युत्तमगिरौ तीक्ष्णदंष्ट्रानखायुधाः ३६
सिंह इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः ३७
सर्वे वैश्वनरसमा ज्वलिताशीविषोपमाः ३७
सुदीर्घाञ्चितलाङ्गूला मत्तमातंगसंनिभाः ३८
महापर्वतसंकाशा महाजीमूतनिस्वनाः ३८
एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ३९
नाम्ना पृथिव्यां विख्यातो राजञ्शतबलीति यः ३९
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ३९
गजो गवाक्षो गवयो नलो नीलश्च वानरः ४०
एकैक एव यूथानां कोटिभिर्दशभिर्वृतः ४०
तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः ४१
न शक्यन्ते बहुत्वात्तु संख्यातुं लघुविक्रमाः ४१
सर्वे महाराज महाप्रभावाः॑ सर्वे महाशैलनिकाशकायाः ४२
सर्वे समर्थाः पृथिवीं क्षणेन॑ कर्तुं प्रविध्वस्तविकीर्णशैलाम् 6.27.48 ४२

ताम्स्तु ते सम्प्रक्ष्यामि प्रेक्षमाणस्य यूथपान् ।
राघव अर्थे पराक्रान्ता ये न रक्षन्ति जीवितम् ॥६-२७-१॥

स्निग्धा यस्य बहु श्यामा बाला लान्गूलम् आश्रिताः ।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोर कर्मणः ॥६-२७-२॥

प्रगृहीताः प्रकाशन्ते सूर्यस्य इव मरीचयः ।
पृथिव्याम् च अनुकृष्यन्ते हरो नाम एष यूथपः ॥६-२७-३॥

यम् पृष्ठतो अनुगच्चन्ति शतशो अथ सहस्रशः ।
वृक्षानुद्यम्य सहसा लङ्का रोहणतत्पराः ॥६-२७-४॥

यूथपा हरिराजस्य किम्कराः समुपस्थिताः ।
नीलान् इव महामेघाम्स् तिष्ठतो याम्स् तु पश्यसि ॥६-२७-५॥

असितान् जन सम्काशान् युद्धे सत्य पराक्रमान् ।
असम्ख्येयान् अनिर्देश्यान् परम् पारम् इव उदधेः ॥६-२७-६॥

पर्वतेषु च ये केचिद् विषमेषु नदीषु च ।
एते त्वाम् अभिवर्तन्ते राजन्न् ऋष्काः सुदारुणाः ॥६-२७-७॥

एषाम् मध्ये स्थितो राजन् भीम अक्षो भीम दर्शनः ।
पर्जन्य इव जीमूतैः समन्तात् परिवारितः ॥६-२७-८॥

ऋक्षवन्तम् गिरि श्रेष्ठम् अध्यास्ते नर्मदाम् पिबन् ।
सर्व ऋक्षाणाम् अधिपतिर् धूम्रो नाम एष यूथपः ॥६-२७-९॥

यवीयान् अस्य तु भ्राता पश्य एनम् पर्वत उपमम्भ्रात्रा समानो रूपेण विशिष्टस् तु पराक्रमे ॥६-२७-१०॥

स एष जाम्बवान् नाम महायूथप यूथपः ।
प्रशान्तो गुरु वर्ती च सम्प्रहारेष्व् अमर्षणः ॥६-२७-११॥

एतेन साह्यम् सुमहत् कृतम् शक्रस्य धीमता ।
देव असुरे जाम्बवता लब्धाः च बहवो वराः ॥६-२७-१२॥

आरुह्य पर्वत अग्रेभ्यो महाअभ्र विपुलाः शिलाः ।
मुन्चन्ति विपुल आकारा न मृत्योर् उद्विजन्ति च ॥६-२७-१३॥

राक्षसानाम् च सदृशाः पिशाचानाम् च रोमशाः ।
एतस्य सैन्ये बहवो विचरन्ति अग्नि तेजसः ॥६-२७-१४॥

यम् त्व् एनम् अभिसम्रब्धम् प्लवमानम् इव स्थितम् ।
प्रेक्षन्ते वानराः सर्वे स्थितम् यूथप यूथपम् ॥६-२७-१५॥

एष राजन् सहस्र अक्षम् पर्युपास्ते हरि ईश्वरः ।
बलेन बल सम्पन्नो रम्भो नाम एष यूथपः ॥६-२७-१६॥

यः स्थितम् योजने शैलम् गच्चन् पार्श्वेन सेवते ।
ऊर्ध्वम् तथैव कायेन गतः प्राप्नोति योजनम् ॥६-२७-१७॥

यस्मान् न परमम् रूपम् चतुष्पादेषु विद्यते ।
श्रुतः सम्नादनो नाम वानराणाम् पितामहः ॥६-२७-१८॥

येन युद्धम् तदा दत्तम् रणे शक्रस्य धीमता ।
पराजयः च न प्राप्तः सो अयम् यूथप यूथपः ॥६-२७-१९॥

यस्य विक्रममाणस्य शक्रस्य इव पराक्रमः ।
एष गन्धर्व कन्यायाम् उत्पन्नः कृष्ण वर्त्मना ॥६-२७-२०॥

तत्र देवासुरे युद्धे साह्यार्थम् त्रिदिवौकसाम् ।
यत्र वैश्रवणो राजा जम्बूमुपनिषेवते ॥६-२७-२१॥

