रामायणम्/युद्धकाण्डम्/सर्गः १०९
← सर्गः १०८ | रामायणम् सर्गः १०९(१०७) वाल्मीकिः |
सर्गः ११० → |
ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा ।
सुमहद्द्वैरथं युद्धं सर्वलोकभयावहम् ।। ६.१०९.१ ।।
ततो राक्षससैन्यं च हरीणां च महद्बलम् ।
प्रगृहीतप्रहरणं निश्चेष्टं समतिष्ठत ।। ६.१०९.२ ।।
सम्प्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ ।
व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः ।। ६.१०९.३ ।।
नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः ।
सर्पन्तं प्रेक्ष्य सङ्ग्रामं नाभिजग्मुः परस्परम् ।। ६.१०९.४ ।।
रक्षसां रावणं चापि वानराणां च राघवम् ।
पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ।। ६.१०९.५ ।।
तौ तु तत्र निमित्तानि दृष्ट्वा रावणराघवौ ।
कृतबुद्धी स्थिरामर्षौ युयुधाते ब्यभीतवत् ।। ६.१०९.६ ।।
जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः ।
धृतौ स्ववीर्यसर्वस्वं युद्धे ऽदर्शयतां तदा ।। ६.१०९.७ ।।
ततः क्रोधाद्दशग्रीवः शरान् सन्धाय वीर्यवान् ।
मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् ।। ६.१०९.८ ।।
ते शरास्तमनासाद्य पुरन्दररथध्वजम् ।
रथशक्तिं परामृश्य निपेतुर्धरणीतले ।। ६.१०९.९ ।।
ततो रामो ऽभिसङ्क्रुद्धश्चापमायम्य वीर्यवान् ।
कृतप्रतिकृतं कर्तुं मनसा सम्प्रचक्रमे ।। ६.१०९.१० ।।
रावणध्वजमुद्दिश्य मुमोच निशितं शरम् ।
महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा ।। ६.१०९.११ ।।
जगाम स महीं छित्त्वा दशग्रीवध्वजं शरः ।
स निकृत्तो ऽपतद्भूमौ रावणस्य रथध्वजः ।। ६.१०९.१२ ।।
ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः ।
सम्प्रदीप्तो ऽभवत् क्रोधादमर्षात् प्रदहन्निव ।। ६.१०९.१३ ।।
स रोषवशमापन्नः शरवर्षं महद्वमन् ।
रामस्य तुरगान् दीप्तैः शरैर्विव्याध रावणः ।। ६.१०९.१४ ।।
ते विद्धा हरयस्तत्र नास्खलन्नापि बभ्रमुः ।
बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः ।। ६.१०९.१५ ।।
तेषामसम्भ्रमं दृष्ट्वा वाजिनां रावणस्तदा ।
भूय एव सुसङ्क्रुद्धः शरवर्षं मुमोच ह ।। ६.१०९.१६ ।।
गदाश्च परिघाश्चैव चक्राणि मुसलानि च ।
गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान् ।। ६.१०९.१७ ।।
मायाविहितमेतत्तु शस्त्रवर्षमपातयत् ।
तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् ।। ६.१०९.१८ ।।
तद्वर्षमभवद्युद्धे नैकशस्त्रमयं महत् ।
विमुच्य राघवरथं समान्ताद्वानरे बले ।। ६.१०९.१९ ।।
सायकैरन्तरिक्षं च चकाराशु निरन्तरम् ।
सहस्रशस्ततो बाणानश्रान्तहृदयोद्यमः ।
मुमोच च दशग्रीवो निस्सङ्गेना ऽन्तरात्मना ।। ६.१०९.२० ।।
व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे ।
प्रहसन्निव काकुत्स्थः सन्दधे सायकान् शितान् ।। ६.१०९.२१ ।।
स मुमोच ततो बाणान् रणे शतसहस्रशः ।
तान् दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम् ।। ६.१०९.२२ ।।
ततस्ताभ्यां प्रमुक्तेन शरवर्षेण भास्वता ।
शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम् ।। ६.१०९.२३ ।।
नानिमित्तो ऽभवद्बाणो नातिभेत्ता न निष्फलः ।। ६.१०९.२४ ।।
अन्योन्यमभिसंहत्य निपेतुर्धरणीतले ।
तथा विसृजतोर्बाणान् रामरावणयोर्मृधे ।। ६.१०९.२५ ।।
प्रायुद्ध्यतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम् ।
चक्रतुश्च शरौघैस्तौ निरुच्छ्वासमिवाम्बरम् ।। ६.१०९.२६ ।।
रावणस्य हयान् रामो हयान् रामस्य रावणः ।
जघ्नतुस्तौ तथा ऽन्योन्यं कृतानुकृतकारिणौ ।। ६.१०९.२७ ।।
एवं तौ तु सुसङ्क्रुद्धौ चक्रतुर्युद्धमद्भुतम् ।
मुहूर्तमभवद्युद्धं तुमुलं रोमहर्षणम् ।। ६.१०९.२८ ।।
प्रयुध्यमानौ समरे महाबलौ शितैः शरै रावणलक्ष्मणाग्रजौ ।
ध्वजावपातेन स राक्षसाधिपो भृशं प्रचुक्रोध तदा रघूत्तमे ।। ६.१०९.२९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे नवोत्तरशततमः सर्गः ।। १०९ ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।