रामायणम्/युद्धकाण्डम्/सर्गः ११५
← सर्गः ११४ | रामायणम् सर्गः ११५ वाल्मीकिः |
सर्गः ११६ → |
ते रावणवधं दृष्ट्वा देवगन्धर्वदानवाः ।
जग्मुः स्वैस्वैर्विमानैस्ते कथयन्तः शुभाः कथाः ।। ६.११५.१ ।।
रावणस्य वधं घोरं राघवस्य पराक्रमम् ।
सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम् ।। ६.११५.२ ।।
अनुरागं च वीर्यं च सौमित्रेर्लक्ष्मणस्य च ।
कथयन्तो महाभागा जग्मुर्हृष्टा यथागतम् ।। ६.११५.३ ।।
राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् ।
अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् ।। ६.११५.४ ।।
राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः ।
दिव्यं तं रथमास्थाय दिवमेवारुरोह सः ।। ६.११५.५ ।।
तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे ।
राघवः परमप्रीतः सुग्रीवं परिषस्वजे ।। ६.११५.६ ।।
परिष्वज्य च सुग्रीवं लक्ष्मणेन प्रचोदितः ।
पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम् ।। ६.११५.७ ।।
अब्रवीच्च तदा रामः समीपपरिवर्तिनम् ।
सौमित्रिं सत्यसम्पन्नं लक्ष्मणं दीप्ततेजसम् ।। ६.११५.८ ।।
विभीषणमिमं सौम्य लङ्कायामभिषेचय ।
अनुरक्तं च भक्तं च मम चैवोपकारिणम् ।। ६.११५.९ ।।
एष मे परमः कामो यदीमं रावणानुजम् ।
लङ्कायां सौम्य पश्येयमभिषिक्तं विबीषणम् ।। ६.११५.१० ।।
एवमुक्तस्तु सौमित्री राघवेण महात्मना ।
तथेत्युक्त्वा तु संहृष्टः सौवर्णं घटमाददे ।। ६.११५.११ ।।
तं घटं वानरेन्द्राणां हस्ते दत्त्वा मनोजवान् ।
आदिदेश महासत्त्वान् समुद्रसलिलानये ।। ६.११५.१२ ।।
इति शीघ्रं ततो गत्वा वानरास्ते महाबलाः ।
आगतास्तज्जलं गृह्य समुद्राद्वानरोत्तमाः ।। ६.११५.१३ ।।
ततस्त्वेकं घटं गृह्य संस्थाप्य परमासने ।
घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् ।। ६.११५.१४ ।।
लङ्कायां रक्षसां मध्ये राजानं रामशासनात् ।
विधिना मन्त्रदृष्टेन सुहृद्गणसमावृतम् ।
अभ्यषिञ्चत् स धर्मात्मा शुद्धात्मानं विभीषणम् ।। ६.११५.१५ ।।
तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः ।
दृष्ट्वा ऽभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् ।। ६.११५.१६ ।।
स तद्राज्यं महत् प्राप्य रामदत्तं विभीषणः ।
प्रकृतीः सान्त्वयित्वा च ततो राममुपागमत् ।। ६.११५.१७ ।।
अक्षतान् मोदकान् लाजान् दिव्याः सुमनसस्तदा ।
आजह्रुरथ संहृष्टाः पौरास्तस्मै निशाचराः ।। ६.११५.१८ ।।
स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् ।
मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् ।। ६.११५.१९ ।।
कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् ।
प्रतिजग्राह तत् सर्वं तस्यैव प्रियकाम्यया ।। ६.११५.२० ।।
ततः शैलोपमं वीरं प्राञ्जलिं पार्श्वतः स्थितम् ।
अब्रवीद्राघवो वाक्यं हनुमन्तं प्लवङ्गमम् ।। ६.११५.२१ ।।
अनुमान्यं महाराजमिमं सौम्य विभीषणम् ।। ६.११५.२२ ।।
गच्छ सौम्य पुरीं लङ्कामनुज्ञाप्य यथाविधि ।
प्रविश्य रावणगृहं विजयेनाभिनन्द्य च ।। ६.११५.२३ ।।
वैदेह्यै मां कुशलिनं ससुग्रीवं सलक्ष्मणम् ।
आचक्ष्व जयतां श्रेष्ठ रावणं च मया हतम् ।। ६.११५.२४ ।।
प्रियमेतदुदाहृत्य मैथिल्यास्त्वं हरीश्वर ।
प्रतिगृह्य च सन्देशमुपावर्तितुमर्हसि ।। ६.११५.२५ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे पञ्चदशोत्तरशततमः सर्गः ।। ११५ ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।