रामायणम्/युद्धकाण्डम्/सर्गः ४७
← सर्गः ४६ | रामायणम् सर्गः ४७ वाल्मीकिः |
सर्गः ४८ → |
प्रतिप्रविष्टे लङ्कां तु कृतार्थे रावणात्मजे ।
राघवं परिवार्यार्ता ररक्षुर्वानरर्षभाः ।। ६.४७.१ ।।
हनुमानङ्गदो नीलः सुषेणः कुमुदो नलः ।
गजो गवाक्षो गवयः शरभो गन्धमादनः ।
जाम्बवानृषभः स्कन्धो रम्भः शतवलिः पृथुः ।। ६.४७.२ ।।
व्यूढानीकाश्च यत्ताश्च द्रुमानादाय सर्वतः ।
वीक्षमाणा दिशः सर्वास्तिर्यगूर्ध्वं च वानराः ।
तृणेष्वपि च चेष्टत्सु राक्षसा इति मेनिरे ।। ६.४७.३ ।।
रावणश्चापि संहृष्टो विसृज्येन्द्रजितं सुतम् ।
आजुहाव ततः सीतारक्षिणी राक्षसीस्तदा ।। ६.४७.४ ।।
राक्षस्यस्त्रिजटा चैव शासनात् समुपस्थिताः ।। ६.४७.५ ।।
ता उवाच ततो हृष्टो राक्षसी राक्षसाधिपः ।। ६.४७.६ ।।
हताविन्द्रजिता ऽ ऽख्यात वैदेह्या रामलक्ष्मणौ ।
पुष्पकं च समारोप्य दर्शयध्वं हतौ रणे ।। ६.४७.७ ।।
यदाश्रयादवष्टब्धा नेयं मामुपतिष्ठति ।
सो ऽस्या भर्त्ता सह भ्रात्रा निरस्तो रणमूर्धनि ।। ६.४७.८ ।।
निर्विशङ्का निरुद्विग्ना निरपेक्षा च मैथिली ।
मामुपस्थास्यते सीता सर्वाभरणभूषिता ।। ६.४७.९ ।।
अद्य कालवशं प्राप्तं रणे रामं सलक्ष्मणम् ।
अवेक्ष्य विनिवृत्ताशा चान्यां गतिमपश्यती ।
निरपेक्षा विशालाक्षी मामुपस्थास्यते स्वयम् ।। ६.४७.१० ।।
तस्य तद्वचनं च श्रुत्वा रावणस्य दुरात्मनः ।
राक्षस्यस्तास्तथेत्युक्त्वा जग्मुर्वै यत्र पुष्पकम् ।। ६.४७.११ ।।
ततः पुष्पकमादाय राक्षस्यो रावणाज्ञया ।
अशोकवनिकास्थां तां मैथिलीं समुपानयन् ।। ६.४७.१२ ।।
तामादाय तु राक्षस्यो भर्तृशोकपराजिताम् ।
सीतामारोपयामासुर्विमानं पुष्पकं तदा ।। ६.४७.१३ ।।
ततः पुष्पकमारोप्य सीतां त्रिजटया सह ।
जग्मुर्दर्शयितुं तस्यै राक्षस्यो रामलक्ष्मणौ ।। ६.४७.१४ ।।
रावणो ऽकारयल्लङ्कां पताकाध्वजमालिनीम् ।
प्राघोषयत हृष्टश्च लङ्कायां राक्षसेश्वरः ।
राघवो लक्ष्मणश्चैव हताविन्द्रजिता रणे ।। ६.४७.१५ ।।
विमानेनापि सीता तु गत्वा त्रिजटया सह ।
ददर्श वानराणां तु सर्वं सैन्यं निपातितम् ।। ६.४७.१६ ।।
प्रहृष्टमनसश्चापि ददर्श पिशिताशनान् ।
वानरांश्चापि दुःखार्तान् रामलक्ष्मणपार्श्वतः ।। ६.४७.१७ ।।
ततः सीता ददर्शोभौ शयानौ शरतल्पयोः ।
लक्ष्मणं चापि रामं च विसञ्ज्ञौ शरपीडितौ ।। ६.४७.१८ ।।
विध्वस्तकवचौ वीरौ विप्रविद्धशरासनौ ।
सायकैश्छिन्नसर्वाङ्गौ शरस्तम्बमयौ क्षितौ ।। ६.४७.१९ ।।
तौ दृष्ट्वा भ्रातरौ तत्र वीरौ सा पुरुषर्षभौ ।
शयानौ पुण्डरीकाक्षौ कुमाराविव पावकी ।। ६.४७.२० ।।
शरतल्पगतौ वीरौ तथाभूतौ नरर्षभौ ।
दुःखार्ता सुभृशं सीता सुचिरं विललाप ह ।। ६.४७.२१ ।।
भर्तारमनवद्याङ्गी लक्ष्मणं चासितेक्षणा ।
प्रेक्ष्य पांसुषु वेष्टन्तौ रुरोद जनकात्मजा ।। ६.४७.२२ ।।
सा बाष्पशोकाभिहता समीक्ष्य तौ भ्रातरौ देवसमप्रभावौ ।
वितर्कयन्ती निधनं तयोः सा दुःखान्विता वाक्यमिदं जगाद ।। ६.४७.२३ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तचत्वारिंशः सर्गः ।। ४७ ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।