रामायणम्/युद्धकाण्डम्/सर्गः १७
< रामायणम् | युद्धकाण्डम्
← सर्गः १६ | रामायणम्/युद्धकाण्डम् युद्धकाण्डम् वाल्मीकिः |
सर्गः १८ → |
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तदशः सर्गः ॥६-१७॥
इति उक्त्वा परुषम् वाक्यम् रावणम् रावण अनुजः । आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः ॥६-१७-१॥ तम् मेरु शिखर आकारम् दीप्ताम् इव शत ह्रदाम् । गगनस्थम् महीस्थास् ते ददृशुर् वानर अधिपाः ॥६-१७-२॥ ते चाप्यनुचरास्तस्य चत्वारो भीमविक्रमाः । तेऽपि वर्मायुधोपेता भूषणोत्तमभूषिताः ॥६-१७-३॥ स च मेघाचलप्रख्यो वज्रायुधसमप्रभः । वरायुधधरो वीरो दिव्याभरणभूषितः ॥६-१७-४॥ तम् आत्म पन्चमम् दृष्ट्वा सुग्रीवो वानर अधिपः । वानरैः सह दुर्धर्षः चिन्तयाम् आस बुद्धिमान् ॥६-१७-५॥ चिन्तयित्वा मुहूर्तम् तु वानराम्स् तान् उवाच ह । हनूमत् प्रमुखान् सर्वान् इदम् वचनम् उत्तमम् ॥६-१७-६॥ एष सर्व आयुध उपेतः चतुर्भिः सह राक्षसैः । राक्षसो अभ्येति पश्यध्वम् अस्मान् हन्तुम् न सम्शयः ॥६-१७-७॥ सुग्रीवस्य वचः श्रुत्वा सर्वे ते वानर उत्तमाः । सालान् उद्यम्य शैलामः च इदम् वचनम् अब्रुवन् ॥६-१७-८॥ शीघ्रम् व्यादिश नो राजन् वधाय एषाम् दुरात्मनाम् । निपतन्तु हताः च एते धरण्याम् अल्प जीविताः ॥६-१७-९॥ तेषाम् सम्भाषमाणानाम् अन्योन्यम् स विभीषणः । उत्तरम् तीरम् आसाद्य खस्थ एव व्यतिष्ठत ॥६-१७-१०॥ स उवाच च महाप्राज्ञः स्वरेण महता महान् । सुग्रीवम् तामः च सम्प्रेक्ष्य खस्थ एव विभीषणः ॥६-१७-११॥ रावणो नाम दुर्वृत्तो राक्षसो राक्षस ईश्वरः । तस्य अहम् अनुजो भ्राता विभीषण इति श्रुतः ॥६-१७-१२॥ तेन सीता जन स्थानाद्द् हृता हत्वा जटायुषम् । रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता ॥६-१७-१३॥ तम् अहम् हेतुभिर् वाक्यैर् विविधैः च न्यदर्शयम् । साधु निर्यात्यताम् सीता रामाय इति पुनः पुनः ॥६-१७-१४॥ स च न प्रतिजग्राह रावणः काल चोदितः । उच्यमानो हितम् वाक्यम् विपरीत इव औषधम् ॥६-१७-१५॥ सो अहम् परुषितस् तेन दासवच् च अवमानितः । त्यक्त्वा पुत्रामः च दारामः च राघवम् शरणम् गतः ॥६-१७-१६॥ निवेदेअयत माम् क्षिप्रम् राघवाय महात्मने । सर्व लोक शरण्याय विभीषणम् उपस्थितम् ॥६-१७-१७॥ एतत्तु वचनम् श्रुत्वा सुग्रीवो लघु विक्रमः । लक्ष्मणस्य अग्रतो रामम् सम्रब्धम् इदम् अब्रवीत् ॥६-१७-१८॥ प्रविष्टः शत्रु सैन्यम् हि प्राप्तः शत्रुरतर्कितः । निहन्यादन्न्तरम् लब्ध्वा उलूको वायसानिव ॥६-१७-१९॥ मन्त्रे व्यूहे नये चारे युक्तो भवितुमर्हसि । वानराणाम् च भद्रम् ते परेषाम् च परम्तप ॥६-१७-२०॥ अन्तर्धनगताह्येते राक्षसाः कामरूपिणः । शूराश्च निकृतिज्ञाश्च तेषाम् जातु न विश्वसेत् ॥६-१७-२१॥ प्रणीधी राक्षसेन्द्रस्य रावणस्य भवेदयम् । अनुप्रविश्य सोऽ स्मासु भेदम् कुर्यान्न सम्शयः ॥६-१७-२२॥ अथवा स्वयमेवैष चिद्रमासाद्य बुद्धिमान् । अनुप्रविश्य विश्वस्ते कदाचित्प्रहरेदपि ॥६-१७-२३॥ मित्राटवीबलम् चैव मौलभृत्यबलम् तथा । सर्वमेतद्बलम् ग्राह्यम् वर्जयित्वा द्विषद्बलम् ॥६-१७-२४॥ प्रकृत्या राक्षसो ह्येष भ्रातामित्रस्य वै प्रभो । आगतश्च रिपोः साक्षात्कथमस्मिम्श्च विश्वसेत् ॥६-१७-२५॥ रावणस्य अनुजो भ्राता विभीषण इति श्रुतः । चतुर्भिः सह रक्षोभिर् भवन्तम् शरणम् गतः ॥६-१७-२६॥ रावणेन प्रणिहितम् तम् अवेहि विभीषणम् । तस्य अहम् निग्रहम् मन्ये क्षमम् क्षमवताम् वर ॥६-१७-२७॥ राक्षसो जिह्मया बुद्ध्या सम्दिष्टो अयम् उपस्थितः । प्रहर्तुम् मायया चन्नो विश्वस्ते त्वयि राघव ॥६-१७-२८॥ बध्यताम् एष तीव्रेण दण्डेन सचिवैः सह । रावणस्य नृशम्सस्य भ्राता हि एष विभीषणः ॥६-१७-२९॥ एवम् उक्त्वा तु तम् रामम् सम्रब्धो वाहिनी पतिः । वाक्यज्ञो वाक्य कुशलम् ततो मौनम् उपागमत् ॥६-१७-३०॥ सुग्रीवस्य तु तद् वाक्यम् श्रुत्वा रामो महाबलः । समीपस्थान् उवाच इदम् हनूमत् प्रमुखान् हरीन् ॥६-१७-३१॥ यद् उक्तम् कपि राजेन रावण अवरजम् प्रति । वाक्यम् हेतुमद् अत्यर्थम् भवद्भिर् अपि तत् श्रुतम् ॥६-१७-३२॥ सुहृदा हि अर्थ कृच्चेषु युक्तम् बुद्धिमता सता । समर्थेन अपि सम्देष्टुम् शाश्वतीम् भूतिम् इच्चता ॥६-१७-३३॥ इति एवम् परिपृष्टास् ते स्वम् स्वम् मतम् अतन्द्रिताः । स उपचारम् तदा रामम् ऊचुर् हित चिकीर्षवः ॥६-१७-३४॥ अज्ञातम् न अस्ति ते किम्चित् त्रिषु लोकेषु राघव । आत्मानम् पूजयन् राम पृच्चसि अस्मान् सुहृत्तया ॥६-१७-३५॥ त्वम् हि सत्य व्रतः शूरो धार्मिको दृढ विक्रमः । परीक्ष्य कारा स्मृतिमान् निसृष्ट आत्मा सुहृत्सु च ॥६-१७-३६॥ तस्माद् एक एकशस् तावद् ब्रुवन्तु सचिवास् तव । हेतुतो मति सम्पन्नाः समर्थाः च पुनः पुनः ॥६-१७-३७॥ इति उक्ते राघवाय अथ मतिमान् अन्गदो अग्रतः । विभीषण परीक्षा अर्थम् उवाच वचनम् हरिः ॥६-१७-३८॥ शत्रोः सकाशात् सम्प्राप्तः सर्वथा शन्क्य एव हि । विश्वास योग्यः सहसा न कर्तव्यो विभीषणः ॥६-१७-३९॥ चादयित्वा आत्म भावम् हि चरन्ति शठ बुद्धयः । प्रहरन्ति च रन्ध्रेषु सो अनर्थः सुमहान् भवेत् ॥६-१७-४०॥ अर्थ अनर्थौ विनिश्चित्य व्यवसायम् भजेत ह । गुणतः सम्ग्रहम् कुर्याद् दोषतस् तु विसर्जयेत् ॥६-१७-४१॥ यदि दोषो महाम्स् तस्मिम्स् त्यज्यताम् अविशन्कितम् । गुणान् वा अपि बहून् ज्ञात्वा सम्ग्रहः क्रियताम् नृप ॥६-१७-४२॥ शरभस् त्व् अथ निश्चित्य सार्थम् वचनम् अब्रवीत् । क्षिप्रम् अस्मिन् नर व्याघ्र चारः प्रतिविधीयताम् ॥६-१७-४३॥ प्रणिधाय हि चारेण यथावत् सूक्ष्म बुद्धिना । परीक्ष्य च ततः कार्यो यथा न्यायम् परिग्रहः ॥६-१७-४४॥ जाम्बवाम्स् त्व् अथ सम्प्रेक्ष्य शास्त्र बुद्ध्या विचक्षणः । वाक्यम् विज्ञापयाम् आस गुणवद् दोष वर्जितम् ॥६-१७-४५॥ बद्ध वैराच् च पापाच् च राक्षस इन्द्राद् विभीषणः । अदेश काले सम्प्राप्तः सर्वथा शन्क्यताम् अयम् ॥