← सर्गः ५७ रामायणम्
सर्गः ५८
वाल्मीकिः
सर्गः ५९ →
अष्टपञ्चाशः सर्गः श्रूयताम्
रामायणम्/युद्धकाण्डम्
  1. सर्गः १
  2. सर्गः २
  3. सर्गः ३
  4. सर्गः ४
  5. सर्गः ५
  6. सर्गः ६
  7. सर्गः ७
  8. सर्गः ८
  9. सर्गः ९
  10. सर्गः १०
  11. सर्गः ११
  12. सर्गः १२
  13. सर्गः १३
  14. सर्गः १४
  15. सर्गः १५
  16. सर्गः १६
  17. सर्गः १७
  18. सर्गः १८
  19. सर्गः १९
  20. सर्गः २०
  21. सर्गः २१
  22. सर्गः २२
  23. सर्गः २३
  24. सर्गः २४
  25. सर्गः २५
  26. सर्गः २६
  27. सर्गः २७
  28. सर्गः २८
  29. सर्गः २९
  30. सर्गः ३०
  31. सर्गः ३१
  32. सर्गः ३२
  33. सर्गः ३३
  34. सर्गः ३४
  35. सर्गः ३५
  36. सर्गः ३६
  37. सर्गः ३७
  38. सर्गः ३८
  39. सर्गः ३९
  40. सर्गः ४०
  41. सर्गः ४१
  42. सर्गः ४२
  43. सर्गः ४३
  44. सर्गः ४४
  45. सर्गः ४५
  46. सर्गः ४६
  47. सर्गः ४७
  48. सर्गः ४८
  49. सर्गः ४९
  50. सर्गः ५०
  51. सर्गः ५१
  52. सर्गः ५२
  53. सर्गः ५३
  54. सर्गः ५४
  55. सर्गः ५५
  56. सर्गः ५६
  57. सर्गः ५७
  58. सर्गः ५८
  59. सर्गः ५९
  60. सर्गः ६०
  61. सर्गः ६१
  62. सर्गः ६२
  63. सर्गः ६३
  64. सर्गः ६४
  65. सर्गः ६५
  66. सर्गः ६६
  67. सर्गः ६७
  68. सर्गः ६८
  69. सर्गः ६९
  70. सर्गः ७०
  71. सर्गः ७१
  72. सर्गः ७२
  73. सर्गः ७३
  74. सर्गः ७४
  75. सर्गः ७५
  76. सर्गः ७६
  77. सर्गः ७७
  78. सर्गः ७८
  79. सर्गः ७९
  80. सर्गः ८०
  81. सर्गः ८१
  82. सर्गः ८२
  83. सर्गः ८३
  84. सर्गः ८४
  85. सर्गः ८५
  86. सर्गः ८६
  87. सर्गः ८७
  88. सर्गः ८८
  89. सर्गः ८९
  90. सर्गः ९०
  91. सर्गः ९१
  92. सर्गः ९२
  93. सर्गः ९३
  94. सर्गः ९४
  95. सर्गः ९५
  96. सर्गः ९६
  97. सर्गः ९७
  98. सर्गः ९८
  99. सर्गः ९९
  100. सर्गः १००
  101. सर्गः १०१
  102. सर्गः १०२
  103. सर्गः १०३
  104. सर्गः १०४
  105. सर्गः १०५
  106. सर्गः १०६
  107. सर्गः १०७
  108. सर्गः १०८
  109. सर्गः १०९
  110. सर्गः ११०
  111. सर्गः १११
  112. सर्गः ११२
  113. सर्गः ११३
  114. सर्गः ११४
  115. सर्गः ११५
  116. सर्गः ११६
  117. सर्गः ११७
  118. सर्गः ११८
  119. सर्गः ११९
  120. सर्गः १२०
  121. सर्गः १२१
  122. सर्गः १२२
  123. सर्गः १२३
  124. सर्गः १२४
  125. सर्गः १२५
  126. सर्गः १२६
  127. सर्गः १२७
  128. सर्गः १२८
  129. सर्गः १२९
  130. सर्गः १३०
  131. सर्गः १३१


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टपञ्चाशः सर्गः ॥६-५८॥

ततः प्रहस्तं निर्यान्तं दृष्ट्वा रणकृतोद्यमम्।
उवाच सस्मितं रामो विभीषणमरिंदमः॥ १॥

