ऋग्वेदः सूक्तं ५.५०
← सूक्तं ५.४९ | ऋग्वेदः - मण्डल ५ सूक्तं ५.५० स्वस्त्यात्रेयः |
सूक्तं ५.५१ → |
दे. विश्वे देवाः। अनुष्टुप्, ५ पङ्क्तिः। |
विश्वो देवस्य नेतुर्मर्तो वुरीत सख्यम् ।
विश्वो राय इषुध्यति द्युम्नं वृणीत पुष्यसे ॥१॥
ते ते देव नेतर्ये चेमाँ अनुशसे ।
ते राया ते ह्यापृचे सचेमहि सचथ्यैः ॥२॥
अतो न आ नॄनतिथीनतः पत्नीर्दशस्यत ।
आरे विश्वं पथेष्ठां द्विषो युयोतु यूयुविः ॥३॥
यत्र वह्निरभिहितो दुद्रवद्द्रोण्यः पशुः ।
नृमणा वीरपस्त्योऽर्णा धीरेव सनिता ॥४॥
एष ते देव नेता रथस्पतिः शं रयिः ।
शं राये शं स्वस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे ॥५॥
सायणभाष्यम्
‘ विश्वो देवस्य ' इति पञ्चर्चं षष्ठं सूक्तं स्वस्त्यात्रेयमुनेरार्षं वैश्वदेवम् । पञ्चमी पङ्क्तिः आद्याश्चतस्रोऽनुष्टुभः । तदुक्तमनुक्रमण्याम् -' विश्वः स्वस्त्यात्रेयः पङ्क्त्यन्तम् ' इति । पृष्ठ्याभिप्लवषडहयोः प्रथमेऽहनि वैश्वदेवशस्त्रे विश्वो देवस्येति प्रतिपत्तृचस्याद्यः । सूत्रितं च- ‘ विश्वो देवस्य नेतुरित्येका ' ( आश्व. श्रौ. ७. ६ ) इति । आभिप्लविकेषु द्वितीयचतुर्थषष्ठेष्वहःस्वेषैव वैश्वदेवस्य शस्त्रस्य प्रतिपत् ।' युग्मेष्वेवमभिप्लवे ' ( आश्व. श्रौ. ७. ६ ) इति सूत्रितत्वात् ॥
विश्वो॑ दे॒वस्य॑ ने॒तुर्मर्तो॑ वुरीत स॒ख्यम् ।
विश्वो॑ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे॑ ॥१
विश्वः॑ । दे॒वस्य॑ । ने॒तुः । मर्तः॑ । वु॒री॒त॒ । स॒ख्यम् ।
विश्वः॑ । रा॒ये । इ॒षु॒ध्य॒ति॒ । द्यु॒म्नम् । वृ॒णी॒त॒ । पु॒ष्यसे॑ ॥१
विश्वः । देवस्य । नेतुः । मर्तः । वुरीत । सख्यम् ।
विश्वः । राये । इषुध्यति । द्युम्नम् । वृणीत । पुष्यसे ॥१
"विश्वः सर्वः “मर्तः “नेतुः "देवस्य । सवितुरित्यर्थः । तस्य “सख्यं “वुरीत वृणीत । “विश्वः जनः “राये धनस्य “इषुध्यति ॥ पञ्चमलकारः ॥ ईशीत । तस्यानुग्रहात् सर्वां जनः “द्युम्नं धनं “वृणीत "पुष्यसे पुष्ट्यै पर्याप्तं धनम् ॥
ते ते॑ देव नेत॒र्ये चे॒माँ अ॑नु॒शसे॑ ।
ते रा॒या ते ह्या॒३॒॑पृचे॒ सचे॑महि सच॒थ्यै॑ः ॥२
ते । ते॒ । दे॒व॒ । ने॒तः॒ । ये । च॒ । इ॒मान् । अ॒नु॒ऽशसे॑ ।
ते । रा॒या । ते । हि । आ॒ऽपृचे॑ । सचे॑महि । स॒च॒थ्यैः॑ ॥२
ते । ते । देव । नेतः । ये । च । इमान् । अनुऽशसे ।
ते । राया । ते । हि । आऽपृचे । सचेमहि । सचथ्यैः ॥२
हे “नेतः “देव “ते तव स्वभूताः “ते वयं यजमानाः “ये “च अन्ये “इमान् । विभक्तिव्यत्ययः । इमे होत्रादयः “अनुशसे शंसितुं प्रभवन्ति तेऽपि त्वदीयाः । यद्वा । इमान् अन्यान् इन्द्रादीन् अनुशसे क्रमेण शंसितुं प्रभवन्ति । “ एकैव वा महानात्मा देवता स सूर्यः स हि सर्वभूतात्मा' इत्युक्तत्वादितरासां देवतानां तदन्तर्भावादिति भावः। न केवलं त्वच्छंसका एवेत्यर्थः । “ते उभये वयं “राया धनेन सचेमहि इति संबन्धः । “ते “हि ते खलु “आपृचे आपर्चनीयाः ॥ कृत्यार्थे केन्प्रत्ययः । ‘ कृन्मेजन्तः' इत्यव्ययत्वाद्विभक्तेरदर्शनम् ॥ "सचथ्यैः सर्वैः कामैः “सचेमहि संगच्छेमहि ॥