६-१७-४६॥ ततो मैन्दस् तु सम्प्रेक्ष्य नय अपनय कोविदः । वाक्यम् वचन सम्पन्नो बभाषे हेतुमत्तरम् ॥६-१७-४७॥ अनुहो नाम तस्य एष रावणस्य विभीषणः । पृच्च्यताम् मधुरेण अयम् शनैर् नर वर ईश्वर ॥६-१७-४८॥ भावम् अस्य तु विज्ञाय ततस् तत्त्वम् करिष्यसि । यदि दृष्टो न दुष्टो वा बुद्धि पूर्वम् नरषभ ॥६-१७-४९॥ अथ सम्स्कार सम्पन्नो हनूमान् सचिव उत्तमः । उवाच वचनम् श्लक्ष्णम् अर्थवन् मधुरम् लघु ॥६-१७-५०॥ न भवन्तम् मति श्रेष्ठम् समर्थम् वदताम् वरम् । अतिशाययितुम् शक्तो बृहस्पतिर् अपि ब्रुवन् ॥६-१७-५१॥ न वादान् न अपि सम्घर्षान् न आधिक्यान् न च कामतः । वक्ष्यामि वचनम् राजन् यथा अर्थम् राम गौरवात् ॥६-१७-५२॥ अर्थ अनर्थ निमित्तम् हि यद् उक्तम् सचिवैस् तव । तत्र दोषम् प्रपश्यामि क्रिया न हि उपपद्यते ॥६-१७-५३॥ ऋते नियोगात् सामर्थ्यम् अवबोद्धुम् न शक्यते । सहसा विनियोगो हि दोषवान् प्रतिभाति मे ॥६-१७-५४॥ चार प्रणिहितम् युक्तम् यद् उक्तम् सचिवैस् तव । अर्थस्य असम्भवात् तत्र कारणम् न उपपद्यते ॥६-१७-५५॥ अदेश काले सम्प्राप्त इति अयम् यद् विभीषणः । विवक्षा च अत्र मे अस्ति इयम् ताम् निबोध यथा मति ॥६-१७-५६॥ स एष देशः कालः च भवति इह यथा तथा । पुरुषात् पुरुषम् प्राप्य तथा दोष गुणाव् अपि ॥६-१७-५७॥ दौरात्म्यम् रावणे दृष्ट्वा विक्रमम् च तथा त्वयि । युक्तम् आगमनम् तस्य सदृशम् तस्य बुद्धितः ॥६-१७-५८॥ अज्ञात रूपैः पुरुषैः स राजन् पृच्च्यताम् इति । यद् उक्तम् अत्र मे प्रेक्षा काचिद् अस्ति समीक्षिता ॥६-१७-५९॥ पृच्च्यमानो विशन्केत सहसा बुद्धिमान् वचः । तत्र मित्रम् प्रदुष्येत मिथ्य पृष्टम् सुख आगतम् ॥६-१७-६०॥ अशक्यः सहसा राजन् भावो वेत्तुम् परस्य वै । अन्तः स्वभावैर् गीतैस् तैर् नैपुण्यम् पश्यता भृशम् ॥६-१७-६१॥ न त्वस्य ब्रुवतो जातु लक्ष्यते दुष्ट भावता । प्रसन्नम् वदनम् च अपि तस्मान् मे न अस्ति सम्शयः ॥६-१७-६२॥ अशन्कित मतिः स्वस्थो न शठः परिसर्पति । न च अस्य दुष्टा वागस्ति तस्मान् न अस्ति इह सम्शयः ॥६-१७-६३॥ आकारः चाद्यमानो अपि न शक्यो विनिगूहितुम् । बलाद्द् हि विवृणोति एव भावम् अन्तर् गतम् नृणाम् ॥६-१७-६४॥ देश काल उपपन्नम् च कार्यम् कार्यविदाम् वर । सफलम् कुरुते क्षिप्रम् प्रयोगेण अभिसम्हितम् ॥६-१७-६५॥ उद्योगम् तव सम्प्रेक्ष्य मिथ्या वृत्तम् च रावणम् । वालिनः च वधम् श्रुत्वा सुग्रीवम् च अभिषेचितम् ॥६-१७-६६॥ राज्यम् प्रार्थयमानः च बुद्धि पूर्वम् इह आगतः । एतावत् तु पुरस् कृत्य युज्यते त्व् अस्य सम्ग्रहः ॥६-१७-६७॥ यथा शक्ति मया उक्तम् तु राक्षसस्य आर्जवम् प्रति । प्रमाणम् तु शेषस्य श्रुत्वा बुद्धिमताम् वर ॥६-१७-६८॥
इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे सप्तदशः सर्गः ॥६-१७॥
संबंधित कड़ियाँसंपादित करें
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।