क एष सुमहाकायो बलेन महता वृतः।
आगच्छति महावेगः किंरूपबलपौरुषः॥ २॥

आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम्।
राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः॥ ३॥

एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः।
लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृतः।
वीर्यवानस्त्रविच्छूरः सुप्रख्यातपराक्रमः॥ ४॥

ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम्।
गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम्॥ ५॥

ददर्श महती सेना वानराणां बलीयसाम्।
अभिसंजातघोषाणां प्रहस्तमभिगर्जताम्॥ ६॥

खड्गशक्त्यृष्टिशूलाश्च बाणानि मुसलानि च।
गदाश्च परिघाः प्रासा विविधाश्च परश्वधाः॥ ७॥

धनूंषि च विचित्राणि राक्षसानां जयैषिणाम्।
प्रगृहीतान्यराजन्त वानरानभिधावताम्॥ ८॥

जगृहुः पादपांश्चापि पुष्पितांस्तु गिरींस्तथा।
शिलाश्च विपुला दीर्घा योद‍्धुकामाः प्लवंगमाः॥ ९॥

तेषामन्योन्यमासाद्य संग्रामः सुमहानभूत्।
बहूनामश्मवृष्टिं च शरवर्षं च वर्षताम्॥ १०॥

बहवो राक्षसा युद्धे बहून् वानरपुङ्गवान्।
वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून्॥ ११॥

शूलैः प्रमथिताः केचित् केचित् तु परमायुधैः।
परिघैराहताः केचित् केचिच्छिन्नाः परश्वधैः॥ १२॥

निरुच्छ्वासाः पुनः केचित् पतिता जगतीतले।
विभिन्नहृदयाः केचिदिषुसंधानसाधिताः॥ १३॥

केचिद् द्विधा कृताः खड्गैः स्फुरन्तः पतिता भुवि।
वानरा राक्षसैः शूरैः पार्श्वतश्च विदारिताः॥ १४॥

वानरैश्चापि संक्रुद्धै राक्षसौघाः समन्ततः।
पादपैर्गिरिशृङ्गैश्च सम्पिष्टा वसुधातले॥ १५॥

वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम्।
वमन् शोणितमास्येभ्यो विशीर्णदशनेक्षणाः॥ १६॥

आर्तस्वनं च स्वनतां सिंहनादं च नर्दताम्।
बभूव तुमुलः शब्दो हरीणां रक्षसामपि॥ १७॥

वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः।
विवृत्तवदनाः क्रूराश्चक्रुः कर्माण्यभीतवत्॥ १८॥

नरान्तकः कुम्भहनुर्महानादः समुन्नतः।
एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः॥ १९॥

तेषां निपततां शीघ्रं निघ्नतां चापि वानरान्।
द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम्॥ २०॥

दुर्मुखः पुनरुत्थाय कपिः सविपुलद्रुमम्।
राक्षसं क्षिप्रहस्तं तु समुन्नतमपोथयत्॥ २१॥

जाम्बवांस्तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम्।
पातयामास तेजस्वी महानादस्य वक्षसि॥ २२॥

अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान्।
वृक्षेण महता सद्यः प्राणान् संत्याजयद् रणे॥ २३॥

अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः।
चकार कदनं घोरं धनुष्पाणिर्वनौकसाम्॥ २४॥

आवर्त इव संजज्ञे सेनयोरुभयोस्तदा।
क्षुभितस्याप्रमेयस्य सागरस्येव निःस्वनः॥ २५॥

महता हि शरौघेण राक्षसो रणदुर्मदः।
अर्दयामास संक्रुद्धो वानरान् परमाहवे॥ २६॥

वानराणां शरीरैस्तु राक्षसानां च मेदिनी।
बभूवातिचिता घोरैः पर्वतैरिव संवृता॥ २७॥

सा मही रुधिरौघेण प्रच्छन्ना सम्प्रकाशते।
संछन्ना माधवे मासि पलाशैरिव पुष्पितैः॥ २८॥

हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम्।
शोणितौघमहातोयां यमसागरगामिनीम्॥ २९॥

यकृत् प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम्।
भिन्नकायशिरोमीनामङ्गावयवशाद्वलाम्॥ ३०॥