अतो॑ न॒ आ नॄनति॑थी॒नत॒ः पत्नी॑र्दशस्यत ।
आ॒रे विश्वं॑ पथे॒ष्ठां द्वि॒षो यु॑योतु॒ यूयु॑विः ॥३
अतः॑ । नः॒ । आ । नॄन् । अति॑थीन् । अतः॑ । पत्नीः॑ । द॒श॒स्य॒त॒ ।
आ॒रे । विश्व॑म् । प॒थे॒ऽस्थाम् । द्वि॒षः । यु॒यो॒तु॒ । युयु॑विः ॥३
अतः । नः । आ । नॄन् । अतिथीन् । अतः । पत्नीः । दशस्यत ।
आरे । विश्वम् । पथेऽस्थाम् । द्विषः । युयोतु । युयुविः ॥३
“अतः अस्मिन् यज्ञे ॥ सार्वविभक्तिकस्तसिः ॥ "नः अस्माकमृत्विजां "नॄन् नेतॄन् “अतिथीन् तद्वत् पूज्यन् देवान् “आ “दशस्यत सर्वतः परिचरत । “अतः अस्मिन् यज्ञे “पत्नीः देवानां पत्नीरपि दशस्यत हविष्प्रदानादिना । यद्वा । नः अस्मभ्यं नॄन् पुत्रभृत्यादीनतिथीन् पत्नीश्चैतत्त्रयमत्र दशस्यत । हे देवाः प्रयच्छत। “आरे दूरे “विश्वं सर्वं “पथेष्ठां मार्गे वर्तमानं वैरिणं “द्विषः अन्यानपि द्विषो द्वेष्टॄन् "युयोतु पृथक्करोतु देवसंघः सविता वा "यूयुविः। सर्वस्यामिश्रयिता पृथक्कर्ता ॥
यत्र॒ वह्नि॑र॒भिहि॑तो दु॒द्रव॒द्द्रोण्य॑ः प॒शुः ।
नृ॒मणा॑ वी॒रप॒स्त्योऽर्णा॒ धीरे॑व॒ सनि॑ता ॥४
यत्र॑ । वह्निः॑ । अ॒भिऽहि॑तः । दु॒द्रव॑त् । द्रोण्यः॑ । प॒शुः ।
नृ॒ऽमनाः॑ । वी॒रऽप॑स्त्यः । अर्णा॑ । धीरा॑ऽइव । सनि॑ता ॥४
यत्र । वह्निः । अभिऽहितः । दुद्रवत् । द्रोण्यः । पशुः ।
नृऽमनाः । वीरऽपस्त्यः । अर्णा । धीराऽइव । सनिता ॥४
“यत्र यस्मिन्यज्ञे “वह्निः यज्ञस्य वोढा “अभिहितः यूपं प्रापितः “द्रोण्यः यूपार्हः “पशुः “दुद्रवत् गच्छति यूपं प्रति तत्र “नृमणाः यजमानमनाः सविता “वीरपस्त्यः । वीरा ऋत्विग्यजमानाः पुत्रभृत्यादयो वा तद्वत्पस्त्यं गृहं यस्य स तादृशः । प्रेरितगृहो वा । पुत्राद्युपेतगृहप्रदः इत्यर्थः । “सनिता संभक्ता भवति । “अर्णा अरणकुशला “धीरेव योषिदिव । यद्वा । अर्णानि हवींष्यभिलक्ष्य सनिता भवति ॥
ए॒ष ते॑ देव नेता॒ रथ॒स्पति॒ः शं र॒यिः ।
शं रा॒ये शं स्व॒स्तय॑ इष॒ःस्तुतो॑ मनामहे देव॒स्तुतो॑ मनामहे ॥५
ए॒षः । ते॒ । दे॒व॒ । ने॒त॒रिति॑ । रथः॒पतिः॑ । शम् । र॒यिः ।
शम् । रा॒ये । शम् । स्व॒स्तये॑ । इ॒षः॒ऽस्तुतः॑ । म॒ना॒म॒हे॒ । दे॒व॒ऽस्तुतः॑ । म॒ना॒म॒हे॒ ॥५
एषः । ते । देव । नेतरिति । रथःपतिः । शम् । रयिः ।
शम् । राये । शम् । स्वस्तये । इषःऽस्तुतः । मनामहे । देवऽस्तुतः । मनामहे ॥५
हे “नेतः “देव सवितः “ते तव “एषः “रथःपतिः सर्वस्य पालकः “रयिः दातव्यधनवान् ॥ मत्वर्थो लुप्यते ॥ “शं करोत्विति शेषः । वयं च “राये धनस्य “शं सुखाय । यद्वा । राये धनाय “शं सुखाय च “स्वस्तये अविनाशाय “इषःस्तुतः एषणीयस्य सवितुः स्तोतारो वयं “मनामहे स्तुमः । “देवस्तुतः देवानां देवस्य वा सवितुः स्तोतारः “मनामहे स्तुमः ॥ ॥ ४ ॥
टिप्पणी
सैषा देवताभिः पङ्क्तिर्भवति । विश्वो देवस्येति वैश्वदेवं नेतुरिति सावित्रं मर्तो वुरीतेति मैत्रं द्युम्नं वृणीतेति बार्हस्पत्यं द्युम्नं हि बृहस्पतिः पुष्यस इति पौष्णम् - माश ३.१.४.१९
मण्डल ५ | ||||
---|---|---|---|---|