रामायणम्/युद्धकाण्डम्/सर्गः ५१
← सर्गः ५० | रामायणम् सर्गः ५१ वाल्मीकिः |
सर्गः ५२ → |
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकपञ्चाशः सर्गः ॥६-५१॥
तेषां तु तुमुलं शब्दं वानराणां महौजसाम्।
नर्दतां राक्षसैः सार्धं तदा शुश्राव रावणः॥ १॥
स्निग्धगम्भीरनिर्घोषं श्रुत्वा तं निनदं भृशम्।
सचिवानां ततस्तेषां मध्ये वचनमब्रवीत्॥ २॥
यथासौ सम्प्रहृष्टानां वानराणामुपस्थितः।
बहूनां सुमहान् नादो मेघानामिव गर्जताम्॥ ३॥
सुव्यक्तं महती प्रीतिरेतेषां नात्र संशयः।
तथाहि विपुलैर्नादैश्चुक्षुभे लवणार्णवः॥ ४॥
तौ तु बद्धौ शरैस्तीक्ष्णैर्भ्रातरौ रामलक्ष्मणौ।
अयं च सुमहान् नादः शङ्कां जनयतीव मे॥ ५॥
एवं च वचनं चोक्त्वा मन्त्रिणो राक्षसेश्वरः।
उवाच नैर्ऋतांस्तत्र समीपपरिवर्तिनः॥ ६॥
ज्ञायतां तूर्णमेतेषां सर्वेषां च वनौकसाम्।
शोककाले समुत्पन्ने हर्षकारणमुत्थितम्॥ ७॥
तथोक्तास्ते सुसम्भ्रान्ताः प्राकारमधिरुह्य च।
ददृशुः पालितां सेनां सुग्रीवेण महात्मना॥ ८॥
तौ च मुक्तौ सुघोरेण शरबन्धेन राघवौ।
समुत्थितौ महाभागौ विषेदुः सर्वराक्षसाः॥ ९॥
संत्रस्तहृदयाः सर्वे प्राकारादवरुह्य ते।
विवर्णा राक्षसा घोरा राक्षसेन्द्रमुपस्थिताः॥ १०॥
तदप्रियं दीनमुखा रावणस्य च राक्षसाः।
कृत्स्नं निवेदयामासुर्यथावद् वाक्यकोविदाः॥ ११॥
यौ ताविन्द्रजिता युद्धे भ्रातरौ रामलक्ष्मणौ।
निबद्धौ शरबन्धेन निष्प्रकम्पभुजौ कृतौ॥ १२॥
विमुक्तौ शरबन्धेन दृश्येते तौ रणाजिरे।
पाशानिव गजौ छित्त्वा गजेन्द्रसमविक्रमौ॥ १३॥
तच्छ्रुत्वा वचनं तेषां राक्षसेन्द्रो महाबलः।
चिन्ताशोकसमाक्रान्तो विवर्णवदनोऽभवत्॥ १४॥
घोरैर्दत्तवरैर्बद्धौ शरैराशीविषोपमैः।
अमोघैः सूर्यसंकाशैः प्रमथ्येन्द्रजिता युधि॥ १५॥
तदस्त्रबन्धमासाद्य यदि मुक्तौ रिपू मम।
संशयस्थमिदं सर्वमनुपश्याम्यहं बलम्॥ १६॥
निष्फलाः खलु संवृत्ताः शराः पावकतेजसः।
आदत्तं यैस्तु संग्रामे रिपूणां जीवितं मम॥ १७॥
एवमुक्त्वा तु संक्रुद्धो निःश्वसन्नुरगो यथा।
अब्रवीद् रक्षसां मध्ये धूम्राक्षं नाम राक्षसम्॥ १८॥
बलेन महता युक्तो रक्षसां भीमविक्रम।
त्वं वधायाशु निर्याहि रामस्य सह वानरैः॥ १९॥
एवमुक्तस्तु धूम्राक्षो राक्षसेन्द्रेण धीमता।
परिक्रम्य ततः शीघ्रं निर्जगाम नृपालयात्॥ २०॥
अभिनिष्क्रम्य तद् द्वारं बलाध्यक्षमुवाच ह।
त्वरयस्व बलं शीघ्रं किं चिरेण युयुत्सतः॥ २१॥
धूम्राक्षवचनं श्रुत्वा बलाध्यक्षो बलानुगः।
बलमुद्योजयामास रावणस्याज्ञया भृशम्॥ २२॥
ते बद्धघण्टा बलिनो घोररूपा निशाचराः।
विनद्यमानाः संहृष्टा धूम्राक्षं पर्यवारयन्॥ २३॥
विविधायुधहस्ताश्च शूलमुद्गरपाणयः।
गदाभिः पट्टिशैर्दण्डैरायसैर्मुसलैरपि॥ २४॥
परिघैर्भिन्दिपालैश्च भल्लैः पाशैः परश्वधैः।
निर्ययू राक्षसा घोरा नर्दन्तो जलदा यथा॥ २५॥
रथैः कवचिनस्त्वन्ये ध्वजैश्च समलंकृतैः।
सुवर्णजालविहितैः खरैश्च विविधाननैः॥ २६॥
हयैः परमशीघ्रैश्च गजैश्चैव मदोत्कटैः।
निर्ययुर्नैर्ऋतव्याघ्रा व्याघ्रा इव दुरासदाः॥ २७॥
वृकसिंहमुखैर्युक्तं खरैः कनकभूषितैः।
आरुरोह रथं दिव्यं धूम्राक्षः खरनिःस्वनः॥ २८॥
स निर्यातो महावीर्यो धूम्राक्षो राक्षसैर्वृतः।
हसन् वै पश्चिमद्वाराद्धनूमान् यत्र तिष्ठति॥ २९॥
रथप्रवरमास्थाय खरयुक्तं खरस्वनम्।
प्रयान्तं तु महाघोरं राक्षसं भीमदर्शनम्॥ ३०॥
अन्तरिक्षगताः क्रूराः शकुनाः प्रत्यषेधयन्।
रथशीर्षे महाभीमो गृध्रश्च निपपात ह॥ ३१॥
ध्वजाग्रे ग्रथिताश्चैव निपेतुः कुणपाशनाः।
रुधिरार्द्रो महान् श्वेतः कबन्धः पतितो भुवि॥ ३२॥
विस्वरं चोत्सृजन्नादान् धूम्राक्षस्य निपातितः।
ववर्ष रुधिरं देवः संचचाल च मेदिनी॥ ३३॥
प्रतिलोमं ववौ वायुर्निर्घातसमनिःस्वनः।
तिमिरौघावृतास्तत्र दिशश्च न चकाशिरे॥ ३४॥
स तूत्पातांस्ततो दृष्ट्वा राक्षसानां भयावहान्।
प्रादुर्भूतान् सुघोरांश्च धूम्राक्षो व्यथितोऽभवत्।
मुमुहू राक्षसाः सर्वे धूम्राक्षस्य पुरःसराः॥ ३५॥
ततः सुभीमो बहुभिर्निशाचरै-
र्वृतोऽभिनिष्क्रम्य रणोत्सुको बली।
ददर्श तां राघवबाहुपालितां
महौघकल्पां बहु वानरीं चमूम्॥ ३६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकपञ्चाशः सर्गः ॥ ५१ ॥
स्रोतः
सम्पाद्यताम्पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।