लक्ष्मीतन्त्रम्/अध्यायः १५

← अध्यायः १४ लक्ष्मीतन्त्रम्
अध्यायः १५
[[लेखकः :|]]
अध्यायः १६ →
लक्ष्मीतन्त्रस्य अध्यायाः

पञ्चदशोऽध्यायः - 15
शक्रः---
नमस्ते पद्मसंभूते नमः कमलमालिनि।
नमः कमलवासिन्यै{1} गोविन्दगृहमेधिनि ।। 1 ।।
1. - - - - - - - - - - - - -
{1. मालिन्यै F. }
नमस्ते कंजकिञ्जल्ककल्पितालकविभ्रमे।
सर्वज्ञे सर्वभूतानामन्तःस्थे सर्वसाक्षिणि ।। 2 ।।
2. - - - - - - - - - - -
त्वद्वक्त्रकमलोद्भूतं सर्वं तदवधारितम्।
तत्त्वत्सृष्टं त्वया त्रातं त्वय्येव लयमेष्यति ।। 3 ।।
3. - - - - - - - - - - - - -
माता मानं मितिमेयं विधा एतास्त्वदात्मिकाः।
त्वामेवाराध्य जीवास्ते तरन्ति भवसागरम् ।। 4 ।।
4. - - - - - - - - - - - - -
एवमादि मया देवि तत्त्वतस्त्ववधारितम्।
कौतूहलमिदं मेऽद्य वर्तते पद्मसंभवे ।। 5 ।।
5. - - - - - - - - - - -
तोषणीयासि केन त्वमुपायेनाम्बुजासने।
परमः पुरुषार्थो यस्त्वत्प्रीतिस्तस्य साधनम् ।। 6 ।।
6. परमः पुरुषार्थो मोक्षः। तस्य त्वत्प्रीतिः साधनम्। यथा चाहुः--"श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित्" इति।
त्वत्प्रीतौ क उपायः स्यात्कीदृशः किंविधः स्मृतः{2}।
एतन्मे सकलं ब्रूहि नमस्ते पद्मसंभवे ।। 7 ।।
7. - - - - - - - - - - - -
{2. तथा B. D. I. }
श्रीः---
चातुरात्म्यं परं ब्रह्म {3}सच्चिदानन्दलक्षणम्।
सर्वं सर्वोत्तरं सर्वभूतान्तःस्थमनामयम् ।। 8 ।।
8. "सत्यं ज्ञानम्" इत्यादिश्रुतिप्रतिपाद्यं स्वरूपलक्षणमुच्यते---सदित्यादिना। सर्वोपादानत्वात् सर्वात्मत्वाच्च सर्वमित्युच्यते। तथापि स्वेतरसमस्तवस्तुविलक्षणत्वमाह--सर्वोत्तरमिति।
{3. संविदा E. I. }
वासुदेवः परं ब्रह्म {4}नारायणमयं महत्।
तस्याहं परमा शक्तिरहंतानन्दचिन्मयी ।। 9 ।।
9. नारायणमयमिति मयट् स्वार्थे।
{4. नराणामयनं E. I. }
भिन्नाऽभिन्ना च वर्तेऽहं ज्योत्स्नेव हिमदीधितेः।
तावावां तत्त्वमेकं तु द्विधा भूतौ{5} व्यवस्थितौ ।। 10 ।।
10. प्रपञ्च इव ब्रह्मण एवावस्थाभेदः श्रीरिति केषांचिन्मतमनभिमत्याह---भिन्नेति।
{5. भूत्वा G. }
ब्रह्म नारायणं मां {6}यज्ज्ञानेनैवाप्रुयाद्यतिः।
पन्था नान्योऽस्ति विज्ञानादयनाय विपश्चिताम् ।। 11 ।।
11. यतिः नियतात्मवान्। नात्र चतुर्थाश्रमी विवक्षितः।
{6. वा ज्ञानेन E. I. }
ज्ञानं तच्च विवेकोत्थं सर्वतः शुद्धमव्रणम्।
वासुदेवैकविषयमपुनर्भवकारणम् ।। 12 ।।
12. विवेकः ब्रह्मणः सर्वविलक्षणत्वज्ञानम्।
ज्ञाने तस्मिन् समुत्पन्ने विशते मामनन्तरम्।
तैस्तैरुपायैः प्रीताहं जीवानाममलात्मनाम् ।। 13 ।।
