रामायणम्/युद्धकाण्डम्/सर्गः ९
< रामायणम् | युद्धकाण्डम्
← सर्गः ८ | रामायणम्/युद्धकाण्डम् युद्धकाण्डम् वाल्मीकिः |
सर्गः १० → |
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे नवमः सर्गः ॥६-९॥
ततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः। सुप्तघ्नो यज्ञकोपश्च महापार्श्वमहोदरौ॥ १॥ अग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः। इन्द्रजिच्च महातेजा बलवान् रावणात्मजः॥ २॥ प्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः। धूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः॥ ३॥ परिघान् पट्टिशान् शूलान् प्रासान् शक्तिपरश्वधान्। चापानि च सुबाणानि खड्गांश्च विपुलाम्बुभान्॥ ४॥ प्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः। अब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा॥ ५॥ अद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम्। कृपणं च हनूमन्तं लङ्का येन प्रधर्षिता॥ ६॥ तान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः। अब्रवीत् प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान्॥ ७॥ अप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते। तस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः॥ ८॥ प्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च। विक्रमास्तात सिद्ध्यन्ति परीक्ष्य विधिना कृताः॥ ९॥ अप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम्। जितरोषं दुराधर्षं तं धर्षयितुमिच्छथ॥ १०॥ समुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम्। गतिं हनूमतो लोके को विद्यात् तर्कयेत वा॥ ११॥ बलान्यपरिमेयानि वीर्याणि च निशाचराः। परेषां सहसावज्ञा न कर्तव्या कथंचन॥ १२॥ किं च राक्षसराजस्य रामेणापकृतं पुरा। आजहार जनस्थानाद् यस्य भार्यां यशस्विनः॥ १३॥ खरो यद्यतिवृत्तस्तु स रामेण हतो रणे। अवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम्॥ १४॥ एतन्निमित्तं वैदेही भयं नः सुमहद् भवेत्। आहृता सा परित्याज्या कलहार्थे कृते नु किम्॥ १५॥ न तु क्षमं वीर्यवता तेन धर्मानुवर्तिना। वैरं निरर्थकं कर्तुं दीयतामस्य मैथिली॥ १६॥ यावन्न सगजां साश्वां बहुरत्नसमाकुलाम्। पुरीं दारयते बाणैर्दीयतामस्य मैथिली॥ १७॥ यावत् सुघोरा महती दुर्धर्षा हरिवाहिनी। नावस्कन्दति नो लङ्कां तावत् सीता प्रदीयताम्॥ १८॥ विनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः। रामस्य दयिता पत्नी न स्वयं यदि दीयते॥ १९॥ प्रसादये त्वां बन्धुत्वात् कुरुष्व वचनं मम। हितं तथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली॥ २०॥ पुरा शरत्सूर्यमरीचिसंनिभान् नवाग्रपुङ्खान् सुदृढान् नृपात्मजः। सृजत्यमोघान् विशिखान् वधाय ते प्रदीयतां दाशरथाय मैथिली॥ २१॥ त्यजाशु कोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्धनम्। प्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली॥ २२॥ विभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः। विसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम्॥ २३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवमः सर्गः ॥६-९॥
स्रोतः
सम्पाद्यताम्पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।