रामायणम्/युद्धकाण्डम्/सर्गः ७६
← सर्गः ७५ | रामायणम् सर्गः ७६ वाल्मीकिः |
सर्गः ७७ → |
प्रवृत्ते सङ्कुले तस्मिन् घोरे वीरजनक्षये ।
अङ्गदः कम्पनं वीरमाससाद रणोत्सुकः ।। ६.७६.१ ।।
आहूय सो ऽङ्गदं कोपात् ताडयामास वेगितः ।
गदया कम्पनः पूर्वं स चचाल भृशाहतः ।। ६.७६.२ ।।
स सञ्ज्ञां प्राप्य तेजस्वी चिक्षेप शिखरं गिरेः ।
अर्दितश्च प्रहारेण कम्पनः पतितो भुवि ।। ६.७६.३ ।।
ततस्तु कम्पनं दृष्ट्वा शोणिताक्षो हतं रणे ।
रथेनाभ्यपतत् क्षिप्रं तत्राङ्गदमभीतवत् ।। ६.७६.४ ।।
सो ऽङ्गदं निशितैर्बाणैस्तदा विव्याध वेगितः ।
शरीरदारणैस्तीक्ष्णैः कालाग्निसमविग्रहैः ।। ६.७६.५ ।।
क्षुरक्षुरप्रैर्नाराचैर्वत्सदन्तैः शिलीमुखैः ।
कर्णिशल्यविपाठैश्च बहुभिर्निशितैः शरैः ।। ६.७६.६ ।।
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रः प्रतापवान् ।
धनुरग्र्यं रथं बाणान् ममर्द तरसा बली ।। ६.७६.७ ।।
शोणिताक्षस्ततः क्षिप्रमसिचर्म समाददे ।
उत्पपात दिवं क्रुद्धो वेगवानविचारयन् ।। ६.७६.८ ।।
तं क्षिप्रतरमाप्लुत्य परामृश्याङ्गदो बली ।
करेण तस्य तं खड्गं समाच्छिद्य ननाद च ।। ६.७६.९ ।।
तस्यांसफलके खड्गं निजघान ततो ऽङ्गदः ।
यज्ञोपवीतवच्चैनं चिच्छेद कपिकुञ्जरः ।। ६.७६.१० ।।
तं प्रगृह्य महाखड्गं विनद्य च पुनःपुनः ।
वालिपुत्रो ऽभिदुद्राव रणशीर्षे परानरीन् ।। ६.७६.११ ।।
आयसीं तु गदां वीरः प्रगृह्य कनकाङ्गदः ।
शोणिताक्षः समाविध्य तमेवानुपपात ह ।। ६.७६.१२ ।।
प्रजङ्घसहितो वीरो यूपाक्षस्तु ततो बली ।
रथेनाभिययौ क्रुद्धो वालिपुत्रं महाबलम् ।। ६.७६.१३ ।।
तयोर्मध्ये कपिश्रेष्ठः शोणिताक्षप्रजङ्घयोः ।
विशाखयोर्मध्यगतः पूर्णचन्द्र इवाभवत् ।। ६.७६.१४ ।।
अङ्गदं परिरक्षान्तौ मैन्दो द्विविद एव च ।
तस्य तस्थातुरभ्याशे परस्परदिदृक्षया ।। ६.७६.१५ ।।
अभिपेतुर्महाकायाः प्रतियत्ता महाबलाः ।
राक्षसा वानरान् रोषादसिचर्मगदाधराः ।। ६.७६.१६ ।।
त्रयाणां वानरेन्द्राणां त्रिभी राक्षसपुङ्गवैः ।
संसक्तानां महद्युद्धमभवद्रोमहर्षणम् ।। ६.७६.१७ ।।
ते तु वृक्षान् समादाय सम्प्रचिक्षिपुराहवे ।
खड्गेन प्रतिचिच्छेद तान् प्रजङ्घो महाबलः ।। ६.७६.१८ ।।
रथानश्वान् द्रुमैः शैलैस्ते प्रचिक्षिपुराहवे ।
