रामायणम्/युद्धकाण्डम्/सर्गः १०७
← सर्गः १०६ | रामायणम् सर्गः १०७ वाल्मीकिः |
सर्गः १०८ → |
।। आदित्यहृदयप्रारम्भः ।।
ततो युद्धपरिश्रन्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ।। ६.१०७.१ ।।
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपागम्याब्रवीद्राममगस्त्यो भगवानृषिः ।। ६.१०७.२ ।।
राम राम महाबाहो शृणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसि ।। ६.१०७.३ ।।
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।
जयावहं जपेन्नित्यमक्षय्यं परमं शिवम् ।। ६.१०७.४ ।।
सर्वमङ्गलमङ्गल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ।। ६.१०७.५ ।।
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ।। ६.१०७.६ ।।
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।
एष देवासुरगणान् लोकान् पाति गभिस्तिभिः ।। ६.१०७.७ ।।
एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः ।। ६.१०७.८ ।।
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजापाण ऋतुकर्ता प्रभाकरः ।। ६.१०७.९ ।।
आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ।। ६.१०७.१० ।।
हरिदश्वः सहस्रार्चिः सप्तसप्तिर्मरीचिमान् ।
तिमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्ड अंशुमान् ।। ६.१०७.११ ।।
हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः ।
अग्निगर्भो ऽदितेः पुत्रः शङ्खः शिशिरनाशनः ।। ६.१०७.१२ ।।
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ।। ६.१०७.१३ ।।
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोद्भवः ।। ६.१०७.१४ ।।
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन्नमो ऽस्तु ते ।। ६.१०७.१५ ।।
नमः पूर्वाय गिरये पश्चिमे गिरये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ।। ६.१०७.१६ ।।
जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्रांशो आदित्याय नमो नमः ।। ६.१०७.१७ ।।
नम उग्राय वीराय सारङ्गाय नमो नमः ।
नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ।। ६.१०७.१८ ।।
ब्रह्मोशानाच्युतेशाय सूर्यायादित्यवर्चसे ।
भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ।। ६.१०७.१९ ।।
तमोघ्नाय हिमध्नाय शत्रुघ्नायामितात्मने ।
कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ।। ६.१०७.२० ।।
तप्तचामीकराभाय वह्नये विश्वकर्मणे ।
नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे ।। ६.१०७.२१ ।।
नाशयत्येष वै भूतं तदेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ।। ६.१०७.२२ ।।
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष एवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ।। ६.१०७.२३ ।।
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ।। ६.१०७.२४ ।।
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव ।। ६.१०७.२५ ।।
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ।। ६.१०७.२६ ।।
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि ।
एवमुक्त्वा तदा ऽगस्त्यो जगाम च यथागतम् ।। ६.१०७.२७ ।।
एतच्छुत्वा महातेजा नष्टशोको ऽभवत्तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ।। ६.१०७.२८ ।।
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ।। ६.१०७.२९ ।।
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।
सर्वयत्नेन महता वधे तस्य धृतो ऽभवत् ।। ६.१०७.३० ।।
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपतिसङ्क्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ।। ६.१०७.३१ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तोत्तरशततमः सर्गः ।। १०७ ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।