रामायणम्/युद्धकाण्डम्/सर्गः ८२
← सर्गः ८१ | रामायणम् सर्गः ८२ वाल्मीकिः |
सर्गः ८३ → |
श्रुत्वा तु भीमनिर्ह्रादं शक्राशनिसमस्वनम् ।
वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः ।। ६.८२.१ ।।
तानुवाच ततःसर्वान् हनुमान् मारुतात्मजः ।
विषण्णवदनान् दीनांस्त्रस्तान् विद्रवतः पृथक् ।। ६.८२.२ ।।
कस्माद्विषण्णवदना विद्रवध्वे प्लवङ्गमाः ।
त्यक्तयुद्धसमुत्साहाः शूरत्वं क्वनु वो गतम् ।। ६.८२.३ ।।
पृष्ठतो ऽनुव्रजध्वं मामग्रतो यान्तमाहवे ।
शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ।। ६.८२.४ ।।
एवमुक्ताः सुसंहृष्टा वायुपुत्रेण वानराः ।
शैलशृङ्गाण्यगांश्चैव जगृहुर्हृष्टमानसाः ।। ६.८२.५ ।।
अभिपेतुश्च गर्जन्तो राक्षसान् वानरर्षभाः ।
परिवार्य हनूमन्तमन्वयुश्च महाहवे ।। ६.८२.६ ।।
स तैर्वानरमुख्यैश्च हनुमान् सर्वतो वृतः ।
हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ।। ६.८२.७ ।।
स राक्षसानां कदनं चकार सुमहाकपिः ।
वृतो वानरसैन्येन कालान्तकयमोपमः ।। ६.८२.८ ।।
स तु कोपेन चाविष्टः शोकेन च महाकपिः ।
हनुमान् रावणिरथे ऽपातयन्महतीं शिलाम् ।। ६.८२.९ ।।
तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा ।
विधेयाश्वसमायुक्तः सुदूरमपवाहितः ।। ६.८२.१० ।।
तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम् ।
विवेशधरणीं भित्त्वा सा शिला व्यर्थमुद्यता ।। ६.८२.११ ।।
पातितायां शिलायां तु रक्षसां व्यथिता चमूः ।
निपतन्त्या च शिलया राक्षसा मथिता भृशम् ।। ६.८२.१२ ।।
तमभ्यधावञ्छतशो नदन्तः काननौकसः ।। ६.८२.१३ ।।
ते द्रुमांश्च महावीर्या गिरिशृङ्गाणि चोद्यताः ।
क्षिपन्तीन्द्रजितः सङ्ख्ये वानरा भीमविक्रमाः ।। ६.८२.१४ ।।
वृक्षशैलमहावर्षं विसृजन्तः प्लवङ्गमाः ।
शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वरैः ।। ६.८२.१५ ।।
वानरैस्तैर्महावीर्यैर्घोररूपा निशाचराः ।
वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणाजिरे ।। ६.८२.१६ ।।
स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित् ।
प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ ।। ६.८२.१७ ।।
स शरौघानवसृजन् स्वसैन्येनाभिसंवृतः ।
जघान कपिशार्दूलान् स बहून् दृष्टविक्रमः ।। ६.८२.१८ ।।
शूलैरशनिभिः खड्गैः पट्टिशैः कूटमुद्गरैः ।
ते चाप्यनुचरास्तस्य वानरान् जघ्नुरोजसा ।। ६.८२.१९ ।।
सस्कन्धविटपैः सालैः शिलाभिश्च महाबलः ।
हनुमान् कदनं चक्रे रक्षसां भीमकर्मणाम् ।। ६.८२.२० ।।
स निवार्य परानीकमब्रवीत्तान् वनौकसः ।
हनुमान् सन्निवर्तध्वं न नः साध्यमिदं बलम् ।। ६.८२.२१ ।।
त्यक्त्वा प्राणान् विवेष्टन्तो रामिप्रियचिकीर्षवः ।
यन्निमित्तं हि युद्ध्यामो हता सा जनकात्मजा ।। ६.८२.२२ ।।
इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च ।
तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम् ।। ६.८२.२३ ।।
इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान् ।
शनैः शनैरसंत्रस्तः सबलः सन्न्यवर्तत ।। ६.८२.२४ ।।
ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः ।
स होतुकामो दुष्टात्मा गतश्चैत्यनिकुम्भिलाम् ।। ६.८२.२५ ।।
निकुम्भिलामधिष्ठाय पावकं जुहवेन्द्रजित् ।। ६.८२.२६ ।।
यज्ञभूम्यां तु विधिवत् पावकस्तेन रक्षसा ।
हूयमानः प्रजज्वाल मांसशोणितभुक् तदा ।। ६.८२.२७ ।।
सो ऽर्चिःपिनद्धो ददृशे होमशोणिततर्पितः ।
सन्ध्यागत इवादित्यः सुतीव्रो ऽग्निः समुत्थितः ।। ६.८२.२८ ।।
अथेन्द्रजिद्राक्षसभूतये तु जुहाव हव्यं विधिना विधानवित् ।
दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः ।। ६.८२.२९ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे द्व्यशीततमः सर्गः ।। ८२ ।।
स्रोतःसंपादित करें
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।