शरौधैः प्रतिचिच्छेद तान् यूपाक्षो निशाचरः ।। ६.७६.१९ ।।
सृष्टान् द्विविदमैन्दाभ्यां द्रुमानुत्पाट्य वीर्यवान् ।
बभञ्ज गदया मध्ये शोणिताक्षः प्रतापवान् ।। ६.७६.२० ।।
उद्यम्य विपुलं खड्गं परमर्मनिकृन्तनम् ।
प्रजङ्घो वालिपुत्राय अभिदुद्राव वेगितः ।। ६.७६.२१ ।।
तमभ्याशगतं दृष्ट्वा वानरेन्द्रो महाबलः ।
आजघानाश्वकर्णेन द्रुमेणातिबलस्तदा ।। ६.७६.२२ ।।
बाहुं चास्य सनिस्त्रिंशमाजघान स मुष्टिना ।
वालिपुत्रस्य घातेन स पपात क्षितावसिः ।। ६.७६.२३ ।।
तं दृष्ट्वा पतितं भूमौ खड्गमुत्पलसन्निभम् ।
मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ।। ६.७६.२४ ।।
ललाटे स महावीर्यमङ्गदं वानरर्षभम् ।
आजघान महातेजाः स मुहूर्तं चचाल ह ।। ६.७६.२५ ।।
स सञ्ज्ञां प्राप्य तेजस्वी वालिपुत्रः प्रतापवान् ।
प्रजङ्घस्य शिरः कायात् खड्गेनापातयत् क्षितौ ।। ६.७६.२६ ।।
स यूपाक्षो ऽश्रुपूर्णाक्षः पितृव्ये निहते रणे ।
अवरुह्य रथात् क्षिप्रं क्षीणेषुः खड्गमाददे ।। ६.७६.२७ ।।
तमापतन्तं सम्प्रेक्ष्य यूपाक्षं द्विविदस्त्वरन् ।
आजघानोरसि क्रुद्धो जाग्राह च बलाद्बली ।। ६.७६.२८ ।।
गृहीतं भ्रातरं दृष्ट्वा शोणिताक्षो महाबलः ।
आजघान गदाग्रेण वक्षसि द्विविदं ततः ।। ६.७६.२९ ।।
स गदाभिहतस्तेन चचाल च महाबलः ।
उद्यतां च पुनस्तस्य जहार द्विविदो गदाम् ।। ६.७६.३० ।।
एतस्मिन्नन्तरे वीरो मैन्दो वानरयूथपः ।
यूपाक्षं ताडयामास तलेनोरसि वीर्यवान् ।। ६.७६.३१ ।।
तौ शोणिताक्षयूपाक्षौ प्लवङ्गाभ्यां तरस्विनौ ।
चक्रुतुः समरे तीव्रमाकर्षोत्पाटनं भृशम् ।। ६.७६.३२ ।।
द्विविदः शोणिताक्षं तु विददार नखैर्मुखे ।
निष्पिपेष च वगेन क्षितावाविध्य वीर्यवान् ।। ६.७६.३३ ।।
यूपाक्षमपि सङ्क्रुद्धो मैन्दो वानरयूथपः ।
पीडयामास बाहुभ्यां स पपात हतः क्षितौ ।। ६.७६.३४ ।।
हतप्रवीरा व्यथिता राक्षसेन्द्रचमूस्तदा ।
जगामाभिमुखी सा तु कुम्भकर्णसुतो यतः ।। ६.७६.३५ ।।
आपतन्तीं च वेगेन कुम्भस्तां सान्त्वयच्चमूम् ।। ६.७६.३६ ।।
अथोत्कृष्टं महावीर्यैर्लब्धलक्षैः प्लवङ्गमैः ।
निपातितमहावीरां दृष्ट्वा रक्षश्चमूं ततः ।
कुम्भः प्रचक्रे तेजस्वी रणे कर्म सुदुष्करम् ।। ६.७६.३७ ।।
स धनुर्धन्विनां श्रेष्ठः प्रगृह्य सुसमाहितः ।
