रामायणम्/युद्धकाण्डम्/सर्गः ८७
← सर्गः ८६ | रामायणम् सर्गः ८७ वाल्मीकिः |
सर्गः ८८ → |
एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः ।
धनुष्पाणिनमादाय त्वरमाणो जगाम ह ।। ६.८७.१ ।।
अविदूरं ततो गत्वा प्रविश्य च महद्वनम् ।
दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः ।। ६.८७.२ ।।
नीलजीमूतसङ्काशं न्यग्रोधं भीमदर्शनम् ।
तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ।। ६.८७.३ ।।
इहोपहारं भूतानां बलवान् रावणात्मजः ।
उपहृत्य ततः पश्चात् सङ्ग्राममभिवर्तते ।। ६.८७.४ ।।
अदृश्यः सर्वभूतानां ततो भवति राक्षसः ।
निहन्ति समरे शत्रून् बध्नाति च शरोत्तमैः ।। ६.८७.५ ।।
तमप्रविष्टन्यग्रोधं बलिनं रावणात्मजम् ।
विध्वंसय शरैस्तीक्ष्णैः सरथं साश्वसारथिम् ।। ६.८७.६ ।।
तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः ।
बभूवावस्थितस्तत्र चित्रं विस्फारयन् धनुः ।। ६.८७.७ ।।
स रथेनाग्निवर्णेन बलवान् रावणात्मजः ।
इन्द्रजित् कवची धन्वी सध्वजः प्रत्यदृश्यत ।। ६.८७.८ ।।
तमुवाच महातेजाः पौलस्त्यमपराजितम् ।
समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ।। ६.८७.९ ।।
एवमुक्तो महातेजा मनस्वी रावणात्मजः ।
अब्रवीत् परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ।। ६.८७.१० ।।
इह त्वं जातसंवृद्धः साक्षाद्भ्राता पितुर्मम ।
कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ।। ६.८७.११ ।।
न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते ।
प्रमाणं न च सौदर्यं न धर्मो धर्मदूषण ।। ६.८७.१२ ।।
शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः ।
यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ।। ६.८७.१३ ।।
नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम् ।
क्वच स्वजनसंवासः क्वच नीचपराश्रयः ।। ६.८७.१४ ।।
गुणवान् वा परजनः स्वजनो निर्गुणो ऽपि वा ।
निर्गुणः स्वजनः श्रेयान् यः परः पर एव सः ।। ६.८७.१५ ।।
यः स्वपक्षं परित्यज्य परपक्षं निषेवते ।
स स्वपक्षे क्षयं प्राप्ते पश्चात्तैरेव हन्यते ।। ६.८७.१६ ।।
निरनुक्रोशता चेयं यादृशी ते निशाचर ।
स्वजनेन त्वया शक्यं परुषं रावणानुज ।। ६.८७.१७ ।।
इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः ।। ६.८७.१८ ।।
अजानन्निव मच्छीलं किं राक्षस विकत्थसे ।
राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् ।। ६.८७.१९ ।।
कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् ।
गुणो ऽयं प्रथमो नृणां तन्मे शीलमराक्षसम् ।। ६.८७.२० ।।
न रमे दारुणेनाहं न चाधर्मेण वै रमे ।
भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते ।। ६.८७.२१ ।।
धर्मात् प्रच्युतशीलं हि पुरुषं पापनिश्चयम् ।
त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा ।। ६.८७.२२ ।।
हिंसापरस्वहरणे परदाराभिमर्शनम् ।
त्याज्यमाहुर्दुराचारं वेश्म प्रज्वलितं यथा ।। ६.८७.२३ ।।
परस्वानां च हरणं परदाराभिमर्शनम् ।
सुहृदामतिशङ्का च त्रयो दोषाः क्षयाबहाः ।। ६.८७.२४ ।।
महर्षिणां वधो घोरः सर्वदेवैश्च विग्रहः ।
अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता ।। ६.८७.२५ ।।
एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः ।
गुणान् प्रच्छादयामासुः पर्वतानिव तोयदाः ।
दोषैरेतैः परित्यक्तो मया भ्राता पिता तव ।। ६.८७.२६ ।।
नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता ।। ६.८७.२७ ।।्छादयामासुः पर्वतानिव तोयदाः ।
अतिमानी च बालश्च दुर्विनीतश्च राक्षस ।
बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ।। ६.८७.२८ ।।
अद्य ते व्यसनं प्राप्तं किं मां त्वमिह वक्ष्यसि ।
प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम ।। ६.८७.२९ ।।
धर्षयित्वा च काकुत्स्थौ न शक्यं जीवितुं त्वया ।
युद्ध्यस्व नरदेवेन लक्ष्मणेन रणे सह ।
हतस्त्वं देवताकार्यं करिष्यसि यमक्षये ।। ६.८७.३० ।।
निदर्शयस्वात्मबलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम् ।
न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन् सबलो गमिष्यसि ।। ६.८७.३१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्ताशतीतितमः सर्गः ।। ८७ ।।