रामायणम्/युद्धकाण्डम्/सर्गः ९६

← सर्गः ९५ रामायणम्
सर्गः ९६
वाल्मीकिः
सर्गः ९७ →
षण्णवतितमः सर्गः श्रूयताम्
रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्विनवतितमः सर्गः ॥६-९६॥

तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः।
बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा॥ १॥

रावणस्याप्रसह्यं तं शरसम्पातमेकतः।
न शेकुः सहितुं दीप्तं पतङ्गा ज्वलनं यथा॥ २॥

तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः।
पावकार्चिः समाविष्टा दह्यमाना यथा गजाः॥ ३॥

प्लवंगानामनीकानि महाभ्राणीव मारुतः।
संययौ समरे तस्मिन् विधमन् रावणः शरैः॥ ४॥

कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम्।
आससाद ततो युद्धे त्वरितं राघवं रणे॥ ५॥

सुग्रीवस्तान् कपीन् दृष्ट्वा भग्नान् विद्रावितान् रणे।
गुल्मे सुषेणं निक्षिप्य चक्रे युद्धे द्रुतं मनः॥ ६॥

आत्मनः सदृशं वीरं स तं निक्षिप्य वानरम्।
सुग्रीवोऽभिमुखं शत्रुं प्रतस्थे पादपायुधः॥ ७॥

पार्श्वतः पृष्ठतश्चास्य सर्वे वानरयूथपाः।
अनुजग्मुर्महाशैलान् विविधांश्च वनस्पतीन्॥ ८॥

ननर्द युधि सुग्रीवः स्वरेण महता महान्।
पोथयन् विविधांश्चान्यान् ममन्थोत्तमराक्षसान्॥ ९॥

ममर्द च महाकायो राक्षसान् वानरेश्वरः।
युगान्तसमये वायुः प्रवृद्धानगमानिव॥ १०॥

राक्षसानामनीकेषु शैलवर्षं ववर्ष ह।
अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने॥ ११॥

कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः।
विकीर्णशिरसः पेतुर्विकीर्णा इव पर्वताः॥ १२॥

अथ संक्षीयमाणेषु राक्षसेषु समन्ततः।
सुग्रीवेण प्रभग्नेषु नदत्सु च पतत्सु च॥ १३॥

विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः।
रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत्॥ १४॥

स तं द्विपमथारुह्य विरूपाक्षो महाबलः।
ननर्द भीमनिर्ह्रादं वानरानभ्यधावत॥ १५॥

सुग्रीवे स शरान् घोरान् विससर्ज चमूमुखे।
स्थापयामास चोद्विग्नान् राक्षसान् सम्प्रहर्षयन्॥ १६॥

सोऽतिविद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा।
चुक्रोश च महाक्रोधो वधे चास्य मनो दधे॥ १७॥

ततः पादपमुद‍्धृत्य शूरः सम्प्रधनो हरिः।
अभिपत्य जघानास्य प्रमुखे तं महागजम्॥ १८॥

स तु प्रहाराभिहतः सुग्रीवेण महागजः।
अपासर्पद् धनुर्मात्रं निषसाद ननाद च॥ १९॥

गजात् तु मथितात् तूर्णमपक्रम्य स वीर्यवान्।
राक्षसोऽभिमुखः शत्रुं प्रत्युद‍्गम्य ततः कपिम्॥ २०॥

आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः।
भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम्॥ २१॥

स हि तस्याभिसंक्रुद्धः प्रगृह्य विपुलां शिलाम्।
विरूपाक्षस्य चिक्षेप सुग्रीवो जलदोपमाम्॥ २२॥

स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुंगवः।
अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत् तदा॥ २३॥

तेन खड्गप्रहारेण रक्षसा बलिना हतः।
मुहूर्तमभवद् भूमौ विसंज्ञ इव वानरः॥ २४॥

सहसा स तदोत्पत्य राक्षसस्य महाहवे।
मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि॥ २५॥

मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः।
तेन खड्गेन संक्रुद्धः सुग्रीवस्य चमूमुखे॥ २६॥

कवचं पातयामास पद्‍भ्यामभिहतोऽपतत्।
स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत्॥ २७॥

तलप्रहारमशनेः समानं भीमनिःस्वनम्।
तलप्रहारं तद् रक्षः सुग्रीवेण समुद्यतम्॥ २८॥

नैपुण्यान्मोचयित्वैनं मुष्टिनोरसि ताडयत्।
ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः॥ २९॥

मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा।
स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः॥ ३०॥

ततोऽन्यं पातयत् क्रोधाच्छङ्खदेशे महातलम्।
महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ॥ ३१॥

पपात रुधिरक्लिन्नः शोणितं हि समुद‍‍्गिरन्।
स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव॥ ३२॥

विवृत्तनयनं क्रोधात् सफेनं रुधिराप्लुतम्।
ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम्॥ ३३॥

स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम्।
करुणं च विनर्दन्तं ददृशुः कपयो रिपुम्॥ ३४॥

तथा तु तौ संयति सम्प्रयुक्तौ
तरस्विनौ वानरराक्षसानाम्।
बलार्णवौ सस्वनतुश्च भीमौ
महार्णवौ द्वाविव भिन्नसेतू॥ ३५॥

विनाशितं प्रेक्ष्य विरूपनेत्रं
महाबलं तं हरिपार्थिवेन।
बलं समेतं कपिराक्षसाना-
मुद‍्वृत्तगङ्गाप्रतिमं बभूव॥ ३६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षण्णवतितमः सर्गः ॥ ९६ ॥

स्रोतःसंपादित करें

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।