मुमोचाशीविषप्रख्यान् शरान् देहविदारणान् ।। ६.७६.३८ ।।
तस्य तच्छुशुभे भूयः सशरं धनुरुत्तमम् ।
विद्युदैरावतार्चिष्माद्द्वितीयेन्द्रधनुर्यथा ।। ६.७६.३९ ।।
आकर्णाकृष्टमुक्तेन जघान द्विविदं तदा ।
तेन हाटकपुङ्खेन पत्रिणा पत्रवाससा ।। ६.७६.४० ।।
सहसा ऽभिहतस्तेन विप्रमुक्तपदः स्फुरन् ।
निपपाताद्रिकूटाभो विह्वलः प्लवगोत्तमः ।। ६.७६.४१ ।।
मैन्दस्तु भ्रातरं दृष्ट्वा भग्नं तत्र महाहवे ।
अभिदुद्राव वेगेन प्रगृह्य महतीं शिलाम् ।। ६.७६.४२ ।।
तां शिलां तु प्रचिक्षेप राक्षसाय महाबलः ।
बिभेद तां शिलां कुम्भः प्रसन्नैः पञ्चभिः शरैः ।। ६.७६.४३ ।।
सन्धाय चान्यं सुमुखं शरमासीविषोपमम् ।
आजघान महातेजा वक्षसि द्विविदाग्रजम् ।। ६.७६.४४ ।।
स तु तेन प्रहारेण मैन्दो वानरयूथपः ।
मर्मण्यभिहतस्तेन पपात भुवि मूर्च्छितः ।। ६.७६.४५ ।।
अङ्गदो मातुलौ दृष्ट्वा पतितौ तु महाबलौ ।
अभिदुद्राव वेगेन कुम्भमद्युतकार्मुकम् ।। ६.७६.४६ ।।
तमापतन्तं विव्याध कुम्भः पञ्चभिरायसैः ।
त्रिभिश्चान्यैः शितैर्बाणैर्मातङ्गमिव तोमरैः ।। ६.७६.४७ ।।
सो ऽङ्गदं विविधैर्बाणैः कुम्भो विव्याध वीर्यवान् ।
अकुण्ठधारैर्निशितैस्तीक्ष्णैः कनकभूषणैः ।। ६.७६.४८ ।।
अङ्गदः प्रतिविद्धाङ्गो वालिपुत्रो न कम्पते ।
शिलापादपवर्षाणि तस्य मूर्ध्नि ववर्ष ह ।। ६.७६.४९ ।।
स प्रचिच्छेद तान् सर्वान् बिभेद च पुनः शिलाः ।
कुम्भकर्णात्मजः श्रीमान् वालिपुत्रसमीरितान् ।। ६.७६.५० ।।
आपतन्तं च सम्प्रेक्ष्य कुम्भो वानरयूथपम् ।
भ्रुवोर्विव्याध बाणाभ्यामुल्काभ्यामिव कुञ्जरम् ।
तस्य सुस्राव रुधिरं पिहिते चास्य लोचने ।। ६.७६.५१ ।।
अङ्गदः पाणिना नेत्रे पिधाय रुधिरोक्षिते ।
सालमासन्नमेकेन परिजग्राह पाणिना ।। ६.७६.५२ ।।् ।
सम्पीड्य चोरसि स्कन्धं करेणाभिनिवेश्य च ।
किञ्चिदभ्यवनम्यैनमुन्ममाथ यथा गजः ।। ६.७६.५३ ।।।
तमिन्द्रकेतुप्रतिमं वृक्षं मन्दरसन्निभम् ।
समुत्सृजन्तं वेगेन पश्यतां सर्वरक्षसाम् ।। ६.७६.५४ ।।
स बिभेद शितैर्बाणैः सप्तभिः कायभेदनैः ।। ६.७६.५५ ।।
अङ्गदो विव्यथे ऽभीक्ष्णं ससाद च मुमोह च ।। ६.७६.५६ ।।
अङ्गदं व्यथितं दृष्ट्वा सीदन्तमिव सागरे ।
दुरासदं हरिश्रेष्ठं रामायन्ये न्यवेदयन् ।। ६.७६.५७ ।।