गृध्रहंसवराकीर्णां कङ्कसारससेविताम्।
मेदःफेनसमाकीर्णामार्तस्तनितनिःस्वनाम्॥ ३१॥

तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम्।
नदीमिव घनापाये हंससारससेविताम्॥ ३२॥

राक्षसाः कपिमुख्यास्ते तेरुस्तां दुस्तरां नदीम्।
यथा पद्मरजोध्वस्तां नलिनीं गजयूथपाः॥ ३३॥

ततः सृजन्तं बाणौघान् प्रहस्तं स्यन्दने स्थितम्।
ददर्श तरसा नीलो विधमन्तं प्लवंगमान्॥ ३४॥

उद्‍धूत इव वायुः खे महदभ्रबलं बलात्।
समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः॥ ३५॥

रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे।
स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे॥ ३६॥

नीलाय व्यसृजद् बाणान् प्रहस्तो वाहिनीपतिः।
ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः॥ ३७॥

महीं जग्मुर्महावेगा रोषिता इव पन्नगाः।
नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः॥ ३८॥

स तं परमदुर्धर्षमापतन्तं महाकपिः।
प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान्॥ ३९॥

स तेनाभिहतः क्रुद्धो नर्दन् राक्षसपुंगवः।
ववर्ष शरवर्षाणि प्लवंगानां चमूपतौ॥ ४०॥

तस्य बाणगणानेव राक्षसस्य दुरात्मनः।
अपारयन् वारयितुं प्रत्यगृह्णान्निमीलितः।
यथैव गोवृषो वर्षं शारदं शीघ्रमागतम्॥ ४१॥

एवमेव प्रहस्तस्य शरवर्षान् दुरासदान्।
निमीलिताक्षः सहसा नीलः सेहे दुरासदान्॥ ४२॥

रोषितः शरवर्षेण सालेन महता महान्।
प्रजघान हयान् नीलः प्रहस्तस्य महाबलः॥ ४३॥

ततो रोषपरीतात्मा धनुस्तस्य दुरात्मनः।
बभञ्ज तरसा नीलो ननाद च पुनः पुनः॥ ४४॥

विधनुः स कृतस्तेन प्रहस्तो वाहिनीपतिः।
प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे॥ ४५॥

तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ।
स्थितौ क्षतजसिक्ताङ्गौ प्रभिन्नाविव कुञ्जरौ॥ ४६॥

उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम्।
सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ॥ ४७॥

विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ।
काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोरिव॥ ४८॥

आजघान तदा नीलं ललाटे मुसलेन सः।
प्रहस्तः परमायत्तस्ततः सुस्राव शोणितम्॥ ४९॥

ततः शोणितदिग्धाङ्गः प्रगृह्य च महातरुम्।
प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः॥ ५०॥

तमचिन्त्यप्रहारं स प्रगृह्य मुसलं महत्।
अभिदुद्राव बलिनं बलान्नीलं प्लवङ्गमम्॥ ५१॥

तमुग्रवेगं संरब्धमापतन्तं महाकपिः।
ततः सम्प्रेक्ष्य जग्राह महावेगो महाशिलाम्॥ ५२॥

तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः।
प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत्॥ ५३॥

नीलेन कपिमुख्येन विमुक्ता महती शिला।
बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा॥ ५४॥

स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः।
पपात सहसा भूमौ छिन्नमूल इव द्रुमः॥ ५५॥

विभिन्नशिरसस्तस्य बहु सुस्राव शोणितम्।
शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा॥ ५६॥

हते प्रहस्ते नीलेन तदकम्प्यं महाबलम्।
राक्षसानामहृष्टानां लङ्कामभिजगाम ह॥ ५७॥

न शेकुः समवस्थातुं निहते वाहिनीपतौ।
सेतुबन्धं समासाद्य विशीर्णं सलिलं यथा॥ ५८॥

हते तस्मिंश्चमूमुख्ये राक्षसास्ते निरुद्यमाः।
रक्षःपतिगृहं गत्वा ध्यानमूकत्वमागताः॥ ५९॥

प्राप्ताः शोकार्णवं तीव्रं विसंज्ञा इव तेऽभवन्॥ ६०॥

ततस्तु नीलो विजयी महाबलः
प्रशस्यमानः सुकृतेन कर्मणा।
समेत्य रामेण सलक्ष्मणेन
प्रहृष्टरूपस्तु बभूव यूथपः॥ ६१॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।