महाभारतम्-15-आश्रमवासिकपर्व-035

← आश्रमवासिकपर्व-034 महाभारतम्
पञ्चादशपर्व
महाभारतम्-15-आश्रमवासिकपर्व-035
वेदव्यासः
आश्रमवासिकपर्व-036 →

धृतराष्ट्रधिष्ठिरादिभिर्ष्यासप्रसादोज्जीवितैर्हतपूर्वबन्धुभिः सह सँल्लापादिना यावद्रात्रिसुखविहरणम्।। 1 ।।

  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009
  10. 010
  11. 011
  12. 012
  13. 013
  14. 014
  15. 015
  16. 016
  17. 017
  18. 018
  19. 019
  20. 020
  21. 021
  22. 022
  23. 023
  24. 024
  25. 025
  26. 026
  27. 027
  28. 028
  29. 029
  30. 030
  31. 031
  32. 032
  33. 033
  34. 034
  35. 035
  36. 036
  37. 037
  38. 038
  39. 039
  40. 040
  41. 041
वैशम्पायन उवाच। 15-35-1x
ततस्ते पुरषश्रेष्ठाः समाजग्मुः परस्परम्।
विगतक्रोधमात्सर्याः सर्वे विगतकल्मषाः।।
15-35-1a
15-35-1b
विधिं परममास्थाय ब्रह्मर्षिविहितं शुभम्।
संहृष्टमनसः सर्वे देवलोक इवामराः।।
15-35-2a
15-35-2b
पुत्रः पित्रा च मात्रा च भार्याश्च पतिभिः सह।
भ्रात्रा भ्राता सखा चैव सख्या राजन्समागताः।।
15-35-3a
15-35-3b
पाण्डवास्तु महेष्वासं कर्णं सौभद्रमेव च।
सम्प्रहर्षात्समाजग्मुर्द्रौपदेयांश्चक सर्वशः।।
15-35-4a
15-35-4b
ततस्ते प्रीयमाणा वै कर्णेन सह पाण्डवाः।
समेत्य पृथिवीपाल सौहृदे च स्थिताऽभवन्।।
15-35-5a
15-35-5b
परस्परं समागम्य योधास्ते भरतर्षभ।
मुनेः प्रसादात्ते ह्येवं क्षत्रिया नष्टमन्यवः।।
15-35-6a
15-35-6b
असौहृदं परित्यज्य सौहृदे पर्यवस्थिताः।
एवं समागताः सर्वे गुरुभिर्बान्धवैः सह।।
15-35-7a
15-35-7b
पुत्रैश्च पुरुषव्याघ्राः कुरवोऽन्ये च पार्थिवाः।
तां रात्रिमकिलामेवं विहृत्य प्रीतमानसाः।।
15-35-8a
15-35-8b
मेनिरे परितोषेण नृपाः स्वर्गसदो यथा।
नात्र शोको भयं त्रासो नारतिर्नायशोऽभवत्।।
15-35-9a
15-35-9b
परस्परं समागम्य योधानां भरतर्षभ।
समागतास्ताः पितृभिर्भ्रातृभिः पतिभिः सुतैः।
मुदं परमिकां प्राप्य नार्यो दुःखमथात्यजन्।।
15-35-10a
15-35-10b
15-35-10c
`देवलोकं गता ये च ये च ब्रह्मसदो गताः।
ये चापि वारुणं लोकं ये च गोलोकमाश्रिताः।।
15-35-11a
15-35-11b
तथा वैवस्वतं लोकं ये च यक्षानुपागताः।
राक्षसांश्च पिशाचांश्च कुरूंश्चापि तथोत्तरान्।।
15-35-12a
15-35-12b
विचित्राश्च गतीरन्ये ये प्राप्ताः कर्मभिर्नराः।
सर्वे ते तद्वयोरूपवेषास्तत्र समभ्ययुः।।'
15-35-13a
15-35-13b
एकां रात्रिं विहृत्यैवं ते वीरास्ताश्च योषितः।
आमन्त्र्यान्योन्यमाश्लिष्य ततो जग्मुर्यथागतं।।
15-35-14a
15-35-14b
ततो विसर्जयामास लोकांस्तान्मुनिपुङ्गवः।
क्षणेनान्तर्हिताश्चैव प्रेक्षतामेव तेऽभवन्।।
15-35-15a
15-35-15b