13. - - - - - - - - - - - - -
उद्भावयामि तज्ज्ञानमात्मज्योतिः प्रदर्शकम्।
उपायास्ते च चत्वारो मम प्रीतिविवर्धनाः ।। 14 ।।
14. कर्मज्ञानभक्तिन्यासाख्याः चत्वारो योगा अत्र विवक्षिताः।
{7}शक्रः---
भगवत्यरविन्दस्थे पङ्कजेक्षणकामिनि।
{8}उपायाः के च चत्वारस्तान्मे दर्शय पङ्कजे ।। 15 ।।
15. - - - - - - - - - - - - - - -
{7. B. omits six lines from here. }
{8. के तेऽप्युपायाः E. I. }
श्रीः---
उपायांश्चतुरः शक्र शृणु मत्प्रीतिवर्धनान्।
यैरहं परमां प्रीतिं यास्याम्यनपगामिनीम् ।। 16 ।।
16. - - - - - - - - - - - - -
स्वजातिविहितं कर्म सांख्यं योगस्तथैव च।
सर्वत्यागश्च विद्वद्भिरुपायाः कथिता इमे ।। 17 ।।
17. - - - - - - - - - - - - -
चतुर्भिर्लक्षणैर्युक्तं त्रिविधं कर्म वैदिकम्।
स्ववर्णाश्रमसंबन्धि नित्यनैमित्तिकात्मकम् ।। 18 ।।
18. लक्षणचतुष्कं विंशे श्लोके वक्ष्यते। नित्यनैमित्तिककाम्यभेदेन त्रैविध्यम्।
अकामहतसंसिद्धं कर्म तत् पूर्वसाधनम्।
चतुर्विधस्तु संन्यासस्तत्र कार्यो विपश्चिता ।। 19 ।।
19. काम्यकर्मसु विशेषमाह---अकामेति। फलविशेषकामनया कृतानि कर्माणि काम्यानि ज्योतिष्टोमादयः। तानि च कामहतानीत्युच्यन्ते। कामनां विना केवलं भगवत्प्रीत्यर्थं कृतानि तान्यकामहतानि। अनेन काम्यानामपि कर्मणां कामनां विनानुष्ठानमनुमन्यते। परं त्वेतदुपायान्तरनिष्ठविषयम्। न्यासयोगनिष्ठानां तु काम्यकर्मणां सर्वथा स्वरूपतोऽपि त्याग एव, न तु कामनां विनाप्यनुष्ठानमिति सिद्धान्तोऽवगन्तव्यः।
मन्त्रोक्तदेवतायां वा प्रकृताविन्द्रियेषु वा।
परस्मिन् देवदेवे वा वासुदेवे जनार्दने ।। 20 ।।
20. भगवति वासुदेवे कर्मणां संन्यसनमेव मुमुक्षुभिः कर्तव्यम्। मन्त्रदेवतादौ विन्यसनं तु बुभुक्षुविषयमिति ध्येयम्।
{9}पूर्वं कर्तृत्वसंन्यासः फलसंन्यास एव च।
कर्मणामपि संन्यासो देवदेवे जनार्दने ।। 21 ।।
21. `भगवानेव स्वशेषतैकरसेन मया स्वकीयैश्चोपकरणैः स्वाराधनैकप्रयोजनाय स्वशेषभूतमिदं कर्म स्वयमेव कारयति' इत्यनुसंधानप्रकारो विवक्षितः।
{9. सर्व E. I. }
शास्त्रीयमाचरन्नेवं नित्यनैमित्तिकात्मकम्।
मदाराधनकामः सञ्शश्वत् प्रीणाति मां नरः ।। 22 ।।
22. - - - - - - - - - - - - -
इति ते लेशतः प्रोक्तं श्रुतिस्मृतिनिदर्शितम्{10}।
द्वितीयं सांख्यविज्ञानमुपायं श्रृणु सांप्रतम् ।। 23 ।।
23. - - - - - - - - - - - -
 {10. निदर्शनम् A. B. C. }
संख्यास्तिस्रो हि मन्तव्याः सांख्यशास्रनिदर्शिताः।
प्रथमा लौकिकी संख्या द्वितीया {11}चर्चनात्मिका ।। 24 ।।