यो राजा पर्वत इन्द्राणाम् बहु किम्नर सेविनाम् ।
विहार सुखदो नित्यम् भ्रातुस् ते राक्षस अधिप ॥६-२७-२२॥

तत्र एष वसति श्रीमान् बलवान् वानर ऋषभः ।
युद्धेष्व् अकत्थनो नित्यम् क्रथनो नाम यूथपः ॥६-२७-२३॥

वृतः कोटि सहस्रेण हरीणाम् समवस्थितः ।
एषैवाशम्सते लङ्काम् स्वेनानीकेन मर्दितुम् ॥६-२७-२४॥

यो गङ्गामनुपर्येति त्रासयन् गजयूथपान् ।
हस्तिनाम् वानराणाम् च पूर्ववैरमनुस्मरन् ॥६-२७-२५॥

एष यूथपतिर्नेता गर्जन् गिरिगुहाशयः ।
गजान् रोधयते वन्यानारुजम्श्च महीरुहान् ॥६-२७-२६॥

हरीणाम् वाहिनी मुख्यो नदीम् हैमवतीम् अनु ।
उशीर बीजम् आश्रित्य पर्वतम् मन्दर उपमम् ॥६-२७-२७॥

रमते वानर श्रेष्ठो दिवि शक्र इव स्वयम् ।
एनम् शत सहस्राणाम् सहस्रम् अभिवर्तते ॥६-२७-२८॥

वीर्यविक्रमदृप्तानाम् नर्दताम् बाहुशालिनाम् ।
स एष नेता न्हैतेषाम् वानराणाम् महात्मनम् ॥६-२७-२९॥

स एष दुर्मर्षणो राजन् प्रमाथी नाम यूथपः ।
वातेन इव उद्धतम् मेघम् यम् एनम् अनुपश्यसि ॥६-२७-३०॥

अनीकमपि सम्रब्धम् वानराणाम् तरस्विनाम् ।
उद्धूतमरुणाभासम् पवनेन समन्ततः ॥६-२७-३१॥

विवर्तमानम् बहुशो यत्र एतद् बहुलम् रजः ।
एते असित मुखा घोरा गो लान्गूला महाबलाः ॥६-२७-३२॥

शतम् शत सहस्राणि दृष्ट्वा वै सेतु बन्धनम् ।
गो लान्गूलम् महावेगम् गव अक्षम् नाम यूथपम् ॥६-२७-३३॥

परिवार्य अभिवर्तन्ते लंकाम् मर्दितुम् ओजसा ।
भ्रमर आचरिता यत्र सर्व काम फल द्रुमाः ॥६-२७-३४॥

यम् सूर्य तुल्य वर्ण आभम् अनुपर्येति पर्वतम् ।
यस्य भासा सदा भान्ति तद् वर्णा मृग पक्षिणः ॥६-२७-३५॥

यस्य प्रस्थम् महात्मानो न त्यजन्ति महर्षयः ।
सर्वकामफला वृक्षाः सर्वे फलसमन्विताः ॥६-२७-३६॥

मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे ।
तत्र एष रमते राजन् रम्ये कान्चन पर्वते ॥६-२७-३७॥

मुख्यो वानर मुख्यानाम् केसरी नाम यूथपः ।
षष्टिर् गिरि सहस्राणाम् रम्याः कान्चन पर्वताः ॥६-२७-३८॥

तेषाम् मध्ये गिरि वरस् त्वम् इव अनघ रक्षसाम् ।
तत्र एते कपिलाः श्वेतास् ताम्र आस्या मधु पिन्गलाः ॥६-२७-३९॥

निवसन्ति उत्तम गिरौ तीक्ष्ण दम्ष्ट्रा नख आयुधाः ।
सिम्ह इव चतुर् दम्ष्ट्रा व्याघ्रा इव दुरासदाः ॥६-२७-४०॥

सर्वे वैश्वनर समा ज्वलित आशी विष उपमाः ।
सुदीर्घ अन्चित लान्गूला मत्त मातम्ग सम्निभाः ॥६-२७-४१॥

महापर्वत सम्काशा महाजीमूत निस्वनाः ।
वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः ॥६-२७-४२॥

मर्दयन्तीव ते सर्वे तस्थुर्लङ्काम् समीक्ष्य ते ।
एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् ॥६-२७-४३॥

जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् ।
नाम्ना पृथिव्याम् विख्यातो राजन् शत बली इति यः ॥६-२७-४४॥

एष एव आशम्सते लंकाम् स्वेन अनीकेन मर्दितुम् ।
विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः ॥६-२७-४५॥

रामप्रियार्थम् प्राणानाम् दयाम् न कुरुते हरिः ।
गजो गव अक्षो गवयो नलो नीलः च वानरः ।
एक एक एव यूथानाम् कोटिभिर् दशभिर् वृतः ॥६-२७-४६॥

तथा अन्ये वानर श्रेष्ठा विन्ध्य पर्वत वासिनः ।
न शक्यन्ते बहुत्वात् तु सम्ख्यातुम् लघु विक्रमाः ॥६-२७-४७॥

सर्वे महाराज महाप्रभावाः ।
सर्वे महाशैल निकाश कायाः ।
सर्वे समर्थाः पृथिवीम् क्षणेन ।
कर्तुम् प्रविध्वस्त विकीर्ण शैलाम् ॥६-२७-४८॥

इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे सप्तविंशः सर्गः ॥६-२७॥

संबंधित कड़ियाँसंपादित करें

स्रोतःसंपादित करें

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।