रामस्तु व्यथितं श्रुत्वा वालिपुत्रं रणाजिरे ।
व्यादिदेश हरिश्रेष्ठान् जाम्बवत्प्रमुखांस्ततः ।। ६.७६.५८ ।।
ते तु वानरशार्दूलाः श्रुत्वा रामस्य शासनम् ।
अभिपेतुः सुसङ्क्रुद्धाः कुम्भमुद्यतकार्मुकम् ।। ६.७६.५९ ।।
ततो द्रुमशिलाहस्ताः कोपसंरक्तलोचनाः ।
रिरक्षिषन्तो ऽभ्यपतन्नङ्गदं वानरर्षभाः ।। ६.७६.६० ।।
जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः ।
कुम्भकर्णात्मजं वीरं क्रुद्धाः समभिदुद्रुवुः ।। ६.७६.६१ ।।
समीक्ष्यापततस्तांस्तु वानरेन्द्रान् महाबलान् ।
आववार शरौघेण नगेनेव जलाशयम् ।। ६.७६.६२ ।।
तस्य बाणपथं प्राप्य न शोकुरतिवर्तितुम् ।
वानरेन्द्रा महात्मानो वेलामिव महोदधिः ।। ६.७६.६३ ।।
तांस्तु दृष्ट्वा हरिगणान् शरवृष्टिबिरर्दितान् ।
अङ्गदं पृष्ठतः कृत्वा भ्रातृजं प्लवगेश्वरः ।। ६.७६.६४ ।।
अबिदुद्राव वेगेन सुग्रीवः कुम्भमाहवे ।
शैलसानुचरं नागं वेगवानिव केसरी ।। ६.७६.६५ ।।
उत्पाट्य च महाशैलानश्वकर्णान् धवान् बहून् ।
अन्यांश्च विविधान् वृक्षांश्चिक्षेप च महाबलः ।। ६.७६.६६ ।।
तां छादयन्तीमाकाशं वृक्षवृष्टिं दुरासदाम् ।
कुम्भकर्णात्मजः शीघ्रं चिच्छेद निशितैः शरैः ।। ६.७६.६७ ।।
अभिलक्षेण तीव्रेण कुम्भेन निशितैः शरैः ।
आचितास्ते द्रुमा रेजुर्यथा घोराः शतघ्नयः ।। ६.७६.६८ ।।
द्रुमवर्षं तु तच्छिन्नं दृष्ट्वा कुम्भेन वीर्यवान् ।
वानराधिपतिः श्रीमान् महासत्त्वो न विव्यथे ।। ६.७६.६९ ।।
निर्भिद्यमानः सहसा सहमानश्च तान् शरान् ।
कुम्भस्य धनुराक्षिप्य बभञ्जेन्द्रधनुष्प्रभम् ।। ६.७६.७० ।।
अवप्लुत्य ततः शीघ्रं कृत्वा कर्म सुदुष्करम् ।
अब्रवीत् कुपितः कुम्भं भग्नशृङ्गमिव द्विपम् ।। ६.७६.७१ ।।
निकुम्भाग्रज वीर्यं ते बाणवेगवदद्भुतम् ।
सन्नतिश्च प्रभावश्च तव वा रावणस्य वा ।। ६.७६.७२ ।।
प्रह्लादबलिवृत्रघ्नकुबेवरुणोपम ।
एकस्त्वमनुजातो ऽसि पितरं बलवृत्ततः ।। ६.७६.७३ ।।
त्वामेवैकं महाबाहुं चापहस्त मरिन्दमम् ।
त्रिदशा नातिवर्तन्ते जितेन्द्रियमिवाधयः ।। ६.७६.७४ ।।
विक्रमस्व महाबुद्धे कर्माणि मम पश्यतः ।। ६.७६.७५ ।।
वरदानात् पितृव्यस्ते सहते देवदानवान् ।
कुम्भकर्णस्तु वीर्येण सहते च सुरासुरान् ।। ६.७६.७६ ।।
धनुषीन्द्रजितस्तुल्यः प्रतापे रावणस्य च ।