24. त्रयाणामप्येषां ज्ञानानां विवरणमत्रैव करिष्यते।
{11. चर्चिका E. I. }
समीचीना तु या धीः सा तृतीया परिपठ्यते।
संख्यात्रयसमूहो यः सांख्यं तत्परिपठ्यते ।। 25 ।।
25. संख्याः ज्ञानानि पूर्वोक्तानि। तेषां समूहः सांख्यमित्युच्यते। एतदेव ज्ञानयोग इत्युच्यते।
पृथिव्यापस्तथा तेजो वायुराकाशमेव च।
अहंकारो महांश्चैव प्रकृतिः परमा तथा ।। 26 ।।
26. लौकिकी लोकविषया संख्योच्यतेऽनेन श्लोकेन। उपरितनैः श्लोकैरस्या विवरणं क्रियते।
एताः प्रकृतयस्त्त्वष्टौ तासां व्याख्यामिमां शृणु।
प्रकृतिस्रिविधा प्रोक्ता माया सूतिर्गुणात्मिका ।। 27 ।।
27. माया प्रसूतिः त्रैगुण्यमिति प्रकृतिभेदाः। यद्यपि प्रकृतिः सूक्ष्मैव; तथापि तत्रैव सूक्ष्मसूक्ष्मतरसूक्ष्मतमरूपेण त्रैविध्यादेवं व्यवहारः।
निःसक्तासक्तमद्वैतमतरङ्गमनश्वरम्।
अचेतनानां परमं सौक्ष्म्यं मायेति गीयते ।। 28 ।।
28. - - - - - - - - - - - - -
ईषदुच्छूनता तस्याः प्रसूतिरिति गीयते।
गुणत्रयसमुन्मेषः साम्येन प्रकृतिः परा ।। 29 ।।
29. - - - - - - - - - - - -
अव्यक्तमक्षरं योनिरविद्या त्रिगुणा स्थितिः।
माया स्वभाव इत्याद्याः शब्दाः पर्यायवाचकाः ।। 30 ।।
30. अवान्तरभेदैः सह संकलय्य प्रकृतिपर्यायनामानि अव्यक्तादीनि। उपनिषदि "अव्यक्तमक्षरे लीयते। अक्षरं तमसि लीयते। तमः परमात्मन्येकीयभवति" इति त्रयाणामेषां व्यवहारः क्रियते।
सत्त्वं रजस्तमश्चेति गुणा एते त्रयो मताः।
तत्र सत्त्वं लघु ज्ञेयं सुखरूपमचञ्चलम् ।। 31 ।।
31. - - - - - - - - - - - - -
प्रकाशो नाम तद्वृत्तिश्चैतन्योद्ग्रहणात्मकः।
रजोऽपि च लघु ज्ञेयं दुःखरूपं च चञ्चलम् ।। 32 ।।
32. चैतन्यस्य ज्ञानस्य उद्‌ग्रहणम् उन्मेष इत्यर्थः; वस्तुयाथात्म्यग्रहणशीलतेति यावत्।
प्रवृत्तिर्नाम तद्वृत्तिः स्पन्दहेतुरनश्वरः।
तमो नाम गुरु ज्ञेयं मोहरूपमचञ्चलम् ।। 33 ।।
33. - - - - - - - - - - - - -
नियमो नाम तद्वृतिः व्कचित् स्वापनलक्षणम्।
न तदस्ति पृथिव्यां वा दिवि व्योम्नि च वासव ।। 34 ।।
34. नियमो बन्धः।
भूतं प्रकृतिजैर्मुक्तं यदेभिः स्यात् त्रिभिर्गुणैः।
एते चित्तमधिष्ठाय गुणा इन्द्रियगास्तथा ।। 35 ।।
सुखं दुःखं तथा मोहं विषयस्थाश्च कुर्वते।
{12}शरीरेन्द्रियतां याता{13} गुणाः कर्माणि कुर्वते।
इति यस्य मतिर्नित्या स गुणात्ययमश्नुते ।। 36 ।।
{12. F. omits this line. }
{13. इन्द्रियतायां च E. }
इति {14}श्रीपाञ्चरात्रसारे लक्ष्मीतन्त्रे {15}उपायप्रकारप्रकाशो नाम पञ्चदशोऽध्यायः
{14. श्रीपञ्चरात्र A. }
{15. उपायप्रकाशो B. F. G. I. }
********इति पञ्चदशोऽध्यायः********