रामायणम्/युद्धकाण्डम्/सर्गः ७
< रामायणम् | युद्धकाण्डम्
(युद्धकाण्डे सप्तमः सर्गः ॥६-७॥ इत्यस्मात् पुनर्निर्दिष्टम्)← सर्गः ५ | रामायणम्/युद्धकाण्डम् युद्धकाण्डम् वाल्मीकिः |
सर्गः ८ → |
श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तमः सर्गः ॥६-७॥
इत्युक्ता राक्षसेन्द्रेण राक्षसास्ते महाबलाः। ऊचुः प्राञ्जलयः सर्वे रावणं राक्षसेश्वरम्॥ १॥ द्विषत्पक्षमविज्ञाय नीतिबाह्यास्त्वबुद्धयः। राजन् परिघशक्त्यृष्टिशूलपट्टिशकुन्तलम्॥ २॥ सुमहन्नो बलं कस्माद् विषादं भजते भवान्। त्वया भोगवतीं गत्वा निर्जिताः पन्नगा युधि॥ ३॥ कैलासशिखरावासी यक्षैर्बहुभिरावृतः। सुमहत्कदनं कृत्वा वश्यस्ते धनदः कृतः॥ ४॥ स महेश्वरसख्येन श्लाघमानस्त्वया विभो। निर्जितः समरे रोषाल्लोकपालो महाबलः॥ ५॥ विनिपात्य च यक्षौघान् विक्षोभ्य विनिगृह्य च। त्वया कैलासशिखराद् विमानमिदमाहृतम्॥ ६॥ मयेन दानवेन्द्रेण त्वद्भयात् सख्यमिच्छता। दुहिता तव भार्यार्थे दत्ता राक्षसपुङ्गव॥ ७॥ दानवेन्द्रो महाबाहो वीर्योत्सिक्तो दुरासदः। विगृह्य वशमानीतः कुम्भीनस्याः सुखावहः॥ ८॥ निर्जितास्ते महाबाहो नागा गत्वा रसातलम्। वासुकिस्तक्षकः शङ्खो जटी च वशमाहृताः॥ ९॥ अक्षया बलवन्तश्च शूरा लब्धवराः पुनः। त्वया संवत्सरं युद्ध्वा समरे दानवा विभो॥ १०॥ स्वबलं समुपाश्रित्य नीता वशमरिंदम। मायाश्चाधिगतास्तत्र बह्व्यो वै राक्षसाधिप॥ ११॥ शूराश्च बलवन्तश्च वरुणस्य सुता रणे। निर्जितास्ते महाभाग चतुर्विधबलानुगाः॥ १२॥ मृत्युदण्डमहाग्राहं शाल्मलीद्रुममण्डितम्। कालपाशमहावीचिं यमकिंकरपन्नगम्॥ १३॥ महाज्वरेण दुर्धर्षं यमलोकमहार्णवम्। अवगाह्य त्वया राजन् यमस्य बलसागरम्॥ १४॥ जयश्च विपुलः प्राप्तो मृत्युश्च प्रतिषेधितः। सुयुद्धेन च ते सर्वे लोकस्तत्र सुतोषिताः॥ १५॥ क्षत्रियैर्बहुभिर्वीरैः शक्रतुल्यपराक्रमैः। आसीद् वसुमती पूर्णा महद्भिरिव पादपैः॥ १६॥ तेषां वीर्यगुणोत्साहैर्न समो राघवो रणे। प्रसह्य ते त्वया राजन् हताः समरदुर्जयाः॥ १७॥ तिष्ठ वा किं महाराज श्रमेण तव वानरान्। अयमेको महाबाहुरिन्द्रजित् क्षपयिष्यति॥ १८॥ अनेन च महाराज माहेश्वरमनुत्तमम्। इष्ट्वा यज्ञं वरो लब्धो लोके परमदुर्लभः॥ १९॥ शक्तितोमरमीनं च विनिकीर्णान्त्रशैवलम्। गजकच्छपसम्बाधमश्वमण्डूकसंकुलम्॥ २०॥ रुद्रादित्यमहाग्राहं मरुद्वसुमहोरगम्। रथाश्वगजतोयौघं पदातिपुलिनं महत्॥ २१॥ अनेन हि समासाद्य देवानां बलसागरम्। गृहीतो दैवतपतिर्लङ्कां चापि प्रवेशितः॥ २२॥ पितामहनियोगाच्च मुक्तः शम्बरवृत्रहा। गतस्त्रिविष्टपं राजन् सर्वदेवनमस्कृतः॥ २३॥ तमेव त्वं महाराज विसृजेन्द्रजितं सुतम्। यावद् वानरसेनां तां सरामां नयति क्षयम्॥ २४॥ राजन्नापदयुक्तेयमागता प्राकृताज्जनात्। हृदि नैव त्वया कार्या त्वं वधिष्यसि राघवम्॥ २५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तमः सर्गः ॥६-७॥
स्रोतः
सम्पाद्यताम्पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।