त्वमद्य रक्षसां लोके श्रेष्ठो ऽसि बलवीर्यतः ।। ६.७६.७७ ।।
महाविमर्दं समरे मया सह तवाद्भुतम् ।
अद्य भूतानि पश्यन्तु शक्रशम्बरयोरिव ।। ६.७६.७८ ।।
कृतमप्रतिमं कर्म दर्शितं चास्त्रकौशलम् ।
पातिता हरिवीराश्च त्वया वै भीमविक्रमाः ।। ६.७६.७९ ।।
उपालम्भभयाच्चापि नासि वीर मया हतः ।
कृतकर्मा परिश्रान्तो विश्रान्तः पश्य मे बलम् ।। ६.७६.८० ।।
तेन सुग्रीववाक्येन सावमानेन मानितः ।
अग्नेराज्याहुतस्येव तेजस्तस्याभ्यवर्धत ।
ततः कुम्भस्तु सुग्रीवं बाहुभ्यां जगृहे तदा ।। ६.७६.८१ ।।
गजाविवाहितमदौ निश्वसन्तौ मुहुर्मुहुः ।
अन्योन्यगात्रग्रथितौ कर्षन्तावितरेतरम् ।
सधूमां मुखतो ज्वालां विसृजन्तौ परिश्रमात् ।। ६.७६.८२ ।।
तयोः पादाभिघाताच्च निमग्ना चाभवन्मही ।
व्याघूर्णिततरङ्गश्च चुक्षुभे वरुणालयः ।। ६.७६.८३ ।।
ततः कुम्भं समुत्क्षिप्य सुग्रीवो लवणाम्भसि ।
पातयामास वेगेन दर्शयन्नुदधेस्तलम् ।। ६.७६.८४ ।।
ततः कुम्भनिपातेन जलराशिः समुत्थितः ।
विन्ध्यमन्दरसङ्काशो विससर्प समन्ततः ।। ६.७६.८५ ।।
ततः कुम्भः समुत्पत्य सुग्रीवमभिपत्य च ।
आजघानोरसि क्रुद्धो वज्रवेगेन मुष्टिना ।। ६.७६.८६ ।।
तस्य चर्म च पुस्फोट बहु सुस्राव शोणितम् ।
स च मुष्टिर्महावेगः प्रतिजघ्ने ऽस्थिमण्डले ।। ६.७६.८७ ।।
तदा वेगेन तत्रासीत्तेजः प्रज्वलितं मुहुः ।
वज्रनिष्पेषसञ्जाता ज्वाला मेरौ यथा गिरौ ।। ६.७६.८८ ।।
स तत्राभिहतस्तेन सुग्रीवो वानरर्षभः ।
मुष्टिं संवर्तयामास वज्रकल्पं महाबलः ।। ६.७६.८९ ।।
अर्चिस्सहस्रविकचं रविमण्डलसप्रभम् ।
स मुष्टिं पातयामास कुम्भस्योरसि वीर्यवान् ।। ६.७६.९० ।।
स तु तेन प्रहारेण विह्वलो भृशताडितः ।
निपपात तदा कुम्भो गतार्चिरिव पावकः ।। ६.७६.९१ ।।
मुष्टिना ऽभिहतस्तेन निपपाताशु राक्षसः ।
लोहिताङ्ग इवाकाशाद्दीप्तरश्मिर्यदृच्छया ।। ६.७६.९२ ।।
कुम्भस्य पततो रूपं भग्नस्योरसि मुष्टिना ।
बभौ रुद्राभिपन्नस्य यथा रूपं गवां पतेः ।। ६.७६.९३ ।।
तस्मिन् हते भीमपराक्रमेण प्लवङ्गमानामृषभेण युद्धे ।
मही सशैला सवना चचाल भयं च रक्षांस्यधिकं विवेश ।। ६.७६.९४ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे षट्सप्ततितमः सर्गः ।। ७६ ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।