अवगाह्य महात्मानः पुण्यां भागीरथीं नदीम्।
सरथाः सध्वजाश्चैव स्वानि वेश्मानि भेजिरे।।
15-35-16a
15-35-16b
देवलोकं ययुः केचित्केचिद्ब्रह्मसदस्तथा।
केचिच्च वारुणं लोकं केचित्कौबेरमाप्नुवन्।।
15-35-17a
15-35-17b
ततो वैवस्वतं लोकं केचिच्चैवाप्नुवन्नृपाः।
राक्षसानां पिशाचानां केचिच्चाप्युत्तरान्कुरून्।।
15-35-18a
15-35-18b
विचित्रगतयः सर्वे यानवाप्यामरैः सह।
आजग्मुस्ते महात्मानः सवाहाः सपदानुगाः।।
15-35-19a
15-35-19b
गतेषु तेषु सर्वेषु सलिलस्थो महामुनिः।
धर्मसीलो महातेजाः कुरूणां हितकृतदा।
ततः प्रोवाच ताः सर्वाः क्षत्रिया निहतेश्वराः।
15-35-20a
15-35-20b
15-35-20c
यायाः पतिकृताँल्लोकानिच्छनति परमस्त्रियः।
ता जाह्नवीजलं क्षिप्रमवगाहन्त्वतन्द्रिताः।।
15-35-21a
15-35-21b
ततस्तस्य वचः श्रुत्वा श्रद्दधाना वराङ्गनाः।
श्वशुरं समनुज्ञाप्य विविशुर्जाह्नवीजलम्।।
15-35-22a
15-35-22b
विमुक्ता मानुषैर्देहैस्ततस्ता भर्तृभिः सह।
समाजग्मुस्तदा साध्व्यः सर्वा एवं विशाम्पते।।
15-35-23a
15-35-23b
एवं क्रमेणि सर्वास्ताः शीलवत्यः पतिव्रताः।
प्रविश्य तोयं निर्मुक्ता जग्मुर्भर्तृसलोकताम्।।
15-35-24a
15-35-24b
दिव्यरूपसमायुक्ता दिव्याभरणभूषिताः।
दिव्यमाल्यांबरधरा यथाऽऽसां पतयस्तथा।।
15-35-25a
15-35-25b
ताः शीलगुणसम्पन्ना विमानस्था गतक्लुमाः।
सर्वाः सर्वगुणोपेताः स्वस्थानं प्रतिपेदिरे।।
15-35-26a
15-35-26b
यस्य यस्य तु यः कामस्तस्मिन्काले बभूव ह।
तंतं विसृष्टवान्व्यासो वरदो धर्मवत्सलः।।
15-35-27a
15-35-27b
तच्छ्रुत्वा नरदेवानां पुनरागमनं नराः।
जहृषुर्मुदिताश्चासन्नानादेशगता अपि।।
15-35-28a
15-35-28b
`ते नष्टभयसङ्कल्पा नरा विगतकल्मषाः।
बभूवुः पौरवाःसर्वे तद्दृष्ट्वाऽऽश्चर्यमुत्तमम्।।'
15-35-29a
15-35-29b
प्रियैः समागमं तेषां यः सम्यक् शृणुयान्नरः।
प्रियाणि लभते नित्यमिह च प्रेत्य चैव सः।
इष्टबान्धवसंयोगमनायासमनामयम्।।
15-35-30a
15-35-30b
15-35-30c
यश्चैतच्छ्रावयेद्विद्वान्विदुषो धर्मवित्तमः।
स यशः प्राप्नुयाल्लोके परत्र च शुभां गतिम्।।
15-35-31a
15-35-31b
स्वाध्याययुक्ता मनुजास्तपोयुक्ताश्च भारत।
साध्वाचारा दमोपेता दाननिर्धूतकल्मषाः।।
15-35-32a
15-35-32b
ऋजवः शुचयः शान्ता हिंसानृतविवर्जिताः।
आस्तिकाः श्रद्दधानाश्च धृतिमन्तश्च मानवाः।
श्रुत्वाऽऽश्चर्यमिदं पर्व ह्यवाप्स्यन्ति परां गतिम्।।
15-35-33a
15-35-33b
15-35-33c
`पुनस्ते दर्शनं प्राप्ताः पुनश्च परिकीर्तिताः।
पुनःपुनः प्रयच्छन्ति शृण्वतामभयं सदा।।'
15-35-34a
15-35-34b
।। इति श्रीमन्महाभारते आश्रमवासिकपर्वणि
पुत्रदर्शनपर्वणि पञ्चत्रिंशोऽध्यायः।। 35 ।।
आश्रमवासिकपर्व-034 पुटाग्रे अल्लिखितम्। आश्रमवासिकपर्व-036